उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ द्वाविंशे स्तबके कैलासनाथप्रभाववर्णनोपन्यासेन कैलासपतिकान्ता-सौभाग्यानुवर्णनं भवति । तथा हरकुटुम्बकं कीर्त्यते। स्तबकादौ यथा-पूर्वं हसितस्तुतिः ॥
अखिलस्य विकासकारणं व्यसनि ज्ञानिजनावनेषु नः ॥ वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥१॥
अखिलेति- अखिलस्य सर्वस्य विकासकारणम् उन्मीलनहेतुभूतं, ज्ञानिजना-वनेषु ज्ञानिजनानां पालनेषु व्यसनि व्यसनम् अस्येति व्यसनि ससङ्गमित्यर्थः । यद्यपि व्यसनपदं कामजे दोषे वर्तते, तथाऽपि ज्ञानिषु वात्सल्यातिशयद्योतनाय प्रयुक्तम् । शिवराजीवदृशः शिवसुन्दर्याः दरस्मितं मन्दस्मितं नः अस्माकं शिवं मङ्गलं विशेषतः सुतरां वितनोतु विदधातु। मुखस्य विकसितं मन्द-स्मितम्, अनेन विश्वम् उन्निद्रं जायते। उज्ज्वलत्वादस्य स्वाभाविकं प्रकाश-पालनम्। अत एव अबोधस्य सर्वस्य बोधाधायक, बुद्धस्य सर्वस्य बोध-रक्षकम् इति सर्वस्यापि अप्राप्तलाभं प्राप्तरक्षणं च विदधदिदं स्मितम् अस्म-द्योगक्षेमात्मकं कल्याणं करोत्विति प्रार्थना ॥१॥
विकले सकले सुरखजे व्रजति श्यामलिमानमच्युते ॥ जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥२॥
विकले इति- सकले समस्ते सुरव्रजे देववृन्दे विकले निष्प्रभे विषण्णे जाते इति यावत्, अच्युते हरौ श्यामलिमानं श्यामलस्य भावः तं श्याम-लिमानं काष्यं व्रजति गच्छति सति अमृतमथनसमये प्रथमनिर्गतवासुकि-शिरोगरलप्रतापात् हरौ च निष्प्रभे जाते, सदयः परमकारुणिकः यो भगवान् हलाहलं महाविषं चुलुकीकृत्य अचुलुकं चुलुकं सम्पद्यमानं कृत्वा प्रसृतिं कृत्वे-त्यर्थः, ’चुलुक: प्रसृतौ भाण्डे’ इति नानार्थरत्नमाला। जगतो भयं नुनोद अपानयत्। तेनेति उत्तरेण दशमश्लोकस्थेनान्वयः ॥२॥
निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः ॥ कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥३॥
निगमैरिति- निगमैः वेदैः सुरगी अश्ववान् त्रिपुरयुद्धे शिवस्य वेदा एव वाहा अभवन् । भुवा भूम्या रथी रथवान्, विधिना सारथिमान् ब्रह्मव सारथिरभूत् । कनकाद्रिवरेण मेरुपर्वतेन कार्मुकी धनुष्मान्, कमलाक्षेण विष्णुना शरी बाणवान्, भूत्वा यः त्रिपुरं बिभेद भञ्जयामास। तेनेत्यु-त्तरेणान्वयः। रूपकम् ॥३॥
अजितस्य च गाढमत्सरः कमलाकान्तपुरस्सरैस्सुरैः ॥ पदजायुधधारया रयाद् वधमाधत्त जलन्धरस्य यः ॥४॥
अजितस्येति गाढमत्सरैः गाढो दृढो मत्सरः द्वेषः असुरशुभे इति शेषः, येषां तैः, यद्वा ’मत्सरौ मक्षिकक्रोधौ’ इति त्रिकाण्डशेषः, अत्यन्तक्रुद्धरित्यर्थः, कमलाकान्तपुरस्सरैः विष्णुप्रमुखैः सुरैः देवैः अजितस्य जलन्धरस्य एतन्नाम्नोऽसुरस्य वधं, यः भगवान् पदजायुधधारया पदजं नख-मेवायुधं तस्य धारया निशिताग्रेण रयात् सत्वरम् आधत्त चकारेत्यर्थः। जल-न्धरासुरवधो लिङ्गपुराणे (९७ अ.) कीर्त्यते-’जलन्धर इति ख्यातो जल-मण्डलसम्भवः। आसीदन्तकसङ्काशस्तपसा लब्धविक्रमः॥ निशम्यास्य वचः शूली पादाङ्गुष्ठेन लीलया। महाम्भसि चकाराशु रथाङ्गं रौद्रमावहन् ॥..... कृत्वार्णवाम्भसि सितं भगवान् रथाङ्गम्’ इत्यनन्तर-श्लोके अन्ते च ’कुलिशेन यथा छिन्नो द्विधा गिरिवरो द्विजाः । पपात दैत्यो बलवान् अञ्जनाद्रिरिवापरः ॥’ इति ॥ ४॥
कमलासनकजलोचनौ छललिङ्गस्य शिरोध्रि वीक्षितुम् ॥ बत हंसवराहभूमिको यतमानावपि यस्य न प्रभू ॥५॥
कमलेति- कमलासनकञ्जलोचनौ पद्मयोनि-पुण्डरीकाक्षी ब्रह्मा विष्णु-श्चेत्यर्थः, कर्तारौ, यस्य छललिङ्गस्य लिङ्गवेषस्य भगवतः शिरोऽङघ्रि शिरसः अङघ्रश्च समाहारः शिरोऽअघ्रि तत् मस्तकं पादौ च वीक्षितुं द्रष्टुं हंसवराह-भूमिकौ हंसो वराहश्च तयोः भूमिके वेषौ ययोः तौ सन्तौ यतमानावपि परिश्रमं कुर्वाणावपि, बत खेदे हा कष्टं ! न प्रभू न समर्थावभूतामिति अध्याहार्यम् । ब्रह्मा शिवस्य शिरो द्रष्टुं हंसवेषो भूत्वा नभस्तल उत्पपात, विष्णुः पादौ द्रष्टुं वराहो भूत्वा भुवमुच्चखान, तथाऽपि तौ नाशकतामित्यर्थः । आद्यन्तजितं भगवतः आदिम् अन्तं च को वा पश्यतीति गम्यम् । मानौ च न यस्य शक्नुतः इति च पाठः ॥५॥
यत-नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा ॥ भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥६॥
नयनमिति- यो भगवान् निटलान्तरस्थितं ललाटमध्यस्थितं नयनम् अग्नि-नेत्रं रुषा क्रोधेन अन्वितः ईषदिव किञ्चित् विघटय्य उद्घाट्य उन्मीलितं कृत्वा भुवनत्रयनिर्जयोन्नतं त्रैलोक्यस्य जयेन उन्नतम् अत एव गाढमदं नितान्त-दर्प मदनं मन्मथं ददाह दग्धवान् ॥६॥
सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् ॥ अमृतांशुरिवादधाति यः परमामलिमुदं प्रपश्यताम् ॥७॥
सकले इति- यः सकले कलेबरे देहे धवल: सर्वाङ्गशुभ्रः इत्यर्थः, चित् कुत्रापि हरिनीलोपलमञ्जुल: हरिनीलोपल इव इन्द्रनीलमणिरिव मञ्जुल: रमणीयः, अर्थात् कण्ठे नीलः, सर्वत्र शुभ्राङ्गः ईषत् एकत्र इन्द्र-नीलसवर्णः श्यामल: अत एव अमृतांशुरिव मृगाङ्क: सितांशुः चन्द्र इव प्रप-श्यतां जनानां परमाम् उत्कृष्टाम् अक्षिमुदं नयनप्रीतिम् आदधाति बिति । शिवचन्द्रगत-क्वाचित्कनीलिम-सर्वाङ्गशुभ्रत्व-नेत्रानन्दकरत्व-साधर्म्यात् उपमा-लङ्कारः स्फुट: ॥७॥
अवतंसतुषारदीधिति- द्युतिभिर्यस्य यशोभरैरपि ॥ सममच्छतरीकृतो दिशा मवकाशस्सुतरां प्रकाशते ॥८॥
अवतंसेति- यस्य भगवतः अवतंसतुषारदीधितिद्युतिभिः अवतंसः भूषण-भूतः तुषारदीधितिहिमांशुः चन्द्रः तस्य द्युतिभिः कान्तिभिः यशोभरैरपि यश- सामतिशयैश्च ’अथातिशयो भरः’ इत्यमरः। समं सह दिशामवकाशः सर्वासु दिक्षु अभित आकाश इत्यर्थः अच्छतरीकृतः निर्मलीकृतः सन् सुतरां प्रकाशते। शिवशिरश्चन्द्रद्युतय इव शिवयशोतिशयाश्च दिशः सर्वाः पूरयन्तीति भावः । अत्र हरशिरश्चन्द्रद्युतीनां यशोभरसाहित्यस्य चमत्कृतिजनकत्वात् सहोक्तिरल-ङ्कारः ॥८॥
गगनानलजीवनानिल क्षितिसोमारुणसोमयाजिभिः ॥ महतो बत यस्य मूर्तिभि- र्भुवनं क्रान्तमिदं समन्ततः ॥९॥
गगनेति- गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः गगनम् आका-शः, अनलोऽग्निः, जीवनं जलं, अनिलो वायुः, क्षितिः पृथ्वी, सोम-श्चन्द्रमाः, अरुणः सूर्यः, सोमयाजी यजमानश्च तैः पञ्चभूतानि सूर्याचन्द्रमसौ यजमान आत्मा चेत्येवं यस्य महतः भगवतो मूर्तिभिरष्टाभिः इदं भुवनं जगत् समन्ततः सर्वतः क्रान्तं व्याप्तं बत आश्चर्यम् ॥९॥
सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते॥ वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥१०॥
सहेति- तेन तथाविधेन धवेन पत्या सह राजते रजतस्यायं राजतः तस्मिन् वसुधाधारिणि भूधरे रौप्याद्रौ कैलासे इति यावत् , भवतापनाशिनी जन्मदुःखध्वंसिनी चरणयोः प्रेष्येण पादकिङ्करेण निवेदितं स्वीकरणायापित अश्नाति भुङक्ते इति चरणप्रेष्यनिवेदिताशिनी काऽपि वनिता स्त्री राजते विजयते। सर्वेश्वरसनाथा कैलासे कृतवासा जेजीयते इति भावः ॥१०॥
वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती॥ भुवनत्रितयस्य तौ विभू रजतादाविह सिद्धदम्पती ॥११॥
वनितेति- पुरातनौ पुराणौ वनितापुरुषो स्त्री पुरुषश्च विमले शुभ्रे चिन्मये निलेपे इति यावत्, व्योमनि आकाशे देवौ च तौ दम्पती च देव-दम्पती भवतः इति शेषः, भुवनत्रितयस्य विभू ईश्वरौ तौ इह भुवि रजता- द्रौ कैलासे सिद्धदम्पती सिद्धौ सिद्धपुरुषौ दम्पती भवतः, पुराणपुरुषौ पुराणौ यौ ईश्वरौ दिवि द्युलोके देवदम्पती तावेव इह पार्वती-शिवौ कैलासवासिनौ सिद्धपुरुषौ स्तः ॥११॥
गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका ॥ रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥१२॥
गजेति- गजचर्मधरः शिवः गजस्य त्वचं परिधत्ते, कपालभृत् कपालं बिति । एवंभूतो गृहनाथो गृहपतिः ईश्वरः, गृहिणी ईश्वरी तु कालिका कालवर्णा सर्व कालयति अन्तयतीति वा कालिका, रुधिराविलमुण्डमालिनी रुधिरेण शोणितेन आविला कलुषा मुण्डानां मूर्ना माला राजिरस्या अस्तीति रुधिराविलमुण्डमालिनी ’मुण्डो दैत्यान्तरे राहौ मूनि’ इति नानार्थ रत्नमाला। एवम् उभौ घोरदर्शनौ अशिवरूपौ अपि पण्डितैः विज्ञैः शिवौ कथितौ। अयं विरोधः, वेषेण अशिवावपि स्वरूपेण नित्यमङ्गलौ पण्डितविदिताविति विरोधाभासोऽलङ्कारः ॥१२॥
स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः ॥ किमुमे भवती कपालिनी किमु विभाजितरत्नमालिनी ॥१३॥
उत स इति- सः शिवः इन्दुकलाशिरोमणिः चन्द्रकलाचूड: किम् ? अश्लीलकपालभूषणः अश्लील जुगुप्सावहं कपालानां भूषणं यस्य सः ? उमे देवि ! भवती कपालिनी कपालिनः पत्नी कपालमालाधरा किमु ? विभ्रा-जितानां भास्वराणां रत्नानां मणीनां माला हारः अस्या अस्तीति विभ्रा-जितरत्नमालिनी किमु ? किमुभावपि अन्योन्यानुरूपस्पृहणीयवेषौ, उत अनु-रूपघोरवेषौ ? ॥१३॥
रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना। अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥१४॥
रमसे इति- अम्ब ! क्वचित्, काले देशे वा कपालमालिनी सती कपाल- अत्युत्तमरत्नमालिनी घोरं वेषम् उज्झित्वा स्पृहणीयदर्शना भणिहारालङ्कृताङ्गी सती, अतुला अनुपमा प्रभा शोभा येषाम् तेषाम् अतुलप्रभाणां निष्काणां सुवर्णानां माला हारोऽस्येति अतुलप्रभनिष्कमाली तेन शिवेन सुन्दरेण रमसे रति कुरुषे ॥१४॥
युवयोमरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः॥ शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥१५॥
युवयोरिति- युवयोः शिवयोः तनूभुवः आत्मजाताः मरुतः वायवः मरु-नामकाः देवाः वलवन्तः बलिनः भुवनप्रकम्पनाः भुवनानां लोकानां प्रकम्पनाः चालकाः भवन्तीत्यध्याहार्यम् । शशिदीधितिहारि चन्द्रकान्तिरमणीयं चन्द्र-कान्त्यतिशाथि वा पावनं विमलं यद्यशः येषां मरुतां यशः कीतिः निगमे वेदे गीयते मन्त्रद्रष्टुभिः। शिवयोमरुत्पितृत्वकथनात् पारमैश्वर्यार्थकम् इन्द्रत्वं तयो-रुक्तं भवति। तत्पुत्रयोः गणेशकुमारयोर्मरुत्त्वं च। तत् पुरस्ताद्वक्ष्यते ॥१५॥
गुरुमुत्तममभचारिणा मसमब्रह्मनिधाननायकम् ॥ तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥१६॥
गुरुमिति- देवि, शिवे ! अभचारिणां द्युलोकचारिणां ’द्योदिवौ द्वे स्त्रियाम् अभ्रम्’ इत्यमरः, दिविषदाम् उत्तमं श्रेष्ठं गुरुं बृहस्पतिम् असमब्रह्मनिधाननाय-कम् असमः अद्वितीयः ब्रह्मणां वेदमन्त्राणां निधानस्य निधेः नायकः तम् अधि-ष्ठातृदेवं, ब्रह्मणस्पतिमिति यावत्, बृहस्पति-ब्रह्मणस्पत्योरव्यतिरेकमामनन्ति वेदे। तव तनूभुवाम् आत्मजातानां मरुताम् अन्यतमम् एकं प्रचक्षते आहुः विप्रा इति शेषः। पुराणेषु तस्य ब्रह्मणस्पतेः नामभेदो रूपविशेषश्च भवत इत्याह ॥१६॥
द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् ॥ इतरत्र मुखान्नराकृति विदुरस्यैव विवर्तमद्भुतम् ॥१७॥
द्विरदमिति- महामदं महान् गुरु: मदः दानजलमित्यर्थः, यस्य तं सित-दन्तच्छविधौतदिक्तट सितस्य धवलस्य दन्तस्य छविभिः कान्तिभिः धौतं शोधितं दिशां तटं यस्य तं, वदने मुखे द्विरदं गजं, मुखात् वदनादितरत्र अन्यत्राङ्ग नराकृति नररूपं गजमुखं विघ्नेश्वरम् इत्यर्थः, अस्यैव पूर्वोक्तस्य ब्रह्मणस्पतेः मरुताम् अन्यतमस्यैव अद्भुतं गजमुखात् अर्धनराकृतेश्च विचित्रं विवर्त रूपभेदमापन्नं विदुः विज्ञा इति शेषः । ब्रह्मणस्पतिगणपत्योरव्यतिरेकं प्रतिपादयन् मन्त्रवर्णोऽत्र भवति-’गणानां त्वा गणपतिं हवामहे कविं कवीना-मुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥’ इति। ज्येष्ठमभिवर्ण्य कनिष्ठं कुमारं प्रस्तौति ॥१७॥
अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली॥ हृतवीर्यमदो बभूव यद्- घनशक्त्यायुधतेजसाऽञ्जसा ॥१८॥
अखिलेति- प्रथने प्रख्याने यशसि अखिलामरनिर्जयोन्नतः सकलसुराणां निर्जयेन उन्नतः सर्वदेवजयेनोन्नतयशा इत्यर्थः बली बलवान् तारक इति दानवः तारकासुरः, यद्घनशक्त्यायुधतेजसा यस्य देवस्य घना सत्त्वभरिता शक्तिरेव आयुधं तस्य तेजसा प्रतापेन अञ्जसा झटिति हृतवीर्यमदो हृतः अपहृतः वीर्यात् मद: दर्पः यस्य स बभूव । यच्छब्दस्य स इति उत्तरेण सम्बन्धः, ’स्राग्झटित्यञ्जसाऽह्नाय द्राङ मङ्क्ष सपदि द्रुते’ इत्यमरः, यः तारकासुरं शक्त्यायुधेन जितवान् इत्यर्थः ॥१८॥
अमले हृदि निर्मलाशना च्छिथिले ग्रन्थिचये नराय यः॥ परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥१९॥
अमले इति- अमले शुद्धे हृदि हृदये निर्मलाशनात् शुद्धाहारात् ग्रन्थीनाम् अविद्याग्रन्थीनां चये समूहे शिथिले वियुक्ते सति, परिपक्वधिये परिणतबुद्धये नराय मानवाय अपारवैभवः अपारम् अनवधिकम् वैभवम् ऐश्वर्यं यस्य सः, यो गुहः तमसः पारं दर्शयेत् स इत्युत्तरेणान्वयः। नरस्य शुद्धाहारात् अविद्या-ग्रन्थीनां विस्रंसने, हृदये च निर्मले सति, तस्मै पुण्यपुरुषाय तमस: पारं दर्शयति स्कन्दो भगवानिति छान्दोग्यश्रुत्याधारेयमुक्तिः। तथा च श्रुति:-’आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्र- मोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते तं स्कन्द इत्याचक्षते’ इति ॥१९॥
द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् ॥ अमृतद्रवसारहारिणी निगमाभां निबबन्ध संस्तुतिम् ॥२०॥
द्रविडेष्विति- यः द्रविडेषु द्रविडे देशे शिशुत्वम् एत्य जातः शैशवं प्राप्य शैशवदशायामेवेति भावः, गिरिशश्लोकविशेषगायिनीं गिरिशस्य शिवस्य श्लोकस्य यशसः विशेष बाहुल्यं गायतीति गिरिशश्लोकविशेषगायिनीम्, अमृत-द्रवसारहारिणीम् अमृतरससारांशमपि अपहरन्तीम् अमृतरसातिशायिनीम् इत्यर्थः, निगमाभां वेदोपमां संस्तुतिं निबबन्ध विरचयामास। द्रविडशिशुः श्रीज्ञान-सम्बन्धमूर्ति: अस्य स्कन्दावतारत्वम् आहुः । सौन्दर्यलयल् ’तव स्तन्यं मन्ये’ इति श्लोके उल्लिखितः द्रविडशिशुः सम्बन्धमूर्तिरिति प्रतीयते। अयं देवा-राख्यं द्रविडवेदप्रबन्धं निबद्धवान् ॥२०॥
भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः॥ वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥२१॥
भुवीति- यः भट्टकुमारिलाख्यया कुमारिलभट्टनाम्नेत्यर्थः भुवि भूतले भवं जन्म एत्य लब्ध्वा अध्वररक्षणाय वैदिकधर्मस्य अध्वरस्य क्रतोः रक्षणाय वर-जैमिनिभाषिताशयं वरस्य मुनिश्रेष्ठस्य जैमिनेर्भाषितस्य वचनस्य आशयमभि-प्रायं बहुलाभिर्युक्तिभिः तार्किकोपपत्तिभिः दधौ खलु पोषयामासैव । कुमा-रिलभट्टः जैमिनिप्रणीतधर्ममीमांसाप्रोबलकान् तन्त्रवार्तिकश्लोकवार्तिकटुप्टीका-ख्यान् ग्रन्थान् व्यरचयत् स स्कन्दांशजात इत्यैतिह्यम् ॥२१॥
अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् ॥ रमणाख्यमहषिवेषभ च्छ्रितशोणाचलचारुकन्दरः ॥२२॥
अधुनेति- यः देवः अधुनाऽपि न केवलं पूर्वमेव सम्बन्धकुमारिलवेषा-भ्याम् अवतीर्य कार्यभारभुवाह इदानीमपि श्रितशोणाचलचारुकन्दरः श्रितं शोणाचलस्य अरुणाचलस्य चारु मनोहरं कन्दरं गुहा येन सः अरुणगिरिगुहा-वासी रमणाख्यमहर्षिः रमण इति आख्या नाम यस्य स महर्षिः तस्य वेष बाह्यं रूपं बिभर्तीति रमणाख्यमहर्षिवेषभृत् विबुधप्रेक्षितमार्गरोधकं विबुधैः विज्ञैः प्रेक्षितस्य दृष्टस्य मार्गस्य ज्योतिरुज्ज्वलमार्गस्य रोधकं प्रतिबन्धकं तमः अन्धकारम् अविद्यामिति यावत् विधुनोति अपसारयति। अनेन कविः स्वीय-माचार्य महर्षि स्कन्दादनतिरेकं पश्यतीति बोध्यम् ॥२२॥
स गुहोऽतिमहो महामहा- स्त्रिदशानां प्रथितश्चमपतिः ।। जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥२३॥
स इति- जगतां लोकानाम् अधिराज्ञि चक्रवर्तिनि ! स गुहः य एव-म्भूतः स स्कन्दः अतिमहः अतीव महः उत्सवो यस्य स: अमितोत्सवः, महा-महाः महत् बृहत् महः तेजः यस्य सः बृहत्तेजाः, प्रथित: प्रख्यात: त्रिदशानां देवानां चमूपति: सेनापति: देवसेनापतिः, कोऽपि निर्वक्तुमशक्यः ते तव सुतरां नितान्तं प्रीतिपदं प्रेमास्पदं कुमारक: अल्पार्थे कन्प्रत्ययः बाल: इति यावत् । गणपतिश्च शिवाङ्कस्थः इति कथनावसरे शक्तिप्रियः स्कन्दः शक्तिधर इति प्रागुक्तम् ॥२३॥
जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा॥ तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥२४॥
जयतीति- त्रिपुरारिभामिनी त्रिपुरारेर्हरस्य भामिनी जाया, गणपत्या-दिमरुत्प्रसूः गणपतिरेव आदि: प्रथमः मरुत् तस्य प्रसूः जननी। ’गुरुमुत्तमम्’ इति श्लोके ब्रह्मणस्पतेर्मरुत्त्वं, तस्य गणपतित्वं ज्येष्ठत्वं च अनन्तरश्लोके गीतम्। उमा जयति प्रकर्षेण वर्तते। या सुरारिधूतये असुरध्वंसनाय त्रि-दशानां देवानामपि चमूपति सेनानीम् असूत जनयामास ॥२४॥
स्वकुटुम्बकथाभिधायिनी- गणनाथस्य वियोगिनीरिमाः। अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥२५॥
स्वेति- नगनाथप्रियनन्दिनी पर्वतराजप्रियपुत्री स्वकुटुम्बकथाभिधायिनीः स्वस्य कुटुम्बस्य कुलस्य कथाम् अभिदधत इति स्वकुटुम्बकथाभिधायिन्यः ताः, अत्र देव्याः पति-पुत्राणां कथाप्रस्तावनात् । गणनाथस्य गणपतेः कवेः इमाः वियोगिनीः एतन्नामकवृत्तनिबद्धाः स्तुतीः प्रसन्नया प्रीतया सन्तुष्टया धिया अवधारयतु निश्चिनोतु। स्वकुटुम्बकथा मयोल्लिखिता समीचीना न वेति तद्विज्ञा सैव पर्यालोचयतु ॥२५॥
द्वाविंशः स्तबक: सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.