ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




द्वात्रिंशः स्तबकः

द्वात्रिंशेऽस्मिन् स्तबके योगिनो भक्तस्य च भेदम् उपन्यस्य अध्यात्म हवन-भेदान् निरूपयति ॥

विदधातु सम्पदं मे सकलजगन्नाथनयनहारिज्योत्स्नः ॥
शीतोऽन्धकारहारी हासशशी कश्चिदङ्करहितो मातुः ॥१॥

विदधात्विति- सकलजगन्नाथनयनहारिज्योत्स्नः सकलजगन्नाथस्य सर्व-लोकेश्वरस्य नयनान्यपहरति इति नयनहारिणी ज्योत्स्ना चन्द्रिका यस्य सः, मनोहरतया सर्वेश्वरनेत्रप्रीणनचन्द्रिकेति यावत्, अन्धकारहारी शीतः शीतल: तापहर इति यावत्, तिमिरध्वंसी अविद्यापहः कश्चित् अङ्करहित: अकलङ्कः मातुरुमायाः हासशशी हासः शशीव चन्द्र इव मे मम सम्पदं विदधातु । हासशशीत्यत्रोपमितसमासः पूर्वपदार्थप्राधान्यात् । हासस्य सम्पद्विधायकत्वो-पपत्तेः। अङ्करहितः शशीत्यनेन व्यतिरेकः । अत्र विषयिण: शशिनः विषय-भूतहासात्मकतया परिणमनादेव सम्पद्विधानरूपप्रकृतोपयोगित्वसिद्धेः परिणामा-लङ्कारः ॥१॥

करुणारसाहृदया हृदयान्तरनिर्यदच्छवीचिस्मेरा ॥
प्रमथेश्वरप्रियतमा पादप्रेष्यस्य भवतु कल्याणाय ॥२॥

करुणेति- करुणारसाहृदया दयाभरितचित्ता, हृदयान्तरनिर्यदच्छवीचि-स्मेरा हृदयान्तरान्निर्यन्तीभिः अच्छाभि: वीचिभिः स्मेरा उल्लसिता प्रमथेश्वर-प्रियतमा भूतेशप्रेयसी पार्वती पादप्रेष्यस्य चरणकिङ्करस्य कल्याणाय मङ्ग-लाय भवतु कल्पताम् । हृदयान्तरेत्यत्र उत्तरङ्गितदयारसः हृदयात वदने विजृम्भते अतः स्मरत्वं तस्य बोध्यम् ॥२॥

कारणकार्यविभेदान् रूपद्वितयं तवाम्ब यदृषिप्रोक्तम् ॥
तकं भर्तुमिदं विहर्तुमन्यत्तु भूतभर्तुर्ललने ॥३॥

कारणेति- अम्ब ! कारण-कार्यविभेदात् कारणं कार्यं च कारण-कार्ये: विभेदात् भेदात् ऋषिप्रोक्तम् ऋषिभिः द्रष्टुभिः प्रोक्तं यत् तव रूप-तयं रूपस्य द्वौ अवयवौ अस्येति द्वितयं द्वे रूपे इत्यर्थः, भवतीत्यध्याहार्यम् । नभर्तुः भूतेशस्य ललने सुन्दरि पार्वति, तत्र रूपद्वितये एक रूपमिदं जगद्भर्तु तुं भवतीति शेषः। अन्यद्रूपं तु विहर्तुं विलासाय भवति कारणरूपम् इदं , कार्यरूपमिह विहर्तुमिति भावः ॥३॥

श्रोतुं स्तोत्रविशेष भक्तविशेषं च बोद्धमयमीदृगिति ॥
दातुं च वाञ्छितार्थ तव मातश्चन्द्रलोकरूपं भवति ॥४॥

श्रोतुमिति- मातः अम्ब ! स्तोत्रविशेषं श्रोतुं भक्तैर्गीतां स्तुतिमाकर्ण-तुम्, अयम् ईदक् अयमिव दृश्यत इति ईदक् अयं भक्तः एवंविध इति भक्त-शेषं याथातथ्येन बोद्धं ज्ञातुं च वाञ्छितार्थम् अभीप्सितम् अर्थं दातुं च तव द्रलोकरूपं कार्यरूपं भवति। अध्यात्म चन्द्रलोकः सहस्रारमिति त्ववधेयम् । रुयुवतिरूपं भवति’ इति पाठान्तरं भवति ॥४॥

कीशकिशोरन्यायात् कारणरूपं तवाम्ब योगी धत्ते ॥
ओतुकिशोरन्यायाद् भक्तं परिपासि कार्यरूपेण त्वम् ॥५॥

कीशेति- अम्ब ! कीशकिशोरन्यायात् मर्कटशिशुन्यायेन ’मर्कटो वानरः शः’ इत्यमरः । तव कारणरूपं मूलस्वरूपं योगी धत्ते धारयते । मर्कट-शुः स्वप्रयत्नान्मातरं गृह्णाति, तद्वत् स्वात्मबलेन योगी तव स्वरूपं गृह्णाति। तुकिशोरन्यायात् मार्जारशिशुन्यायेन, ’ओतुर्बिडालो मार्जारः’ इत्यमरः । - कार्यरूपेण स्वीयेन पूर्वश्लोकोक्तेन चन्द्रलोकरूपेण चारुयुवतिरूपेण वा भक्तं रपासि। यथा मार्जारी निजं शिशुं गृहीत्वा रक्षति तथा भक्तस्य भारं व्येव बिभर्ति। भक्तस्य योगिनश्च भेदं निरूपयितुं इन्द्राणीसप्तशत्यां गीतं दलेखाद्वयमिहोदाहरामः-- ‘गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम्। बिभ्राणा यसि त्वं मार्जारीव किशोरम्’ ॥ ’गृह्णन्नम्बरनाथामम्बामश्लथबन्धः। कीश-व किशोरो योगी गच्छति गम्यम्’ ॥ इति ॥५॥

दृढधारणा न चेत्त्व- च्च्यवते योगी महेशनयनज्योत्स्ने ॥
नायं ममेति भाव स्तव यदि सद्यः सवित्रि भक्तं त्यजसि ॥६॥

दृढेति- महेशनयनज्योत्स्ने ईश्वरनयनचन्द्रिके भगवति ! दृढधारणा दृढा अप्रमत्ता धारणा धृतिः न चेत् न भवति चेत् योगी त्वत् त्वत्तः च्यवते च्युतो भवति। स्वल्पेनापि प्रमादेन स्वबलावलम्बिनो योगिनः भ्रंशो भवति । सवित्रि मातः ! अयं मम न, मदीयो न भवतीति यदि भावो भवति, सद्यः सपदि भक्तं त्यजसि, यः सम्पूर्णम् आत्मार्पणं न करोति सः भक्तः सवित्र्या नायं मदीय इति त्यक्तुं शक्यः। आत्मार्पणशूरे भक्ते विषये नायं मदीय इति भावो न जायते मातुः ॥६॥

शिथिलतिर्योगी स्याद् बाविषयनितान्तमाकृष्टो यः ॥
स्वीयमतिलृप्यति ते भक्तेऽहन्ताप्रसारकलुषे मातः ॥७॥

शिथिलेति- मातः ! शिथिलधृतिः शिथिला अदृढा धृतिः धारणा यस्य सः, यो योगी बाह्यविषयैः शब्दादिभिः भोग्यनितान्तमधिकमाकृष्ट: गृहीतो भवतीति शेषः बहिराकृष्टस्य योगिनः धारणा दृढा न भवति, अतो भ्रंशो भवतीति भावः। अहन्ताप्रसारकलुषे अहन्तायाः अहङकृतेः प्रसारण व्यापनेन कलुषे अशुचौ भक्ते ते तव स्वीयमतिः स्वीय इति मतिः धी: लुप्यति लुप्ता भवति। पूर्णसमर्पणलक्षणायाः भक्तेर्लोपजननी अहन्ता। सत्यां तस्यां मातुः भक्तविषये स्वीयताधीविरमति। एवं भक्तस्य भ्रंशो भवति ॥७॥

साहकृतिर्न भक्तिः सबाह्यविषया धृतिर्न सर्वेश्वरि ते ॥
अविजानन्तावेतद् भक्तो योगी च नैव सिद्धौ स्याताम् ॥८॥

साहकृतिरिति- सर्वेश्वरि ! अहङ्कृत्या सह वर्तते इति साहङकृतिः ते तव भक्ति: न भवति। बाह्यविषयैः सह वर्तते इति सबाह्यविषया ते तव धृतिर्धारणा न भवति। एतत्तत्त्वम् अविजानन्तौ अबुद्धवन्तौ भक्तो योगी च सिद्धौ नैव स्यातां भवेताम्। भक्तिः अहङकृत्या असम्पृक्ता धृतिः बाह्य-विषयश्चेति भक्तो योगी च जानीयाताम् । न चेत् सिद्धि न द्रक्ष्यतः इदि भावः ॥८॥

व्यक्तित्वादपि यस्य प्रियं त्वदीयं सवित्रि पादाम्भोजम् ॥
सोऽद्भुतशक्तिभक्तो भगवति किं किं करोति नास्मिन् जगति ॥९॥

व्यक्तित्वादिति- सवित्रि मातः ! यस्य व्यक्तित्वादपि स्वस्य पृथगा-त्मत्वादपि त्वदीयं तवेदं पादाम्भोज पादारविन्दं प्रियं भवति, सः भक्तः अद्भुत- अद्भुताः आश्चर्यकर्यः शक्तयः यस्य स सन् अस्मिन् जगति लोके कि न करोति ? सर्वं कर्तुम् अकर्तुम् अन्यथा कर्तुं वा प्रभवतीति भावः ॥९॥

व्यक्तित्वलोभविवशे सिद्धः कामोऽपि भवति समवच्छिन्नः ॥
प्राप्तोऽपि सलिलराशि सलिलानि घटः कियन्ति सङगृह्णीयात् ॥१०॥

व्यक्तित्वेति- व्यक्तित्वलोभविवशे व्यक्तित्वे स्वीयपृथगात्मत्वे यः लोभः लाषः तेन विवशे पराधीने जने कामः मनोरथः सिद्धोऽपि पूर्णोऽपि सम-छन्नः सर्वथा परिच्छिन्नो मितो भवतीति यावत्। सलिलराशि सागरं तोऽपि घट: कुम्भः कियन्ति किम्प्रमाणानि सलिलानि जलानि सङगृह्णी-आददीत ? ’स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम्’ इति प्रसिद्धोऽयं वः। सर्वकामसम्पूर्तीनां निवानभूतं देवीप्रसादं प्राप्यापि अहङ्कारलोभिनः विशेषः पूर्णो भवन्नपि अवच्छिन्न एव भवति न तु परिच्छेदरहितस्य दमाहात्म्यस्य वैभवं गृह्णाति। अवज्ञालङ्कारः। अन्यस्य कामस्य अन्य-देवीप्रसादगुणप्रयुक्तगुणाधानाभावादवज्ञा। ’ताभ्यां तौ यदि न स्यातामव-उकृतिस्तु सा’ इति चन्द्रालोकः । (ताभ्यां गुणदोषाभ्यां तौ गुण-दोषौ) ॥१०॥

जीवन्नेव नरो यः सायुज्यं ते प्रयाति शम्भोः प्रमदे ॥
सर्वे कामास्तस्य प्रयान्ति वशमाशु वीतविविधभान्तेः ॥११॥

जीवन्निति- शम्भोः शिवस्य प्रमदे कान्ते भगवति! यो नरः जीवन्नेव तव सायुज्यं सयुक्त्वं प्रयाति गच्छति जीवन्मुक्तो भूत्वा त्वया सन्ततं को भवतीत्यर्थः। वीतविविधभ्रान्तेः वीता विगता विविधा नानाप्रकारा न्त: मिथ्याध्यवसितिः यस्मात् तस्य वशं सर्वे कामाः मनोरथाः प्रयान्ति छन्ति । जीवन्मुक्तस्य त्वत्सायुज्यसम्पन्नस्य वशित्वं सिद्धं भवतीति । ’आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा पविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥’ इति हि मर्यते ॥११॥

व्यक्तित्वं तुभ्यमिदं मनीषया मे प्रदत्तमधिकारिण्या ॥
बहुकालभोगबलतो विवदति देहो मदम्ब किं करवाणि ॥१२॥

व्यक्तित्वेति- मदम्ब मम मातः! अधिकारः योग्यता अस्या अस्तीति अधिकारिणी तया मम मनीषया बुद्धया इदं मदीयं व्यक्तित्वं पृथगात्मत्वं प्रदत्तं समर्पितम्। बुद्धेः संस्कारविशेषजन्यो बलविशेष एव व्यक्तित्वार्पणे-ऽधिकारः। देहस्तु तां बुद्धि नानुसरतीति तत्र हेतुमाहोत्तरार्धेन। देहः अयं पाञ्चभौतिकपिण्ड: बहुकालभोगबलतः चिरन्तनभोगपरिचयवशात् हेतोरित्यर्थः विवदति विवादं कुरुते व्यक्तित्वमर्पयितुं बुद्धिं नानुवर्तते। किं करवाणि ? तत्र त्वमेव शरणमिति भावः । ’विभाषा विप्रलापे’ इति विप्रलापार्थकस्य विपूर्वकस्य वदतेरात्मनेपदविकल्पः। तस्माद्विवदतीति साधु ॥१२॥

स्थूलेन वर्मणा सह सूक्ष्मा कलहं मतिर्न कर्तुं शक्ता ॥
सुतरां बलवति मात बलाद् गृहाण स्वयं त्वमस्मात्स्वीयम् ॥१३॥

स्थूलेति- स्थूलेन पुष्टेन वर्मणा वपुषा सह सूक्ष्मा मति/ः कलहं वि-वादं कर्तुं न शक्ता समर्था भवति । मातः ! सुतरामत्यन्तं बलवति बला-ढये, स्वयं त्वम् अस्मात् मत्त: स्वीयं त्वदीयं यद्वर्तते तत् बलात् प्रसह्य गुहाण आदत्स्व। व्यक्तित्वार्पणे मया बुद्धिः त्वदधीना कृता । शरीरं तु तन्न सहते, तस्मात्त्वमेव मदीयं शरीरगतं व्यक्तित्वं च बलात्कृत्य कृपा कुरु ॥१३॥

सर्वेषां हृदि यस्मा- त्वमसि प्राणात्मिकाम्ब हेतोस्तस्मात् ॥
अखिलप्राण्याराधन माराधननिविशेषमगपुत्रि तव ॥१४॥

सर्वेषामिति- अम्ब ! यस्माद्धेतोः त्वं सर्वेषां भूतानां हृदि हृदये प्राणा-त्मिका प्राणः आत्मा स्वरूपं यस्याः सा प्राणात्मा सैव प्राणाति असि, तस्माद्धेतोः अगपुत्रि पर्वतपुत्रि ! अखिलप्राण्याराधनं सर्वप्राणिनां प्रीणनं तवा-राधननिर्विशेषं त्वदाराधनादनतिरिक्तं भवति। सर्वेषु प्राणस्वरूपेणासि, ततः प्राणिनाम् आराधनं त्वदाराधनमेवेति असंशयम् ॥१४॥

जुह्वति केऽपि कृशानौ तस्मात्प्राप्तिस्तवेति सम्पश्यन्तः ॥
अपरे प्राणिषु जुह्वति साक्षात्प्राणात्मिकाऽसि तेष्वन्तरिति ॥१५॥

जुह्वतीति- केऽपि जनाः कृशानौ अग्नौ जुह्वति हवनं कुर्वन्ति । तस्मात् अग्नौ हवनात् तव प्राप्तिः लब्धिः भवतीति सम्पश्यन्तः ते तथा जुह्वतीति सम्बन्धः। अग्नौ हुतं त्वां प्राप्नोतीति दृष्टा अग्निहोत्रं कुर्वन्तीत्यर्थः । अपरे अन्य प्राणिषु प्राणवत्सु जन्मिषु जुह्वति। तेषु प्राणिषु अन्त: अन्तरे साक्षात् प्रत्यक्षं प्राणात्मिका प्राणस्वरूपिणी असीति हेतोः प्राणिषु जुह्वति इति सम्बन्धः। इदमेकं प्राणाग्निहोत्र भवति ॥१५।।

प्राणिष्वपि यः प्राणं भूतादिमनादिमात्मनि स्थितमनघम् ॥
सततमुपास्ते योगी तस्मिन् होमेन तेऽम्ब तृप्तिस्सुलभा ॥१६॥

प्राणिष्विति- भूतादि भूतानाम् आदि कारणं, अनादिम् अविद्यमान-कारणम् आत्मनि स्थितम् अनघं पवित्रं निर्लेपमिति यावत्, प्राणिषु भूतेषु प्राणं योऽपि योगी सततम् अनवरतम् उपास्ते, तस्मिन् योगिनि विषये, होमेन प्राणोपास्तिरूपेण हवनेन, अम्ब ! ते तृप्तिः सुलभा भवतीति शेषः ॥१६।।

आत्मनि योऽम्ब श्रेष्ठ प्राणे प्राणान् जुहोति दहराभिमुखः ॥
त्वद्रूपे हतपापे तेन जितं सकलमीशचित्तारामे ॥१७॥

आत्मनीति- ईशचित्तारामे ईशचित्तम् ईश्वरहृदयम् आरामः विहारो-पवनं यस्यास्तस्याः सम्बुद्धिः अम्ब ! यः दहराभिमुखः हृदयाकाशाभिमुखः सन् त्वद्रूपे तव स्वरूपभूते हतपापे अपहतपाप्मनि आत्मनि स्वात्मनि श्रेष्ठे प्राणे मुख्यप्राण प्राणान् जुहोति, तेन पुण्यात्मना सकलं जितं भवति ॥१७।।

उपसंहृतमखिलेभ्यो विषयेभ्यो निनिमेषमन्तःकृष्टम् ॥
हृदि दृढपदेन चक्षु- स्त्वद्रूपे हूयते मदम्ब प्राणे ॥१८॥

उपसंहृतमिति- मदम्ब मम मातः ! अखिलेभ्यो निखिलेभ्यो विषयेभ्यः बाह्येभ्यः रूपेभ्यः उपसंहृतं निवारितं निनिमेषं निमीलनरहितम् अन्तःकृष्टम् अन्तर्मुखं कृतम् इत्यर्थः, चक्षुर्नेत्रं हृदि हृदये दृढपदेन दृढं गाढं पदं स्थानं यस्य तेन योगिना त्वद्रूपे तव स्वरूपे प्राणे हूयते। हृदये लब्धस्थितिक: योगी शून्यं निविषयं निमेषवर्जम् अन्तर्मुखदर्शनं त्वद्रूपे प्राणे जुहोति। इदं दहर-निष्ठस्य प्राणाग्निहोत्रं भवति ।।१८।।

अन्तस्स्वरं निगूढं श्रेष्ठप्राणस्य देवि तव भागस्य ॥
शृण्वदिव प्रणवाख्यं श्रवणं तत्रैव भवति जगदम्ब हुतम् ॥१९॥

अन्तरिति- अम्ब देवि ! तव भागस्य अंशस्य श्रेष्ठप्राणस्य, अग्नेविष्फु-लिङ्गश्रुतेः मुख्यप्राणस्य ब्रह्मणोंशत्वं सिद्धम्। तस्मात् इह देव्याः भागः श्रेष्ठः प्राण उक्तः । तस्य निगूढं नितरां गुप्त प्रणवाख्यम् अन्तस्स्वरम् अन्तरनादं शृण्वदिव आकर्णयदिव श्रवणं श्रोत्रेन्द्रियं भवतीत्यध्याहार्यम् । तत्रैव श्रेष्ठप्राणान्तःस्वरे जगत् हुतं भवति । सर्वस्या अपि जगद्विषयकवृत्तेः शब्द-रूपेणान्तरवस्थानात् सर्वशब्दमूलप्रकृतौ प्रणवाख्ये प्राणस्यान्तस्स्वरे जगतो हवनं भवतीत्यभिप्रायः । इदं च प्राणोद्गीथोपासनमाहुरौपनिषदाः ॥१९॥

सर्वेषां मन्त्राणां स्तोत्राणां चेशचित्तनाथे प्रकृतौ ॥
गूढं सदा स्वरन्त्यां प्राणन्त्यां त्वयि जुहोति मौनी वाचम् ॥२०॥

सर्वेषामिति- ईशचित्तनाथे शिवहृदयेश्वरि ! सर्वेषां मन्त्राणां स्तोत्राणां च प्रकृतौ मूलस्वरूपभूतायां गूढं गुप्तं सदा स्वरन्त्यां नदन्त्यां प्राणन्त्यां श्वस-त्यां त्वयि देव्यां मौनी शान्तिसम्पन्नः वाचं जुहोति। सर्वासां वाचामुप-संहारस्तत्प्रकृतौ प्राणोद्गीथे भवति । इदं मन्त्रोद्गीथोपासनमाहुः ॥२०॥

देहे स्खलति मनश्चेत् विषयेषु हुतं दधाति विषयात्मत्वम् ॥
आवृत्तं यदि देहान् सूक्ष्मायां त्वयि हुतं त्वदाकृति भवति ॥२१॥

देह इति- ’मनः देहे स्खलति चेत्’ मानसम् अन्तरात् च्युतं सत् शरीर-गतं भवति चेत् विषयेषु शब्दरूपादिषु हुतं तन्मनः विषयात्मत्वं विषयरूपतां दधाति बिभर्ति। देहात् शरीरात् आवृत्तं निवृत्य अन्तर्मुखं जातं तदेव सूक्ष्मायां त्वयि देव्यां हुतं त्वदाकृति तव आकृतिरिवाकृतिः यस्य तत् त्वद्रूपं भवति। बहिः विषयग्रस्तं मनो विषयरूपम्, अन्तः त्वद्गतं त्वद्रूपं च भव-तीत्यर्थः ॥२१॥

त्वग्रसनघाणाना- मनुभूतीः प्राणशक्तिसात्कुर्वाणः ।।
के नार्पयते भोगं भगवति ते सर्वलोकपार्थिववनिते ॥२२॥

त्वगिति- सर्वलोकपार्थिववनिते सर्वलोकेश्वरकान्ते भगवति । त्वग्रतन घ्राणाना त्वच: स्पर्शेन्द्रियस्य, रसनस्य जिह्वेन्द्रियस्य, घ्राणस्य गन्धेन्द्रियस्य चानुभूतीः प्राणशक्तिसात् प्राणशक्त्यधीनं कुर्वाण योगी क भोग ते तुभ्यं न अर्पयते ? सर्वमपि भोगम् अर्पयते। सर्वासामनुभूतीनां प्राणशक्तिरेवाधार-भूता प्रकृतिर्भवति। अतस्तदधीनाः क्रियन्ते सर्वा अनुभूतयः। प्रागशक्ते-स्त्वत्स्वरूपत्वात् त्वय्येव सर्वभोगसमर्पणं करोति योगीत्याशयः ॥ २२॥

गच्छन्कुर्वन्विसृजन रममाणश्चाम्ब सकललोकाधीशे ॥
यः केवलां क्रियामपि चिन्तयते तेन नित्ययज्ञः क्रियते ॥२३॥

गच्छन्निति- सकललोकाधीश, सर्वलोकेश्वरि अम्ब ! यः गच्छन् पद्भयां क्रममाणः, कुर्वन् हस्ताभ्यां कर्माणि कुर्वन्, विसृजन् पायुनोत्सृजन्, रममाणः सुरते प्रवर्तमानश्च, केवलां क्रियां गमनादिरमणान्तेषु पादादिकर्मेन्द्रियव्यापा-रेषु यत् क्रियासामान्यं वर्तते तदित्यर्थः, चिन्तयते अविशिष्टां क्रियां ध्यायति, तेन पुरुषेण नित्ययज्ञः क्रियते तस्य जीवनमेव यजनं भवति । तस्मात्स नित्ययाजी ॥२३॥

सर्वेषामग्नीनां प्राणाग्निस्तव विभूतिरुक्तः श्रेष्ठः ॥
तस्मिन्हुतं तु सुहुतं द्रव्याणि धियः क्रियाश्च मन्त्रः प्रणवः ॥२४॥

सर्वेषामिति- सर्वेषामग्नीनां श्रौतानां स्मार्तानां भौतिक-वैद्युत-सौराणां वा तव विभूति: कला प्राणाग्निः श्रेष्ठ उक्तः। तस्मिन् प्राणाग्नौ मुख्य-प्राणे इत्यर्थः हुतं तु सुहृतं सुष्ठु हुतं भवति। धियः बुद्धयः क्रियाः कर्माणि द्रव्याणि होमद्रव्याणि भवन्ति । मन्त्रस्तु प्रणवः योऽन्तःस्वरन्नुद्गीथ उच्यते ॥२४॥

च आर्यागीतीनामय- मधरीकृतमधुसुधादिमाधुर्यरसः ॥
वर्गो गणपतिवदना- निष्क्रान्तो भवतु शर्वसुदृशः प्रीत्यै ॥२५॥

आर्येति- गणपतिवदनात् गणपतेः कवेः वदनात् मुखात् निष्क्रान्तः, अधरीकृतमधु-सुधादिमाधुर्यरसः अधरीकृताः नीचैः कृता मधु-सुधादीनां मक-रन्दामृतादीनाम् आदिशब्देन द्राक्षादयो ग्राह्याः, माधुर्यरसः माधुरीद्रवः येन सः आर्यागीतीनाम् एतद्वृत्तनिबद्धानां नुतीनां वर्गः गणः शर्वसुदृशः शर्वाण्याः पार्वत्याः प्रीत्यै मुदे भवतु कल्पताम् ॥२५॥

इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनो: गणपति-मुनेः कृतावुमावहस्र द्वात्रिंशः स्तबक: समाप्तः ॥

समाप्तं च अष्टमं शतकम् ।
प्रभाख्या व्याख्या च समाप्ता ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates