उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अयं च प्रकीर्णकः स्तबकः ।।
चन्द्रिकासितं चण्डिकास्मितम्॥ भूतले सतां भातु भूतये ॥१॥
चन्द्रिकेति- चन्द्रिकासितं ज्योत्स्नेव शुभ्रं चण्डिकास्मितं चण्डिकायाः स्मितं मन्दहसितं भूतले इह जगति सतां शिष्टानां भूतये ऐश्वर्याय भातु राजताम् ॥१॥
भालचक्षुष श्चक्षुषां धनम् ॥ किञ्चिदस्तु मे शस्तवर्धनम् ॥२॥
भालेति- भालचक्षुषः भाले ललाटे चक्षुः नेत्रं यस्य तस्य हरस्य चक्षुषां त्रयाणां नेत्राणां धनं सम्पद्भूतं भोग्यं किञ्चिद्वस्तु उमाख्यमित्यर्थः, मे मम शस्तवर्धनं क्षेमवर्धनम् अस्तु भवतु । ’भावुकं भवुकं भव्यं कुशलं क्षेममस्त्रि-याम्। शस्तं च’ इत्यमरः। हरत्रिणेत्रतर्पणम् उमाख्यं धनं मम क्षेम-कृदस्तु ॥२॥
साधुसन्तति- क्षेमकारिणी॥ घोरदानवा- नीकदारिणी॥३॥
साध्विति- साधुसन्ततिक्षेमकारिणी साधुजनसन्ततेः कल्याणाधायिनी, घोरदानवानीकदारिणी घोराणां भयङ्कराणां दानवानाम् असुराणाम् अनीकं सैन्यं दारयति भञ्जयतीति घोरदानवानीकदारिणी ॥३॥
योगयुक्तस- च्चित्तचारिणी॥ पादसेवक- प्राज्ञतारिणी॥४॥
योगेति- योगेन साधनेन युक्तानां सम्पन्नानां सतां पुरुषाणां चित्तेषु चरतीति योगयुक्तसच्चित्तचारिणी, पादयोः सेवकान् भजकान् प्राज्ञान् विदुषः तारयतीति पादसेवकप्राज्ञतारिणी, तान् भवाम्बुधिं तारयतीत्यर्थः ॥४॥
पुष्पबाणजि नेत्रहारिणी॥ पातु मां जग-चक्रधारिणी॥५॥
पुष्पेति- पुष्पबाणजिन्नेत्रहारिणी पुष्पबाणं मन्मथं जयतीति पुष्पबाण-जित् हरः तस्य नयनानि हरतीति पुष्पबाणजिन्नेत्रहारिणी कामारिनेत्रमादक-मस्याः रूपमित्यर्थः, एवम्भूता जगच्चक्रधारिणी भुवनसाम्राज्यभी मां पातु रक्षतु ॥५॥
द्वादशान्तभू- जातशारिका॥ सर्ववाङ्मय-स्यककारिका ॥६॥
द्वादशा-द्वादशान्तेति- द्वादशान्तभूजातशारिका द्वादशान्तं सहस्रारादप्यूर्ध्वम् आहुः तन्त्राणि, स एव भूजातो वृक्षः तत्र स्थिता शारिका पक्षिविशेषः । न्ताख्ये वृक्षे पक्षी भूत्वा स्थिता। सर्ववाङमयस्य सर्वस्य शब्दप्रपञ्चस्य एककारिका एका सूत्रप्रायपद्यरूपा भवति। अल्पाक्षरत्वे सति बह्वर्थज्ञापक श्लोकं कारिकामाहुः। समस्तशब्दब्रह्मसारांशोऽसावित्यर्थः ॥६॥
पुण्यकर्मसु स्वच्छमस्तका॥ योगशालिषु च्छिन्नमस्तका ॥७॥
पुण्येति- पुण्यकर्मसु पुण्यानि कर्माणि येषां तेषु स्वच्छमस्तका स्वच्छं निर्मलं मस्तकं शिरो यस्याः सा, पावनकर्मकृतां शिरः शुद्धम् अस्याः स्वा-म्यं भवति, तत्र कृतावासत्वादस्याः। योगशालिषु योगेन योगनिष्ठया शालन्ते इति योगशालिनः तेषु छिन्नमस्तका छिन्नं मस्तकं शिरो यस्याः सा। योग-निष्ठेषु शिरोग्रन्थिविशेषाणां भेदनेन अस्याः निरर्गलप्रसादधारा प्रवर्तते, तस्मात् छिन्नमस्तका। प्रचण्डचण्डीप्रस्तावे छिन्नमस्तातत्त्वावसरे पुरस्तादिदं प्रपञ्च-यिष्यते ॥७॥
आत्मनि स्थितेः सम्प्रदायिका॥ सर्वजन्मिनां सम्प्रतिका ॥८॥
-आत्मनीति आत्मनि आत्मस्वरूपे स्थितेनिष्ठायाः सम्प्रदायिका। सर्व-जन्मिनां सर्वेषां देहिनां सम्प्रवर्तिका। सर्वेषामपि देहिनां प्रवर्तयित्री जन्मतो निवर्तयित्री, अत एव आत्मनिष्ठायाः निवृत्तिलभ्यायाः दात्रीत्युक्ता। नितिका प्रवर्तिका उभे च सेति भावः ॥८॥
मां पुनातु सत्-पूज्यपादुका॥ भाललोचन प्राणनायिका ॥९॥
मामिति-- सत्पूज्यपादुका सद्भिः पूज्ये आराध्ये पादुके उपानहौ यस्याः सा, भाललोचनप्राणनायिका भाललोचनस्य ललाटनेत्रस्य रुद्रस्य प्राणनायिका हृदयेश्वरी मां पुनातु शुद्धं करोत्वित्यर्थः ॥९॥
दानतो यशः पौरुषाद्रमा॥ सम्पदो मदः शीलतः क्षमा ॥१०॥
दानत इति- दानतः दानात् अन्येभ्यः द्रव्यत्यागात् यशः कीर्तिः भवति इति अध्याहार्यम्। पौरुषात् पुरुषकारात् रमा लक्ष्मीः सम्पद्भवतीत्यर्थः । सम्पदः श्रियः मदो हर्षः भवति। शीलतः सद्वृत्तात्, ‘शीलं स्वभावे सद्वृत्ते’ इत्यमरः, क्षमा क्षान्तिः सहनशक्तिः भवति ॥१०॥
सत्यतो जग- त्यत्र गौरवम् ॥ यज्ञतो दिवि स्थानमुज्ज्वलम् ॥११॥
सत्यत इति- सत्यतः सत्यवादादित्यर्थः, अत्र जगति गौरवं गुरुत्वं पूज्य-त्वं भवति। यज्ञतो यागात् दिवि स्वर्गे उज्ज्वलं भ्राजमानं स्थानं भवति ॥११॥
संयमादघ वातवीतता॥ योगतो महा-सिद्धिशालिता ॥१२॥
संयमादिति- संयमात् सम्यग्यमनं संयमः तस्मात् इन्द्रियनिग्रहात्, अष्टाङ्ग-योगे उत्तराङ्गत्रयं धारणाध्यानसमाध्याख्यं संयम उच्यते, तस्मात्संयमा-दिति वा। अघवातवीतता अघवातात् पापजालाद् वीतता विगतत्वं विमुक्त-त्वं भवतीति यावत् । योगतो अध्यात्मयोगनिष्ठात: महासिद्धिशालिता महतीभिः सिद्धिभिः सम्पन्नता भवति ॥१२॥
शर्वनारि ते पादसेवया ॥ सर्वसत्फला-वाप्तिरप्रयया ॥१३॥
शर्वेति-- शर्वनारि, रुद्रपत्नि अम्ब! अग्रयया श्रेष्ठया ते तव पादसेवया सर्वसत्फलावाप्तिः सर्वेषां सत्फलानाम् अवाप्तिः लब्धिर्भवति। यशोरमामदा-दीनाम् उक्तानां लाभः लाभः दान-पौरुष-सम्पदादिभ्यो भवतीति सत्यमेतत् । त्वत्पादसेवया तु सर्वाण्येतानि उपगतानि भवन्ति। सर्वेषां पुण्यकर्मणां गति-स्त्वत्पादसेवेति बोध्यम् ॥१३॥
नोद्यमेन या सिद्धिरुत्तमा ॥ विश्वनायिका- वीक्षितेन सा ॥१४॥
--सा नेति या उत्तमा सिद्धिः उद्यमेन प्रयत्नेन न भवतीति शेषः, सिद्धिः विश्वनायिकावीक्षितेन भवति। पुरुषकारस्य असाध्या सिद्धिः विश्वे-श्वरीवीक्षितस्य साध्येत्यर्थः ॥१४॥
सम्पदा रमा भारती गिराम्॥ त्वं शिवे प्रभुः प्राणसंविदाम् ॥१५॥
सम्पदामिति- सम्पदां श्रियां रमा प्रभुः ईश्वरी भवति, गिरां वाचां भारती सरस्वती प्रभुः नायिका भवति, शिवे त्वं, प्राणसंविदां प्रभुः जीवन-धारण-क्रियाकरणादिहेतुभूतानां प्राणानां बाह्यज्ञानेन्द्रियमनोबुद्धयाद्याधारभूतानां चितां संविदां च प्रभुः अधीश्वरी क्रिया-ज्ञानशक्तीनामीश्वरीत्यर्थः ॥१५॥
चक्षुषा नभो. लक्ष्यधारिणा॥ सिद्धपतीव ते देवि धारणा ॥१६॥
चक्षुषेति- देवि ! नभोलक्ष्यधारिणा नभ आकाशमेव लक्ष्यं दृष्टिगम्यं तद्धर्तुं शीलमस्येति नभोलक्ष्यधारि तेन चक्षुषा ते तव धारणा त्वत्स्वरूपग्रहण-धारणमित्यर्थः, सिद्धयतीव सिद्धा भवतीत्यर्थः । इव वाक्यालङ्कारे। आकाश-मेव लक्ष्यत्वेन चक्षुषि धृतं चेत् दृश्यान्तराभावात् शून्यतयाऽऽभासमानस्य वस्तुतो विभुतयाऽवस्थितस्य देवीस्वरूपस्य ग्रहणे धृतिस्सिद्धयतीति भावः ॥
औपनिषदं समयमवलम्ब्येयम् अक्षिपुरुषविद्या भवति ॥१६॥
आशिरो दध- नाभितोऽनिलम् ॥ देवि विन्दति त्वन्मुनिर्बलम् ॥१७॥
आशिर इति- देवि ! नाभितः नाभिदेशादारभ्य आशिरः शिरोदेश-पर्यन्तं, आङ अभिविध्यर्थकः। अनिलं प्राणवायुं दधत् धारयमाणो मुनिः त्वत् त्वत्तः बलं विन्दति प्राप्नोति। नाभिस्थलात् मस्तकपर्यन्तं प्राणधार-णेन शक्तिमान् भवतीत्यर्थः। नेह प्राणायामेन श्वासस्तम्भः उपदिष्टः । ध्यानबलेनैषा स्थितिर्भवतीति गमयितुं मुनिपदमुपात्तम् । इयमेवौपनिषदी संवर्गविद्या भवति ॥१७॥
हृद्गृहान्तरे यद्विशोधनम् ॥ तत्सवित्रि ते स्यादुपासनम् ॥१८॥
हृदिति- सवित्रि मात: ! हृद्गुहान्तरे हृदयगुहायाम् अन्तः यत् विशो-धनं परीक्षणं भवति, तत् ते तव उपासनं स्यात् भवेत् । इयं दहरविद्या भवति, एवम् अक्षिपुरुषविद्या संवर्गविद्या दहरविद्या च उपनिषदुपदिष्टाः भाषा-न्तरेण सुगमाः प्रतिपादिताः ॥१८॥
काऽप्यहम्मति- र्गोचरं विना॥ लोकधात्रि ते रूपभावना॥१९॥
कापीति- लोकधात्रि, जगद्भत्रि ! गोचरं विना विषयेन विना काऽपि अहम्मतिः अहमिति मतिः बुद्धिः। इदम्भाव एव गोचरः । इदम्प्रत्यय-निरपेक्षं अहम्प्रत्ययार्थबोधो न जायते लोके। तदिह कापीत्युक्तम् । इद-म्भावविरहमस्मीति सत्तामात्रबोध इत्यर्थः । सा शुद्धा अस्मिताबुद्धिः ते तव रूपभावना तव स्वरूपनिष्ठा भवतीत्यर्थः। इयमपि छन्दोगैराम्नाता वैश्वा-नरविद्या भवति ॥१९॥
अस्यमण्डनं कोऽपि विद्यया ॥ खण्डनं परः प्राह ना यया ॥२०॥
असीति-- कोऽपि विद्वान् विद्यया चिता अमण्डनम् अविभाजनम् असि इति प्राह। बडि विभाजने मरि च, मण्डते इति अनुदात्तेत्को धातुः, तस्माद् भावे ल्युट् अमण्डनम् अविभागम् अविभाज्यचित्का त्वमिति यावत् । परः ना अन्यो मनुजः यया विद्यया त्वं खण्डनं विभाज्यचित्केति प्राह । उभौ पक्षौ भवतः। तत्र एक: तव चितेः भेदो नास्तीति, अस्तीत्यन्यः इति तात्पर्यम् ॥२०॥
मातरेतया जीयते त्वया ॥ एकया तनू-भिन्नया धिया ॥२१॥
मातरिति- एकया एतया त्वया तनूभिन्नया तनूषु भिन्नया धिया जीयते भावे प्रयोगः । मातः ! एकव एषा त्वं शरीरेषु पृथक् पृथक् विद्य-मानेन ज्ञानेन जयसि इति भावः। शरीरदृष्ट्या भिन्नाऽसि, अन्यथा स्वय-मखण्डाऽसीति तात्पर्यम् ॥२१॥
बाह्यदर्शने विश्वपङ्किला॥ अन्यथा भव- स्यम्ब केवला ॥२२॥
बाह्येति-- अम्ब ! बाह्यदर्शने स्थूलायां बहिर्दृष्टौ विश्वपङ्किला विश्वेन दृश्येन जडेन सर्वेण पङ्किला कर्दमवती। विश्वस्य दृश्यत्वेन जडत्वात् भेद-बाहुल्यात् च अनैर्मल्यं द्योतयितुं विश्वस्मिन् विश्वाकारेण भासमानाया देव्याः पङ्किलत्वं लक्षणयोक्तम्। अस्वच्छेत्यर्थः। केवला एका सती अन्यथा भवसि सूक्ष्मायां दृष्टौ स्वयं स्वच्छेत्यर्थः ॥२२॥
खण्डवन्नृणां भासि भोगिनाम्॥ अस्यभिन्नचित् काऽपि योगिनाम् ॥२३॥
खण्डवदिति- भोगिनां विषयभोगवतां नृणां मनुजानां खण्डवत्, स्वयम् अखण्डाऽपि खण्डवद्भासि । योगिनां युक्तचेतसां ज्ञानिनां काऽपि अनिर्वाच्या अभिन्नचित् अखण्डा चितिरसि ॥२३॥
बन्ध एष यद्- भासि खण्डिता॥ मोक्ष एष यद्- भास्यखण्डिता ॥२४॥
बन्ध इति- खण्डिता भिन्ना भेदवती भासि इति यत्, एष बन्धो भवति । भेददर्शनं बन्धः । भेददर्शनं बन्धः। अखण्डिता अभिन्ना अभेदस्वरूपा भासीति यत्, एष मोक्षो भवति। अभेददृष्टिरेव बन्धान्मुक्तिः ॥२४॥
एतदीशितुः पत्नि हन्मुदे ॥ सौप्रतिष्ठसद् गीतमस्तु ते॥२५॥
एतदिति- ईशितुः पत्नि ! ईश्वरभार्ये, एतत् मयोक्तमिदं सौप्रतिष्ठ-सद्गीतं सुप्रतिष्ठाया एतन्नामकवृत्तस्य इदं सौप्रतिष्ठं तच्च तत् सद्गीतं च सौप्रतिष्ठसद्गीतं, एतत् गीतजालं ते तव हृन्मुदे हृदो हृदयस्य मुदे प्रीतये अस्तु ॥२५॥
इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गण-पतिमुनेः कृतावुमासहस्रं चतुर्विंशः स्तबकः समाप्तः । समाप्तं च षष्ठं शतकम् । प्रभाख्या व्याख्या च समाप्ता ॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.