ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




अष्टादशः स्तबकः

अथास्मिन्नष्टादशे स्तबके देवीरूपम् अभिवर्ण्य तस्य पिण्डाण्डे तत्त्वम् उद-घाटयति ॥

धुन्वन्त्यस्तिमिरति हरित्तटीनां धिन्वन्त्यः पुरमथनस्य लोचनानि ॥
स्कन्दाम्बाहसितरुचो हरन्तु मोहं सान्द्रं मे हृदयगतं प्रसह्य सद्यः ॥१॥

धुन्वन्त्य इति- हरित्तटीनां हरितां दिशां तटीनां प्रदेशानां तिमिरततिम अन्धकारविस्तृति धुन्वन्त्यः अपहरन्त्यः, पुरमथनस्य पुरारे: रुद्रस्य नयनानि त्रीण्यपि धिन्वन्त्यः प्रीणयन्त्यः स्कन्दाम्बाहसितरुचः सुब्रह्मण्यमातृमन्दस्मित-प्रभाः मे मम हृदयगतं हृदयं गतम् अन्तःस्थितं सान्द्रं घनं मोहम् अबोधं सद्यः सपदि प्रसह्य बलात्कृत्य हरन्तु। हृदयगं मूलाज्ञानम् अपहरन्तु, ज्ञान-दायिकारणगुरोः सुब्रह्मण्यस्य जनन्या: मन्दस्मितप्रभाः प्रार्थिताः । तस्मात हृदयग-तमोपहरणाय स्कन्दाम्बापदोपादानं रमणीयमौचित्यावहम् ॥१॥

तन्वाना विनतहितं विरोधिवर्ग धुन्वाना बुधजनमोदमादधाना ॥
सम्राज्ञी त्रिदिवधरारसातलानां रुद्राणी भणतु शिवानि मत्कुलस्य ॥२॥

तन्वानेति- विनतहितं विनतेभ्यः प्रणतेभ्यो हितं श्रेयः तन्वाना कुर्वाणा विरोधिवर्ग शत्रुगणं धुन्वाना कम्पयन्ती दूरीकुर्वाणेत्यर्थः, बुधजनमोदं सूरि-जनानाम् आनन्दम् आदधाना जनयन्ती, त्रिदिव-धरा-रसातलानां त्रिदिवस्य स्वर्गस्य धरायाः भूमेः रसातलस्य पातालस्य च सम्राज्ञी चक्रवर्तिनी रुद्राणी मत्कुलस्य मम वंशस्य शुभानि भणतु मङ्गलं ब्रवीतु अनुगृह्णात्वित्यर्थः ॥२॥

योऽम्ब त्वां हृदि विदवत्तटित्प्रकाशा पीयूषद्युतिमदहृन्मुखारविन्दाम् ॥
अन्यत्तु स्मृतिपथतो धुनोति सर्व कामारेः सुदति न तस्य भुव्यसाध्यम् ॥३॥

योऽम्बेति- अम्ब, कामारेः रुद्रस्य सुदति सुन्दरि ! तटित्प्रकाशां विद्यु-निभां पीयबद्युतिमदहृन्मुखारविन्दां पीयूषद्युते: अमृतांशोश्चन्द्रस्य मदं हरतीति मदहृत् मुखम् अरविन्दमिव यस्यास्तां त्वां हृदि हृदये विदधत् आकलयन् अन्यत्सर्वम् इतरत्सकल तु स्मृतिपथतो स्मरणमार्गात् यः धुनोति दूरीकरोति, तस्य भुवि इहलोके असाध्यं न, सर्व शक्यं भवतीत्यर्थः ॥३।।

कालाभ्रद्युतिमसमानवीर्यसारां शक्यूमिनमकरशुक्लघोरदंष्ट्राम् ॥
यो धीरो मनसि दधाति भर्गपत्नि त्वामस्य प्रभवति सङ्गरेषु शस्त्रम् ॥४॥

कालाभ्रेति- भर्गपत्नि, रुद्रमहिषि ! कालाभ्रद्युति नीलमेघप्रभाम् असमानवीर्यसाराम् असमानः अद्वितीयः वीर्यसारः पराक्रमबलं यस्याः सा तां शक्त्यूमिभ्रमकरशुक्लघोरदंष्ट्रां शुक्ला: धवलाः घोराः भीषणाः च दंष्ट्राः करालदन्ताः शुक्लघोरदंष्ट्राः शक्तीनामूर्मयो वीचयः तासु भ्रमाः भ्रमयः भ्रम-णानीति यावत् ’भ्रमो भ्रमौ’ इत्यमरः, ते एव कराः अंशवः यासां ताः, यद्वा शक्त्यूमिभ्रमान् कुर्वन्तीति शक्त्यूमिभ्रमकर्यः समासे पुंवद्भावः दंष्ट्राः यस्याः तां, स्वीयधवलभीषणदंष्ट्राभिः शक्तितरङ्गेषु भ्रमि कुर्वाणां, स्वीय-धवलदंष्ट्रांशव एव शक्तितरङ्गभ्रमा इति वा भावः । अनेन वाराही-मूर्तिः काली ध्येयतयोक्ता। तां त्वां यो धीरः मनसि दधाति धारयते अस्य तस्य ध्यातुः सङ्गरेषु समरेषु शस्त्रम् आयुधं प्रभवति जयसमर्थ भवति ॥४॥

यः प्राज्ञस्तरुणदिवाकरोज्ज्वलाङ्गों तन्वङ्गि त्रिपुरजितो विचिन्तयेत्त्वाम् ॥
तस्याज्ञां दधति शिरस्सु फुल्लजाजी-मालां वा धरणिजुषो वशे भवन्तः ॥५॥

य इति- त्रिपुरजितो रुद्रस्य तन्वनि सुन्दरि, देवि ! यः प्राज्ञः विद्वान तरुणदिवाकरोज्ज्वलाङ्गी तरुणो दिवाकर इव बालार्क इव उज्ज्वलं भ्राजमानम् अङ्गं शरीरं यस्यास्तां त्वां विचिन्तयेत् ध्यायेत्, धरणिजुषः भूजुषो मानवाः तस्य वशे भवन्तः तदधीनाः सन्तः आज्ञां तस्यादेशं फुल्लजाजी-मालां वा विकसितजाजीपुष्पमालाम् इव ’इव वद्वा यथा समौ’ इत्यमरः, शिरस्सु दधति धरन्ति। सुप्रीताः तदधीनाः सन्तः तस्याज्ञाकराः भवन्ति मानवाः यस्त्वां बालसूर्याभाम् उपास्ते इति भावः ॥५॥

यो राकाशशधरकान्तिसारशुभ्रां बिभ्राणां करकमलेन पुस्तकं त्वाम् ॥
भूतेशं प्रभुमसकृत्प्रबोधयन्ती ध्यायेद्वाग्भवति वशेऽस्य नाकदूती ॥६॥

य इति- यः राकाशशवरकान्तिसारशुभ्रां राकाशशधरस्य पूर्णिमाचन्द्रस्य कान्तेः रुचेः सारः अमृतं तद्वत् शुभ्रां प्रसन्नधवलां, पुस्तकं करकमलेन बिभ्राणां, पुस्तकहस्ताम् इत्यर्थः । प्रभु पति भूतेशं पशुपतिम् असकृत् बहुवारं प्रबोधयन्ती, नित्यसमाधिनिष्ठस्य भगवतः परमेश्वरस्य जगद्विषयकबोधाय असकृत् तस्य प्रबोधं विदधानामित्यर्थः । ईदृशीं त्वां भगवतीं ध्यायेत् तस्य पुरुषस्य वशे वाक् सरस्वती नाकदूती स्वर्गदूती भवति भवेत्, वाक् तदधीना सती स्वर्गिणां हृदयं च प्रवेष्टुं प्रभवतीत्यर्थः । एवमुपासमानो-ऽसमानामोघवाग्वीर्यः स्ववाचं देवान् श्रावयितुं प्रभुर्भवतीत्याशयः ॥६॥

जानीमो भगवति भक्तचित्तवृत्ते-स्तुल्यं त्वं सपदि दधासि रूपमप्रयम् ॥
प्रश्नोऽयं भवति नगाधिनाथकन्ये रूपं ते मदयति कीदृशं स्मरारिम् ॥७॥

जानीम इति- भगवति ! भक्तचित्तवृत्तेः भक्तस्य चित्तवृत्तेः मनोवृत्तेः तुल्यं सदृशम् अग्रयं प्रशस्तं रूपम् आकृतिमित्यर्थः सपदि सद्यो दधासि धरसि. वयमिदं जानीमः विद्मः । नगाधिनाथकन्ये पर्वतराजपुत्रि ! अयं प्रश्नः भवति। तमाह। ते तव कीदृशं, किमिव दृश्यते इति कीदृशं, कथं-भूतं रूपं स्मरारि मदनशत्रु मदयति मोहयति। स्वेच्छया रूपाणि धर्तु प्रभ्वी त्वमिति त्वमिति विदितम्। तथाऽपि कामशत्रु वशयितुं किं रूपं धारयसे? ॥७॥

चारु स्यादलमिति वक्तुमम्ब शक्यं रूपं ते न वदति कोऽपि कीदृशं वा ॥
सम्मोहं परमुपयान्ति कान्तिभाण्डे कामारेरपि नयनानि यत्र दृष्टे ॥८॥

चाविति- अम्ब ! अलं पर्याप्तं चारु सुन्दरं स्यात् भवेदिति वक्तुं शक्यम्। मदनारि मदयितुं रूपं यावत् चारु रूपम् अपेक्षितं तावच्चारु इति वचनं सुलभमेव । तथाऽपि कोऽपि नरः सुरो वा ते तव रूपं कीदृशम् इति न वदति। कान्तिभाण्डे कान्तीनां कमनीयरुचां भाण्डे आधारपात्रे तेजःपुञ्जनिधानभूते यत्र यस्मिन् तव रूपे दृष्ट सति कामारेरपि मन्मथ-शत्रोरपि नयनानि त्रीणि परम् अत्यधिकं सम्मोहम् उपयान्ति मोहवशङ्गतानि भवन्ति। तत्ते रूपं न कोऽपि वदतीति सम्बन्धः । उत्तरवाक्ये यत्रेति यच्छब्दोपादानात् तदिति पूर्वत्राध्याहार्यम् ॥८॥

सङ्कल्पैः किमु तव भूषणान्यभूव-च्छिल्पीन्द्राः किमु विदधुर्यथाऽत्र लोके ॥
तत्स्वर्ण भगवति कीदृशं मणीनां किं रूपं भवति च तत्र योजितानाम् ॥९॥

सङ्कल्पैरिति- भगवति, तव सङ्कल्पः भूषणानि अभूवन् किमु ? केवल-सङ्कल्पबलेनैव तवाभरणानि प्रादुर्भूतानि किम् ? यथा अत्र लोके तथा शिल्पी-न्द्राः कलाकुशलाः स्वर्णकाराः विदधुः, भूषणानि चक्रुः किमु ? तत्स्वर्णं कीदृशं श मो- TRA निभाने? Par नातन्तिानां

यान्यङ्गान्यखिलमनोज्ञसारभूता-न्येतेषामपि किमु भूषणरुमे ते ॥
आहोस्विल्ललिततमानि भान्ति भूयो भूषाभिर्विकृततमाभिरप्यमूनि ॥१०॥

यानीति- उमे भगवति ! यानि ते तव अङ्गानि गात्राणि अखिलमनो-ज्ञसारभूतानि सकलरमणीयवस्तुसारभूतानि भवन्तीत्यध्याहार्यम्, तेषाम् एते-षामपि भूषणः किमु? भूषणैः प्रयोजनं नास्ति, सुन्दरतमानाम् अङ्गानाम् उत्कर्षाधानस्य कुतोऽवकाशः ? आहोस्वित् अथवा अमूनि निसर्गरमणीयानि अङ्गानि विकृततमाभिः अतिशयेन विकृताभिः कृतकत्वात् भूषाभिः ललित-तमानि अत्यन्तकोमलानि भूयो विशेषतो भान्ति । अथवा तव अङ्गानां नैसर्गिकरामणीयकस्य अत्युत्कर्षः भूषाणां कृतकरामणीयकेन सुतरां स्पष्टो भवतीति भावः ॥१०॥

मुक्ताभिर्भवति तवाम्ब किन्नु हारः पीयूषद्युतिकरसारनिर्मलाभिः ॥
मुण्डेर्वा घलघलशब्दमादधद्भिः सङ्घर्षात्रिभुवनसार्वभौमभामे ॥११॥

मुक्ताभिरिति- अम्ब ! पीयूषद्युतिकरसारनिर्मलाभिः पीयूषधुतेश्चन्द्र-मसः कराणां किरणानां सारस्तुषार इव, चन्द्र रश्मेहिमगर्भत्वात्, निर्मलाभिः स्वच्छाभिः मुक्ताभिः मौक्तिकमणिभिः तव हारः किं नु भवति ? त्रिभुवन-सार्वभौमभामे त्रिलोकचक्रवर्तिकुटुम्बिनि ! उत, सङ्घर्षात् अन्योन्यतीव्रधर्षणात् घलघलशब्दं घलघलायमानं ध्वनिम् आदधद्भिः वितन्वद्भिः मुण्डै: नरकलेबरैः भवति हारः? दक्षिणकालीमूर्तेर्मुण्डमाला तन्त्रप्रसिद्धा। अतः पृच्छति सुन्दर्यास्तव किं मुक्ताहारः कण्ठे उत मुण्डमाला? इति ॥११॥

वस्त्रं स्याद्यदि तव सर्वशास्त्रगम्ये कार्पासं दिवि च तदुद्भवोऽनुमेयः ॥
भौमं चेद्भगवति तस्य हेतुभूताः । कोटाः स्युर्गगनजगत्यपीति वाच्यम् ॥१२॥

वस्त्रमिति- सर्वशास्त्रगम्ये सनिगमागमादिशास्त्रैः गम्ये प्रतिपाद्य अम्ब ! तव कार्पासं कार्पासीफलतन्तुनिर्मितं वस्त्रं वसनं यदि स्यात्, दिवि च धु-लोकेऽपि तदुद्भवः तस्य कार्यासस्य उद्भवः उत्पत्तिः अनुमेयः ऊह्यः । वति! क्षौमं चेत्, तव वस्त्रं कौशयं चेत्, क्षौमं नेह वाल्कं भवति कीटा-प्रसक्तः, गगनजगत्यपि अन्तरिक्षलोकेऽपि तस्य हेतुभूताः कीटाः क्रिमयः स्य-रिति वाच्यं कौशेयस्य क्रिमिकोशोत्थत्वात् ॥१२॥

रुद्रस्य प्रियदयितेऽथवा सुरद्रु-भूषाणां मणिकनकप्रकल्पितानाम् ॥
वस्त्राणामपि मनसे परं हितानां कामं ते भवति समर्यकः समर्थः ॥१३॥

रुद्रस्यति- रुद्रस्य प्रियदयिते प्रेयसि रामे ! अथवा पक्षान्तरे, सुरद्रुः देवतरुः कल्पतरुः कर्ता, मणिकनकप्रकल्पितानां मणिभिः रत्नैः कनकेन स्वर्णेन प्रकल्पितानां निमितानां भूवाणां परम् अत्यन्तं मनसे हितानां मनोहराणाम् इत्यर्थः, वस्त्राणामपि कामं नितान्तं समर्थः निपुणः समर्पको. भवति । तरुर्वा तव वस्त्रभूषणसमर्पणनिपुणो भवतीत्यर्थः ॥१३॥

कल्प-सुस्कन्धो बहुविटपः प्रवालशोभी सम्फुल्लप्रसवसुगन्धवासिताशः ॥
वृक्षः किं भगवति कल्पनामकोऽयं सङ्कल्पः किमु तव कोऽपि देवि सत्यः ॥१४॥

सुस्कन्ध इति- भगवति देवि ! सुस्कन्धः शोभनः स्कन्धः प्रकाण्डो यस्य बहुविटपो बहुर्बहुलो विटपो वृक्षविस्तारो यस्य सः, प्रवालैः किसलयः शोभत इति प्रवालशोभी, सम्फुल्लप्रसवसुगन्धवासिताशः सम्फुल्लानां विकसि-तानां प्रसवानां कुसुमानां सुगन्धेन आमोदेन वासिता आशा दिशो यस्य सः, कल्पनामक: कल्पो नाम यस्य सः कल्पनामैव कल्पनामक: अयं वृक्षः किम् ? उत सत्यस्तव कोऽपि सङ्कल्प: ? ॥१४।।

अथ कामधेनु-कल्पवृक्षाणाम् अध्यात्म तत्त्वमाह ।।

सङ्कल्पान भवति कल्पपादपोऽन्यः स्वर्दोग्ध्री पुनरितरा न कुण्डलिन्याः ॥
यः कुर्याद् द्वयमिदमुद्गतात्मवीयं कारुण्यात्तव भुवि चास्य नाकभाग्यम् ॥१५॥

सङ्कल्पादिति- अम्ब ! सङ्कल्पात् कल्पपादपः सर्वदायी कल्पवृक्षः अन्यः न भवति। कुण्डलिन्याः शक्तेः स्वर्दोग्ध्री कामधेनुः न पुनरितरा भवति । यः इदं द्वयं सङ्कल्पः कुण्डलिनीति द्वयम् उद्गतं प्रबुद्धम् आत्मवीर्य स्वबलं यस्य तत् कुर्यात् विदध्यात् अस्य तस्य तव कारुण्यात् भुवि भूलोक एव नाकभाग्यं स्वर्गलोकभाग्यं भवतीति शेषः ॥१५॥

आपीनं भवति सहस्रपत्रकज वत्सोऽस्याः पटुतरमूलकुण्डवह्निः॥
दोग्धाऽऽत्मा दहरसरोरुहोपविष्टो मौनं स्यात्सुरसुरभेस्तनूषु दोहः ॥१६॥

आपीनमिति-सहस्रपत्रकजं सहस्रारकमलम् आपीनम् ऊधो भवति ’ऊधस्तु क्लीबमापीनम्’ इत्यमरः । अस्याः सुरसुरभेः कामधेन्वाः, कुण्डलिनी काम-धेनुरिति प्रागुक्तेः । वत्सः पटुतरमूलकुण्डवह्निः पटुतरः निपुणतरो मूले मूला-धारे एव कुण्डे कुलकुण्डे यः वह्निः अग्निः कुण्डलिनीप्रसूतो मूलाग्निरेव वत्स इत्यर्थः, दहरसरोरुहोपविष्ट: हृदयाकाशसमासीन आत्मा दोग्धा भवति । मौनं शान्तिसमृद्धं निरस्तनिखिलविषयं तनुषु शरीरेषु दोहः दोहनक्रिया भवतीत्यर्थः ॥१६॥

दोग्ध्रयास्ते भगवति दोहनेन लब्धं वत्साग्निप्रथमनिपानसद्रवायाः ॥
दुग्धं स्वादमृतमयं पिबन्ममात्मा सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः ॥१७॥

दोग्ध्रया इति- वत्साग्निप्रथमनिपानसद्रवायाः वत्सोऽग्निः मूलकुण्डाग्निः तस्य प्रथमेन निपानेन नितरां पानेन द्रवेण सहितायाः सद्रवायाः पस्रुत- दुग्धायाः दोग्ध्रयाः धेन्वाः तव कर्मणि षष्ठी दोहनेन लब्धं दुग्धं स्वादु मधुरम् अमृतमयम् अमृतं, स्वार्थे मयट् पिबन् मम आत्मा जीवः सन्तृप्तो न भवति, लब्धादधिकं पातुमिच्छति, तावता पीतेन अलमिति न तृप्ति गच्छति । हेतुमाह, अस्य ममात्मनः कुक्षिः उदरं दुर्भरः दुःखेन भर्तुं पोषयितुं शक्यः । बहुलभोजिनः अल्पमशनं नालम् ॥१७।।

वत्सोऽग्निः पिबति दृढाज्रिरम्ब पश्चा-दश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा ॥
वृद्धि च व्रजति पयः प्रतिप्रदोहं दोग्ध्रयास्ते द्रव इह कुण्डलिन्यपारः ॥१८॥

वत्स इति- वत्सोऽग्निः दृढाङघ्रिः सन् इतस्ततोऽस्खलितपदक्षेपः सन् पिबति दुग्धम् । पुरः पुरोभागे अन्तरात्मा दुहन् दोहनं कुर्वन् अश्रान्तमविरतं पिबति। प्रकृष्टो दोहः प्रदोहः प्रदोहे प्रदोहे प्रतिप्रदोहं पयः दुग्धं वृद्धिं च व्रजति, वर्धमानमेव भवति। दुग्धमुपर्युपरि प्रस्रुतमेव भवति न तस्य ह्रासो भोः कुण्डलिनि देवि! दोग्ध्रयाः कामधेन्वास्तव द्रवो दुग्धरसः अपारः अमित इत्यर्थः ।।१८।।

भवति। सोमस्य द्रवमिममाहुरग्ब केचिद् दुग्धाब्धेरमृतरसं गदन्ति केऽपि ॥
बाष्पं केऽप्यभिदधते तु कौलकुण्डं पीनोधस्त्रवमितरे भणन्ति धेनोः ॥१९॥

सोमस्येति- अम्ब ! इमं रसं केचित् सोमस्य द्रवं सोमलतारसं चन्द्र-किरणामृतं वा आहुः। केऽपि दुग्धाब्धेः क्षीरसागरस्य अमृतरसम् अमृतमेव रसं सारं गदन्ति भणन्ति । केपि अन्ये तु कुलकुण्डस्य मूलाग्निकुण्डस्य इदं कौलकुण्डं बाष्पम् ऊष्माम्बु अभिदधते वदन्ति । इतरे तु धेनोः कामधेनोः पीनोधस्स्रवं पीनस्य पीवरस्योधसः आपीनस्य स्रवं द्रवं भणन्ति वदन्ति । एवं बहुधोल्लेखादुल्लेखोऽलङ्कारः ।।१९।।

मूले त्वं ज्वलदनलप्रकाशरूपा वीणायां प्रबलमहामदोष्मरूपा ॥
शीर्षाब्जे सततगलद्रसस्वरूपा भ्रूमध्ये भवसि लसत्तटित्स्वरूपा ॥२०॥

मूले इति- त्वं मूले मूलाधारे ज्वलदनलप्रकाशरूपा ज्वलतो दीप्यतो-ऽनलस्य अग्नेः प्रकाशः रूपं यस्याः सा, वीणायां वीणास्थिदण्डे प्रबलमहा-मदोष्मरूपा प्रबलस्य महतो मदस्य सम्मदस्य ऊष्मा रूपं यस्याः सा, शीर्षाब्जे सहस्रारकमले सततगलद्रसस्वरूपा सततम् अजस्रं गलन् रसः सोमरसः स्वरूपं यस्याः सा, भ्रूमध्ये आज्ञाचक्रे लसत्तटित्स्वरूपा लसन्ती विलसन्ती तटित् विद्युत् स्वरूपं यस्याः सा भवसीति सर्वत्र अध्याहार्यम् ॥२०॥

हार्दै चेदवतरसीह पुण्डरीके छायावत्सकलमपि प्रपश्यसि त्वम् ॥
आरूढा दशशतपत्रमद्रिपुत्रि स्याश्चेत्त्वं भणसि जगत्सुधासमुद्रम् ॥२१॥

हार्दै इति-- अद्रिपुत्रि पार्वति ! इह, हृद इदं हार्दै तस्मिन् हार्दे पुण्ड-रीके हृदयकमले अवतरसि चेत्, त्वं सकलमपि छायावत् प्रपश्यसि। हृदि स्थितस्य पुरुषस्य विश्वं छायामयम् अवास्तवं भातीत्यात्मविदनुभवसिद्धम् । दशशतपत्रं सहस्रारकमलम् आरूढा स्याश्चेत्, त्वं जगत् विश्वं सुधासमुद्रम् अमृतसागरं भणसि। हृदयस्थस्यात्मनोऽन्यत्सर्वं छायामयम्, आत्मन एव सर्वात्मकत्वात्, सहस्रारगतस्य सर्वममृतमयं भवति । सर्वस्य जगतस्तदात्मक-त्वेनानुभूतेः ॥२१॥

नेत्राभ्यां सरसिरुहच्छदायताभ्यां वक्त्रेण प्रविमलहासभासुरेण ॥
प्रत्यक्षा मम मनसः पुरः पुरन्ध्री कामारेः परिणतमस्मदीयभाग्यम् ॥२२॥

नेत्राभ्यामिति-- कामारेः पुरन्ध्री शिवप्रेयसी देवी, सरसिरुहच्छदाय-ताभ्यां पद्मदलदीर्घाभ्यां नेत्राभ्यां, प्रबिमलहासभासुरेण प्रविमलेन प्रकृष्ट- शुभ्रेण हासेन भासुरेण उज्ज्वलेन वक्त्रेण वदनेन मम मनसः पुरः अग्रे प्रत्यक्षा जाता प्रसन्ना देवी उपलब्धा। अस्मदीयभाग्यम् अस्मदीयं भागधेयं परिणतं फलितम्। प्रसन्नदेवीदर्शनादन्यत् किमस्ति महत्तरं फलं सुकृतस्य ? ॥२२॥

पुण्यानां परिणतिरेव भूतभर्तुः सिद्धानां बलनिधिरेव कोऽपि गूढः ॥
भक्तानां दृढतरिरेव शोकसिन्धौ मग्नानां मम जननी महीनपुत्री ॥२३॥

पुण्यानामिति-- मम जननी महीध्रपुत्री पर्वतपुत्री देवी भूतभर्तुः भूते-शस्य शिवस्य पुण्यानां सुकृतानां परिणति: परिपाक: परमेश्वरस्य तप-स्सम्पत्फलमेवेत्यर्थः। सिद्धानां देवयोनिविशेषाणाम् अणिमाद्यष्टैश्वर्यसिद्धिमतां वा कोऽपि गूढ: गुप्तः बलनिधिः बलस्य निक्षेप एव भवति । शोकसिन्धौ दुःखजलधौ मग्नानां भक्तानां दृढतरिः दृढा अस्खलितगतिका तरि कैव बहुधोल्लेखादुल्लेखः । पुण्यपरिणतिरूपादीनां ताद्रूप्येण रूपणात रूपकं चेति रूपकोत्थापितोल्लेखात् रूपकोल्लेखयोरङ्गाङ्गिभावेन सङ्करः ॥२३॥

भवति । उद्धर्तुं विनतजनं विषादगात् संस्कर्तुं भुवनहिताय योगयुक्तम् ॥
संहर्तुं खलकुलमुद्धतं च दर्पाद् भर्गस्य प्रियतरुणी सदा सदीक्षा ॥२४॥

उद्धर्तुमिति-- भर्गस्य रुद्रस्य प्रियतरुणी प्रेयसी देवी विनतजनं प्रणतं भक्तजनं विषादगर्तात् विषादः शोकः एव गर्तो निम्नतलं तस्मादुद्धर्तुम् उद-ञ्चयितुं, योगयुक्तं योगनिष्ठास्थितं जनं भुवनहिताय लोकश्रेयसे संस्कर्तुं विशुद्धं कर्तुं, दर्पात् गर्वात् उद्धतं दृप्तं खलकुलं दुर्जनकुलं संहर्तुं ध्वंसयितुं च सदा अविरतं दीक्षया सह वर्तते इति सदीक्षा धृतव्रता भवतीति शेषः ॥२४॥

मृद्वीकां मधुरतया सुधां महिम्ना गाम्भीर्यात्सुरतटिनी च निर्जयन्ती ॥
शर्वाणीचरितपरा प्रहर्षिणीनां श्रेणीयं जयतु गणेश्वरेण बद्धा ॥२५॥

मृद्वीकामिति-- मधुरतया माधुर्येण मृद्वीकां द्राक्षां, महिम्ना माहात्म्येन सुधाम् अमृतं, गाम्भीर्यात् गम्भीरतया सुरतटिनी देवनदीं गङ्गां च निर्जय-न्ती शर्वाणीचरितपरा शर्वाण्या: दुर्गायाः चरितं कथा परं प्रधानं यस्याः सा गणेश्वरेण गणपतिना बद्धा निबद्धा इयं प्रहर्षिणीनां प्रहर्षिणीवृत्तानां श्रेणी माला जयतु उत्कर्षेण वर्तताम्। नेह प्रहर्षिणीश्रेण्याः बहुधोल्लेखनादुल्लेखो भवति। मृट्टीकादीर्माधुर्यादिभिर्जयन्तीति उपमासूचकजयन्तीपदप्रयोगात् एक-स्या बहूपमानकथनादार्थी मालोपमाऽलङ्कारः ॥२५॥

अष्टादशः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates