The Maharshi 1955 Edition
English

ABOUT

Compilation of T.V. Kapali Sastry's writings on Sri Ramana's teachings, a draft English translation of an introduction to his commentary on 'Ramana Gita' & more

The Maharshi


Appendix




॥ गुरुगीतम् ॥

१. अव्यक्ताद्यत एतद् व्यक्तं जातमशेषम् । यद् धत्ते तदजस्रं यत्रान्त लयमेति ॥

२. आधारे खलु यस्मिन् गोलानां सह लक्षः। ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ॥

३. सूर्यादिग्रहभासां यन्मूलं घनतेजः। यद् ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ॥

४. ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते । यज्जालेन समस्ते द्वैतेक्षाऽल्पमतीनाम् ।

५. यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः । यनिष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः॥

६. तद् ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे। अश्रान्तं रमणाख्यां बिभ्रद् भातु मदिष्टाम् ॥

७. आधारे धृतमूलं हार्दाब्जे कृतवासम् । शीर्षाब्जाय वहद्यत्पश्चादिन्द्रियशक्त्यै ।।

८. दृष्टयां तत्र पराच्यां यद्देहभ्रमकारि। आवृत्तं तु पुनर्यत् स्वात्मक्यानुभवाय ॥

९. पश्यद्वा विषयौघं विश्रान्तं यदुताहो। मुक्त्यै संस्थितमन्तव॑त्यैक्यानुभवेन ॥

१०. आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् । अश्रान्तं स्फुरतात् तत् शुद्धं हार्दसरोजे॥

११. यद्दीपाद्रमणाख्याद् व्याप्तं गाणपतीषु । वाणीभित्तिषु धत्ते गीताचित्रविलासम् ॥

१२. यद् हन्ति च्छविजालैरज्ञानां तिमिराणि। तत्तत्त्वं स्फुरताद्वः तारध्यानसमाधौ।

१३. यातायातविहारैराधारेषु च शीर्षे । संचारं विदधानं कि चाशेषविसारि॥

१४. आलम्बेन विहीनं व्योमाभं परिपूर्णम् । निश्शब्दं गुरुरूपं तद् ब्रह्म स्फुरतान्मे ॥

१५. ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन । यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे॥

१६. यच्चिन्ता स्थिरमुक्त्यै ब्रह्मतद्रमणाख्यम् । मामावृत्य समन्तादानन्दे निदधातु॥

१७. तारानन्दनियुक्तः प्रोत्या तस्य मतेन । आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates