ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




चतुस्त्रिंशः स्तबकः

चतुस्त्रिशेऽस्मिन् स्तबके मानुष्यकमाङ्गल्याय भरतखण्डक्षेमविधित्सया भगवती बहुधा प्रार्थयते।

विदितमहिमा विश्वाधानादनेकविधाद्भुतात् प्रथितचरितः शर्वालोकप्रतापविवर्धनात् ॥
प्रकटितगुणः पापध्वान्तप्रसारनिरोधनात् प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे ॥१॥

विदितेति- अनेकविधाद्भुतात् अनेकविधानि नानाप्रकाराणि अद्भुतानि आश्चर्याणि यस्य तस्मात् विश्वाधानात् विश्वस्य सकलस्य जगतः आधानात् उत्पादनात् विदितमहिमा विदितो ज्ञातो महिमा प्रभावो यस्य सः। नाना-विधाद्भुतसमृद्धजगतः सर्जनात् देवीहासस्य महिमा स्पष्टं ज्ञायत इत्यर्थः । शर्वालोकप्रतापविवर्धनात् शर्वस्य रुद्रस्य आलोकस्य दर्शनस्य प्रतापस्य विव-र्धनात् पोषणात् प्रथितचरितः प्रथितं विख्यातं चरितं चेष्टितं यस्य सः । देव्याः हासः परमेश्वरदृष्टः वीर्यवर्धन इति तस्य चर्या प्रसिद्धेति भावः । पापध्वान्तप्रसारनिरोधनात् पापान्येव ध्वान्तानि तेषां प्रसारस्य व्यापनस्य निरोधनात् प्रतिरोधनात् प्रकटितगुणः प्रकटितः प्रकाशितः गुणः तेजो-बल-वीर्यादिः यस्य सः। भासां निधिः रुचाम् . आकरः शिवाहासः पार्वतीहासः मे मम कुशलानि क्षेमाणि प्रदिशतु विदधातु। अत्र विविधाद्भुतविश्वा-धानात् साधनात् साध्यस्य महिम्नो ज्ञानं प्रतिपादितम् । एवं शिवदृग्वीर्य-वर्धनात् साधनात् चरितस्य साध्यस्य, पापप्रसारनिरोधनात् गुणस्य चेत्यतो-ऽनुमानालङ्कारः, तदुक्तं साहित्यदर्पणे ’अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनम्’ इति । विच्छित्तिरिह वैचित्रीति बोध्यम्। यद्यप्यनुमितिकरणम् अनुमानमिति अनुमानालङ्कारलक्षणं रसगङ्गाधरकारैरुक्तं, तथाऽपि’ अनुमान-स्यालङ्कारत्वसिद्धये स्यादेव चमत्कृतिः। कविप्रतिभोल्लसितत्वेन चमत्कारित्वे, अनुमानस्य काव्यालङ्कारता भवति। कुवलयानन्दकारस्तु मपि तैरुदाहृतेन पद्येन लक्षणं सुबोधं भवति- ’विलीयमानैविहगैनिमीलद्भिश्च पङ्कजैः। विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः!’ इति ॥१॥

हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा पदकमलयोर्लक्ष्म्या भक्तजनैरुपजीव्यया ॥
मुखसितकरे लावण्येन त्रिणेत्रदृशां बलं बहु विदधता काली माताऽवतात्पदसेविनम् ॥२॥

हृदीति- हृदि हृदये करुणया पूर्णा, बाह्वोः भुजयोः महीयसा महत्तरेण बलेन पूर्णा, भक्तैर्जनैरुपजीव्यया आश्रयणीयया लक्ष्म्या, पक्षे शोभया सम्पदा वा, पदकमलयोः पादारविन्दयोः पूर्णा, त्रिणेत्रदृशां हरस्य नेत्राणां त्रयाणां बहु बलं विदधता लावण्येन रामणीयकेन मुखसितकरे वक्त्रचन्द्रे पूर्णा माता काली पदसेविन पादभजकम् अवताद्रक्षतु । अत्र करुणादीनां हृदयाद्याश्रयभेदेन एक-स्या एव मातु: काल्या बहुधोल्लेखनादुल्लेखोऽलङ्कारः ॥२॥

जगदधिपया सिद्धं दोग्धचाऽथवोत रसज्ञया मुनिजननुतं देवीमन्त्रं जपेद्यदि मानवः ॥
अमृतजलदीभूतः पूतः प्रयोगविशेषवित् स इह वसुधालोके धारा गिरामभिवर्षति ॥३॥

सः जगदिति- जगदधिपया भुवनेश्वर्या अथवा दोग्ध्रया प्रचण्डचण्डया, उत रसज्ञया काल्या वा इदं मूर्तित्रयं तद्वीजत्रयं च अतीते स्तबके व्याख्याते सिद्धं सम्पन्नं मुनिजननुतं तपस्विभिः स्तुतं देवीमन्त्रं मानवो मनुजः जपेद्यदि, अमृतजलदीभूतः अनमृतजलदः अमृतजलदः सम्पद्यमानो भूतः अमृतवर्षी जात इत्यर्थः पूतः पवित्रः प्रयोगविशेषवित् प्रयोगविशेषान् साध्येषु विषये प्रयोग-भेदान् वेत्ति जानातीति प्रयोगविशेषवित् सन् इह वसुधालोके भूलोके गिरां वाचां धाराः अभिवर्षति । सर्वसुखावहा अमृतप्राया वाणीः वर्षतीति यावत् ॥३॥

इममभिमुखीभूता शातोदरी कमलालया हयगजघटापूर्णाऽभ्यणं समेत्य निषेवते ॥
सविबुधमिदं विश्वं तस्य प्रयाति पुनर्वशम् प्रथितयशसां सिद्धीनां चाप्यमुं भजतेऽष्टकम् ॥४॥

इममिति- इमं देवीमन्त्रजापिनम् अनभिमुखी अभिमुखी सम्पद्यमाना भूता अभिमुखीभूता शातोदरी कृशोदरी कमलालया लक्ष्मीः हयगजघटापूर्णा हयै-रश्वैः गजानां घटया करिसमूहेन च पूर्णा सती अभ्यर्णं समीपं निषेवते । ’करिणां घटना घटा’ इत्यमरः । पुनः किं च विबुधैर्देवैः सह वर्तत इति सविबुधम् इदं विश्वं जगत् तस्य वशं प्रयाति वशङ्गतं भवति। अमुम् उपा-सकं प्रथितयशसां विश्रुतख्यातीनां सिद्धीनामष्टकं अणिमादिसिद्धयष्टकं चापि भजते सेवते ॥४॥

सुविमलधियस्तस्य क्रोधाद् दृगम्बधुतद्युती रिपुजनवधूगण्डाभोगो भवेदुत पाण्डुरः ॥
सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरं भणितमजरं भद्रं ज्योतिः परं हृदि भासते ॥५॥

सुविमलेति- सुविमलधियः अत्यन्तविशुद्धबुद्धेस्तस्य देवीमन्त्रभृतः क्रोधात् रोषात् रिपुजनवधूगण्डाभोगः शत्रुस्त्रीणां कपोलदेशविस्तारः दृगम्बुधुतद्युतिः सन् अश्रुजलापहृतकान्तिः सन् पाण्डुरः विच्छायः शुक्लो भवेत्। तस्य क्रोधात् शत्रूणां प्रध्वंसेन तत्स्त्रीणां वैधव्यापत्तेरश्रुधारया वदनव!हरणं भव-तीत्याशयः। भुवनव्याप्तं विश्वं व्याप्य स्थितम् आप्तैः वयोविद्यावृद्धः प्रमाण-पुरस्सरम् अनुभवजन्यवाक्यपूर्वकमित्यर्थः भणितं प्रतिपादितम् अजयम् अवि-कार्यम् भद्रं शोभनं परं ज्योतिः सपदि सद्यः हृदि तस्य हृदये भासते। तस्य क्रोधे जायमाने क्षणात् तस्य हृदये सर्वव्यापि पारमैश्वरं ज्योति: ज्वलति । अत एव स क्रोधः शत्रुस्त्रीवैधव्याधायिविक्रमो भवति । अत्र समर्थनीयस्य पूर्ववाक्यार्थगतस्य रिपुवधूगण्डाभोगपाण्डिम्नः उत्तरवाक्यार्थेन हृदयगतपारमै-श्वरज्योतिर्भासनेन समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । लक्षणं प्रागुक्तम् ॥५॥

अदयमरिभिः कान्ते राष्ट्रे त्वमीश्वरि रक्षिका सुमशरमुख ते चित्ते त्वमीश्वरि रक्षिका ॥
प्रबलदुरितम्रस्ते वंशे त्वमीश्वरि रक्षिका ऽप्यसृजति जलं मेघे मोघे त्वमीश्वरि रक्षिका ॥६॥

अदयमिति- राष्ट्रे देशे अरिभिः शत्रुभिः अदयं निष्करुणं यथा तथा क्रान्ते आक्रान्ते सति, ईश्वरि ! त्वं रक्षिका शरणमित्यर्थः । चित्ते मनसि सुमशरमुखैः कामादिभिः कामक्रोधादिभिरिति यावत् धूते चालिते सति, अपहृत इति यावत्, ईश्वरि ! त्वं रक्षिका असि वंशे मानवकुले प्रबलदुरितः बलिष्ठपापैः ग्रस्ते गृहीते सति ईश्वरि त्वं रक्षिका भवसि, मेघे मोघे विफले, जलम् असृजति अवर्षति सति अवग्रहे इत्यर्थः ईश्वरि ! त्वं रक्षिका। सर्वत्र त्वमेव रक्षा भवसि ॥६॥

भगवति निजी साक्षात्पुत्रौ बृहस्पतिपावको गणपतिगुहावेतौ वेषान्तरव्यवहारतः ॥
भरतधरणीखण्डे हेतोः कुतः कृतसम्भवौ कलकलयुते काले देवि व्यधाः कथय द्रुतम् ॥७॥

भगवतीति- भगवति अम्ब ! निजी स्वीयौ साक्षात्पुत्रौ तनूजौ बृहस्पति-पावकौ बृहस्पतिर्ब्रह्मणस्पति: पावकोऽग्निश्च एतौ वेषान्तरव्यवहारतः अन्यो वेष: वेषान्तरं तेन व्यवहारः तेन सार्वविभक्तिकस्तसिल गणपतिगुहौ बृहस्पति-रेव गणपतिवेषः, पावक एव गुहवेषः, उभौ च भरतधरणीखण्डे भारत-भूखण्डे कलकलयुते कोलाहलयुते अस्मिन् काले कुतः कस्माद्धेतोः कृतसम्भवौ स्वीकृतजन्मानौ विधेयविशेषणं व्यधाः अकार्षीः, द्रुतं कथय वद ॥७॥

समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो गिरिवरगुहास्वन्तः शान्तो नयेद्यदि नाद्भुतम् ॥
स्थलविरहतः स्वीयस्थाने किमत्र समागतो न वदसि कुतः कार्य तस्मै कुलाचलकन्यके ॥८॥

समयमिति- अयि अम्ब ! सुतः पुत्रः रमणः तस्य गुहावतारोक्तेः पुत्रत्वं, ते पादाम्बुजं धृत्वा गृहीत्वा, अत एव अन्तः शान्तः आत्मनिष्ठया शान्ति-सम्पन्न इत्यर्थः। गिरिवरगुहासु गिरिवरस्य अरुणाचलस्य गुहासु बहुवचनात् नैका गुहा वासभूरित्याशयः, समयं कालं नयेद्यदि यापयेद्यदि न अद्भुतम् इदं नाश्चर्यजनकम् । स्वीयस्थाने जन्मभुवि स्थलविरहतः वासस्थलवियोगात स्थलाभावाद्धेतोरिति यावत्, अत्र समागतः किम् ? भोः कुलाचलकन्यके पार्वति ! तस्मै कुतो हेतोः कार्यं यत् कर्तव्यं तत् न वदसि ? वासभुवं विहाय कार्यविशेषायैवेहागतः, न तु तत्र वासस्थलाभावात् । तस्मै त्वं कार्यं न वदसि, तस्मात्तव पादं धृत्वा शान्तिसमृद्धो जयति। तवादेशं ज्ञापयसि चेत्, सत्यं तत् करिष्यत्येव निस्सङ्कल्पो महामनाः स महर्षिः ॥८॥

परिभणति चेच्छिष्यव्यूहे महाद्भुतसङ्गती-जननि रमणो योगीशानस्ततो बहु नो फलम् ॥
अमिततमया दृष्टेः शक्त्या कदा सरणि नये-दपथपतितं धात्रीलोकं तदेव वदाम्बिके ॥९॥

परिभणतीति- जननि ! योगीशानः योगीश्वरः रमणः शिष्यव्यूहे शिष्याणां उपदेशयोग्यानां व्यूहे बृन्दे महाद्भुतसङ्गतीः महती: अद्भुताः आश्चर्यकरी: सङ्गतीर्घटनाः परिभणति कथयति चेत्, ततो तथा भणितात् नः अस्माकं बहु फलं भवति इति अध्याहार्यम्। अम्बिके, अपथपतितं न पन्थाः अपथं तत्र पतित मार्गभ्रष्टमिति यावत् धात्रीलोकं भूलोकम् अमिततमया अतिबहुलया दृष्टेः शक्त्या वीक्षितबलेनेत्यर्थः कदा सरणिं नयेत् पन्थान प्रापयेत् तदेव वद । नयतेद्विकर्मत्वात् सरणिम् अप्रधानम् कर्म धात्रीलोकं प्रधानम् ॥९॥

अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले चरणकमलच्छायां मायाधिराज्ञि विहाय ते ॥
परमकरुणो घोरः शापः किमेष सवित्रि ते किमपि भुवि वा कार्य कर्तुं नियोजितवत्यसि ॥१०॥

अहमिति- मायाधिराज्ञि मायेश्वरि अम्ब ! ते तव चरणकमलच्छायां विहाय इह भूलोके विषण्णतमे शोकभूयिष्ठे स्थले अहं कुतो हेतोः जातः जन्म प्राप्तवान्। सवित्रि मातः ! एषः परमकरुणः परम: अत्यधिक: करुणः शोकः यस्मात्स ते तव शापः किम् ? वा अथवा भुवि भूमौ किमपि कार्यं कर्तुं नियोजितवती प्रचोदितवत्यसि । किमहं तव शापविशेषादिह पतितः, उत कार्यविशेष कर्तुं त्वया प्रेषितः ॥१०॥

व्रजति विलयं स्नेहो दूरप्रवासवशादिति प्रवदति बुधः कश्चित्सत्यं प्रभाति तदम्बिके ।
भगवति निजे कुक्षौ जातं दिवो धरणीगतं स्मृतिसरणितो दूरे हा हा करोषि रुषा यथा ॥११॥

व्रजतीति- अम्बिके ! दूरप्रवासवशात् प्रियजनवियोगजनकस्थलान्तरवा-साद्धेतोः इत्यर्थः, स्नेहः प्रेमा विलयं नाशं गच्छतीति कश्चिद्बुधः बुद्धिमान् लोके प्रवदति तत् सत्यं प्रभाति प्रतिभाति । भगवति अम्ब ! दिवो द्युलोकात् धरणीगतं भुवं गतं, निजे स्वीये कुक्षौ उदरे जातं रुषा यथा रोषेणेव स्मृति-सरणितः स्मृतिपथात् दूरे करोषि, हा हा महत् कष्टम् इदं ! न मां स्मरसि, कोपेनेव मां दूरीकुरुषे ॥११॥

मम तु विमला हृद्या विद्या महेश्वरि याऽभव-न्मनसि च परा चित्रा शक्तिश्चिरन्तनि याऽभवत् ॥
वचसि च महद्भाग्यं श्लाघ्यं यदीडयतमेऽभवत् तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि ॥१२॥

ममेति- महेश्वरि ! मम या विमला शुद्धा हृद्या मनोज्ञा विद्या तु अव-धारणे, निश्चितम् अभवत्। भोश्चिरन्तनि, मनसि च या परा श्रेष्ठा चित्रा अद्भुता शक्तिश्च अभवत् । ईडयतमे अत्यन्तं स्तुत्ये, वचसि वचने वाचि चेत्यर्थः, यत् श्लाघ्यं प्रशस्यं महत् भाग्यं वैभवम् अभवत्, तत् इदं वित्तत्रयं हृद्या शुद्धविद्या, मानसी चित्रा शक्तिः, वाचि वैभवमिति यत् सम्पत्त्रयं मम इह जन्मनः पुरा आसीत् तत् भुवि भूमौ भवतः जन्मनः हेतोः मतः मत् मम सकाशादित्यर्थः, अयि अम्ब ! गलितं विगतम्। दिव्या मम सहजोक्ता सम्पत्त्रयी भूसम्पर्कतो गलिता। अधुना तद्वासनैवावशिष्टेति गम्यम्। शुद्ध-विद्या विचित्रमनश्शक्तिर्वाग्वीर्यमित्येतत्त्रयस्य कविराकर इवासीज्जीवितकाले इति निर्मत्सराणां सर्वेषां विदितमेवेदम् । तस्माद् गलितशब्देन त्रयमपि वासनामात्रावशिष्टमित्युपपन्नम् ॥१२॥

कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनां यदहमदयो विघ्नं नृणां मुहुर्मुहुराचरम् ॥
अतिकटु फलं तस्याश्नामि श्रितो नरविग्रह प्रमथनृपतेर्जाये माये जनन्यव मामिमम् ॥१३॥

कृतमिति- अयि अम्ब ! मया घोरं भयङ्करं पापं दुष्कृतं कृतमाचरि-तम् । यत् यतः अहमदयोऽकरुणः सुकर्मसु सत्कर्मानुष्ठानेषु सङ्गिनाम् आस-क्तानां नृणां मुहुर्मुहुः शश्वत् विघ्नम् आचरम् अकरवम्। ततो मया पाप-माचरितमिति सम्बन्धः । विघ्नेश्वरो विघ्नकारीति प्रसिद्धिः । वस्तुतस्तु पूजितः स विघ्नविघातको भवति । तस्य विघ्नकर्मणः अतिकटु अत्यन्तम-स्वादु फलम् अश्नामि भुनज्मि अनुभवामि। नरविग्रहं मानवशरीरं श्रितः प्राप्तोऽस्मीति शेषः। प्रमथनृपतेः भूतेशस्य शिवस्य जाये प्रेयसि, माये महा-माये, जननि ! इमम् ईदृशावस्थं माम् अव रक्ष ॥१३॥

न भवसि दृशोर्मार्गे लोकाधिराज्ञि कुतो गिरो न च बहुकृपे स्वप्ने वा त्वं प्रयच्छसि दर्शनम् ॥
अपनयसि नो सन्देहं वा परोक्षकृपावशा-दपि सुरनुते लग्ना कार्यान्तरे किमुतादया ॥१४॥

नेति- लोकाधिराज्ञि जगदीश्वरि, बहुकृपे प्रभूतकरुणे, अम्ब ! दृशोः मार्गे कुतो न भवसि, दृक्पथं न गच्छसि, को हेतुः ? स्वप्ने वा गिरः वाचः दर्शनं वा न प्रयच्छसि ददासि, वाचं दर्शनं वा स्वप्नदशायामपि न ददासि । परोक्षकृपावशाद्वा अप्रत्यक्ष वा कृपावशतः येन केनापि निमित्तेन सन्देहं नो न अपनयसि निवारयसि । सुरनुते देवस्तुते ! अपि प्रश्ने, कार्यान्तरे लग्ना, किं त्वम् अन्यस्मिन् कार्य सक्ता सती मम सन्देहं नापनयसि उत अदया ? किं तव नास्ति करुणा अत एवेयम् उपेक्षा ? ॥१४।।

निरवधिशिवे माहात्म्यं ते भणन्ति महर्षयो मनसि करुणा न न्यूना ते यथा प्रथिताः कथाः ॥
तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुं यदसि विमुखी पुत्रे किंवा भवेदिह कारणम् ॥१५॥

निरवधीति- निरवधिशिवे अपरिमितकल्याणे ! महर्षयः ते तव माहा-त्म्यं भणन्ति । यथा कथाः त्वत्सम्बन्धिन्यः प्रथिताः प्रख्याताः तथेत्यध्या-हार्य, ते तव करुणा न न्यना, अधिकैव भवति । तव कारुण्यमधिकमिति चरित्राणि विश्रुतानि। तत् तस्मादिदमखिलं महर्षिभिः भणितं कारुण्यप्रथन-कथाश्चेत्येतत्समस्तं मिथ्या अनृतमिति उदीरितुं वक्तुम् असाध्यं अशक्यम् । पुत्त्रे गणपतौ मयि विमुखी पराङमुखी भवसीति यत् इह अस्मिन् विषये किं वा कारणं भवेत् ? कारणं भण ॥१५॥

भुवनभरणं नाल्पं कार्य न देवि तव क्षणो गुरु च बहुलं कृत्यं नित्यं तवास्ति न तन्मृषा ॥
न तव कठिनं मौनं निन्द्यं तथाऽपि न पार्वति स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् ॥१६॥

भुवनेति- देवि ! भुवनभरणं जगत्पोषणम् अल्पं कार्यं न, तत्सुमहदेव भवति, तव क्षणो न, निर्व्यापारता कदापि नैव भवति । ’ निर्व्यापारस्थितिः कालविशेषोत्सवयोः क्षणे’ इत्यमरः । तव नित्यं कृत्यं गुरु दुर्भरं बहु बहुलं च अस्ति। न तन्मृषा मिथ्या भवति। यद्यप्येवं समस्तं तथ्यमेव तथापि तव कठिनम् अविचाल्यं मौनम् अवचनतेत्यर्थः, न निन्द्यं न, दूष्यमेव। पार्वति अम्ब ! इमं दीनं दुर्बलं पुत्त्रं सकृत् एकवारं स्मर चिन्तय, तदेव मम अधिकं भवेदिति शेषः ॥१६॥

न भवति सुधाधारावर्षादयं मुदितस्तनौ मधुमदमुषां वाचां सन्न चाप्ययमुद्धतः ॥
तव पदयुगे निष्ठालाभान्न तृप्यति चाप्ययं भगवति चिरात् सन्देशं ते सुतः प्रतिवीक्षते ॥१७॥

नेति- अयं तव भक्तः पुत्रः तनौ शरीरे सुधाधारावर्षात् सहस्रारामृतसम्पा-तात् न मुदितः न सन्तुष्टः । शरीरे योगबलादमृतवर्षेण सन्तोषहेतो सत्यपि न भवति मे सन्तोषः। मधुमदमुषां मधुनो मकरन्दस्य मदं गर्व मुष्णन्ति चोरयन्तीति मधुमदमुषः तासां वाचां सर्गात् सर्जनादित्यर्थः, अयं कवि!द्धतः प्रगल्भः, रसोत्तरकाव्यनिर्मित्या सत्यप्यौद्धत्यहेतौ औद्धत्यं मे न भवति । तव पदयुगे चरणारविन्दे निष्ठालाभात् च स्थितिप्राप्तेरित्यर्थः, अयं न तृप्यति पदयुगनिष्ठालाभेन तृप्तिहेतौ सत्यपि नास्ति मे तृप्तिः। भगवति ! सन्देशं तव वाचिकं चिरात् बहोः कालात् ते तव पुत्त्रः प्रतिवीक्षते प्रतिपालयन्नास्ते॥

अत्र आद्यपादत्रये, कारणेषु शरीरेऽमृतवर्षादिषु सत्स्वपि, कार्याणां मुदि-त्वादीनामदर्शनात् विशेषोक्तिरलङ्कारः, ’कार्याजनिर्विशेषोक्तिः सति पुष्कल-कारणे’ इति तल्लक्षणात् । चतुर्थपादगतवाक्यार्थेन देवीसकाशात् सन्देश-प्रतीक्षणेन हेतुना आद्यपादत्रयगतवाक्यार्थानां तनौ मुदितत्वाभावादीनां समर्थ-नात् काव्यलिङ्गम्। तस्य विशेषोक्तिस्त्वङ्गम्। नीरक्षीरन्यायेनोभयोर्मेलनात् अङ्गाङ्गिभावेन सङ्करः ॥१७।।

किमिह भुवने कर्तव्यं मे किमर्थमिहागतो-ऽस्म्यवनि जगतां कं वोपायं श्रये निजशक्तये ॥
किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते स्फुटमभयदे वक्तुं किञ्चिच्छमं त्वमुरीकुरु ॥१८॥

किमिति- अभयदे सर्वभयेभ्यो रक्षिके ! इह भुवने भूलोके मम मे कि कर्तव्यम् ? इह किमर्थम् आगतः, जन्म प्राप्तवान् ? जगताम् अवनि रक्षिके ! निजशक्तये स्वीयशक्तिलब्ध्य कं वा उपायं साधनं श्रये आश्रये? किमपि किमपि यत्किञ्चित् मया चिन्तयितुम् अशक्यं त्वया तु दर्शयितुं शक्यं तत्त्व-मित्यर्थः, यथा येन प्रकारेण मम स्वान्ते मनसि ध्वान्ते अन्धकारे अपि परि-दृश्यते तथा स्फुट प्रकाशं निस्सन्देहं वक्तुं किञ्चिदीषत् श्रमं प्रयासम् उरी-कुरु अङ्गीकुरु ॥१८॥

न मम परमे मुक्तावाशा न वा विभवाष्टके न च गजघटापूर्णायां वा महेश्वरि सम्पदि ॥
न च मधुमुचां वाचां सर्गे निरर्गलवैभवे मुनिभुवि कुतो जातः सोऽहं तदेव समीर्यताम् ॥१९॥

नेति- परमे श्रेष्ठे अम्ब ! मम मुक्तौ मोक्षे इत्यर्थः, आशा दीर्घा तृष्णा न अस्ति इति शेषः, ’आशा तृष्णाऽपि चायता’ इत्यमरः। विभवाष्टके अणि-माद्यष्टैश्वर्ये वा नास्त्याशा। महेश्वरि ! गजघटापूर्णायां गजसमूहसमृद्धायां सम्पदि श्रियां च नास्ति आशा। मधुमुचां मकरन्दनिःष्यन्दिनीनां वाचां गिरां निरर्गलवैभवे निष्प्रतिबन्धसमृद्धसम्पाते सर्गे सर्जने च इत्यर्थः, नास्त्याशा । मुनिभुवि ऋषीणां भूखण्डे अस्मिन् भारतभूमौ स त्वत्पुत्त्रोऽहं कुतो जातः ? ममेह जनने किं कारणम् ? तदेव कारणं समीर्यताम्, उच्यतां त्वयेति शेषः ॥१९॥

प्रथममनघं वाञ्छाम्यन्नं सदारसुतातिथे-भगवति ततः पादद्वन्द्वे तवाविचलां स्थितिम् ॥
अथ सुरजगद्वार्ताज्ञानं सवित्रि ततः पर मुनिभुवि भवे हेतुं ज्ञातुं मृगाक्षि पुरद्विषः ॥२०॥

प्रथममिति- भगवति ! प्रथमम् आदौ सदारसुतातिथेः दाराः भार्या सुताः पुत्त्राः अतिथयः आगन्तवश्च तैः सह वर्तते इति सदारसुतातिथिः तस्य ममेति शेषः, अनघम् अदुष्टं पावनम् अन्नं वाञ्छामि, इच्छामि । ततः अनन्तरं तव पादद्वन्द्वे अविचलां स्थिरां स्थिति निष्ठां वाञ्छामीति शेषः। पुरद्विषः मृगाक्षि पुरारिसुन्दरि पार्वति ! अथ तदनन्तरं सुरजगद्वार्ताज्ञानं देवलोकवृत्तान्त-ज्ञानं वाञ्छामि। ततः परं मुनिभुवि भारतदेशे भवे मम जन्मनि विषये हेतुं ज्ञातुं वाञ्छामि। एवं मम वाञ्छापरम्परा भवति ॥२०॥

यदि तव कृपा पुत्रे भक्ते पदाम्बुजवन्दिनि व्रतशतकृशे शोर्षाम्भोजामृतं त्वयि जुह्वति ॥
भरतधरणीसेवालोले भवप्रियभामिनि स्वयमुपदिशामुष्मै योग्यं विधानमनाविलम् ॥२१॥

यदीति- भवप्रियभामिनि शिवप्रियजाये अम्ब ! पदाम्बुजवन्दिनि पादा-रविन्दस्तोतरि, व्रतशतकृशे व्रतशतैः व्रतानां नियमानां शतैः बहुभिः कृच्छ -राहारादिनियमैः कृशे शरीरे शीर्षाम्भोजामृतं सहस्रारनिःष्यन्दि अमृतं त्वयि देव्यां जुह्वति होमं कुर्वति, भरतधरणीसेवालोले भारतभूमिकैकर्यनिरते भक्ते पुत्त्रे तव कृपा करुणा अस्ति यदि, स्वयं त्वम् अमुष्मै पुत्राय अनाविलम् अकलुषं स्वच्छमिति यावत्, योग्यम् उचित विधानं विधि पद्धतिमित्यर्थः उपदिश ॥२१॥

जननि जगतां स्वल्पे कामेऽप्ययं त्वयि लम्बते पुरभिदबले मध्य कामेऽप्ययं त्वयि लम्बते ॥
बहुलकरुणे श्रेष्ठे कामेऽप्ययं त्वयि लम्बते भगवति परे वीते कामेऽप्ययं त्वयि लम्बते ॥२२॥

जननीति- जगतां जननि मातः ! अयं जनः कामे स्वल्पेऽपि त्वयि उम्बते त्वाम् एव आश्रयते। पुरभिदबले इन्द्रसुन्दरि ! कामे मध्येऽपि नाल्पे मानल्पे वा त्वयि लम्बते। बहुलकरुणे बहुकृपे ! श्रेष्ठ उत्तमे कामेऽपि अयं नः त्वयि लम्बते। भगवति परे अम्ब! कामे वीतेऽपि विगतेऽपि अयं त्वयि सकामो वा निष्कामो वा त्वामेवाश्रितोऽस्मि । सर्वोऽपि भारो या त्वत्पादारविन्दयोरेव न्यस्त इति भावः ॥२२॥

लम्बते। तनुभुवि मयि प्रीत्या वाऽम्ब त्रिलोकविधायिके पदयुगरते वात्सल्याद्वा पुरारिपुरन्धिके ॥
स्वविमलयशोगानासक्ते कृपावशतोऽथवा परुषमजरे मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् ॥२३॥

तन्विति- त्रिलोकविधायिके त्रिजगद्धात्रि ! मयि तनुभुवि पुत्त्रे प्रीत्या T, पुरारिपुरन्ध्रिके शिवप्रेयसि ! पदयुगरते चरणभक्ते, वात्सल्यात् भक्ता-रागाद्वा, अथवा स्वविमलयशोगानासवते त्वदीयपावनकीतिगानरते कवौ पावशतः कारुण्याद्वा अथवा, भोः अजरे जरारहिते देवि ! परुषं कठिनं घोरं । मौनम् अवचनत्वं त्यक्त्वा मे मम गति गन्तव्योपायं स्फुटीकुरु प्रकाशय । तिस्तु गमने मार्गे दशाय बुद्धयुपाययोः’ इति नानार्थरत्नमाला ॥२३॥

जयतु भरतक्षोणीखण्डं विषादविजितं जयतु गणपस्तस्य क्षेमं विधातुमना मुनिः ॥
जयतु रमणस्तस्याचार्यों महर्षिकुलाचलो जयतु च तयोर्माता पूता महेशविलासिनी ॥२४॥

जयत्विति- भरतक्षोणीखण्डं भारतखण्डं विषादविवर्जितं दुःखशून्यं सत् यतु उत्कर्षेण वर्तताम् । तस्य भारतखण्डस्य क्षेमं कल्याणं विधातुमनाः वधातुं कर्तुं मनः यस्य सः मुनिस्तपस्वी गणपः गणपतिः जयतु। तस्य गण-’तेर्मुनेराचार्यः महर्षिकुलाचलः महर्षिः कुलाचल इव हिमवानिव धृत्यादिगुण- गणहिमवतोपमेयो रमणः जयतु। तयोर्माता गणपति-रमणयोर्माता जननी पूता महेशविलासिनी महेश्वरकुटुम्बिनी जयतु । अत्र उत्तरोत्तरस्य पूर्व-पूर्वविशेषणभावेन भरतखण्ड-तत्क्षेमविधायि-तदाचार्य-तन्मात्रन्तानां गृहीत-मुक्तरीतेरेकावलिरलङ्कारः । ’गृहीतमुक्तरीत्याऽर्थश्रेणिरेकावलिर्मता’ ॥२४॥

गणपतिमुनेरेषा भाषा विदां हृदयङ्गमा सुकविसुहृदः शब्दरत्युज्ज्वला हरिणीततिः ॥
ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं मदयतु मनः कामारातेनिगान्तमृगीदृशः ॥२५॥

गणपतीति- सुकविसुहृदः सुकवीनां सरससत्कवीनां सुहृत् प्रियस्तस्य गणपतिमुनेः एषा भाषा वाणी विदां विदुषां हृदयङ्गमा रमणीया शब्दैः प्रयुक्तः अत्युज्ज्वला बहुशोभमाना हरिणीततिः हरिणीवृत्तनिबद्धस्तुतिविततिः ललित-चतुरैः ललितैः कोमलैः चतुरैः पटुभिः भावैः अभिप्रायैः सुरूपवनान्तरं सुरूपाः बुधाः वनानीव सुरूपवनानि तेषाम् अन्तरं हृदयं यान्ती गच्छन्ती ’प्राप्तरूप-सुरूपाभिरूपा बुधमनोज्ञयोः’ इत्यमरः । कामारातेः शिवस्य निशान्तमृगीदृशः गृहसुन्दर्याः मनः मदयतु हर्षयतु ।।

अत्र श्लेषः । तस्मात् पक्षे हरिणीततिः मृगीणां ततिः ललितचतुरैः कोमलैः कुशलश्च भावः रमणीयभावैः सुरूपवनान्तरं सुरूपस्य मनोज्ञस्य वनस्य अन्तरं अन्तः यान्ती प्रविशन्ती मृगीदृशः मनो मदयतु । यथा हरिणीततिः कोमलचतुरभावैः सुन्दरं वनं प्रविशन्ती मृगीदृशः ननो भदयति तथा एषा हरिणीततिर्भाषा पार्वतीमनो मदयतु इति भावः । अन्यद्वयाख्यातम् । एवं श्लेषोत्थापित उपमाध्वनिः ॥२५॥

चतुस्त्रिशः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates