उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
प्रथमशतकस्य चतुर्थेऽस्मिन् स्तबके अध्यात्म महाशक्तिः कुण्डलिनी-स्वरूपिणी प्रस्तूयते। प्रसङ्गवशात् वाक्प्राणमनसां तेजोऽबन्नसारांशानां छान्दोग्यप्रतिपादितानाम् अधिपिण्डं स्थानानि व्याचक्षाणो नैष्ठिक आचार्यः स्वानुभूती: स्वगुरोर्भगवतो रमणस्य महर्षेरुपदेशं च कवितया सम्भावयति । स्तबकादिर्मङ्गलश्लोक: अमृतांशुबिम्बेत्युपक्रम्यते ॥
अमृतांशुबिम्बसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः ॥ सारो गौरीवदनाद् दरहासो हरतु दुःखजालं नः ॥१॥
अमृतांशुरिति- अमृतांशुबिम्बसारात् अमृतांशोश्चन्द्रमण्डलस्य सारात् स्थिरांशात् रसरूपादतिसूक्ष्मादपि भूयः भृशम् अत्यन्तमतितरां सूक्ष्मः स्थूल-दृगगोचरः गौरीवदनात् विनिर्गतः सारः सत्त्वभूतः दरहासः मन्दहासः नः दुःखजालं हरतु अस्मदीयसकलतापापहारको भवत्विति भावः ॥
दरहासस्य आनन्ददायकत्वात् दुःखध्वंस उपपन्नः । तस्य गौरीवदन-सारत्वोक्त्या रसापरपर्यायममृतं सूक्ष्मतमं घनीभूतं गौरीवदनत्वेन व्यवस्थितम् आक्षिप्यते। अमृतात्मा शक्तिमूर्तिरतीतस्तबकप्रतिपादितेह स्मर्तव्या। अमृतांशुबिम्बेनोपमीयते गौरीवदनम् । सा चोपमा अस्फुटा। अमृतांशु-बिम्बसारादिति प्रयोगस्येदं हृदयम् । यत् प्रकारान्तरव्याख्यानेन प्रदर्श्यते। अमृतांशुबिम्बसाराद् गौरीवदनात् भूयोऽपि विनिर्गतः भृशं सूक्ष्मः सारः दरहासः नः दुःखजालं हरत्विति योजना। ’दिव्यो घनसोमः स्यन्दनूसमन्तः’ इति सोमांशो घनभावं गत इति च प्रागुक्तम् । तस्मात् चन्द्राकारेण घनभावं यातस्य रसस्य अन्तस्स्यन्दतः सारशब्दवाच्यत्वमिहाभिप्रेतम्। सः अतिसूक्ष्मः अमृतमयः। अमृतांशुबिम्बसाराख्यम् अमृतमेव गौरीवदनं तस्मात् भूयोऽपि पुनरपि विनिर्गतः सारः सारादपि सारः भृशं सूक्ष्मः अमृतस्वरूप: आनन्दमयः दरहासः। अन्यत् प्राग्वत्। सारादपि सार इत्युक्तेः सारालङ्कारः ॥१॥
भगवत्याः व्यापारं त्रिविधं शरीरे मुख्य स्थानत्रयं चाह कुलेत्यादिना ॥
कुलकुण्डे प्रणुवन्ती चेतन्ती हृदि समस्तजन्तूनाम् ॥ मूर्धनि विचिन्तयन्ती मृत्युञ्जयमहिषि विजयते भवती ॥२॥
कुलकुण्ड इति- हे मृत्युञ्जयमहिषि ! भवती विजयते। किं कुर्वाणा? कुलकुण्डे मूलाधारे प्रणुवन्ती स्तुवन्ती शब्दायमानेत्यर्थः, समस्तजन्तूनां सर्व-प्राणिनां हृदि हृदये चेतन्ती सञ्जानाना संवित्स्वरूपिणीत्यर्थः । मूर्धनि मस्तके विचिन्तयन्ती ध्यायन्ती मतिरूपिणीत्यर्थः ।
परा, पश्यन्ती, मध्यमा, वैखरीति चतुर्धा वाचमूचुः प्राञ्चः । पराऽऽख्या वाक् आद्या अनभिव्यक्ता कुलकुण्डाख्ये मूलाधारे अत्यन्तसूक्ष्मतया वर्तते। वाग्रूपा, चित्तिरूपा, मनोरूपेति त्रिधा महाशक्तिः अस्मदादीनां शरीरे क्रमशः मूलाधार-हृदय-मस्तकेषु व्यापारवती राजते॥
अस्याः शक्तेरनुग्रहादेव अमृतत्वं देहवतः शक्यम् अमृतशरीरत्वोक्तेस्तस्याः । अत एव साभिप्रायं मृत्युञ्जयमहिषीति सम्बोधनम्। मृत्युञ्जयस्य मृत्यु जितवतो रुद्रस्य जगद्राजस्य महिषी कृताभिषेका। मह पूजायामित्यस्माद्धातोः मह्यते पूज्यत इति महिषीपदं निष्पन्नम्। मृत्युञ्जयस्येश्वरस्य पूज्या अमृत-तनुः शक्तिरिति भावः । एवं सम्बोधनेन तस्याः सर्वजीवनाधारत्वं गम्यम् ॥२॥
अथ छान्दोग्यश्रुतिवचनादरेण तेजोऽबन्नसाराणां वाक्-प्राण-मनसां मूला-धार-हृदय-शिरांसि लक्ष्यस्थानानि भवन्तीत्याह ।।
तेजोजलान्नसारै- स्त्रयोऽणवो मूल-हृदय-मस्तेषु ॥ पाकात्ते निष्पन्ना- स्त्रैलोक्यव्यापिकेऽम्ब देहवताम् ॥३॥
तेज इति-देहवताम् अम्ब! त्रैलोक्यव्यापिके ! तेजोजलान्नसारैः त्रयो-ऽणव: अणुत्वं सूक्ष्मत्वाभिप्रायम्, मूल-हृदय-मस्तेषु एषु त्रिषु स्थानेषु ते पाकात् निष्पन्नाः त्वत्कर्तृकपरिणमनकर्मणा उत्पन्नाः । तेजोऽबन्नानां स्वरूपं प्राग्व्या-ख्यातम् । अत्रायमाशयः। तेजःसारेण वाग्रूपोऽणुः सूक्ष्मतमः निष्पन्नः मूला-धारमधिशेते। अप्सारेण प्राणोऽणुः हृदये, अन्नसारेण मानसोऽणुः शिरसि चेति बोध्यम्। इदं सर्वं त्रैलोक्यव्यापिन्याः महाशक्तेः पाकक्रियाप्रभावात् अधिपिण्डं निष्पद्यते इति भावः । तथा च ’अन्नमशितं त्रेधा विधीयते’ इत्यारभ्य अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक् इति छान्दोग्यश्रुतिर्भवति ॥३॥
अथ शरीरे शक्तिप्रवेशपद्धतिमाह ॥
पूर्ण शरीरशिल्पे द्वारेण ब्रह्मरन्धसंज्ञेन ॥ नाडीपथेन गत्वा तैजसमणुमाविशस्यमेयबले ॥४॥
पूर्णे इति- हे अमेयबले ! तव बलम् इयदिति मातुं न शक्यमिति भावः। शरीरशिल्पे शरीरमेव शिल्पं निर्माणं तस्मिन् पूर्णे सति, ब्रह्मरन्ध्र-संज्ञेन ब्रह्मरन्ध्र संज्ञा यस्य तेन द्वारेण मस्तकस्य उपरि भागे मध्ये स्थितेन योगिलोकप्रसिद्धेनेति यावत्, नाडीपथेन नाडीमार्गेण, नाडी नेह स्थूला धमनी कथिता, शिरःप्रदेशमारभ्य मूलाधारपर्यन्तमवस्थितस्य नाडीचक्रस्य मध्यगा या नाडी सूक्ष्मा शक्तिप्रवाहिनी वर्तते तस्याः मार्गेण गत्वा शरीरं प्रविश्य, तैजसम् अणुम् आविशसि कुलकुण्डालयां परां वाचं समन्तादाक्रम्य प्रविशसि। इमामेव मध्यनाडी सुषुम्नामाहुरेके ॥४॥
एवमामूलम् ऊर्ध्वतः अवरूढायाः यातायाते वर्तेते इत्याह ।
अंशेनाविश्यादौ यासि पुनस्तं ततश्च निर्यासि ॥ मार्गाभ्यां द्वाभ्यां त्वं नाड्याः पश्चात्पुरश्च सिद्धाभ्याम् ॥५॥
अंशेनेति-त्वम् आदौ प्रथमम् अंशेन एकेन कलाविशेषेण आविश्य प्रविश्य तं तैजसमणुं परावाग्रूपं मूलाधारमित्यर्थः, यासि प्राप्नोषि, पुनः ततश्च निर्यासि, मूलाधारात् पुनर्निर्गच्छसि पुनर्निर्गच्छसि ऊर्ध्वमिति भावः । अधरागमनस्य उद्गमनस्य च नैको मार्गः, द्वौ स्तः। तौ क्व स्थितौ ? आह । नाड्याः पश्चात्पुरश्च सिद्धाभ्यां द्वाभ्यां मार्गाभ्यां यासि पुनः निर्यासीति सम्बन्धः । अयं भावः । या मध्यनाडी ’पूर्णे शरीरशिल्पे’ इति श्लोके गीता तस्याः पश्चान्मार्गेण ब्रह्मरन्ध्रद्वारा मूलाधारं प्रति शक्तेरवतरणं, मूलाधारं प्रविश्य, ततः पुनः नाड्याः उक्तायाः पुरोमार्गेण आरुह्य ब्रह्मरन्ध्रद्वारेण निर्गमनं च अभिप्रेते ॥५॥
अथ शक्तेः पूर्वोक्तविहारस्य आधेयस्य शरीरे आधारम् आचष्टे ।
यातायातविहारे मातस्तस्मिन्भवत्युपाधिस्ते ॥ आरभ्य मस्तकस्थल- मामूलाधारमस्थिपञ्जरिका ॥६॥
यावत् । यातेति- मातः ! तस्मिन् प्राक्कथिते यातायातविहारे विषयसप्तमी पश्चान्मार्गावरोहण-पुरोमार्गारोहणात्मके आवर्तने विषये इति मस्तकस्थलमारभ्य आमूलाधारं कुलकुण्डावधि अस्थिपञ्जरिका अस्थ्नां पञ्जर एवास्थिपञ्जरिका ते तव उपाधिर्भवति, आधारो भवति । उक्तप्रकारं नाडीचक्रावरकम् अस्थिपञ्जरं तवेदृशपरिभ्रमात्मकविलासस्याश्रयत्वेन स्वीकृत-वती त्वमिति तात्पर्यम् ॥६॥
अस्याः शक्तेः कुण्डलिनीति नामकरणे हेतुमाह ॥
नृतनुषु विहरन्तीं त्वाम् उपाधिवीणाकृतेर्जगन्मातः ॥ सादृश्यात्कुण्डलिनी परोक्षवादप्रियाः प्रभाषन्ते ॥७॥
नृतनुष्विति- जगन्मातः ! नृतनुषु नरशरीरेषु विहरन्तीम् उक्तप्रकारेण सञ्चरन्तीं विलसन्तीं वा त्वाम् उपाधिवीणाकृतेः उपाधेरस्थिपञ्जरिकायाः वीणाकृतेः सादृश्यात् हेतोः परोक्षवादप्रियाः गूढभाषितरताः कुण्डलिनी प्रभाषन्ते भणन्ति। मूलाधारान्मस्तकावधि अस्थिपञ्जरस्य शक्तिविहाराश्रयस्य वीणा-कारसदृक्षत्वात् कुण्डलिनीत्याख्यायत इति भावः। अस्थिपञ्जरिकव सर्पा-कारतया कुण्डलिनी भवतीत्ययमाशय उपपन्न एव। कुण्डलिनीम् अधिकृत्य प्राचां मतं त्वेवम्। कुलकुण्डाख्ये मूलाधारे शक्तिः स्वपन्ती योगप्रभावात् जातप्रबोधा ऊर्ध्वं गत्वा सहस्रारं मूर्धनि प्रविशति । यथा कुण्डली सर्पः स्वभोगं मण्डलीकृत्य स्वपन् प्रबोधे भोगं दीर्घाकृत्योन्नतफणः उज्जृम्भते तथा शक्तिरपीति कुण्डलिनीनाम्ना प्रसिद्धा महाशक्तिरध्यात्मम् । ’अवाप्य स्वां भूमि भुजगनिभमध्युष्टवलयं, स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि’ इत्यानन्दलहयाँ पठितम् इममाशयं विवृणोति ॥७॥
शक्तिप्रवाहानुसन्धानं परमो योग इत्याह ॥
नभसः शीर्षद्वारा प्रवहन्तीं य इह विग्रहे शक्तिम् ॥ अनुसन्दधाति नित्यं कृतिनस्तस्येतररलं योगः ॥८॥
नभस इति- नभसः आकाशात् शीर्षद्वारा मस्तकद्वारेण विग्रहे शरीरे प्रवहन्तीं शक्तिम् इह लोके यः योगी साधकः नित्यम् अनवरतं अनुसन्दधाति अन्ववेक्षते, तस्य कृतिनः पुण्यपुरुषस्य इतरैर्योगैरलम्, अन्ये योगाः नावश्यकाः। प्रसन्नायाः शक्तेरनवरतम् अविच्छिन्नधारया प्रवहन्त्याः अनुग्रहे सिद्धे, अन्येषां योगानां लक्ष्यं स्वतस्सिद्धं स्यात्। तस्मात् ते नापेक्षिता इति भावः ॥८॥
सर्वेषु समत्वेऽपि तस्याः फलभेदस्त्वस्तीत्याह ॥
सर्वेषु विशसि तुल्यं निर्गच्छसि तुल्यमम्ब भुवनानाम् ॥ ज्ञाता चेदसि शक्त्यै न ज्ञाता चेद्भवस्यहङकृत्यै ॥९॥
सर्वेष्विति- भुवनानामम्ब! सर्वेषु तुल्यं समं यथा तथा विशसि प्रविशसि तुल्यं सममेव निर्गच्छसि । ज्ञाता चेत् शक्त्यै असि, त्वं विदिता चेत् बलाय प्रभवसीत्यर्थः, न ज्ञाता चेत् अहङ्कृत्यै भवसि । अयं भावः। अम्ब, यद्यपि त्वं सर्वेषु समानमेव यातायातविहारेण वर्तसे, तथाऽपि ये त्वा-मवतरन्तीमुद्गच्छन्तीं च विदन्ति, ते शक्तिवृद्धाः भवन्ति, ये न विदन्ति ते साहङ्काराश्चेत्ययं भेदः ॥९॥
अवतरणध्यानफलमाह ।।
अवतरणं ध्यातं चेद् आरोहणमद्भुतम् भवेच्छक्तेः ॥ यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नियन्त्रमिव ॥१०॥
अवतरणमिति- अवतरणं ध्यातं चेत् शक्तेरारोहणमद्भुतं भवेत्। या नभस्तः शीर्षद्वारा शक्तिः शरीरे प्रवहन्ती विशति, तामनुभवन्योऽन्ववेक्षते तस्य मूलाच्छक्तिर्वेगवत्तरा आरोहति, विस्मयकरं भवति तदारोहणम् । यस्मिन्नारोहणे इदं भौतिकं शरीरं महद्वैधुताग्नियन्त्रमिव भवति। वैद्युता-ग्नियन्त्रम्, आप्यं ज्योतिर्वैधुताग्निमाहुः यः पार्थिवाग्नेः अन्यः अन्तरिक्षस्थानश्च । पृथिव्यामेव तदाप्यं ज्योतिरभिव्यञ्जयितुं यद्यन्त्रं प्रभवति तद्वद्युताग्नियन्त्र-मुच्यते। इदानीं भौतिकशास्त्रज्ञाः कृतकं तद्वद्युताग्नियन्त्रं क्रियोपकारकं प्रकाशदायकं च साधयन्ति । इदं च प्रचलत्यस्मिन्युगे सर्वत्र प्रसिद्धम् । ईदृशेन यन्त्रेण शरीरमुपमीयते तस्य यो ध्यायति शक्तेरवतरणम्। उप-मानोपमेययोः साधर्म्य तु शक्तिप्रकाशविजृम्भणम् ॥१०॥
उपेक्षिते ध्याने किं भवतीत्याह ।।
आरोहणमध्यातृषु हृदयेऽहङ्कारमात्रनिष्पत्त्यै ॥ तदनु शरीरमिदं स्यात् सुखाय दुःखाय वा यथाभोगम् ॥११॥
आरोहणमिति- अध्यातृषु प्रवहन्तीं शक्तिमधिकृत्य ध्याने उदासीनतया वर्तमानेषु आरोहणं हृदयेऽहङ्कारमात्रनिष्पत्त्यै भवतीति शेषः । हृदये अशुद्धाहङ्काररूपा संज्ञा निष्पन्ना भवति, न तु शुद्धाहम्भावस्फूर्तिरूपा निष्ठा । तदनु अनन्तरम् इदं शरीरं यथाभोग भोगानुसारेण सुखाय दुःखाय वा स्यात् । संसृतौ सुख-दुःखानुभवायैव भवति शरीरं, न तु शक्तिप्रकाशविलासात्मकं वैद्युताग्नियन्त्रमिव भवेत् ॥११॥
देव्याः सत्तैवोपाधिवशादहङकृतिर्भवतीत्याह ।
या व्यक्तिता जनिमता- महङकृतिः सकलभेदधीभूमिः ॥ पृथगिव तवाम्बिके सा सतैवोपाधिसंश्रयाद् भान्ती ॥१२॥
ति- अम्बिके ! सकलभेदधीभूमिः सर्वभेदबुद्धयाश्रयभूतेत्यर्थः। जनि-मतां व्यक्तिता देहिनां पृथगात्मतया वर्तनमित्यर्थः । या अहङकृतिः अह-मिदं ममेदमिति पृथक्तया प्रतिभासते, सा उपाधिसंश्रयात् पृथगिव भान्ती तव सत्तैवेत्यन्वयः। सर्वव्यापिन्याः महाशक्तेः तत्र तत्राधिपिण्डमुपहिताया एव पृथगात्मत्वेन प्रतिभासो भवति । तस्माद्वयक्तित्वलक्षकाहङकृति-महाशक्तिसत्तैव पृथगाभासत इत्युक्तम् ॥१२॥
एवं पार्थक्यदृष्टिमेवाविद्यामाहुरिति तां वर्णयति ॥
एतामाहुरविद्या बीजं संसारवृक्षराजस्य ॥ सर्वरसफलयुतस्य प्रारब्धजलेन देवि दोहदिनः ॥१३॥
एतामिति- देवि! एतामविद्यां संसारवृक्षराजस्य बीजमाहुः, वृक्षाणां राजा वृक्षराजः संसारः, जनन-मरणात्मक: परिवर्त एव वृक्षराजः तस्य बीजं कारणमाहुः। संसारवृक्षराजं विशिनष्टि। सर्वरसफलयुतस्य सर्वे रसाः यस्य फलस्य, तेन युतस्य, संसारपक्षे रसाः शृङ्गारादयः, वृक्षपक्षे षड्रसाः कट्वादयः, फलं प्रयोजनं, पक्षे फलमेव । प्रारब्धजलेन दोहदिनः प्रारब्धं कर्मैव जलं तेन। दोहदम् स्पृहा अस्यास्तीति दोहदी तस्य, पक्षे वृक्षस्य कुसुमप्रसवात्पूर्वं या वाञ्छा सा दोहदमुच्यते। ’तरु-गुल्म-लतादीनामकाले कुशलैः कृतम्। पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्’ इति शब्दार्णवे । अयं विवेकः। अविद्या संसारस्य मूलं, तस्य नव सन्ति रसाः, प्रारब्धं कर्म इच्छया द्वारा तं पोषयति, यथा वृक्षस्य बीजं कारणद्रव्यं, तत्फलस्य षड्रसाः उक्ताः, दोहदसेकेन यथेष्टं प्रसूते कुसुमानि चेति। रसे, फले, बीजे, दोहदे च श्लेषः। तेन सावयवं रूपकमलङ्कारः ॥१३॥
शरीरे शक्तेरनवरतप्रवाहस्योपायमाह ।
व्यक्तित्वार्पकदेहे निम्ने कुल्येव जनिमतां मातः ॥ प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि तन्वाना ॥१४॥
व्यक्तित्वेति- जनिमतां मातः ! देहिनां जननि ! देवि! व्यक्तित्वा-र्पकदेहे व्यक्तित्वस्य अहङकृतस्य पृथगात्मभावस्य अर्पके विधेयत्वेन निरवशेष समर्पके देहे शक्तिविलासोपाधिभूते शरीरे ते तव शक्तिः चित्राणि अद्भुतानि तन्वाना कुर्वाणा अनारतं सन्ततं प्रवहति । अनायासेनाप्रतिहतगतिकया धारया क्षरतीति द्योतयितुम् उपमानमाह कुल्या निम्न इवेति । यथा निम्ने अधस्तनतले कुल्या उन्नततलात् प्रवहति तथेति। पृथगात्मत्वसमर्पणाभावे शक्तिप्रवाहस्याहङकृतिरेव प्रतिबन्धिका स्यादिति गम्यते ॥१४॥
अथ षड्भिः श्लोकः हृदयतत्त्वम् आचष्टे ।।
सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चितम् ॥ श्रेष्ठं प्राणं केचन पञ्चानिलमूलभूतमाहुरिमम् ॥१५॥
सारमिति- सूरयो विद्वांसः अणुभूतं सूक्ष्मभूतम् अपां सारं प्राणम् आप्यः सारः प्राण इति छन्दोगानां श्रुतिः प्रागुदाहृता, हृदयस्थं हृदये स्थाने तिष्ठतीति हृदयस्थं चित्तं विदुः विदन्ति। धात्वर्थानुगमेन इह चित्तं संवित्पर्यायत्वेन बोध्यम्। केचन अपरे इमम् अपां सारं पञ्चानिलमूलभूतं पञ्चप्राणानां कारणभूतं श्रेष्ठं प्राणम् आहुः। उपनिषत्सु उपन्यस्तं मुख्यं ज्येष्ठं श्रेष्ठं वा प्राणम् आप्यसारं हृदयस्थानं भणन्तीति भावः ॥१५॥
मन एव चित्तसंज्ञं व्यवहरतां विभजनानभिज्ञानाम् ॥ कविलोकव्यवहार- स्तदधीनस्तत्त्वधीभवत्यन्या ॥१६॥
मन इति- विभजनानभिज्ञानां व्यवहरतां मनोऽन्यत् चित्तमन्यदिति विवेचनम् अजानन्त एव व्यवहारं कुर्वतां जनानां मन एव चित्तसंज्ञं चित्ताख्यं भवति। कविलोकव्यवहारः तदधीनः, कवयोऽपि तम् अनभिज्ञलोकव्यवहारा-नुरोधेन मनश्चित्तपर्यायं प्रयुञ्जते। यद्यप्येवं, तथाऽपि तत्त्वधीरन्या भवति । तत्त्वविवेचिका बुद्धिस्तु इतरैव, मनः पृथक्, चित्तं च पृथगिति ॥१६॥
तदनाहतस्य विलसद् दक्षिणतो दहरनामकगुहायाम् ॥ चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि रश्मिकला ॥१७॥
तदिति- देवि ! तत् तस्मात् अनाहतस्य योगिभिर्दृष्टस्य षट्चक्रान्त-भूतस्य वक्षस्थलमध्यगस्येत्यर्थः, दक्षिणतो दक्षिणपार्श्वे दहरनामकगुहायां दहाराकाशाख्यकुहरे इति भावः, विलसत् चित्तं संविद्रूपं ते तव काऽपि रश्मि-कला प्रकाशांशविशेष इत्यर्थः, कुलकुण्डात् मूलाधाराद् अनुगृह्णाति प्रसादयति । आत्मस्फूर्तिस्थानं दहराकाशाह्वयं हृदयं हृदयपीठस्य दक्षिणतो वर्तत इति स्वगुरोमहर्षेरुपदेशम् आचार्यो रमणगीतायामाह-"
तस्य दक्षिणतो धाम हृत्पीठेनैव वामतः । तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्नया ॥
इति। ननु स्वप्रकाशस्यात्मनः स्फूर्तिस्थानं हृदयमिति सिद्धे महर्षेरुपदेशे, कथमिदमुच्यते यन्मूलाधारात् काऽपि देव्या रश्मिकला हृदयस्थं चित्तमनु-गृह्णातीति ? नैष दोषः, पाञ्चभौतिकशरीरधारकाणाम् आधाराणां सर्वेषां मूलं कुलकुण्डे प्रसिद्धम्। तस्मान्मूलाधारादेव शक्तिकला हृदयं परितः व्याप्रिय-माणानां नाडीनां यथायथं व्यापाराय सामर्थ्यदानेनानुग्रहं करोति, अत एवा-त्मस्फूर्तरुपाधिं तत्रानुगृह्णाति। एवं मूलाधाराच्छक्तिरश्मिकला उपाधि-पोषिणी अहंवृत्तिस्फूर्तये प्रभवति; अयमेव चित्तानुग्रह उच्यते । न पुनरात्मा स्फुरन् स्वप्रकाशस्तत्र शक्तिकलयाऽनुगृह्यते, तस्य स्वत: प्रकाशमानत्वादितरा-नपेक्षसिद्धसताकत्वाच्चेति बोध्यम् ॥१७॥
चित्तमर्ने श्लिष्टं ते कलयाऽङगुष्ठप्रमाणमिव भासा ॥ दर्पणममलब्रह्म- प्रतिबिम्बाकर्षकं शिवे भवति ॥१८॥
चित्तमिति- शिवे ! ईश्वरि ते तव कलया रश्मिकलया अंशविशेषेणे-त्यर्थः, श्लिष्टम् आलिङ्गितं भासा दीप्त्या अङगुष्ठप्रमाणमिव स्थितं, अङगुष्ठ-मात्र: पुरुष इत्युक्ते, वस्तुत: नाङगुष्ठप्रमाणः पुरुषो नापि तत्स्फूर्तिस्थानं हृदयं वा, अत एव प्रभया अङ्गुष्ठप्रमाणमिव दृश्यते कस्यां चिद्योगनिष्ठा-दशायां, किं प्रमाणं तर्हि ? अणु सूक्ष्मं दुर्दर्शमिति भावः, तथाभूतं चित्तं हृदयस्थानोपहितचित्प्रकाशात्मक, अमलब्रह्मप्रतिबिम्बाकर्षकं दर्पणं भवति । अणुन्यपि चित्ते शुद्धं ब्रह्माखण्डम् आत्मरूपेण स्फुरतीति तात्पर्यम् । चित्त-मुपाधिदर्पणस्थानीयं, शुद्धं ब्रह्म केवलं बिम्बस्थानीयं प्रतिबिम्बस्थानीय आत्मा स्फुरनिति विवेचनं भवति । अत्र श्रीमहर्षेरुक्तिर्भवति-
"हृदयकुहरमध्ये केवलं ब्रह्ममात्रं ह्यहमहमिति साक्षादात्मरूपेण भाति" इति ॥१८॥
अन्तरमावर्ताभ प्रतिबिम्बमकायमेतदीशस्य ॥ अङगुष्ठाभं प्राहु- मानेनोपाधिचत्तभासस्ते ॥१९॥
अन्तरमिति- आवर्ताभम् आवर्तस्य अम्भसां भ्रमस्य आभेवाभा यस्य तत् मण्डलाकारेण परिस्फुरद् एतदन्तरम् आकाशम् ईशस्य अकायं प्रतिबिम्बं ते तव उपाधिचैतभासः उपाधिभूतचित्तसम्बन्धिप्रभायाः मानेन प्रमाणेन अङगु-ष्ठाभं प्राहुः। प्रतिबिम्बमुद्दिश्य अङगुष्ठाभं विधेयम्। चित्ताकाशे अशरीरे-श्वरप्रतिबिम्बस्य परिस्फुरत्वं अङ्गुष्ठाकृतित्वं च देव्याः उपाधिभूतचित्त-गृहीतप्रभया सिद्ध इति भावः । अन्यत्सर्वम् अतीतेषु श्लोकेषु व्याख्यातम् ॥१९॥
अथ पिण्डाण्डेऽस्मिन् ईश्वरयोः सरूपत्वारूपत्वे व्याचष्टे ।
दम्पत्योा रूप- प्रतिबिम्बौ चक्षुषोः शिवे भवतः ॥ कुलकुण्डे हृदये चा- प्यरूपयोरेव कश्चिदुल्लासः ॥२०॥
दम्पत्योरिति- हे शिवे ! वां युवयोः दम्पत्योः रूपप्रतिबिम्बौ रूपयोः स्वरूपयोः प्रतिबिम्बौ द्वौ चक्षुषोईयोरक्ष्णोः भवतः वर्तते । ’य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच’ इत्यक्षिपुरुषविद्या स्तूयते छान्दोग्ये । इह वाम-दक्षिणयोः नेत्रयोयौं ज्योतिर्मयौ आकारौ दृश्येते, तावेव ईश्वर्याः ईश्वरस्य च प्रतिबिम्बावुक्तौ। चाक्षुषं ज्योतिरीश्वरयोः प्रतिबिम्बत्वेनोक्तम् । तयोरन्यत्र हृदये मूलाधारे च अरूपत्वेनैव विलसितं भवतीत्युत्तरार्धेनाह । कुलकुण्डे हृदये चाप्यरूपयोरेव युवयोः कश्चिदुल्लासः उल्लासविशेषः । पूर्व-श्लोके हृदये प्रस्तुते ईशस्याकायं प्रतिबिम्बमिति ह्यक्तम् ॥२०॥
चित्तं स्तौति ॥
चित्तमणीयो वित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम् ॥ हृदयगुहायां निहितं जानीते स विजहाति बहिराशाः ॥२१॥
चित्तमिति- यः पुमान् इदं चित्तं दहराख्ये हृदये अवस्थितं मूल्ये अर्धे प्रपञ्चतोऽप्यधिक विश्वस्मादधिकतरम् अणीयः अणुतरं सूक्ष्मतरं हृदयगुहायां निहितं वित्तं धनं, विधेयं, चित्तमुद्देश्य, जानीते, स बहिराशाः विजहाति सर्व-बाह्यकामत्यागी भवति, आत्मलाभेन तस्यात्मकामस्य सर्वावाप्तेरित्यर्थः ।
’परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि’ इति प्राचामुक्तिः । इतश्च छान्दोग्यश्रुतिर्भवति-’यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्’ ’अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते, सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यते सत्याः कामाः अनृतापिधानास्तद्यथापिहिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः, एवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’ इति ॥२१॥
अथ साधनदशायां स्वाभिमतां हृदयमूलां शक्तिज्वालामयीं निष्ठामाह ॥
अप्राप्ता मूर्धानं हृदयात् सम्प्रस्थिता धृता नाड्या ॥ त्वद्रुचिरुक्ता बुद्धि स्त्वयि निष्ठा भवति देवि तनिष्ठा ॥२२॥
अप्राप्तेति- देवि! हृदयात्सम्प्रस्थिता उद्गता, मूर्धानं मस्तकप्रदेशम् अप्राप्ता, नाड्या सूक्ष्मया प्राणनाड्या धृता गृहीता त्वद्रुचिः तव रुचिः भा बुद्धिः उक्ता बोध उच्यत इत्यर्थः। तन्निष्ठा सा निष्ठा त्वयि निष्ठा भवति । स्पष्टम्। शिरस्तलावधि अगत्वैव हृदयादुद्गता अमृतनाड्या गृहीता बोध-ज्वाला या भवति तत्र निष्ठव त्वयि भगवत्यां निष्ठा भवतीति तात्पर्यम् ॥२२॥
हृदय-मनसोः सूर्य-चन्द्रयोरिव सम्बन्ध प्रतिपादयति ॥
अन्नमयाणुं प्राप्त धीज्योतिश्चन्द्रमार्कमिव तेजः ॥ परिभाष्यते महेश्वरि मन इति सङ्कल्पसम्भवस्थानम् ॥२३॥
मन अन्नेति- हे महेश्वरि ! आर्कम् अर्कस्येदं सौरं तेजः ज्योतिः चन्द्रमिव यथा सूर्यश्चन्द्रमसे प्रकाशं ददाति तद्वदित्यर्थः, अन्नमया मानसं प्राग्व्याख्यातं प्राप्तं गतं धीज्योतिः अतीतश्लोकोक्तं हृदयात्प्रस्थितं नाड्या धृतं बुद्धिज्योतिः मन इति परिभाष्यते । मनो विशिनष्टि। सङ्कल्पसम्भवस्थानं इति सम्बन्धः। हृदयात्प्रस्थिता धीज्वाला मूर्धानम् अप्राप्ता ध्यानेन धृता चेत् निष्ठा भवति, सङ्कल्पसम्भवस्थानं शिरः प्राप्ता चेत् तस्यास्तत्र मन इत्याख्येति भावः ॥२३॥
मूर्धन्यपि लक्ष्यस्थाने चिच्छक्तेरुपास्तिमाह ।।
सङ्कल्पे सङ्कल्पे चिच्छक्ति मनसि विस्फुरन्तीं त्वाम् ॥ य उपास्ते स जनस्ते गृह्णाति महेशवल्लभे चरणम् ॥२४॥
सङ्कल्पे इति- हे महेशवल्लभे! ईश्वरि ! सङ्कल्पे सङ्कल्पे प्रति-सङ्कल्पं मनसि विस्फुरन्तीं चिच्छक्ति त्वां य उपास्ते स जनः ते तव चरणं गृह्णाति। अप्रकाशे मनसि सङ्कल्पो नोद्गच्छेत् उद्गतोऽपि न गृह्येत, चन्द्रस्य सूर्यप्रकाश इव मनसो हृदयप्रकाशः यया चिच्छक्त्या निर्वाह्यते सा ज्वलिता प्रतिसङ्कल्पं स्फुरन्त्येव राजते, य इमां सङ्कल्पप्रकाशिकां चिच्छक्ति ध्यायति, तेन तव चरणग्रहणं कृतं भवति, न तु सङ्कल्पग्रहणम्। चित्प्रकाशे दृष्टिक्षेपात् सङ्कल्पेषु लक्ष्यतोज्झिता भवति ॥२४॥
स्तबकमुपसंहरति ।
आधारचक्रशयने ममेह निद्रां विहाय विचलन्तीम् ॥ गीतय एताः परमा मुपतिष्ठन्तां जगद्विभोः कान्ताम् ॥२५॥
आधारेति- मम आधारचक्रशयने मूलाधारम् आधारचक्रं तदेव शयनं तस्मिन् निद्रां विहाय विचलन्तीं स्वापमुज्झित्वा व्याप्रियमाणां प्रबुद्धां परमां जगद्विभोः कान्तां जगदीश्वरीम् एताः गीतयः उपतिष्ठन्तां भजन्तामिति भावः । मूलाधारे कुण्डलिनीस्वापः पूर्वमुदाहृतः । उज्झितनिद्रया तयानुगृहीतः कविराचार्यो नैष्ठिकः। अस्मिन् स्तबके प्रसक्तानि तत्त्वानि छान्दोग्य-श्रुतिवाक्यैः स्वगुरोरुपदेशः स्वानुभूतिभिश्च ग्रन्थकृतोपपादितानीति बोध्यम् ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गण-पतिमुनेः कृतावुमासहस्रं चतुर्थः स्तबक: समाप्तः ।
समाप्तं च प्रथमं शतकम् । प्रभाख्या व्याख्या च समाप्ता॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.