ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




एकादशः स्तबकः

अत्र यथापूर्वं हास-अथ अस्मिन् स्तबके पादादिकेशान्तस्तुतिर्भवति । स्तुतिपरः प्रथमः श्लोकः॥

झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने ॥
दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥१॥

झषेति- ईशाने ईश्वरे विषये, झषकेतुना मीनध्वजेन मन्मथेनेति यावत्, प्रयुक्तः क्षिप्तः सम्मोहनचूर्णमुष्टि: सम्मोहयतीति सम्मोहनं चूर्णं तस्य मुष्टि: सङग्राहः धरदुहितु: पार्वत्याः हासः अस्माकं वशे भुवनं करोतु विदधातु। ईश्वरं स्ववशे स्थापयितुं झषकेतुप्रयुक्तसम्मोहनचूर्णमुष्टितामापन्नो पार्वत्या मन्दहासोऽस्माकं मानुषाणां भुवनम् अन्यः असुरादिभिराक्रान्तम् अस्मद्वशे कर्तुं सुतरां समर्थ इति भावः । अत्र हासस्य सम्मोहनचूर्णमुष्टित्वेन सम्भाव्यमानतया गम्योत्प्रेक्षा ॥१॥

उपजीवद्भिः कान्ते- र्लेशांस्ते जगति सुन्दरैर्भावैः॥
उपमितुमगङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥२॥

उपेति- अम्ब, जगति लोके ते तव कान्तेः शोभायाः लेशान् लवान् उप-जीवद्भिः आश्रित्य जीवद्भिः सुन्दरैर्मनोहरैर्भावैः पदार्थंः तव अङ्गानि कर-चरणादीनि उपमितुं तुलयितुं यतमानः प्रयत्नं कुर्वन्नहं प्रायः प्रायेण लज्जे जातलज्जोऽस्मीत्यर्थः। लोके मुखादेराह्लादकत्वादिधर्म द्योतयितुं मुखाद-न्यत्र स्थितेन स्वतःसिद्धेन चन्द्रादिना औपम्यं ब्रुवते कवयः । इह तु त्वद-ङ्गसौन्दर्यवर्णने उपमानार्थाः सर्वेऽपि लोके सुन्दरा: भावाः त्वत्कान्तेर्लब्ध-सत्ताकाः, त्वत्कान्तेः पृथक्कान्त्या रहिताः अत एव न भवन्ति स्वतःसिद्धाः । उपमानस्य विषयिणो विषयस्योपमेयस्य च पृथग्भावे सत्येव हि उभयोः साधर्म्यवर्णनादुपमायाः सम्भवः । तस्मादसम्भवेऽस्मिन् त्वदङ्गसौन्दर्योपमान-कथनकर्मणि प्रवृत्तस्य मम लज्जा। तथाऽपि न प्रयत्नस्त्यक्तः । अत एव ’प्रायो लज्जे’ नात्यन्तिकी लज्जा मम। तस्मात् त्वत्कान्तेरन्यत्र न काऽपि कान्तिः इत्यतः कुत उपमानं स्यात्, अत्र द्वितीयसदृशव्यवच्छेदफलकवर्णन-विषयीभूतत्वात् अनन्वयध्वनिः । रसगङ्गाधरकारास्तु-’सर्वथैवोपमानिषेधो-ऽसमाख्योऽलङ्कारः’ इत्याहुः। ’अयं च अनन्वये व्यङ्गयोऽपि तच्चमत्कारा-नुगुणतया पृथगलङ्कारतां भजते’ इति तैरेवाभिहितम् ॥२॥

अवतंसपल्लवतुला बिभ्राणं श्रुतिनतभ्रवः शिरसि ॥
चरणं व्रजामि शरणं वामं कामारिललनायाः॥३॥

अवतंसेति- श्रुतिनतभ्रवः श्रुतिः वेद: नतभ्रूरिव सुन्दरी तस्याः शिरसि अग्रे वेदान्ते इत्यर्थः, अवतंसपल्लवतुलां अवतंसार्थेन अलङ्कारार्थेन पल्लवेन किसलयेन तुलां साम्यं बिभ्राणं धारयमाणं ’तुला राशौ पलशते साम्येऽप्युन्मानसाधने’ इति नानार्थरत्नमाला। कामारिललनाया हरसुन्दर्याः वाम सुन्दरं चरणं पादं, यद्वा दक्षिणेतरं, हरस्य वामार्धं हि देवी, शरणं व्रजामि । वेदशिरसि भूषणं भवति किसलयोपमं देवीचरणम्। ’सर्वे वेदा यत्पदमामनन्ति’ इति श्रुति-स्तुतं तव चरणं मम शरणमिति भावः ॥३॥

शङ्करनयनोन्मादन- मतिमधुरं भाति मतिमता वर्थे ।
जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥४॥

शङ्करेति- मतिमता धीमता वर्गा स्तुत्ये अम्ब, शङ्करनयनोन्मादनं शिवनयनसम्मोहनम् अतिमधुरम् अत्यन्तरमणीयं भवत्या जङ्घायुगं प्रसृताद्वयं कुसुमपृषत्कस्य पुष्पबाणस्य मन्मथस्येति यावत्, सर्वस्वं सर्वधनं भाति राजति । जङ्घायुगं मन्मथस्य सर्वस्वमिति सम्भावितम् ॥४॥

एककलोकने द्वय मन्योन्यस्मरणहेतुतामेति ॥
देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥५॥

एकैकेति- भवस्य देवि, महेशमहिषि, तव ऊरु: सक्थि गजेन्द्र वदनस्य गणपतेः शुण्डा हस्तश्च द्वयं कर्तृ, इमे द्वे अपीत्यर्थः । एकैकलोकने एक-कस्य लोकने दर्शने कर्मणि षष्ठी, ‘एक बहुव्रीहिवत्’ इत्यनेन द्विरुक्तस्य एक-शब्दस्य सुब्लोपः। पुंवद्भावश्च, अन्योन्यस्मरणहेतुताम् अन्योन्यस्य परस्परस्य स्मरणस्य हेतो वस्ताम् एति गच्छति । कर्मव्यतिहारे सर्वनाम्नि द्वे वाच्ये इति वातिकात् क्रियाविनिमये अन्यपदस्य द्वित्वम् । अयं भावः, द्वयोरूरु-शुण्डयोरेकस्य ऊरोलॊकने शुण्डास्मृतिर्जायते अपरस्याः शुण्डायाः लोकने ऊरोः स्मृतिर्भवति। एवं द्वयं चान्योन्यस्मारकं भवति । ’सदृशानुभवाद् वस्तुस्मृतिः स्मरणमुच्यते।’ इति साहित्यदर्पणलक्षणात् स्मरणालङ्कारः ॥५॥

नाकोऽवलग्नमीश्वरि कटिरवनि गिनां जगन्नाभिः॥
कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः॥६॥

नाक इति- ईश्वरि ! ते कुक्षौ जठरे नाक: स्वर्गलोक: अवलग्नं मध्यम् अवनि: भूलोक: कटि: श्रोणिः, भोगिनां जगत् पाताललोक: नाभिः, एवं त्रयो लोकाः स्वर्गावनिपातालाः सन्ति इति अध्याहार्यम्। न केवलं ते कुक्षावेव त्रयो लोकाः, बहिरपि वपुषि अवलग्नकटिनाभिरूपास्ते सन्तीति भावः ।।६।।

मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य ।
असिधेनुकां विशके निशिततराग्रां तु रोमालिम् ॥७॥

मन्य इति- अचलपुत्रि! पार्वति, तव वेणी बन्धपरिष्कृतां केशपाशी मदनस्य महाकृपाणं महान्तं कृपाणं खड्गं मन्ये शङ्के। रोमालि रोमराजिं तु निशिततराग्राम् अतिशयेन निशितम् तेजितम् अग्रं यस्यास्ताम् असिधेनुकाम् असिपुत्रिकां विशङ्के। स्फुटा स्वरूपोत्प्रेक्षा। ॥७॥

द्विरदवदनेन पीतं षड़दनेनाय सकलभुवनेन ॥
अक्षय्यक्षीरामृत- मम्बायाः कुचयुगं जयति ॥८॥

द्विरदेति- द्विरदवदनेन गजमुखेन गणपतिनेति गजमुखेन गणपतिनेति यावत्, षड्दनेन षण्मुखेन सुब्रह्मण्येन, अथ अनन्तरं सकलभुवनेन पीतं धीतं अक्षय्यक्षीरामृतं क्षेतुं शक्यं क्षय्यं न क्षय्यम् अक्षय्यं क्षीरं तदेवामृतं यस्य तदम्बाया: पार्वत्याः कुच-युगं स्तनयुगलं जयति उत्कर्षेण वर्तते ॥८॥

जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्धाति ॥
सान्द्रग्रथितमनोज्ञ- प्रसूनमालेव भुजयुगली ॥९॥

जगदिति- जगदम्ब! लोकमातः, तव भुजयुगली बाहुद्वयी आगलात् कण्ठम् आरभ्येत्यर्थः, आङ अभिविध्यर्थकः, पार्श्वद्वितये पार्श्वस्य द्वितये उभयोः पार्श्वयोः इत्यर्थः लम्बमाना सान्द्रग्रथितमनोज्ञप्रसूनमाला सान्द्रं निबिडं यथा तथा ग्रथिता गुम्फिता मनोज्ञा रुचिरा प्रसूनमाला पुष्पमाला इव भाति। कण्ठात् उभयपार्श्वगा भुजयुगली पुष्पमालेवेति सम्भावनया उत्प्रेक्षालङ्कारः । पुष्प-माला कोमलाऽपि सान्द्रग्रथिता, भुजयुगली च कोमलाऽपि दृढसन्धिबन्ध-सम्पन्नति गम्यते ॥९॥

जानन्ति शक्तिमसुराः सुषमा सख्यो वदान्यतामृषयः॥
मृदुतां तवाम्ब पाणे-र्वेद स देवः पुरां भेत्ता ॥१०॥

जानन्तीति- अम्ब, असुराः तव शक्ति जानन्ति, तस्यास्तेषां सम्मर्दन-लाभात् । सख्यः सुषमां परमां शोभा जानन्ति, सहवासभाग्यात्तासां तव पाणे: लोकोत्तरशोभा विदिता। ऋषयः मुनयः वदान्यतां दानशौण्डतां जानन्ति तेषाम् अभीष्टवरलाभात्। पुरां भेत्ता स देवः शिवः पाणेर्मुदुतां कोमलतां च जानाति, पाणिग्रहणात् । शक्तेत्यसुराः, सुषमामयीति सख्यः, वदान्येति ऋषयः मृदुलपाणिरिति पुरभिच्च त्वां जानन्ति । । बहुभिर्बहुधोल्लेखनादुल्लेखाल-कारः ॥१०॥

कम्बुसदगम्ब जगतां मणिवेषोडुलजाकृताकल्पः॥
कण्ठोऽनघस्वरस्ते धूर्जटिदोनयनकर्णहितः॥११॥

कम्ब्विति- जगताम् अम्ब! मातः, ते तव कण्ठः कम्बुसदृक् कम्बुना शवेन सदृक् तुल्यः, मणिवेषोडुस्रजाकृताकल्प: मणिवेषया कण्ठालङ्कारार्थ-रत्नरूपेण स्थितया उडुस्रजया उडुरचितया नक्षत्ररचितया स्रजया मालया कृतः कल्पितः आकल्पः भूषणं यस्य सः रत्नमिषेण नक्षत्राणि मालायन्त इत्यर्थः । अनघस्वरः अनघो निर्दुष्ट: श्रवणसुभगः स्वरः कण्ठध्वनिर्यस्य सः, धूर्जटिदो-यनकर्णहितः धूर्जटेः हरस्य दोष्णः भुजस्य नयनस्य दृष्टे: कर्णस्य श्रोत्रस्य च हतः अनुकूल: श्रवणरतिजनक इति यावत् । कण्ठस्य कम्बुसादृश्यं धूर्जटि-हितम् आलिङ्गनसुखकरत्वात्, उडुस्रजाकल्पत्वं शिवदृष्टिहितं नयनसुभग-वात्, अनघस्वरत्वं कर्णहितं श्रुतिसुखत्वात्। यथासङ्ख्यालङ्कारः ’यथा-वयं क्रमेणव क्रमिकाणां समन्वयः’ इति तल्लक्षणात् ॥११॥

हरकान्ते वदनं ते वर्श दर्श वतंसशीतांशुः॥
पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥१२॥

हरकान्त इति- हरकान्ते हरसुन्दरि भगवति ! वतंसशीतांशुः हरशिरो-भूषणचन्द्रः ते तव वदनम् आननं दर्श दर्श दृष्टा दृष्टा, पूर्णोऽपि प्रायेण मायशः असूयया त्वन्मुखप्रभाऽसहनजन्येन गुणवति त्वद्वदने दोषारोपेणेत्यर्थः, शुष्क: नीरसः सन कृशतां कार्यमवाप । शिवशिरःस्थार्धचन्द्रस्यात्वेि उमामुखदर्शनजाता चन्द्रस्यासूया हेतुरिति सम्भाव्यमानत्वात् उत्प्रेक्षा गम्यते ॥१२॥

चन्द्र रणाय सकला चपलाक्षीवदनजातिराह्वयताम् ॥
तं तु महसा मुखं ते महेशकान्ते जिगायकम् ॥१३॥

चन्द्रमिति- महेशकान्ते ! सकला चपलाक्षीवदनजातिः चपलाक्षीणां सुन्दरीणां वदनानां जाति: समस्तः समूह इति यावत्, चन्द्रं रणाय आह्वय-ताम्। सर्वाणि स्त्रीजातिवदनानि समूह्य चन्द्रं प्रभया जेतुं प्रयतन्तामि-त्यर्थः। ते तव एकं मुखं वदनं तं तु सकलस्त्रीवदनैरभियुज्यमानमपि अजीय-मानं तमेव चन्द्रं महसा रोचिषा जिगाय अजयत्। तथाविधं सर्वशोभाति-शायि महस्ते मुखस्येति भावः ॥१३॥

वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् ॥
निजित्य कमलजाते- रमलं महदाजहार यशः॥१४॥

वदनेति- ईश्वरि ! तव वदनमेव कमलं वदनकमलं कर्तृ, कमलजयात् कमलस्य जयात् कर्मणि षष्ठी, दर्पितं गर्वितं सुधाभानुम् अमृतांशुं चन्द्रं निजित्य कमलजातेः कमलसामान्यस्य ’जातिर्जातं च सामान्यं’ इत्यमरः । महदमलं शुभ्रं यशः आजहार सम्पादयामास। कमलजयजातचन्द्रदर्पदमनेन कमलजातेरेव यशस्सम्पादितं महेशकान्तामुखेन । अत एव मुखेन कमल-स्योपमा प्रख्याता। एवं कमलजातेर्मुखोपमानतारूपं यशस्सम्पादितमिति कमलस्योपमानतालाभहेतुसम्भावनाया उत्प्रेक्षा गम्या ॥१४॥

लावण्यमरन्दाशा- भ्रमद्भवालोकबम्भरं परितः॥
मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः॥१५॥

लावण्येति- परितः अभितः लावण्ये सौन्दर्ये एव मरन्दे मकरन्दे आशया अधिकापेक्षया भ्रमन्तः भवालोकाः शिवदृष्टय एव बम्भराः भ्रमराः यस्य तत् मुग्धं सुन्दरं नगाधीशनन्दिन्याः पार्वत्याः मुखारविन्दं मुखमेवारविन्दं कमलं जयति उत्कर्षेण वर्तते। लावण्य-मरन्दयोः, भवालोक-भ्रमराणां मुखा-रविन्दयोश्च ताद्रूप्येण रञ्जनात् रूपकमलङ्कारः। सर्वेश्वरदृष्टि: भगवती-वदनामृतग्रहणलालसेति भावः ॥१५॥

शुद्धन्दुसारनिर्मित- मास्याचं ते भवानि भालमयम् ॥
सकलरमणीयसार-निमितमर्धान्तरं विधिना ॥१६॥

शुद्धेन्द्विति- भवानि ! शिवे, भालमयं नेह मयटो विकारार्थः, आनन्द-मयादिवत् प्राचुर्यार्थकः, भालप्रचुरं ते तव आस्यार्धम् आस्यस्य मुखस्य अर्ध समभागः ’पुंस्योऽधू समेंशके’ इत्यमरः। विधिना विधात्रा शुद्धेन्दुसार-निर्मितं शुद्धेन इन्दुसारेण इन्दोः सारेण अमृतेन निर्मितं भवति, अत एव धाव-ल्यप्रसरत्प्रभामयत्वादि मुखस्योर्वार्धस्य भवति। अर्धान्तरम् अन्यदधु सकल-रमणीयसारैः सकलानां रमणीयानां सारैः स्थिरांशैः निर्मितम् ’सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’। तव ऊर्ध्वमास्या) प्रभामयममृत-खण्डम्, अधरमास्यार्धं घनं सकलसौन्दर्यखण्डम् इति भावः । सर्वजीवनधारण-सकलभोगसाधनबलनिधानं तवास्यमिति भावः ॥१६॥

वदनं तवाद्रिदुहित- विजिताय नताय शीतकिरणाय ।
द्वारपपदवीं प्रददा-वयमिह दरहासनामधरः॥१७॥

वदनमिति- अद्रिदुहित: ! पार्वति, तव. वदनं कर्तृ, विजिताय शीतल-भया साधनेन पराजिताय, अत एव नताय जितत्वान्नम्राय, शीतकिरणाय न्द्राय द्वारपपदवी द्वारपस्य पदवी द्वारपालस्थानम् इत्यर्थः प्रददौ विततार। नतश्च चन्द्रः दासो भूत्वा द्वारपालत्वेन स्थापित इत्यर्थः । अयमेव चन्द्रः इह रहासनामधरः दरहासो मन्दहास इति नाम्नो धरः धारक: चन्द्रो मुखे मन्द-स इति नाम्ना स्थापितः । कविप्रौढोक्तिसिद्धा सहेतुका असिद्धविषया वरूपोत्प्रेक्षा ॥१७॥

ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् ॥
कवयो वयं वदामः सितमहसं देवि ते हासम् ॥१८॥

ते इति- देवि, सन्तः सज्जनाः ते ते पूर्वे कवयः सितमहसं सितं शुभ्रं हः शोचिर्यस्य तं चन्दं, नयनं नेत्रं, ताटकं कर्णभूषणम्, आलयम् आवासं, कुटं किरीटं वदन्तु। त्रिणेत्रस्य वामार्धे चन्द्रो लोचनतां गतः, ततो देव्या-बन्द्रो नयनं भवतीति पुराणप्रसिद्धम्। एके चन्द्रं देव्यास्ताटङ्कमाहुः ’ताट-युगलीभूततपनोडुपमण्डला’ इति ललितासहस्रनामावलौ। तत्रैव- ’चन्द्र-ण्डलमध्यगा’ इति चोच्यते । ततः देव्यालयं वदन्ति चन्द्रम्। चन्द्रचूडेति सिद्धेर्मुकुटं चाहुस्तम्। एवं चतुर्धा भणन्तु पूर्वे सन्तः कवयः । सितमहसं हासं वदामः । अत्र परपक्षानङ्गीकारोपन्यासेन सितमहसः सरूपतासम्भावनायाः सापह्नवोत्प्रेक्षा। ’नयनं ताटङ्कमाननं मुकुटम्’ इति ठान्तरम् ॥१८॥

बिम्बाधरस्य शोभा- मम्बायाः को नु वर्णयितुमीष्टे ॥
अन्तरपि या प्रविश्य प्रमथपतेवितनुते रागम् ॥१९॥

बिम्बेति- अम्बायाः पार्वत्याः बिम्बाधरस्य बिम्बं रक्तफलमिव अधर ष्ठस्तस्य शोभा कान्ति को नु वर्णयितुं सादृश्योपन्यासेन कथयितुम् ईष्टे भवति ? न कोऽपि प्रभुरित्यर्थः। वर्णनाशक्तेर्हेतुमाह। या शोभा प्रमथपतेः इस्य अन्तरपि प्रविश्य रागम् अनुरागं वितनुते। महाविरक्तस्य भगवतो रुद्रस्य दुरवगाहं हृदयमपि बिम्बाधरशोभा प्रविश्य तद्रक्तवर्णम् अनुरक्तं करोति, बिम्बवदधरस्य रक्तवर्णत्वात् युक्तमेव। रागस्य श्लिष्टार्थत्वादनुरक्तं करोतीति भावः ॥१९॥

गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः॥
अधरपुटे त्रिपुरजिते दधासि पीयूषमम्ब त्वम् ॥२०॥

गणपतय इति- अम्ब, त्वं गणपतये तव पुत्राय स्तनघटयोः पीयूषम् अमृतं स्तन्यरूपेण दधासि धारयसे, सप्तलोकभक्तेभ्यः पदकमले पादारविन्दे पीयूषं मकरन्दरूपेण दधासि, त्रिपुरजिते कान्ताय हराय अधरपुटे अधरोष्ठतले रसरूपेण पीयूषं दधासि। एवं पुत्राय, भक्तेभ्यः, कान्ताय च तत्तदनुरूप-रूपेण अमृतं ददासीति भावः ।।२०॥

दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना ॥
भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥२१॥

दृगिति- शिवे, दृक्पीयूषतटिन्यां दृक् दृष्टिरेव पीयूषतटिनी अमृतसरित् तस्यां नासासेतौ नासा नासिकैव सेतु: प्रवाहप्रतिबन्धकं मृत्पाषाणादिनिर्माणं सेतु: उच्यते। तस्मिन् विधिना विधात्रा विनिर्मिते सति, ते मुखे भासां । कान्तीनां विहारः विलासः निरातङ्कः निर्भयो भवति । असति सेतो नदीप्रवाहभयाद्विहारो निश्शङ्को न स्यात् । अत एव विधि: नासां सेतुत्वेन निर्माय, मुखभासः प्रवहन्त्यां दृशि मा मग्ना भूवन्निति दृग्देशस्य मर्यादा व्यधात्। अत्र दृक्तटिन्योः नासासेत्वोश्च ताद्रूप्यात् रूपकं तच्च, सेतुनिर्मितेः हेतोः भासां निरातङ्कविहारफलकत्वेन सम्भावनायाः फलोत्प्रेक्षाया अङ्गम् । एवमुभयोरङ्गाङ्गिभावेन सङ्करः ॥२१॥

कमलाविलासभवनं करुणाकेलीगृहं च कमनीये ॥
हरदयिते विनतहिते नयने ते जननि विजयते ॥२२॥

कमलेति- जननि ! कमनीये सुन्दरे ते तव नयने उभे नेत्रे कमला-विलासभवनं लक्ष्मीविहारगृहं, करुणाकेलीगृहं कारुण्यलीलावासभूः, हरदयिते हरस्य दयिते प्रिये, विनतहिते नम्राणाम् अनुकूले, एवंभूते विजयेते विजयं कुरुतः ॥२२॥

सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते ॥
कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥२३॥

सर्वाणीति- इन्दुचूडकुलकान्ते ! चन्द्रशेखरकुलाङ्गने (कुलयोषे इति च पाठः) देवि, तव सर्वाणि अपि अङ्गानि करचरणादीनि सकलानि श्रीमन्ति श्री: शोभा एषाम् अस्तीति श्रीमन्ति भवन्तीति शेषः। कविनिवहविनुतिपात्रे कविनिवहस्य कविसमूहस्य विनुतीनां स्तुतीनां पात्रे आस्पदे श्रोत्रे उभे श्रिया-वेव, न तु श्रीमती। विनुतीनाम् आधेयत्वात् श्रोत्ररयाधारकत्वाच्च श्रोत्रं पात्रं भवति । अन्येषामङ्गानां श्रीमत्त्वमुक्तम् । श्रोत्रं तु श्रीरेवेति विशेषोऽस्य अन्येषामङ्गानां च। कथमिदमुच्यते श्रोत्रं न श्रीमत् किंतु श्रीरेवेति ? श्रीकर्ण एष इत्यतीतस्तबकश्लोकव्याख्याने किञ्चित् प्रदर्शितम्। श्रोत्रमेव श्रीरित्यत्र श्रीशब्दस्य सम्पदर्थः । छान्दोग्ये पञ्चमप्रपाठके ’यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ इत्यारभ्य ’अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसि’ इति श्रेष्ठं प्राणं प्रत्याह श्रोत्रमिति श्रूयते । सम्पद्यमानानां सर्वासां विद्यानां शब्दात्मकतया श्रोत्रेऽन्तस्सन्निहितत्वात् श्रोत्रं सम्पदिति भावः ॥२३॥

अपि कुटिलमलिनमुग्ध स्तव केशः पुत्रि गोत्रसुत्राम्णः ।।
बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥२४॥

अपीति- गोत्रसुत्राम्णः पर्वतेन्द्रस्य पुत्रि, देवि तव केशः कचः कुटिल मलिनमुग्धः कुटिलो वक्र: न ऋजुः, मलिनः न शुद्धः, मुग्ध: जडत्वात् मूढः च अपि, कान्यपि सामान्यानि सुमानि पुष्पाणि बिभ्रत् दधत् भुवनप्रभोः शिवस्य हृदयं हरति। कौटिल्य-मालिन्याद्यपकर्षकगुणविशिष्ट: केशः हृदय-माकर्षतीति लोकविरुद्धमेतत्। अथ न विरुद्धं, यतः कुटिल: उन्नतानतः केशो दर्शनीयः, मलिनः कृष्णवर्णत्वात् कचस्य मेघ-मयूरादिवर्ण एव सौन्दर्या-वहः, मुग्धः सुन्दरः। एवं विरोधस्य परिहारात् किमयं विरोधाभासः; अथवा अपिशब्दस्वारस्यात्, असत्यपि जगत्प्रभुहृदयाकर्षककारणे कार्यस्य हृदयहारि-त्वस्योक्तेविभावना वा? इति विभावना-विरोधाभासयोः सङ्करः। सन्देह-सङ्करोऽलङ्कारः ॥२४॥

चरणादिकुन्तलान्त- प्रकृष्टसौन्दर्यगायिनीरेताः॥
अङ्गीकरोतु शम्भो- रम्भोजगात्मजस्याः ॥२५॥

चरणेति- शम्भोः शिवस्य अम्भोजदृक् पद्माक्षी सुन्दरी उमा चरणादि-कुन्तलान्तस्य पादादिकेशान्तस्य अङ्गस्य प्रकृष्टं श्रेष्ठं सौन्दर्य गातुमासां शील-मस्तीति चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिन्यः ताः आत्मजस्य गणपतेरेताः आर्याः आर्यावृत्तकलिताः स्तुती: अङ्गीकरोतु स्वीकरोतु ॥२५॥

एकादशः स्तबकः सव्याख्यः समाप्तः॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates