ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




दशमः स्तबकः

अथ दशमः स्तबको भगवत्याः केशादिपादान्तस्तुतिपरः सङक्षालनायेत्या-दना आरभ्यते॥

सङक्षालनाय हरितां विभूतये लोकत्रयस्य मदनाय धूर्जटेः॥
कात्यायनीवदनतः शनैः शनै- निर्यन्ति शुभहसितानि पान्तु नः॥१॥

सङक्षालनायेति-- हरितां दिशां सङक्षालनाय विमलीकरणाय, लोक-यस्य त्रिभुवनस्य विभूतये ऐश्वर्याय, धूर्जटे: हरस्य मदनाय कामाय, कात्या-बनीवदनतः कात्यायन्याः दुर्गायाः वदनत: मुखात् शनैः शनैः मन्दं मन्दं निर्य-न्त निर्गच्छन्ति, निरुपसर्गाद् गत्यर्थकाद् अदादेः इधातोः शतरि परे निर्यदिति पम्, तस्य नपुंसकप्रथमाबहुवचनान्तं निर्यन्ति, शुभ्रहसितानि नः पान्तु रक्ष-तु। जगन्नैर्मल्यैश्वर्य-शिवसाहचर्यसम्पादकानि भगवतीमन्दहसितान्यस्मद्रक्ष-कत्वेन स्तुतानि । अत्र हरितां सङक्षालनायेत्यादिना हेतुमता हेतोः शुभ्र-इसितानां वर्णनात् हेतुरलङ्कारः । तथा चोक्तं चन्द्रालोके हेतोर्हेतुमता साधू वर्णनं हेतुरुच्यते। असावुदेति शीतांशुर्मानच्छेदाय सुध्रुवाम् इति। अथ च शुभ्रहसितानां हरित्सङक्षालन-लोकत्रयविभूति-धूर्जटिभदनार्थकत्वेन बहुधोल्लेख-दुल्लेखालङ्कारः। तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्कारयोः हेतूल्लेख-पोर्मेलनात् उभयोः संसृष्टि: ।।१।।

स्वल्पोऽपि दिक्षु किरणान्प्रसारयन् मन्दोऽपि बोधममलं दधत्सताम् ॥
शुभ्रोऽपि रागकृदनङ्गवैरिणो हासः पुराणसुदृशः पुनातु नः॥२॥

स्वल्पोऽपीति-- स्वल्पोऽपि सुतरामल्पो लघुरपि दिक्षु सर्वासु किरणान् शुन् प्रसारयन प्रसृतान् कुर्वन् मन्दोऽपि अलसोऽपि सतां सज्जनानाम् अमलं शुद्धं बोधं दधत् धारयमाणः, शुभ्रोऽपि धवलोऽपि अनङ्गवैरिणः कामशत्रोः शवस्य रागकृत् शोणवर्णकारः, पुराणसुदृशः पुराणी पुरातनी सुदृक् सुन्दरी स्या उमायाः हासः नः पुनातु विशुद्धान् करोत्वित्यर्थः । स्वल्पस्य हासस्य सर्वत्र प्रसारणे विरोधः, तस्य स्वाभाविकत्वेन विरोधपरिहारः । मन्दस्य सद्वोधधाने विरोधः । अत्रापि भगवतीहासस्य स्वाभाविकत्वेन परिहारः । शुभ्रो रागकृद्रञ्जक इति विरोधः, अनुरागकृदिति श्लेषमूलको विरोधाभासः । सर्वत्र विरोधाभासोऽलङ्कारः ॥२।।

चेतोहरोऽप्यतिजुगुप्सितो भवेत् सर्वोऽपि जीवकलया यया विना॥
सा वर्ण्यतां कथसपारचारुता- पीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥३॥

चेतोहर इति-- यया जीवकलया विना जीवधात्री जीवनाधायिनी कला सुषमा तया विना जीवनाधानसुषमा वर्जयित्वेति यावत् ‘जीबो बृहस्पतिप्राण-जीवनात्मखगेषु वा’ इति नानार्थरत्नमाला। कला चागमसिद्धायां विद्यायां च वर्तते। ’अंशमात्रे मूलवृद्धौ सुषमा-विद्ययोस्तथा’ इति त्रिकाण्डशेषः । इह कलाशब्देन सुषमाग्रहणमेव रमणीयम्, अखिलेन्द्रसुन्दरीविशेषणानुरूप्यात् । चेतोहरोऽपि मनोहरोऽपि सर्वोऽपि लोक: अतिजुगुप्सितो भवेत् जुगुप्सावहो भवेत्। अपारचारुतापीयूषसिन्धुः चारुता सुषमैव पीयूषममृतं तन्मयः सिन्धुः सागरः चारुतापीयूषसिन्धुः अपारोऽनवधिः चारुतापीयूषसिन्धुः अनवधिसौन्दर्या-मृतराशिः सा अखिलेन्द्रसुन्दरी अखिलेन्द्रस्य सर्वेश्वरस्य सुन्दरी देवी कथं वर्ण्यतां, कथं तादृशी भगवती वर्णनविषयतां गच्छेत् ? नेति भावः। अव्यय-लावण्यामृतराशिभगवत्येव सा जीवनशोभा यामन्तरेण बीभत्सरसावहो भवति सर्वोऽपि लोकः। यस्यां मूलकलायां चारुतायां सत्यां जीवनस्य सम्भवः; सत्येव जीवन अन्यानि अङ्गानि रमणीयानि शासन्ते । तस्मात् सर्वेषाम् अङ्ग-सौन्दर्याणां मूलम् अङ्गिनः सौन्दर्य, तच्च जीवकलेति बोध्यम् । शरीरात् अपेते मूलसौन्दर्ये मृतस्य शरीरस्य अङ्गानां सौन्दर्याणि कथं कस्मै वा रोचेरन् ? वैरस्यं एव जनयेयुः। जीवकलासम्पन्न एव अङ्गिनि अङ्गानां सारस्यं सम्पद्यते। अङ्गानां अङ्गिना जीवकलावता संवादादेव तेषां प्रत्येकं साकल्येन च रामणीयकनिष्पत्तिरिति बोध्यम् । सर्वं मृतमसुन्दरमेव विरसम्। सम-रसं सरसं न सौन्दर्य जीवनभतममतं. यदखिलेन्द्रसुन्दरीस्वरूपमिति दिक् ।।३।।

अत्र स्तबके भगवत्याः केशादिषादान्तां स्तुतिमारभमाण: सर्वसौन्दर्य पल-कलां तां वस्तुतो वर्णयितुं न कोऽपि प्रभुरिति उपक्रमं कुरुते ।।

अत्यल्पदेववनितां च पाथिवै र्भावैर्वयं तुलयितुं न शक्नुमः॥
तां किं पुनः सकलदेवसुन्दरी- लोकाक्षिपारणतनुप्रभामुमाम् ॥४॥

अत्यल्पेति-- अत्यल्पदेववनिताम् अत्यल्पां सामान्यां देववनितां देवाङ्गनां । गन्धर्वादिसाधारणसुरसुन्दरीम् अपि पार्थिवैः पृथिव्या इमे पार्थिवाः भौमाः र्भावैः पदाथैः भूलोकगतरमणीयवस्तुभिरित्यर्थः तुलयितुं समीकर्तुं न शक्नुमः प्रभवामो वयं मानुषाः कवयः । तां प्रक्रान्तां सकलस्य देवसुन्दरीलोकस्य क्ष्णां पारणं व्रतान्तभोजनम् सन्तर्पणमिति यावत् तनुप्रभा शरीरशोभा यस्याः i सकलदेवसुन्दरीलोकाक्षिपारणतनुप्रभाम् उमां देवीं किं पुनः तुलयितुं क्नुमः ? नैव शक्नुमः इत्यर्थापत्तिः । सामान्यसुरसुन्दरीवर्णनेऽप्यशक्तानां भू-थानां सकलसुरसुन्दरीनयनामृतायमानदेहकान्ति भगवतीम् ईदृशीति वर्णयितुं तः शक्तिः ? ॥४॥

वर्षापयोदपटलस्य सान्द्रता सूर्यात्मजोमिचयनिम्नतुङ्गता ॥
कालाहिभूमिपतिदीर्धता च ते केशेषु भर्गभवनेश्वरि त्रयम् ॥५॥

वर्षेनि--- वपपियोदश्टलस्य वर्षासु प्रावृट्काले पयोदानां मेघानां पटल-च समूहस्य सान्द्रला निविडता, सूर्यात्मजोमि चयनिम्नतुङ्गता सूर्यात्मजाया मुनागा मिचयस्य तरङ्गाटलस्य निम्न-तुङ्गता उन्नतानतता भङ्गिमत्तेति वित्, कालाहिभूमिपतिदीर्घना काल: कृष्णः अहिभूमिपतिः सर्पराजः नागराज त्यर्थः तस्य दीर्घना आयतता, अयम् उक्तवैशिष्ट्या सान्द्रता निम्न-तुङ्गता र्घता चेत्येतत्त्रयं भर्गभवनेश्वरि हरगहिणि देवि, ते तव केशेषु वर्तत इति नयापदमध्याहार्यम्। प्रावृषेण्यपयोदपटले सान्द्रतामात्रं यमुनावीविषु निम्न-ङ्गतैव, शेषे च दीर्घतव, त्रयोप्येते उपमानधर्माः कचेषु भगवत्याः । एवं इनाम् उपमानधर्माणाम् एकत्र केशेषु समावेशान्मालोपमा, ‘मालोपमा यदेकस्यो-मानं बहु दृश्यते’ इति साहित्यदर्पणे तल्लक्षणोक्तेः। ॥५॥

ईशानसुन्दरि तवास्टमण्डला नीचैनितान्तममृतांशुमण्डलम् ॥
को वा न कीर्तयति लोष्टपिण्डक लोके निकृष्टमिह मानवीमुखात् ॥६॥

ईशानेति-- ईशानसुन्दरि ! ईश्वरकान्ते तव आस्यमण्डलात् मुखबिम्बात् मृतांशुमण्डलं चन्द्रबिम्बं नितान्तभत्यन्तं नीचैः अधो निकृष्टमिति यावत् । ह लोके मानवीमुखात् मानुषीवदनात् लोष्टपिण्डकं मृत्पिण्डं निकृष्टम् अधमं धेयविशेषणं को वा न कीर्तयति ? सर्वेऽपि मानुषीमुखान्निकृष्टमेव मृत्पिण्डं कथयेयुः, जीवन्त्याः सुन्दर्या मुखस्य जडस्य मृत्पिण्डस्य च यावदन्तरं भवति तावद्वक्तव्यम् उमास्यमण्डलेन्दुमण्डलयोरिति भावः । अत्रास्यमण्डल-चन्द्रमण्डल-योबिम्बयो: मानवीमुखलोष्टपिण्डकगतप्रतिबिम्बभावेन दृष्टान्तोऽलङ्कारः । तेन प्रकृतस्य समर्थनीयस्य चन्द्रमण्डलनिकृष्टत्वस्य समर्थनात अर्थान्तरन्यासः । प्रकृतार्थसमर्थनस्य अर्थान्तरन्यासस्य प्राधान्यात्तदुपयोगी दृष्टान्तश्चाङ्गम् । एवं दृष्टान्तार्थान्तरन्यासयोरङ्गाङ्गिभावेन सङ्करः॥६॥

बिभ्रत्यमर्त्यभुवनस्थदीपिका पङ्कहाणि वदनाय ते बलिम् ।
नो चेत्कथं भवति सौरभं मह- द्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥७॥

बिभ्रतीति उरुकेशि ! उरवः पृथुला: केशाः यस्याः तस्याः सम्बुद्धिः, अमर्त्य भुवनस्थदीर्घिकापङ्केरुहाणि अमर्त्य भुवनस्थानां स्वर्गलोकस्थानां दीधिकाणां वापीनां पङ्केरुहाणि जलजानि ते तव वदनाय वदनकृते बलिम् उपहारं ’करोपहारयोः पुंसि बलि:’ इत्यमरः । बिभ्रति धारयन्ते। एवं न चेत्, सुमेभ्यः पुष्पेभ्यः भिन्ने इतरस्मिन् ते तव मुखे वक्त्रे महत् सौरभं सौगन्ध्यं कथं भवति ? तव मुखं पुष्पं न भवति, तथाऽपि पुष्प-सौरभं तत्र वर्तते, तस्य हेतुर्वर्तत। सुरलोकवापीवारिजातानि आत्मानं तव बलित्वेनार्पयन्ति । अत एवेदृशं महत्सौरभम् अपुष्पम्य त्वन्मुखस्येति हेतुत्व-सम्भावनया गम्या हेतूत्प्रेक्षा ॥७॥

गीर्वाणलोकतटिनीजलेरुहां गन्धे शुभे भवतु ते मनोरतिः॥
लोकाधिराज्ञि तव वक्त्रसौरभे लोकाधिराजमनसस्तु सम्मदः ॥८॥

गीर्वाणेति- लोकाधिराज्ञि! विश्वेश्वरि, गीर्वाणलोकतटिनीजलेरुहां गीर्वाणलोकस्य देवलोकस्य तटिन्याः नद्याः जलेरुहां पद्मानां शुभे शोभने गन्धे परिमले ते तव मनोरतिः भवतु चित्तं रमतामिति यावत् । लोकाधिराज-मनसः लोकाधिराजस्य विश्वेश्वरस्य तव कान्तस्य मनसश्चित्तस्य सम्मदः प्रीतिस्तु तव वक्त्रसौरभे वदनपरिमले। तथाविधं सकलमनोहरसुरलोक-सुमनस्सौभाग्यातिशायी लोकाधिराजमनस्सम्मादको मुखगन्ध उत्तमायाः पद्मि-न्यास्तवेति भावः ॥८॥

को भाषतां तव सवित्रि चारुतां यस्याः स्मितस्य धवलद्युतिर्लवः॥
यस्याः शरीररुचिसिन्धुबीचयः शम्पालताः पृथुलदीप्तिभूमयः ॥९॥

क इति- सवित्रि ! जननि, तव चारुतां रुचिरतां को भाषतां को वा यतु ? न कोऽपीत्यर्थः। तत्र चारुताभाषणाशक्तौ हेतुमाह । यस्यास्तव तस्य लवः लेशः धवलद्युतिश्चन्द्रः, यस्यास्तव शरीररुचिसिन्धुवीचयः शरीर-यः देहप्रभा एव सिन्धुस्तटिनी तस्याः वीचयस्तरङ्गा इव पृथुलदीप्ति-यः पृथुला विपुला दीप्तिभूमयः द्युतिप्रदेशाः यासां ताः शम्पालताः विद्युल्लताः न्तीति शेषः । भगवत्याः मन्दस्मितलेश एव चन्द्रः, तरङ्गिणीभङ्गोपम-प्रभा एव विपुलप्रकाशदेशाः विद्युल्लता इति उभयत्र स्मितचन्द्रयोः देह-व-विद्युल्लतानां च तादात्म्याध्यवसायाद्रूपकमलङ्कारः । भगवत्याः स्मित-स्येन्दुरूपत्वात् शरीररुचीनां विद्युद्रूपत्वाच्च भगवत्याः ब्रह्माण्डशरीरत्वं ज्यते। तथा चोक्तं शिवशतके- ’बिम्बं मेचकतोयजातसुहृदो मन्दस्मितं दरम्’ इति। शरीरप्रभव विद्युत्, विद्युदेव शरीरं देव्या इति चेह ग्रन्थे पत्र, इन्द्राणीसप्तशत्यां च द्रष्टव्यम् ॥९॥

लोकाम्बिके न विलसन्ति के पुरो मन्दस्मितस्य तव रोचिषां निधेः॥
ये तु व्यधायिषत तेन पृष्ठतो हन्तैषु कापि तिमिरच्छटा भवेत् ॥१०॥

लोकाम्बिके इति- लोकाम्बिके ! जगन्मातः रोचिषां निधेः सर्वासां त्विषाम् करस्य तव मन्दस्मितस्य पुरः पुरस्तात् के वा न विलसन्ति, तव मन्दस्मित-शे सर्वेऽपि प्रकाशा भवन्ति। ये तु तेन मन्दस्मितेन पृष्ठतः व्यधायिषत चान्निहिताः अधःकृता इति भावः, व्यधायिषत, विपूर्वकस्य दधातेः कर्मणि ङ प्रथमपुरुषबहुवचनान्तं रूपम् । एषु तेषु काऽपि एवंलक्षणेति वक्तुमशक्या मिरच्छटा तिमिरस्य तमसश्छटा परम्परा भवेत्। हन्त खेदे, पापम् । तेजोनिधेः स्मितस्य पुरः स्थिताः तेजस्विनो भवेयुः । तेन पृष्ठतः कृतेषु वासा काऽपि तमःपरम्परेति भावः। अनेन निग्रहानुग्रहप्रभावातिशयसम्पन्नं दस्मितमिति भावः ॥१०॥

क वा रदावलिरुचिर्मुखस्य किं सम्फुल्लता करधियः किमूमिका ॥
मन्तोषपादपसुमं नु शङ्कर प्रेमस्वरूपमुत देवि ते स्मितम् ॥११॥

किं वेति- देवि ते तव स्मितं रदावलिरुचिः दन्तपङक्तिप्रभा वा कि ? मुखस्य वदनस्य सम्फुल्लता विकासिता किम् ? वरधियः प्रशस्तप्रज्ञायाः ऊर्मिका ऊमिरेव ऊमिका वीचिः किम् ? ’अङगुलीयकमूर्मिका’ इति अङगुलीयक-पर्यायतया गृहीते बुद्धेः अगुलीयकमिति भावस्यासङ्गतिरचमत्कारिता च । सन्तोषपादपसुमं सन्तोष एव पादपो वृक्षस्तस्य सुमं पुष्पं नु वितर्के। अथवा शङ्करप्रेमस्वरूपं शङ्करस्य प्रेम्णस्त्वद्गतस्य स्वरूपं स्वभावो वेति वितर्कः। रदावलिरुच्यादिभिश्चतुर्धा स्मितस्य वितळमाणत्वात् सन्देहा-लङ्कारः, ’सादृश्यमूला भासमानविरोधका समबला नानाकोटयवगाहिनी धी-रमणीया ससन्देहालङकृतिः’ इति पण्डितराजः ॥११॥

दिक्षु प्रकाशपटलं वितन्वता कोटिप्रभाकरविभक्ततेजसा ।
नेत्रेण ते विषमनेत्रवल्लभे पडूरुहं क उपमाति पण्डितः ॥१२॥

दिक्ष्विति- विषमनेत्रवल्लभे! त्रिनेत्रकान्ते पार्वति, दिक्षु प्रकाशपटलं प्रकाशसमूहं वितन्वता विस्तृण्वता कोटिप्रभाकरविभक्ततेजसा कोटि: प्रभाकराः सूर्याः तैविभक्तं स्वभागत्वेन प्राप्तं तेजो यस्य तेन ते तव नेत्रेण लोचनेन पङ्केरुहं पङ्कजातं कमलं कः पण्डितो बुधः ’उपमाति समीकरोति ? सर्व-दिग्व्यापिप्रसारं कोटिसूर्येभ्यो विभज्य दत्तस्वतेजोभागं त्वन्नेनं क्व ? पङ्क-जातं पद्मं क्व ? को वा विबुधस्तथाविधेन त्वन्नेत्रेण पङ्कजं तुलयति ? न कोऽपीत्यर्थः। विषमालङ्कारः ’विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः’ इति तल्लक्षणात् ॥१२॥

श्रीकर्ण एष तव लोचनाञ्चले भान्त्या दयादयितया प्रबोधितः॥
एतं सवित्रि मम कञ्चन स्तवं श्रुत्वा तनोतु भरतावनेः श्रियम् ॥१३॥

श्रीकर्ण इति- सवित्रि ! मातः एष तव श्रीकर्णः, नामाख्यानात्पूर्वं श्री-शब्दो माननार्थं प्रयुज्यते श्रोत्रमिति यावत्, ’श्रोत्रं सम्पत्’ इति श्रुतेः, श्रीरेव कर्णः श्रीकर्णः लोचनाञ्चले नेत्रप्रान्ते कटाक्ष इत्यर्थः, भान्त्या शोभमानया दयादयितया दया अनुकम्पा दयिता प्रियेव तया प्रबोधितः त्याजितनिद्रः सन् एतं मम कञ्चन स्तवं स्तोत्रविशेषं श्रुत्वा आकर्ण्य भरतावनेः भारतानाम् अवनेः भूमेः भरतखण्डस्येति यावत्, श्रियं तनोतु विदधात्वित्यर्थः। अत्र श्रीयुतः कर्णः श्रीकर्ण इति च विग्रहीतुं शक्यम्। तर्हि श्रीकर्णस्य भारत-श्रीतननं युक्तम् । अत्रेदमवधेयम्। कविकृतिषु पद्येषु केषुचित्खिलेषु इदं पद्यं दृश्यते- ’नेत्रादपि ते श्रोत्रं सुमशरशत्रोः पुरन्धि मुख्यं नः। श्रोत्रे स्तोत्राद्विमुखे नेत्रं नतगात्रि किं कुरुताम्’ इति । अत एव कटाक्षस्थया दयादयितया कर्णः प्रबोधितः स्तवमाकर्णयत्वित्युक्तम्। आकर्णनमात्रेण तस्य श्रीमयत्वात् भरतावनिश्रीतननं सुकरम् ॥१३॥

स्वा नासिका भवति युञ्जतां सतां संस्तम्भिनी चलतमस्य चक्षुषः॥
त्वन्नासिका पुरहरस्य चक्षुषः संस्तम्भिनी भवति चित्रमम्बिके ॥१४॥

स्वेति- अम्बिके ! युञ्जतां योगसाधनं कुर्वतां सतां जनानां स्वा स्वीया नासिका नासा चलतमस्य चञ्चलतमस्य चक्षुषः नयनस्य संस्तम्भिनी स्थैर्य-धात्री भवति। नासाने दृष्टि निधाय ध्यायतो योगिनः निमेषोन्मेषवर्जितं भवतीक्षणमिति योगिनां मतम्। तस्माद्योगिनः नासा स्वचक्षुस्संयमाय भवति । तव तु नासा अन्यस्य चक्षुषः स्तम्भनाय इत्युत्तरार्धेनाह। त्व-नासिका तव नासा तु पुरहरस्य शिवस्य चक्षुषः संस्तम्भिनी भवति चित्रमाश्चर्यमेतत्। भगवतीनासाग्ररामणीयकनिमग्ना हरस्य दृष्टिरिति भावः । अत्र कार्यस्य पुरहरचक्षुस्संस्तम्भनस्य तद्धेतोः अम्बिकानासिकायाश्च भिन्न-देशत्वादसङ्गतिः अलङ्कारः । ’विरुद्ध भिन्नदेशत्वं कार्य हेत्वोरसङ्गतिः’ इति तल्लक्षणात् ॥१४॥

बिम्बप्रवालनवपल्लवादितः पीयूषसारभरणाद् गुणाधिकः॥
गोत्रस्य पुत्रि शिवचित्तरञ्जकः श्रेष्ठो नितान्तमधराधरोऽपि ते ॥१५॥

बिम्बेति- गोत्रस्य पर्वतस्य पुत्रि! देवि बिम्बप्रवालनवपल्लवादितः बिम्बं रक्तं बिम्बिकाफलं प्रवाल: रक्तो रत्नविशेषः नवपल्लवः रक्तो नव-किसलयश्च आदिः प्रथमः अम्येति बिम्बप्रवालनवपल्लवादिः तद्गुणसंविज्ञानो बहुव्रीहिः तस्मात् पञ्चम्यास्तसिल, पीयूषसारभरणात् अमृतरसभरत्वाद्धेतोः गुणाधिक: गुणेनामृतधरत्वगुणेनाधिक: गरीयान् अत एव शिवचित्तरञ्जक: हरहृदयस्य रञ्जक: सन्तोषणः रागस्य जनको का अधराधरोऽपि अधरः नीचस्तनः अधरोऽधरोष्ठोऽपि नितान्तम अत्यन्तं श्रेष्ठः। रक्ताद्विम्बफलादेरपि अमृतधरत्वाद् गुणाधिकः उपमानोपमेययोः बिम्बाद्यधरयो रक्तिम-मार्दवादिसाधर्म्य सत्यपि उपमेये पीयूषसारभरणस्य विशेषस्य सत्त्वाद्वयतिरेकोऽलङ्कारः। अधराध-रोऽपि श्रेष्ठः इति विरोधः। शिवचित्तरञ्जकत्वात् श्रेष्ठत्वे विरोधः परिहृत इति विरोधाभासः। व्यतिरेक-विरोधाभासयोरङ्गाङ्गिभावेन सङ्करः ॥१५॥

दोर्वल्लिके जननि ते तटित्प्रभा मन्दारमाल्यमृदुतापहारिके॥
निश्शेषबन्धदमनस्य धूर्जटे बंन्धाय भद्रचरिते बभूवतुः॥१६॥

दोर्वल्लिके इति- जननि, भद्रचरिते भद्रं मङ्गलं चरितं शीलं यस्याः तस्याः सम्बुद्धिः, तटित्प्रभामन्दारमाल्यमृदुतापहारिके अपहरन्त्याविति अप-हारिके, तटितो विद्युतः प्रभाया मन्दारमाल्यस्य सुरलोकजस्य मन्दारपुष्पस्य च मृदुतायाः कोमलताया अपहारिके ते तव दोर्वल्लिके वल्ल्यावेव वल्लिके लते, वल्लिके इव दोषौ भुजौ, दोर्वल्लिके। निश्शेषबन्धदमनस्य दमयतीति दमनः निश्शेषबन्धस्य समस्तबन्धस्य दमनस्य सर्वबन्धविनिर्मोचकस्य इत्यर्थः, धूर्जटेः शिवस्य बन्धाय बभूवतुः। विद्युत्प्रभा-मन्दारमाल्याभ्यामपि मृदुलतरे तव भुजलते सर्वबन्धनिवारकस्यापि हरस्य बन्धाय आसतुः इति विरोधः प्रेम-कृताय बन्धायेति विरोधाभासः ॥१६॥

हस्ताब्जयोस्तव मृदुत्वमद्भुतं गृह्णाति ये सदयमेव धूर्जटिः॥
अत्यद्भुतं जननि दाढर्चमेतयोः शुम्भादिदर्पविलयो ययोरभूत् ॥१७॥

हस्ताब्जयोरिति- जननि, तव हस्ताब्जयोः करकमलयोः मृदुत्वं मृदु-लता अद्भुतम् आश्चर्यकरम्। ये हस्ताब्जे कर्मणी, धूर्जटि: हरः सदयमेव गृह्णाति, दृढं ग्रहणे हस्तयोः व्यथा स्यादिति भिया अतिमृदुलस्पर्श तव हस्ताब्जग्राही भगवान् । तथाऽपि एतयोः हस्ताब्जयोर्दाढयं दृढता अत्युद्भुतं कथम् ? ययोः हस्ताब्जयोः शुम्भादिदर्पविलयोऽभूत् शुम्भादीनामसुराणां दो मदस्तस्य विलयो विनाशोऽभूत्। अत्रापि विरोधस्य स्वाभाविकेन हस्ताब्ज-प्रभावेण परिहारः ॥१७॥

राजन्तु ते कुचसुधाप्रपायिनो लोकस्य मातरनघाः सहनशः॥
एतेषु कश्चन गजाननः कृती गायन्ति यं सकलदायिसत्करम् ॥१८॥

राजन्त्विति- लोकस्य मातः, जगज्जननि ! कुचसुधाप्रपायिनः कुचयोः सुधा न्यं तत् प्रपिबन्तीति मातृस्तन्यपायिनः इत्यर्थः, अनघाः अपापाः पवित्रा ते यावत् ते जनाः कविबुद्धिस्थाः अत एव यच्छब्दनिरपेक्षस्तच्छब्दः, सहस्रशः इस्रधा राजन्तु बहवो लोके भ्राजन्तां नामेत्यर्थः। एतेषु कुचसुधाप्रपायिषु श्चन गजाननः गजमुखः गणपतिरिति यावत्, कृती विद्वान् सुकृती वा धन्य यं सकलदायिसत्करं सकलं दातुं शीलमस्येति सकलदायी सः करः शोभनो हस्तः यस्य तं गायन्ति कीर्तयन्ति विद्वांस इति शेषः। मातृ-न्यपायिनां सर्वेषां धन्यतमो गणपतिः, यस्य हस्ते सर्वदानसामर्थ्य वर्तत त भावः। तथाविधः तव कुचसुधाप्रभावः । सकलधायिसत्करमिति पाठो-तत्र सकलं धातुं धारयितुं शीलमस्येति ज्ञेयम्। अन्यत् मानम् ॥१८॥

त्वन्नाभिकूपपतितां दृशं प्रभो- नेतुं विनिर्मलगुणे पुनस्तटम् ॥
सौम्यत्वदीयहृदयप्रसारितः पाशः सवित्रि तव रोमराजिका ॥१९॥

त्वन्नाभीति- विनिर्मलगुणे विशिष्टपवित्रगुणे सवित्रि, मातः, त्वन्नाभि-पपतितां तव नाभिः एव कूपः अन्धुः तस्मिन् पतितां, प्रभोर्हरस्य दृशं दृष्टि नस्तटं तीरं नेतुम् उदञ्च्य प्रापयितुं सौम्यत्वदीयहृदयप्रसारितः सौम्येन न्दरेण त्वदीयेन तव सम्बन्धिना हृदयेन प्रसारितः पाश एव रज्जुरित्यर्थः, च रोमराजिका रोमराजिरेव रोमराजिका नाभेः उपरि हृदयावधि गता मरेखा भवति। तव हृदयं त्वन्नाभौ सक्तां हरस्य दृष्टि स्वोन्मुखम् आ-कर्षेति भावं चमत्कर्तुं नाभौ कूपं, हृदये वक्षोजमध्ये तटं रोमराजौ पाशं च दात्म्येन सम्भावयति। नाभ्यादौ कूपादितादात्म्यमात्र औचित्यं चेत् रूपक-तिपत्ति१निवारा । तस्य तादात्म्यसम्भावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्य-सानं वाच्यम् । एवं रूपकप्रतीतिस्थलेऽपि उत्प्रेक्षाऽवगन्तव्या। तथैव स-थितं चित्रमीमांसायामप्पय्यदीक्षित:-’रक्षन्तु त्वाम् असितजलजैरञ्जलि: पाद-ले मीना नाभीसरसि हृदये कौस्तुभाख्या मुरारेः। हाराः कण्ठे हरिमणि-या वक्त्रपझे द्विरेफाः पिञ्छाचूडश्चिकुरनिकरे घोषयोषित्कटाक्षाः ।।’ इति दाहृतम्। इवादिवाचक-प्रयोगाभावेऽपि अत्यन्तं स्फुटत्वात् वाच्यायमान-वात् गम्योत्प्रेक्षा ॥१९॥

त्वन्मध्यमो गगनलोक एव चे- त्वद्दिव्यवैभवविदो न विस्मयः॥
प्रा हि सुन्दरि पुरत्रयद्विष स्त्वं देहिनी त्रिभुवनेन गीयसे ॥२०॥

त्वन्मध्यम इति- पुरत्रयद्विषः त्रिपुरारेर्हरस्य सुन्दरि भगवति ! त्वन्मध्यमः तव मध्यमोऽवलग्नः गगनलोक एव अन्तरिक्षलोक एव चेत्, त्वद्दिव्यवैभव-विद: तव दिव्यं वैभवं प्राभवं व्यापकत्वं वा वेत्तीति त्वद्दिव्यवैभववित् तस्य जनस्य न विस्मयः, न आश्चर्यं भवतीति शेषः । तव आकाशमेव मध्यमिति चेत्, नैतदाश्चर्यं विदुषो जनस्य। उत्तमस्त्रीणाम् आकाशमेव मध्यमिति वाद: कविसमयोऽत्र चमत्कृतिजनकः। कुतो न विस्मयः ? उत्तरा-र्धेनाह। हि यस्माद्धेतोः त्वं प्राज्ञैः विद्वद्भिः त्रिभुवनेन त्रयाणां भुवनानां समाहारः तेन त्रैलोक्येन देहिनी देहवती गीयसे कीर्त्यसे, तस्मान्न विस्मय इति सम्बन्धः। त्रिभुवनमेव तव शरीरं, तत्र मध्यमलोकोऽन्तरिक्षलोकस्तव मध्यमोऽवलग्न इति महत् ते वैभवं जानतो जनस्य कुतो विस्मयः ? ॥

अत्र मध्यमस्य गगनलोकतोपन्यासः दुष्करविषयत्वात् समर्थनसापेक्षः । तस्य त्रिभुवनेन देहिनीति त्रिभुवनमध्यान्तरिक्षलोकताव्यवहरणेन समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते’ इति तल्लक्षणात् ॥२९॥

नाभिह्नदाद्विगलितः कटीशिला- भङ्गात्पुनः पतति किं द्विधाकृतः।
कान्तोरुयुग्ममिषतः सवित्रि ते भावारिपूर इभशुण्डयोः समः ॥२१॥

नाभीति- सवित्रि मातः ! नाभिह्रदात् नाभिरेव ह्रदस्तटाकः तस्माद्वि-गलित: निःसृतः, कटीशिलाभङ्गात् कटी श्रोणिरेव शिला तस्यां भङ्गाद् भेदनात् पुनः द्विधाकृत: द्विविधः खण्डित इत्यर्थः, भावारिपूरः भा कान्ति-रेव वारिपूरः प्रवाहः इभशुण्डयोः गजहस्तयोः समस्तुल्य: कान्तोरुयुग्ममिषतः कान्तस्य कमनीयस्य ऊरुयुग्मस्य सक्थिद्वयस्य मिषतः व्याजेन सार्वविभक्तिक-स्तसिल्, पतति किं ? सम्भावनायां प्रश्नः। नाभि-ह्रदयोः कटी-शिलयोश्च ताद्रूप्याद्रूपकस्य प्रतिपत्तिः स्यादपि ताद्रूप्यसम्भावनायामेवौचित्यात् उत्प्रेक्षायां पर्यवसानम्। ऊरुयुग्ममिषत इत्यपह्नवात् सापह्नवस्वरूपोत्प्रेक्षा, सा गम्या इवादिवाचकाप्रयोगात् ॥२१॥

जङ्घायुगं तव महेशनायिके लावण्यनिर्झरि जगद्विधायिके।
अन्तःपरिस्फुरदगुप्तसुप्रभा- बाणाढयतूणयुगलं रतीशितुः ॥२२॥

जङ्केति- जगद्विधायिके लोकविधात्रि महेशनायिके देवि, लावण्यनिर्झरि गवण्यस्य रामणीयकस्य निर्झरः प्रवाहः सोऽस्या अस्तीति लावण्यनिर्झरि तव वायुगं प्रसृतायुग्मं कर्तृ, रतीशितुः मन्मथस्य अन्तःपरिस्फुरदगुप्तसुप्रभाबाणा-चतूणयुगलम् अन्तःपरिस्फुरन्त्यः उज्ज्वलन्त्यः अगुप्ताः व्यक्ताः सुप्रभाः शो-निरुचय एव बाणाः शरास्तैः आढ्यं सम्पन्नं तूणयोस्तूणीरयोर्युगलं युग्मं वतीति शेषः। तव जङ्घायुगलं प्रस्फुरन्मदनबाणानां निषङ्गतां भजत इति भावः। अत्रापि गम्योत्प्रेक्षा ॥२२॥

पुष्पास्त्रशासननिशान्तराज्ञि ते लोकत्रयस्थखलकम्पनं बलम् ॥
श्रोणीभरेण गमने किल श्रम प्राप्नोषि केन तव तत्त्वमुच्यताम् ॥२३॥

पुष्पेति- पुष्पास्त्रशासननिशान्तराज्ञि पुष्पास्त्रस्य मन्मथस्य शासनस्य शवस्य निशान्तस्य गृहस्य राज्ञि, कामेशपट्टमहिषि, ते तव बलं लोकत्रय-थखलकम्पनं लोकानां त्रये तिष्ठन्तीति लोकत्रयस्थाः खला: दुर्जनाः तेषां म्पनं धर्षणं भवतीति शेषः। तथापि, गमने गमनक्रियायां पादचार त्यर्थः, श्रोणीभरेण नितम्बभारेण श्रमं ग्लानिं प्राप्नोषि किल श्राम्यसीत्यर्थः, कल सम्प्रदाये। केन हेतुना तव तत्त्वं याथार्थ्यम् उच्यताम् ? कथ्यताम् । वलोकदौर्जन्यदमनं तव बलं, तत्कथमल्पेन श्रोणिभारेण श्रमो भवति ? कमत्र रहस्यम् ? असत्यपि श्रमजनके कारणे श्रमस्य कार्यस्य सत्त्वात् विभाव-Tऽलङ्कारः, ’विभावना विनाऽपि स्यात् कारणं कार्यजन्म चेत्’ इति तल्ल-नणात् ॥२३॥

यत्रैव नित्यविहृतेरभूद्रमा राजीवमन्दिरचरीति नामतः॥
तन्मे सदा भणतु मङ्गलं शिवा पादाम्बुसम्भवममेयवैभवम् ॥२४॥

यत्रेति- यत्रैव यस्मिन्नेव नित्यविहृतेः शश्वद्विहरणात् हेतोः रमा लक्ष्मीः मतः नाम्ना राजीवमन्दिरचरी इति पद्मालयविहारिणी इति अभून् । रक्ष्म्याः पद्मालयत्वे हेतु: गम्यतेन सम्भावितः। अमेयवैभवं परिच्छेदातीत- प्रभावं तत् शिवापादाम्बुसम्भवं उमापादजलजं मे मम सदा नित्यं मङ्गलं भणतु कथयतु। नेह कथनमात्र विवक्षितम् ; विधानमेव द्योत्यम् ॥२४॥

केशादिपादकमलान्तगायिनीः कन्तुप्रशासननिशान्तनायिका ॥
अङ्गीकरोतु ललिता इमाः कृती गौरी कवेश्चरणकञ्जसेविनः ॥२५॥

केशेति- कन्तुप्रशासननिशान्तनायिका कन्तु: कामः, ’कन्तुः काम-कुसूलयोः’ इति नानाथरत्नमाला । तस्य प्रशासनः शिवस्तस्य निशान्तनायिका गृहेश्वरी महेशपट्टमहिषीति यावत्, सा गौरी चरणकञ्जसेविन: पादाम्बुजभजकस्य कवे-र्मम, केशादिपादकमलान्तगायिनी: केशानारभ्य पादकमलावधि स्तुवन्तीरिमाः ललिताः ललितावृत्तनिबद्धाः नुती: अङ्गीकरोतु स्वीकरोतु ॥२५॥

दशमः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates