ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




द्वितीयः स्तबकः

अस्मिन् प्रथमशतकस्य द्वितीयस्तबके ईश्वर-शक्त्योः भेदाभेदस्वरूपम्, अन्योन्यसम्बन्धं समयभेदकथनद्वारा उपपादयति । सङक्षेपेण सृष्टिप्रकारं निरूप्य अध्यात्माधिदैवतविचारेण त्रिमूर्ति-पञ्चमूर्तिसिद्धान्तोपपादनेन च महा-शक्तिरुमा कवेरिष्टदेवता स्तूयते ॥

सहादरेण यो वलक्षपारिजातमालया गलस्थलीविभूषया ध्वनि विनैव भाषते ॥
महेशपुण्ययोषितो मनोज्ञहास एष मे विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥१॥

सहेति --य: उमाहासः गलस्थलीविभूषया कण्ठहाराभरणभूतया वल-क्षपारिजातमालया सह आदरेण ध्वनि विनैव भाषते पारिजातस्य शुभ्र-वर्णत्वं प्रसिद्धम् ; तस्य वर्णान्तरासत्त्वेऽपि नामतः कथनं हासोऽपि वलक्ष इति गमयितुम् । उभयोः सावान्मैत्री, तया सिद्धया, हासो मालया सह रहस्यभाषिते प्रवर्तते। हासांशुविलासः कण्ठभूषायाः पारिजातमालायाः वक्षःस्थले विश्रान्तायाः शुभ्रायाः प्रान्तेषु बहुमानपुरस्सरं व्याप्रियते। हासस्य विलास एव निश्शब्दभाषणम्। आदरोऽत्र बहुमानः । उमाहासस्य पारि-जातमालायामादरः औचित्यपोषक: । पारिजातस्य द्युलोकसम्भवत्वं, हास-स्येव शुभ्रत्वं, वक्षस्थलस्थित्या हृदयसमीपवर्तित्वं चादरास्पदं व्यङ्गयम् । महेशपुण्ययोषितः एषः यच्छब्देन परामृश्यमानः मनोज्ञहासः मे विभूतये प्रकल्पता, पाप्मनां विधूतये च प्रकल्पतां शिवसुन्दर्याः रमणीयो हासः ममै-श्वर्याय, पापविधूननाय च प्रभवत्विति प्रार्थ्यते। पुण्ययोषित् सुन्दरस्त्री ’पुण्यं तु चार्वपि’ इति पुण्यशब्दस्य सौन्दर्यपर्यायत्वात्। इह पुण्यं सुकृत-वाचकं वा स्यात्, तर्हि अयमर्थः , महेशस्य पुण्यं सुकृतमेव योषित् पार्वतीति । एवमेके प्राहुः ईशस्य तपःफलमुमा, उमायास्तपःफलमीशश्चेति, ’परस्परतपः- सम्पत्फलायितपरस्परौ। प्रपञ्चमाता-पितरौ प्राञ्चौ जायापती स्तुमः इति हासस्य मालायाश्च आनुरूप्यात् समालङ्कारः॥१॥

जयदेवः। पुनश्च पापफलप्रध्वंसं प्रार्थयते ॥

निरन्तरश्रिते सदा कृपारसप्रवाहिनी विलासिनीतनुविभोः पुमाकृतेविमोहिनी ॥
सुधातरङ्गकल्पहासभासुरानना शिवा पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥२॥

निरन्तरेति- शिवा पदाब्जलम्बिनो मम पाप्मनः फलं धुनोतु इति सरलं वाक्यम्। शिवां विशिनष्टि । निरन्तरश्रिते निरन्तरम् अविच्छेद यथा तथा श्रिते आश्रिते जने विषये सदा कृपारसप्रवाहिनी अविरतदया-मृतप्रवाहायते भगवतीत्यर्थः । पुमाकृतेः विभोः विमोहिनी विलासिनीतनुः पुरुषाकारस्येश्वरस्य मोहजननी कमनीयस्त्रीशरीरेत्यर्थः। विलासिनीतनुरेकं पदं, विलासिन्यास्तनुरिव तनुर्यस्याः सेति। पुमाकृतिविभुः, विलासिनीतनुः शिवेति वैलक्षण्यम् आकारस्वीकारेण कथितम्। सुधातरङ्गकल्पहासभासु-रानना ईषदूनाः सुधातरङ्गाः सुधातरङ्गकल्पाः हासाः तैः भासुरम् आननं यस्याः सा अमृतवीचिमयहासांशुभिर्भासमाना चन्द्रमुखीत्यर्थः । एकस्या एव द्विधोल्लेखनात् उल्लेखालङ्कारः ॥२॥

अथ सृष्ट्यादिविधात्रीं सर्वत्र भासमानामपि गुर्वनुग्रहेण विना ज्ञातुं विज्ञा अपि न शक्नुवन्तीत्याह॥

करोति या बिभर्ति या निहन्ति या जगत्त्रयं समन्ततो विभाति या न दृश्यते क्वचिच्च या ॥
अतीव गुप्तरूपिणी गुरूपदेशमन्तरा न शक्यते बुधैश्च बोद्धमन्धकारिसुन्दरी ॥३॥

करोतीति- जगत्त्रयं या करोति, या बिभर्ति, या निहन्ति, या समन्ततो विभाति यद्यप्येवं त्रिलोकसर्जन-रक्षण-संहरणानि विदधती सर्वत्र भासमाना वर्तते, तथाऽपि या क्वचिच्च न दृश्यते क्वचिदपि दृष्टिगोचरा न भवतीत्यर्थः । कुतः ? अतीव गुप्तरूपिणी अत्यन्तसूक्ष्मरूपत्वान्न स्थूलचक्षुषो दृश्या। तर्हि कोऽभ्युपायो वेत्तुं जगन्मातरम् ? गुरूपदेशादन्तश्चक्षुष्युन्मीलिते, सा बोद्धं शक्यते। तदेवाहोत्तरार्धेन । तच्च स्पष्टम्। अन्धकारिः शिवः तस्य सुन्दरी शिवा ॥३॥

सर्वेषां भूतानां प्रबोधनादि देव्यैव क्रियत इत्याह ।

महान्धकारबन्धुरस्य भूतसञ्चयस्य या विनिद्रितस्य सर्वबोजधाम्नि मौनमुद्रिते ॥
समन्ततो विजृम्भणाय भासनाय चाभव-न्महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥४॥

महान्धेति- या देवी मौनमुद्रिते मौनेन निश्शब्देन नादातीताक्षर-नैश्चल्येन मुद्रिते अनुद्घाटयतयाऽवस्थिते निष्कम्पलक्षणे सर्वबीजधाम्नि सर्व-स्यापि कारणावस्थानिधानभूते स्थाने सूक्ष्माकाशे परमपुरुषशरीरभूते वि-निद्रितस्य निश्चेष्टस्य महान्धकारवन्धुरस्य महति अन्धकारे बन्धुरस्य विष-मस्य सर्वलयावस्थायाम् अप्रकाशतया गाढान्धकारे व्यवस्थाविरहं वैषम्यं गत-स्य, निष्क्रिय-निष्प्रकाशस्य भूतसञ्चयस्य सर्वप्राणिसमूहस्य जगज्जीवराशेर्वा समन्ततो विजृम्भणाय भासनाय च तं सर्वं समन्तात् सर्वत्र स्पष्टतां गम-यित्वा स्वोचितक्रियाकरणे नियोजयितुं तथा प्रकाशयितुं च महत् चेष्टितं विधाय महत्कार्यं कृत्वा, अभवत् प्राभवत् शक्ताऽभूदित्यर्थः । इयं या सर्वं निद्रितं लयदशातः प्रबोध्य, विजृम्भयितुं भासयितुं च स्वीयचेष्टितवि-शेषेणाशकत्। सेयं ममेष्टदेवता महाशक्तिरुमा न केवलं पुराणप्रसिद्ध-देश-कालपरिच्छिन्नाकार-चरित्रेति कवेरभीष्टदेवीस्वरूपमुक्तम् ॥४॥

तस्याः आदिमं चेष्टितं स्तौति ॥

महेशगर्भतः समस्तभूतबीजकोशतः किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा ॥
विचित्रचेष्टयाऽऽद्यया विधूतनाथनिद्रया जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥५॥

महेशेति- अनादिशक्तिरसौ जयति प्रागभावो नात्स्यस्या इत्यर्थः । जयति उत्कर्षेण वर्तते। अमूमम्बिकां विशिनष्टि। अमूमम्बिकां विशिनष्टि। समस्तभूतबीजकोशतः महेशगर्भतः अशेषविश्वं किरन्ती सर्वेषां भूतानां उपादानसामग्रीनिधानात् महेश्वरस्यान्तरात् कारणावस्थाकाशात् समस्तं जगज्जालम् उद्धृत्य निर्गमय्य विक्षिपन्ती, अपारदिव्यवैभवा अपारम् अनन्तं दिव्यं वैभवम् ऐश्वयं यस्याः सा, विधूतनाथनिद्रया आद्यया विचित्रचेष्टया विधूता अपास्ता नाथस्येश्वरस्य निद्रा योगनिद्रा यया तया आद्यया सृष्ट्यारम्भार्थया विचित्रचेष्टया अद्भुत-क्रियया उपलक्षिता अत एव अद्भुता जगन्नुता समस्तलोकस्तुता जयतीति वाक्यशेषः। ईश्वरस्य योगनिद्रातोऽप्रबोधे सति, ईश्वर्याः विश्वविक्षेपकं चेष्टितं न सम्भवति । अत एव तच्चेष्टितमद्भुतं येन सर्वेश्वरः समाधित: प्रबुद्धः ईश्वर्याः विश्वसृष्टिविधानमनुगृह्णाति ॥५॥

अथ द्वाभ्यां श्लोकाभ्यां शिव-शक्त्योर्नामभेदोपपत्ति दर्शयति, तयोर्भेदा-भेदसम्बन्धं च ॥

भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं समामनन्ति वैदिकाः सचते सदाह्वयम् ॥
न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे-द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥६॥

भवमिति- सचिते सद्भिः पूजिते भगवति, तान्त्रिकाः तन्त्रशास्त्र-प्रमाणका आगमिकाः त्वदाश्रयम् अव्ययं तं भवं भणन्ति तवाश्रयत्वेन स्थितम् अक्षयं तं पुरुष भव इति नाम्ना व्यवहरन्तीत्यर्थः। वैदिकाः सदाह्वयम् आम-नन्ति वेदसमयानुगास्तं पुरुषं त्वदाश्रयं सत् इति गायन्ति। सत् आह्वयः यस्य तं सदाह्वयम्। द्वयोरेतदाख्ययोः सत् भव इति एतयोर्नाम्नोः अर्थ-भेदो न कश्चिद् भवेत्, भवतीति भवः भू सत्तायामिति धातोनिष्पन्नः, अस्तीति सत् अस भुवीति धातोर्युत्पन्नम्। तस्मात् सच्च भवश्च सत्तार्थको अर्थभेदरहितौ, तयोलिङ्ग एव भेद: भिदेयम् इयं भिदा अयं भेद इत्यर्थः । आदिमं पदं भवः पुमान् पुल्लिङ्गः परं नपुंसकम् अन्यत् पदं नपुंसकलिङ्गम् ॥६॥

स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये समीर्यते स सद्यदि त्वमम्ब भण्यसे सती ॥
न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे न वेधि कालिके कथं सतोऽसतश्च भिद्यसे ॥७॥

स चेदिति-अव्यये सम्बोधनं, सः अभिधानतः भवश्चेत् त्वं भवानी असि तस्य भव इति नाम चेत् तव भवानीति नाम। स सत् समीर्यते यदि, अम्ब, त्वं सती भण्यसे स सच्छब्दवाच्यश्चेत् त्वं सतीशब्दवाच्या भवसि ते भावता नास्तीति न तव सत्ता अस्त्येव हि यतः शक्तिरूपिणी विद्यसे । कालिके सम्बुद्धिः कथं सतोऽसतश्च भिद्यसे? न वेनि । सदसद्विलक्षणा शक्तिरित्येके प्राहुः, कथं तदुपपद्यते? शक्तिरूपिण्याः तव सत्ता अस्ति। असद्भावो नास्ति। तस्मात् तव सदसद्वैलक्षण्यस्यासम्भवं पश्यामीति भावः ॥७॥

केषाञ्चिन्मते जगन्मूलम् असत्, अन्येषां चितिः, पुनरितरेषां आनन्दः, एवमेकैव देवी बहुधा प्रोच्यत इत्याह ॥

जगद्विधानकार्यतः पुरा सुरासुरस्तुते त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् ॥
विकल्पजिता मतिः प्रबोधमूलवादिनां रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥८॥

जगदिति- अम्ब सुरासुरस्तुते सम्बोधनं, जगद्विधानकार्यतः पुरा विश्वसर्जनव्यापारात्पूर्वम् अभावमूलवादिनां मते त्वं जीवितं भवसि देवानां पूर्थे युगे, ‘असतः सदजायत’ ’असद्वा इदमग्र आसीत्’ ’असदेवेदमग्र आसीत्’ इत्यादिमन्त्रवर्णोपनिषद्वाक्यानि जगन्मूलम् अभाव एवेति मन्यमानैराधारतया स्वीक्रियन्ते। तेषाम् अभावमूलवादिनां मते किमपि जगत्क्रियाकारकम् अभि-मतम्। तच्च प्राणापरपर्यायं क्रियाधायकं जीवितं भवति, यदेवासि त्वं, येन विना अण्वपि जगत् न चलेत्। नासदीयसूक्ते ’आनीत्’ इति पठितं प्राणनपदम् इह स्मर्तव्यम्। अथ प्रबोधमूलवादिनां मते विकल्पवर्जिता मतिः चित्स्वरूपं सत् जगत्कारणं पश्यतां मते चितिरेव तव स्वरूपम् । प्रमोदमूलवादिनाम् अनपेक्ष उत्तमो रसः आनन्दाज्जगज्जन्म विदतां मते, इतरानपेक्षः स्वतन्त्रः रसपदवाच्य आनन्दस्तव स्वरूपम् ॥८॥

ईश्वरस्य परा चितिः भवानी, उमा, शिवा इति त्रिभिर्नामभिरभि-धीयत इति सहेतुकमाह॥

भवत्यसावतो भवान्यनादिरन्तर्वाजता जगन्ति माति नित्यमोरसौ तदभ्यधाय्युमा ॥
रसात्मिकोश्यतेऽखिलरसौ ततः शिवोच्यते परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥९॥

भवतीति- असौ भवति अतः भवानी एषा महाशक्तिः सत्स्वरूपिणी भवतीति भवानी इति व्युत्पत्तेः अनादिः अन्तजिता आद्यन्तवजिता काल-त्रयेऽपि तस्याः सद्भावादित्यर्थः। ओः उपदवाच्यात् शिवात् असौ महाशक्तिः जगन्ति नित्यं माति भुवनानि परिमाति, बहुसङ्ख्यानि भुवनानि शिवादमेया-दुत्पाद्यमानानि मितानि भवन्ति देव्या। मातीति मा मानशक्तिः तत् तस्मात् उमा अभ्यधायि उमेत्युक्तेत्यर्थः । उमा उ: शिवः, ओः तस्य शिवस्य मा मानशक्तिः। उमापदनिर्वचनम् इदम् अपूर्वं कविकल्पितमपि तत्त्व-बोधकतया रसावहं भवति। कविनाऽन्यत्र उम् आ इति वर्णद्वयात्मकः उमाशब्द एव आ उम् इति व्यत्यस्तो भूत्वा ओङ्कारः प्रणवात्मा जात इति चमत्कृतम् । कालिदासस्य निर्वचनं ’उमेति मात्रा तपसो निषिद्धा, तस्मादुमाख्यां सुमुखी जगाम’ इति प्रसिद्धम् ॥

अखिलैः असौ रसात्मिका उश्यते, ततः शिवा उच्यते रसः आनन्दः उश्यते काम्यते वश कान्तौ इति धातोः वर्णव्यत्ययतः सिद्धः शिवशब्दः, आनन्दस्वरूपतया सर्वैरप्यसौ काम्यमानत्वात् शिवा इत्युच्यते। एवम् ईशितुः परा चितिः बुधैः त्रिधा उदीर्यते । स्पष्टम् ॥९॥

अथ परा चितिः इच्छा-क्रिया-ज्ञानात्मकं त्रैविध्यं भजत इत्याह ॥

चितिः परव कामना रसेन केनचिद्युता चितिः परैव सर्वदाऽप्यनन्त्यजस्य तु क्रिया ।
चितिः परैव गोचरावभासिका मतिः स्मृता त्रितैवमन्यथा चितेश्चिरन्तनरुदीर्यते ॥१०॥

चितिरिति- परा चितिरेव केनचिद्रसेन युता कामना भवतीति शेषः । रसेन आनन्देन अनुभवयोग्येन युता चित् इच्छा भवति सैव कामना, इच्छात एव आनन्दात्सर्जनस्य सम्भवः । अत एव प्राक् सृष्टः ’सोऽकामयत’ इति श्रूयते। केनचित् अनिर्वाच्येन रसेन भोगेच्छाविषयभूतेनेत्यर्थः॥

क्रिया तु सर्वदाऽपि अनन्ती अजस्य परा चितिरेव, तु भेदार्थकं काम-नातो भिन्ना क्रिया, सर्वदा अनवरतम् अनन्ती प्राणन्ती अजस्य पुरुषस्य परा चिदेव नान्या। सृष्टः पूर्वमपि प्राणन्नेवासीत्पुरुषः, तच्च अननं चिद्व्यापार अत्र मन्त्रवर्णो भवति-’आनीदवातं स्वधया तदेकम्’ इति तदेकं सत् अवातं सृष्टः पूर्वं वायोरसत्त्वात् श्वसितसाधनवायुनिरपेक्षं रसरूपया स्वधयो-पलक्षितम् आनीत् श्वसदेवासीदित्यर्थः । एवम् इच्छात्मिकां क्रियात्मिकां च परां चितिम् उक्त्वा ज्ञानात्मिकामाह। परा चितिरेव गोचरावभासिका मतिः स्मृता गोचरावभासिका विषयप्रकाशिका परा चितिरेव मतिः स्मृता ज्ञान-शब्दवाच्या भवतीत्यर्थः। एवं चिरन्तनः बहोः कालाद् वृद्धैविज्ञैः चितेः त्रिता त्रित्वं त्रिप्रकारत्वम् अन्यथा उदीर्यते प्रकारान्तरेणोच्यते। पूर्वश्लोके भवानी, उमा, शिवेति एक: त्रित्वप्रकाररिचतेरुक्तः। इह अन्यः प्रकारः। अत एव अन्यथेति उक्तम् ॥१०॥

देव्याः ईश्वरशक्तित्वात् ईश्वरादभेदे सिद्धेऽपि तस्याः पृथग्भावस्य लक्ष्य-माणत्वमाह॥

चिकीर्षति प्रभौ ज्वलत्त्वदीयकीलसन्तते-विकीर्णधूमजालमेतदम्बरस्थलं ततम् ॥
विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥११॥

चिकीर्षतीति- प्रभौ ईश्वरे ततम् एतदम्बरस्थलम् उद्देश्यं व्याप्तं अस्मदक्षिप्रत्यक्षं स्थितं ज्वलत्त्वदीयकीलसन्ततेः अपादानं, ज्वलन्त्यास्तव ज्वाला-मालातः विकीर्णधूमजालं विधेयं, विकीर्णानि विक्षिप्तानि धूमजालानि यस्मिन् तत् चिकीर्षति कर्तुमिच्छति सति, यदा ईश्वरः सर्वत्र नभःस्थले अतिसूक्ष्मधूमोपमं स्वीयं द्रव्यं विक्षेप्तुमिच्छति इत्यर्थः, तदा विसृष्टितः पुरा प्राक् सृष्टे: या प्रभुत्वरूपिणी असि ईशितृत्वसामर्थ्यरूपेण स्थिताऽसि । सा त्वं हे सवित्रि जगज्जनयित्रि, पुष्करे पृथक् प्रभुश्च लक्षिताऽसि स्वयं प्रभुरूपेणापि प्रत्येकं सृष्ट्याधारे आकाशे लब्धरूपाऽसि। सृष्टेः पूर्वं पुरुषा-दपृथग्भावेन प्रभुत्वरूपेण स्थिता शक्तिः सृष्टौ प्रवर्तमानायां पृथग्भावेन प्रभ्वी अभ्यलक्षीति भावः ॥११॥

काव्यभाषया सृष्टिपद्धति रूपयिष्यति। तत्र प्रथमं नक्षत्रमण्डलविधान-माह॥

पुनर्विपाकतो घनीभवद्भिरक्षिगोचरै-स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः ॥
अजाण्डवृक्षकोटिकन्दवृन्दवद्वयधाः पुरा महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥१२॥

पुनरिति- पुनः विपाकतः पूर्वश्लोकोक्तानां धूमसदृशसूक्ष्मद्रव्याणाम् अम्बरे विसृष्टानां पाकवशात् परिणामविशेषेणेत्यर्थः । घनीभवद्भिः घनभावं प्राप्तः अक्षिगोचरैः दृश्यः ततस्ततः उपर्युपरि पाकप्रभावात् क्रमेणेत्यर्थः। समज ज्ज्वलैः दीप्यमानैः खसूक्ष्मरेणुगोलकैः खम् आकाशः तत्र सूक्ष्मरेणवः अणवः तेषां गोलाकाराः पिण्डाः तैः गोलकैः उपादानभूतैः भास्वतां मण्डलानि सूर्याणां मण्डलानि, दीप्तिमतां नक्षत्राणां मण्डलानि वा, सूर्याणामेव अत्यन्तविप्रकृष्टत्वात् नक्षत्रात्मना दृश्यमानत्वं कवेरभिमतम् । अजाण्डवृक्षकोटिकन्दवृन्दवत् अजाण्डा एव वृक्षाः तेषां कोटीनां बहुसङ्ख्या-कानां कन्दानां मूलांशानां वृन्देन तुल्यं व्यधाः त्वं विहितवतीत्यर्थः। वृक्ष-कोटीनां कन्दवृन्दानीव ब्रह्माण्डकोटीनां मूलमण्डलानि आकाशे नक्षत्रमण्डला-कारेण व्यवस्थापितवतीत्यर्थः । बहुग्रहात्मकस्य एकैकस्यापि सूर्यकुटुम्बस्य तत्तत्कुटुम्बमूलभूतः सूर्य एवेति हेतोः वृक्षस्य कन्द इव सूर्यो ब्रह्माण्डस्येति रूपितम्। अम्ब, उमे, महेशदृष्टिमयि इति सम्बोधनानि। महेशदृष्टि-मयि, ’तदक्षत’ इति ईक्षैव सृष्टेनिमित्तम् आहुरौपनिषदाः। सा दृष्टि: जग-निमित्तकारणं तपश्शक्तिरिति प्राग्व्याख्यातम्। तस्मान्महेशदृष्टिमयीति महा-शक्तिसम्बोधनमुपपन्नम्। अत्र मयट: प्राचुर्यम् अर्थ: विकारो वा स्यात् । प्राचुर्ये आनन्दमयवत् स्वरूपपरं भवति। विकारार्थे तु सुवर्णस्य कटककुण्डला-दिवत् महेशदृष्टेर्नानाविधकृत्यपरायणा महाशक्तिरित्यलं विस्तरेण ॥१२॥

अथ छन्दोगैराम्नातां तेजोऽबन्नमयीं सृष्टिमनूद्य स्वाभिमतमाह । शादिपञ्चभूतसिद्धान्तदृशस्तैत्तिरीयकाः, तेजः, अप्, अन्नमिति त्रिधातुरूपं सर्ग पश्यन्ति छन्दोगाः। कवेराचार्यस्य द्वितीयमिष्टम्। इदं त्विहावधेयम् । तेज-श्शब्देन प्रकाशकत्वगुणकद्रव्यविशेषो ग्राह्यः, अप्छब्देन क्षरणधर्मकः द्रुतिशीलो द्रव्यविशेषः, अन्नपदेन प्रकाशकत्व-द्रुतिमत्त्वविवर्जं घनं द्रव्यं यदेव पार्थिवमु-च्यते ॥

तपोऽग्निधूमजालके भवन्ति तैजसाणवो भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः ॥
क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे सहस्रभानुमण्डलं तु गोचरादि गृह्यताम् ॥१३॥

तप इति- तपोऽग्निधूमजालके तैजसाणवो भवन्ति अग्नेधूम इव तप-सोऽम्बरक्षेत्रे सृष्ट्यादौ तैजसा: अणवः अत्यन्तसूक्ष्माः आविर्भवन्ति । जीव-नाणवः भवन्ति आप्याणवः जायन्ते, जीवनम् अप्पर्यायः, पार्थिवाणवो भवन्ति घनाः भौमाणव उत्पद्यन्ते। क्रमेण तद्विसृष्टि: प्रथमं तैजसाणवः, ततो जीवनाणवः, ततः पार्थिवाणव इति क्रमशः तेषां सृष्टिः । कथमिमानि जायन्ते? आह। ईशशक्तिपाकवैभवे निमित्तसप्तमी, ईशशक्तिकार्यपरि-पाकप्रभावादित्यर्थः। सहस्रभानुमण्डलं तु सूर्यमण्डलमेव गोचरादि गोच-राणां प्रत्यक्षविषयाणाम् आदि मूलं गृह्यताम् इति ज्ञायताम् ॥१३॥

कुजादीनां ग्रहाणां सूर्यमण्डलादेवोत्पत्तिरित्याशयेन सूर्यमण्डलस्य गो-चरादित्वमुक्तम् । तदुत्तरश्लोकेनाह ।

मयूखमालिमण्डले निधाय पादमुग्रया मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया ॥
खकोशतः समाहृतः पुनस्त्रिरूपरेणुभि-बंधायि मङ्गलादिभिः सह ग्रहैरियं मही ॥१४॥

मयूखेति- अम्ब, मयूखमालिमण्डले सूर्यमण्डले उग्रया तीव्रया चेष्ट-मानया व्याप्रियमाणया मयूखशक्तिरूपया रश्मिशक्त्याकारया त्वया पादं निधाय चरणं निक्षिप्य खकोशतः आकाशनिधानात् समाहृतः पुनः सङगृ-हीतैः त्रिरूपरेणुभिः तेजोऽबन्नाणुभिः उपादानद्रव्यैः इयं मही पृथ्वी मङ्ग-लादिभिः ग्रहैः सह कुजादिग्रहैः सह व्यधायि निरमायि। सूर्यमण्डले पाद-निक्षेपः महाननुग्रहः येन तद्द्वारा ग्रहाणामुत्पत्तिरुक्ता। अंशवाचक: एकनांशेन विश्वसृष्टि प्रतिपादयितुं प्रयुक्तः ‘पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ इति मन्त्रवर्णश्च भवति ॥१४॥

पृथ्व्याः सृष्टिमुक्त्वा चन्द्रस्याह ।।

वस्तुतस्तु पादोऽत्र विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया ॥
इहान्तरे वसुन्धरा-मयूखमालिबिम्बयो-रमुष्य कर्मणः सवित्रि चन्द्रमण्डलं फलम् ॥१५॥

विसर्जनेनेति- देवि, इयता भूयसाऽपि विसर्जनेन अतृप्तया त्वया विल-क्षणं विचेष्टितं पुनः व्यधीयत। अम्ब, ईदृशं बृहन्तं सर्ग विधायापि त्वं न तृप्ताऽभवः। अतः असाधारणं किमपि कर्म त्वयाऽऽचरितं, सृष्टिरेव विसृ-ष्टिविसर्जनं वोच्यते। ईश्वरस्य स्वात्मनः कस्याप्यर्थस्य विसर्जनमेव सृष्टि-रित्यभिधीयते, सैषा प्राचां भाषया विसृष्टिर्भवति ‘इयं विसृष्टिर्यत आबभूव’ इति पारमेष्ठिने सूक्ते, अन्यत्रापि ऋक्संहितायां गीयते। किमपि विलक्षणं विचेष्टितं पूर्वार्धे कथितम्। तस्य फलं चन्द्रमण्डलमित्यपराधुनाह । वसु-न्धरा-मयूखमालिबिम्बयोः अन्तरे इह चन्द्रमण्डलम् अमुष्य कर्मणः फलम् अभूदि-त्यध्याहार्यम्। तस्य विलक्षणचेष्टितस्य फलमेव चन्द्रमण्डलं यद् भूलोकसूर्य-मण्डलयोर्मध्ये प्रादुर्भूय राजते। एवं महाशक्तेः विश्वसर्गविधानं सङक्षेपे-णोक्तम् ॥१५॥

अथ लीलास्वीकृतस्त्री-पुरुषाकृत्योः ईश्वरयोः अवस्थानमुपन्यस्यते ॥

वधू-पुमाकृती ततो बभूवथुर्युवां शिवे त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे ॥
अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥१६॥

अत्र वधू-पुमिति- ततो युवां त्वमीश्वरश्च अत्र विष्टपे लीलया विहर्तु बभूवथुः स्पष्टम्। विष्टपे जगति। वधू-पुमाकृती स्त्री-पुरुषाकारौ। आकारस्य दिव्यत्वं बोध्यं, न तु भौतिक-करचरणाद्यवयवत्वं, व्यक्तित्व-मभिप्रेतम् । तत्र तस्मिन् विषये हे कालि चित्रभाषणाः विचित्रवचनाः नभस्तनुं प्रभुम् आकाशशरीरम् ईश्वरं त्वदात्मजं भणन्ति तव पुत्रं वदन्ति । कुतः? त्वदीयगर्भसम्भवात् ईश्वरस्य पुरुषाकृतिस्वीकारेण आदित्यमण्डला-न्तरहिरण्मयः पुरुषः अभिप्रेतः, उत्तरश्लोकेषु स्पष्टो भवति। अदितिपुत्र-त्वादादित्यस्य, महाशक्तेश्चादितिनाम्नाऽऽख्येयत्वात् च आदित्यमण्डलस्थ-पुरुषस्य महाशक्तिसम्भवत्वमाहुः। महान्तम् आकाशशरीरं प्रभुं पति पुत्रं वदन्तीति चित्रमेवैतत्। नभस्तनु इति पाठे आकाशशरीरे अम्ब इति सम्बोधनम् ॥१६॥

पुरुषं हिरण्मयम् आचष्टे॥

पुमानथो स बिम्बतो हिरण्मयो दिवाकरे धियाऽपि नैव केवलं हिरण्मयेन वर्मणा ॥
इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो-रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् ॥१७॥

पुमानथो इति- अथो अथ स दिवाकरे पुमान् बिम्बतो हिरण्मयः धियाऽपि ज्ञानेनापि हिरण्मयः न केवलं हिरण्मयेन वर्मणैव आदित्यमण्डले यः पुरुषः श्रुतिषु गीयमानः भ्राजते स बिम्बत: आकारेण ज्ञानेन वपुषा च सौवर्ण इति भावः। हिरण्मयत्वं सौवर्णं दिव्यत्वाभिप्रायम्, अस्मदादि-परिचितभौतिकाकृत्यादिवलक्षण्यादि-द्योतनार्थकं ग्राह्यम् । यास्कस्तु हित-रमणीयं हिरण्यमिति निर्वक्ति। एवमपि न बाधः दिव्यत्वस्य हितत्वाद्र-मणीयत्वाच्च। आदित्यमण्डलस्थः ब्रह्माण्डस्य मध्यवर्ती कारणपुरुषः तस्य वपुः कार्यरूपं मानवेषु हृदये प्रतिफलितमित्युत्तरार्धेनाह। अम्ब, इदं तु अन्यत् कार्यरूपं प्रभोः वपुः इह नृणाम् अन्तरे पुनः बिम्बितं बुधैरुच्यते कारणरूपस्य हिरण्मयपुरुषस्य सौवर्णं तैजसं शरीरं मनुष्यहृदये प्राप्ताकारं भवतीत्यर्थः। अत एव सर्वासां विद्यानां दहरविद्यायाः प्राधान्यम् उपनिषत्सु श्रूयते। ’मध्ये वामनमासीनं विश्वे देवा उपासते’ इति हृदयस्थं पुरुषमधि-कृत्य स्तुवदेवंजातीयकं वाक्यमुपपद्यते ॥

पुनः कारणरूपादन्यद्रूपं सृष्टं कथयितुम् । अन्तरं हृदयवाचि । बिम्बितम् धनम् आकृतिमज्जातं, न त्वादर्शबिम्बमिव घनत्वादियाथार्थ्य-रहितम् ॥१७॥

यद्येवं पुरुषो बिम्बितः, शक्तिरपि तेन सह बिम्बितेत्याह ।

स्वयं च काञ्चनप्रकाशवर्मणा प्रभाकरे तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ ॥
रसस्य देवताऽसि देवि पुष्करे दिवाकरे मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥१८॥

स्वयमिति- देवि ! स्वयं प्रभाकरे काञ्चनप्रकाशवर्मणा, तथा नृणा-मन्तरे च तस्य सन्निधौ बिम्बिताऽसि अमुत्र आदित्ये इह नृहृदये च पुरुषस्य सन्निधौ उभयत्र हिरण्मयप्रकाशदेहेन बिम्बिता, दीपस्य दीपिकेव शक्तस्य शक्तिस्त्वं राजसे। भूर्भुवःस्वराख्यत्रैलोक्ये देव्याः देवतारूपभेदं कथयत्यु-तरार्धेन। पुष्करे रसस्य देवताऽसि आकाशे भुवलॊके अन्तरिक्षे पृथ्वी-भास्करयोर्मध्ये रसाधिदेवतारूपेण वर्तसे, सोमकलारूपेणावतिष्ठस इत्यर्थः । सोमो भूत्वा रसात्मकः इति हि स्मर्यते। पवमानं रसात्मकं सोममधि-कृत्य ऋग्वेद एव स्तौति नवमे मण्डले। तान्त्रिकाश्च श्रीविद्यां नित्यचन्द्र-कलामुपासते।

दिवाकरे मयूखदेवताऽसि जगज्जीवनाधारभूतधर्मप्रकाशाद्याविष्क/ रश्मिदेवता दीप्यसे स्वर्लोके इत्यर्थः । भोगदेवताऽसि देहिषु भूलोके अस्मदादिषु भोक्तृत्वसामर्थ्य विशिष्टाग्निशक्तिस्वरूपा ज्वलसीत्यर्थः। रसापरपर्यायस्य अमृतात्मनः सोमस्य भोग्यत्वम् अग्नेर्भोक्तृत्वं च श्रुतिमतम् । ’सोमो वा अन्नम् अग्निरन्नाद’ इति हि ब्राह्मणम्। पृथ्व्याः अग्निदेवताकत्वात् भूजुषामध्यात्ममग्निर्भोक्तेत्युपपद्यते ॥१८॥

एवं सोमसूर्याग्निशक्तिदेवतामयीं त्रिलोकव्यापारां प्रतिपाद्य ईश्वरेण सहेश्वर्याः पुनः मनुष्यलोक-पितृलोक-देवलोकाधिष्ठानमाह ॥

विसर्जनेन भूयसा नभस्यमुत्र भास्करे महीषु चाम्बिके युवां विधाय देहिनो बहून् ॥
क्षितेः सुधाकरं गतान्पितन्विनेतुमव्यये तनू च तत्र बभ्रथुः प्रपञ्चराज्ञि मायया ॥१९॥

विसर्जनेनेति- नभसि अन्तरिक्षे भुवर्लोके अमुत्र भास्करे आदित्य-लोके महीषु पृथ्वीलोकेषु च बढ्यो भुवः वेदेषु गीयन्ते तिस्रः पृथिव्यः इति, कुजादिग्रहाणामुपलक्षणं वा स्यात् । हे अम्बिके युवाम् ईश्वरौ भूयसा विसर्जनेन भूरिसृष्ट्या बहून् देहिनो विधाय तत्तल्लोकाचितान् जीवराशीन् देवसमूहान्वा उत्पाद्य, क्षिते: पृथ्व्याः अपादानं, सुधाकरं गतान् पितृन् चन्द्रलोकम् इतः प्रेत्य धूमादिमार्गेण प्राप्तान् पितृन् विनेतु सम्यक् शासनाय तनू च बभ्रथुः पुरुषः शक्तिश्च पृथक् स्वं स्वम् उचितं देहं स्वीकृतवन्तावित्यर्थः । लीलाशरीरग्रहणाभिप्रायमेतत् । अव्यये सम्बोधनम्, अक्षय्ये प्रपञ्चराज्ञि सम्बोधनं, जगदधीश्वरि ॥१९॥

भर्भुवःस्वलॊकेषु अधिष्ठानतया विराजमान पुरुषमूर्तिभेदं त्रिमूर्तिवादिना-माशयानुसारेणाह॥

नभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरं दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् ॥
इहास्मदन्तरालयं वदन्ति विष्णुमच्युतं सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणी ॥२०॥

नभोऽन्तरे इति- जन्मिनां सवित्रि देहिनां जनयित्रि ! नभोऽन्तरे अन्त-रिक्षान्तरे आकाशादपि सूक्ष्म विभुं व्यापकं हिरण्मयं पुरुषं हरं प्रचक्षते शिवमाहुः। दिनेशबिम्बबिम्बितं पङ्कजासनं भणन्ति सूर्यमण्डलान्तर्वतिनं पुरुषं ब्रह्माणं ब्रुवन्ति। इह अस्मदन्तरालयम् अच्युतं विष्णुं वदन्ति अत्र भूलोके अस्माकं हृदयमाश्रित्य तिष्ठन्तं विष्णु गायन्ति। इयं त्रिमूर्तिवादि-धोरणी। स्पष्टम्। धोरणी सम्प्रदाय इत्यर्थः ॥२०॥

पौराणिकमूर्तित्रयमुक्तम्। वेदान्तिनां मतमुपपादयति ।।

नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया ॥
विराजमानमक्षरं विराजमन्तरे नृणां सवित्रि तत्त्ववेदिनामियं तु नामकल्पना ॥२१॥

नभोऽन्तरे इति- नभोऽन्तरे हिरण्मयाङ्गम् ईश्वरं प्रचक्षते दिनेशबिम्ब-पूरुषम् आख्यया हिरण्यगर्भ नृणाम् अन्तरे विराजमानम् अक्षरं विराजं प्रचक्षत इति शेषः। विराट हिरण्यगर्भ ईश्वरः त्रयः पुरुषाः क्रमशः हृदये आदित्ये अन्तरिक्षे च कीर्तिताः । सवित्रि सम्बोधनम्, इयं तु तत्त्ववेदिनां नाम-कल्पना। स्पष्टम् ॥२१॥

अथ प्राचीनं वैदिकं मतमनुसृत्य मूर्तित्रयमुपपादयति ॥

हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके8

हिरण्मयेति- अम्बरे अन्तरिक्षे भुवर्लोके हिरण्मयाङ्गम् ज्योतिर्मयं पुरुषं सोमं वदन्ति, हे अम्बिके ! दिवाकरस्य मण्डले बिम्बितं तु पुरन्दरम् इन्द्रं वदन्तीति शेषः, इन्द्रस्य सूर्यात्मनाऽवस्थितत्वं वेदे प्रसिद्धम्। मन्त्रदृष्टिश्च भवति ’यदद्य कच्च वृत्रहन् उदगा अभि सूर्य। सर्वं तदिन्द्र ते वशे’। इति। इह शरीरिणामस्माकमन्तरे हृदये भासुरं पुरुषम् अग्निमालपन्ति । हे शिवे! चिरन्तनोक्तिदर्शिनां मन्त्रद्रष्टणामियं प्रणालिका पद्धतिारत्यथः । अतीतेषु सर्वत्र श्लोकेषु हिरण्मयत्वं दिव्यत्वगमकज्योतिर्मयत्वेन ग्राह्यम् ॥२२॥

अथ पञ्चमूर्तिवादिनां मतमुपपादयति ॥

सरोरुहाक्ष-वाग्वधूमनोहरौ तु पूर्वव-त्सुधांशुबिम्बपूरुषस्तु रुद्रसंज्ञकः शिवे ॥
हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥२३॥

सरोरुहेति- ब्रह्म-विष्णु-रुद्र-महेश्वर-सदाशिवाख्याः पञ्चमूर्तयः शैव-शाक्तागमप्रसिद्धाः। सरोरुहाक्ष-वाग्वधूमनोहरौ तु पूर्ववत् सरोरुहाक्षः विष्णुः वाग्वधूमनोहरो ब्रह्मा च पूर्ववत् आदित्यालयो ब्रह्मा अस्मदन्तरालयश्च विष्णुरिति भावः। हे शिवे ! सुधांशुबिम्बपूरुषस्तु रुद्रसंज्ञक: सोममण्डल-स्थः रुद्रमूर्तिरित्यर्थः। अन्तरिक्षजातः हिरण्यमयः ईश्वरः भुवर्लोकाधिष्ठाता व्यापको महेश्वरः। सदेव वस्तु परं ब्रह्म सदाशिवः। हे काञ्चनाङ्गि हिरण्मयगात्रि ! पञ्चमूर्तिवादिनां सिद्धान्त इत्यर्थः ॥२३॥

अथ प्रथम-द्वितीयस्तबकयोः प्राधान्येन प्रतिपादितानि महेश्वर्याः षड्-रूपाणि क्रमेणाह प्रभोरित्यादिना ॥

प्रभोः प्रमाऽदितस्ततः प्रमावती स्वयं पृथ-ग्विहायसा शरीरिणी प्रभौ ततो हिरण्मये ॥
हिरण्मयाङ्गनाकृतिनभोऽन्तरे च भास्करे तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥२४॥

प्रभोरिति तत्र प्रथमं त्रिरूपं प्राक्सृष्टः, द्वितीयं रूपत्रयं सृष्टिसापेक्ष-मिति च ज्ञेयम् । आदितः आदौ प्रभो पुरुषस्य प्रमा चित्, ततः स्वयं पृथक् प्रमावती ज्ञानवती, प्रथमम् अव्यक्तात्पुरुषात्परस्मादभिन्ना तस्य चित्तपस्स्व-रूपिणी, द्वितीयं स्वरूपं तु पृथगात्मतया सर्गनिमित्तभूता शक्तिः, तृतीयं तु विहायसा शरीरिणी आकाशेन शरीरवती, ’दक्षाददिति’रिति प्रथमस्तबके पठितम्। ततो नभोऽन्तरे भूर्भुवःस्वराख्यत्रैलोक्यसर्गान्तःपातिन्यन्तरिक्षे हिर-ण्मये प्रभौ पुरुष हिरण्मयाङ्गनाकृतिः, तथा भास्करे आदित्ये देहिनामन्तरेषु हृदयेषु च उमा महेश्वरी जयति उत्कर्षेण वर्तते ॥२४॥

स्तबकमुपसंहरति ।।

मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी-दविष्ठपादपङ्कजा धुनोतु कष्टजालकम् ॥
इमे च कोमलैः पदैरमूल्यतल्पशालिन-स्तदीयमञ्चरूपतां भजन्तु पञ्चचामराः ॥२५॥

मदीयमिति अखिलस्य विष्टपस्य अम्बिका सकलभुवनमाता, कीदृशी? दुष्टधीदविष्ठपादपङ्कजा दुर्बुद्धीनां दूरतमे दुर्लभे अस्याः पादार-विन्दे इत्यर्थः। मदीयं कष्टजालकं धुनोतु हरत्विति भावः । कोमलैः ललितैः पदैः रचिताः अमूल्यतल्पशालिनः अनर्घशय्याशोभिनः पञ्चचामराः एतदाख्यवृत्तकल्पिताः श्लोकाः तदीयमञ्चरूपतां भजन्तु तस्याः मञ्चाकारतां प्राप्नुवन्तु। तल्पः शय्यावाचकः, पदानां याऽन्योन्यमैत्री सा शय्येत्याहुः । बन्ध-स्य परिवृत्तिसहिष्णुत्वाभावः शब्दपाकः, पदान्तरासहिष्णुत्वं शय्या इत्येके। शय्याशब्दपाकयोर्भेद: सौरभ-परिमलयोरिव सूक्ष्मोऽवगन्तव्यः। पञ्चचामराणां मञ्चस्थानीयत्वं काव्यबन्धविशेषरूपशय्या तल्पस्थानीया । एवं तल्पे श्लेषो बोध्यः। कोमलैः परित्यत्रापि सरलवर्णसमुदायनिर्मितः काव्यबन्ध-विशेषः शय्यावाच्यः। ललितैः अङ्कः कलाचित्रितैः रचितस्तल्पः, एवं सरल-वर्गसमुदायानां ललितकलाचित्रिताङ्कस्थानीयत्वं च बोध्यम्। पुरुषसहचर्याः महेश्वर्याः, सह पत्या रहसि विलसितं स्यात्पर्यः इव मदीयेऽस्मिन् पञ्च-चामरस्तबके इति मञ्चपदेन ध्वनितम्। सर्वत्रेश्वरोपन्यासमुखेनैव ईश्वर्याः स्वरूपविवरणात्, तस्याः पृथग्वर्तनेऽपि ईश्वरादवियोज्यत्वाच्च औचित्यपो-षक मञ्चत्वारोपणं पञ्चचामरेष्वित्यलम्। कोमलपदामूल्यतल्पेषु श्लेषः । पञ्चचामराणां वृत्तानां मञ्चत्वेनारोपणाद्रूपकमलङ्कारः ॥२५॥

द्वितीयः स्तबकः सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates