70 Sanskrit verses (with English translation) providing an essence of Sri Aurobindo's teachings. Themes : Creation, 7-fold world. the Supramental Person etc.
70 Sanskrit verses (along with English translation & explanatory notes) to provide an essence of Sri Aurobindo's teachings with focus on themes like Creation, 7-fold world. the Supramental Person etc.
अधिष्ठाय परां शक्तिमीश्वरो व्यज्यते यतः । अव्यक्तव्यञ्जको योगः स व्यञ्जयतु नः शिवम् ॥ १ ॥
सा शक्तिश्चितिरीशस्य चितेः कार्यमिदं जगत् । निगमागमसिद्वान्तसारोऽयं विदितो विदाम् ॥ २ ॥
परमोऽर्थः परं ब्रह्म शव्दस्तच्छक्तिरुच्यते । अनयोरविभाज्यं तत्सत्यमेकं सनातनम् ॥ ३ ॥
परः शब्दात्वको भूत्वा शक्तस्तपति वर्धते । स्वतोऽविभाज्यान्येतानि जगन्ति विसृजविभुः ॥ ४ ॥
नानालोकाः प्रजायन्ते कारणादेकतो विभोः । तस्मादेकत्र नानात्वमुत्पन्नमुपपद्यते ॥ ५ ॥
उत्पन्नानामनेकेषां लोकानामीशजन्मनाम् । अनुत्पन्नस्य चैकस्य सम्बन्धो ध्रियते सतः ।॥ ६ ॥
अथ चैकत्व-नानात्वसम्बन्थो ध्रियते न चेत् । क्रमो वा नियतिर्न स्याल्लोकयात्रासु लक्षितः ॥ ७ ॥
नियतिर्यदि निर्मूला निरर्था सा भवेद्, यतः । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ८ ॥
तस्मात्सर्वस्य लोकस्य गतिरर्थवती यतः । प्रज्ञानेतृ जगत्प्राहुरिदं नान्धेन नीयते ॥ ९ ॥
इच्छापूर्वमिदं सृष्टं नेश्वरस्य तटस्थता । अनाप्तकामदोषस्य न गन्धोऽपि प्रसज्यते ॥ १० ॥
अपूर्णः स्रष्टुकामोऽपि जगत्स्रष्टुं कथं प्रभुः । आनन्दस्य समृद्धत्वात्पूर्णत्वादस्य सर्जनम् ॥ ११ ॥
यस्माज्जगदिदं पूर्णादंशः पूर्णमुदच्यते । तस्मादशेऽपि सम्पूर्ण आनन्दः परमेश्वरः ॥ १२ ॥
कोऽप्यंशो जगदाकारस्तपसा जायते यतः । तत्र पूर्णः परः शक्त्या रमते नित्ययेश्वरः ॥ १३ ॥
एक एवाऽव्ययः पूर्णः सच्चिदानन्दलक्षणः । उपादानं निमित्तं च विसृष्टेर्जगतः स्मृतः ॥ १४ ॥
प्रकृतिः स्यादुपादानं जगतां ब्रह्मणो वपुः । आकाशश्चिद्घनानन्दोऽप्यदितिर्वेदभाषया ॥ १५ ॥
चितिशक्तिस्तपोवाच्या निमित्तं जगदुद्भवे । सन्नेवमेक एवात्मा त्रिरूपः प्रोच्यते बुधैः ॥ १६ ॥
अदितिः प्रकृतिः प्रोक्ता तपो मायेति कीर्तिता । अदितिः सा त्वखण्डत्वान्मानान्मायेति गीयते ॥ १७ ॥
एका स्वरूपं सत्यस्यापरा व्यापार उच्यते । उभाभ्यां सर्जनं धत्ते स्वयमेको परात्परः ॥ १८ ॥
शक्त्या यया मिमीतेऽयममेयं स्वं परः पुमान्। माया सा कीर्त्यते कैश्विदस्माभिस्तप इष्यते ॥ १९ ॥
एवं त्रिरूपो भगवाननन्त- स्तपःप्रभावाद्विसृजत्यजाण्डान् । स्वांशेषु जातेषु विसृष्टपूर्वे- ष्वात्मानमेकं बहुधा व्यनक्ति ॥ २० ॥
जगतोऽपि त्रिरूपत्वं त्रिरूपत्वात्परेशितुः । व्यापारात्सिद्धमीशस्य तपश्चिच्छक्तिवाचिनः ॥ २१ ॥
भूर्भुवः स्वरिति ख्याता त्रिलोकी सृष्टिरुच्यते । सेयं प्रकृतिरीशस्य क्लृप्ता शक्तिविलासतः ॥ २२ ॥
गुणत्रयविभागेन लोकत्रयविभागिनी । तमोरजस्सत्त्वमूर्तिरन्न-प्राण-मनोमयी ॥ २३ ॥
बृहस्तपसः पुंसो व्यापारो भावना ह्यसी। अखण्डमण्डलाकारफललीला विनिर्मिता॥ २४॥
सच्चिदानन्दरूपस्य त्रिरूपस्य परात्मनः । इदं विपर्ययेणेह बिम्बितं भुवनत्रयम् ॥ २५ ॥
पराशरेण मुनिना शमीकाय निबोधिते । लोकसंस्थानसङख्याने रहस्यं किञ्चिदीरितम् ॥ २६ ॥
भूरादिसप्तलोकानां संस्थानं वर्णयन्मुनिः । भूरादिलोकत्रितयमनित्यं कृतकं जगौ ॥ २७ ॥ जनस्तपस्था सत्यमिति चाकृतकत्रयम् । महार्लोकं तयोर्मध्ये कुताकृतकयोर्द्वयोः ॥ २८ ॥
सप्तस्वेतेषु लोकेषु नित्यलोकास्त्रयः स्मृताः । आनन्दाज्जन्म भूतानां आनन्दो जन उच्यते ॥ २९ ॥
चितेश्च शक्तिरूपत्वाच्चिच्छक्तिस्तप इष्यते । सन्नेवात्मा सत्यलोक इति बोध्यं सतां मतम् ॥ ३० ॥
तमेकं सच्चिदानन्दं परतत्त्वविदो विदुः । जनस्तपस्सत्यमिति लोकसंस्थानवेदिनः ॥ ३१ ॥
त्रैलोक्यस्येह भूरादेस्त्रैलोक्यस्य परस्य च । सन्धिलोको महर्लोकस्तुरीयः संस्मृतो बुधैः ॥ ३२ ॥
कृताकृतकयोर्मध्ये द्वयोश्चापि त्रिरूपयोः । अनेनैव त्रिलोकीयं कर्त्रा कार्यत्वमाश्रिता ॥ ३३ ॥
नानात्वैकत्वयोः ख्याति भावयन्यो विराजते । नानात्वैकत्वसंवादोऽमुष्मिन् लोके प्रतिष्ठितः ॥ ३४ ॥
तुरीयेऽसति लोकेऽस्मिन्मध्यमे महआह्वये । त्रिलोक्यत्यन्तभिन्ना स्यात्त्रिरूपात्परमेशितुः ।॥ ३५ ॥
परलोकत्त्रयं नित्यं परार्धमिति कीर्त्यते । अपरार्धमिदं लोकत्रयं कृतकमीशितुः ॥ ३६ ॥
उभयोरर्धयोर्मध्ये राजन्तं पुरुषोत्तमम् । महार्लोकपति विज्ञा विज्ञानमयमूचिरे ॥ ३७ ॥
आनन्दः परमं ब्रह्म प्रजानमिति चक्षते । लोकचक्रपरार्धस्य यत्रान्तर्भाव इष्यते ॥ ३८ ॥
तुरीयं धाम विज्ञानं तैत्तिरीयैर्महः स्मृतम् । अपरार्धगतं ज्ञानं मनः शुद्ध स्वरात्मकम् ॥ ३९ ॥
भुवर्लोकात्मकः प्राणस्त्वपरार्धपरा क्रिया । भूरित्यन्नमयो लोकस्त्वपरार्धावधिर्जडः ॥ ४० ॥
सङक्षिप्यैवं समाख्याता लोकसप्तकधोरणी । विचित्रबन्धरचना विनिष्पन्नेयमीशितुः ॥ ४१ ॥
अवस्थाभेदनिर्मात्री चित्रबन्धा जगद्गति : । क्वचिद्गुप्ता क्वचिद्व्यक्ता चिन्मयी क्वचिदुल्बणा ॥४२॥
परस्मात्प्रस्थिता सेयं भूमिकानां परम्परा । सोपानकल्पिताकारा निःश्रेणिरिव निर्मिता ॥४३॥ ईशस्य तद्विसृष्टस्य जगतश्चान्तरे स्थिता । ऊर्ध्वाधोगतिकक्ष्येयनुभयीं कोटिमास्थिता ॥४४॥
पद्या योगविदां हृद्या तमःपारमहोदया । सोपानक्रमसम्पन्नाऽऽरुरुक्षोरधिरोहिणी ॥४५॥
चिदियं परमेशस्य कक्ष्याक्रमविभासिनी । भिन्नशक्तिगुणा ह्येषा भिन्नमाना च सर्वतः ॥४६॥
जगतोऽनुप्रवेशोऽयं निर्देशात्परमेशितुः । महर्लोके समारब्धो विज्ञानमयभूमनि ॥४७॥
अस्माकं मूलपुरुषो जीवत्वमिह बिभ्रताम् । विज्ञानात्मा महर्लोके त्रिलोकी यद्वशे स्थिता ।॥४८॥
एष क्रियाज्ञाननिधिर्महसि प्रतितिष्ठति । तुरीये धाम्नि सप्तानां व्याहृतीनां च मध्यमे ॥४९॥
यस्यांशवोऽस्मद्व्यक्तीनां हेतवो मूलधातवः । सूत्रात्मरूपनानात्मव्यञ्जका नियतक्रियाः ॥५०॥
एकस्यैवात्मनो नानारूपाण्याविष्कृतान्यतः । एकैकमपितद्रूपं जीव इत्युच्यते बुधैः ॥५१॥
विचरन्तीह भूतानि रूपाण्येव प्रजापतेः । एकैकस्य च भूतस्य मूलांशः स तुरीयगः ॥५२॥
अविच्छिन्ना दृष्टिधारा माहसी जगदीशितुः । यतो भूतानि जायन्ते तद्रूपाणि पुनः पुनः ॥५३।।
उत्पन्नस्येह भूलोके देहं स्थूलं शरीरिणः । अत्र धारयितुं भूमौ यः प्राणः समपेक्षितः ॥५४॥ स भुवर्लोकतो देहमभिमान्य विकारतः । बिर्भात व्यापृतस्तत्र समाविष्टो बुभुक्षया ॥५५॥
मनस्त्रिलोकविषयं स्वर्वेभवविकारजम् । पुरुषो भूमिगस्तस्मादिह ज्ञानक्रियाधरः ॥५६॥
भुवि सञ्चरतोऽस्येह पुरुषस्याल्पमेधसः । प्राणो यथा भुवोंके स्वर्लोके च यथा मनः ॥५७॥
तथाऽस्य महसि प्रोक्ता विज्ञानमयजीवता । यत्रास्ते सर्वजीवात्मभूतोऽसौ पुरुषोत्तमः ॥५८॥
जीवानामस्मदादीनामादिमूलं परात्परः । लोकानामपि तच्छक्तिनेंत्री माता परात्परा ॥५९॥
ईशितव्यानुगुण्येन शक्तिमुल्लासयन्त्स्वयम् । तपोवैभवसम्पन्नं महोऽध्यास्ते परः पुमान् ॥६०॥
परो निसर्गसिद्धन सर्गसद्भावधायिना । अपरिच्छिन्नमात्मानं तपसा मानहेतुना ॥६१॥ परिच्छिन्नमिहांशेन दधानो लोकभुक्तये । परिच्छेदेऽपि सम्पूर्णविकासाय विभासते ॥६२॥
व्यक्तानि यानि तत्त्वानि तुरीये धाम्नि सन्ततम् । तानि गुप्तानि भूलोके जडेऽस्मिन्पाञ्चभौतिके ॥६३॥
अजस्रं सच्चिदानन्दं प्रकाशं महसि स्थितम् । अधस्त्रिलोक्यामस्माकमप्रकाशमिह स्वयम् ॥६४॥
भुवो गतिस्तु गुप्तानां प्राणादीनां विकासनम् । प्राणस्याऽन्न ऽनुप्रवेशादन्न ं प्राणवदास्यितम् ॥६५॥
अन्नाद्विकासः प्राणस्य वृक्षादौ दृश्यते यथा । मानुष्यके च मनसो विकासश्व तथा स्फुटः ॥६६॥
विज्ञानस्य विकासः स्यादित ऊर्ध्वं भुवीह नः । यस्मिन्सिद्ध भवेत्सिद्ध दिव्यत्वं मनुजन्मनः ॥६७॥
परिणामक्रमद्वारः स नवः सर्ग उच्यते । निर्वाह्यः परया शक्त्या भुवि जीवति मानवे ॥६८॥
अयं भगवतः श्रीमदरविन्दमहामुनेः । सर्गार्थदर्शिनः सारो दर्शनेभ्यः समुद्धतः ॥६९॥ तन्वी तत्त्वप्रभा सेयं कलितेह कपालिना । रसिकानामिवार्धेन्दुकला कुर्याद्विदां मुदम् ॥७०॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.