उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अस्मिन्नेकोनचत्वारिशे स्तबके देव्याः माहभाग्यं प्रस्तूय मन्त्र-जप-ध्यानः योगसिद्धी: प्रतिपादयति । अत्र श्रीविद्योद्धारश्च द्रष्टव्यः ।।
व्याप्येदमिन्दोर्भुवनं य एवं प्रायेण तस्यामलचन्द्रिकाऽभूत् ॥ मन्दस्तवाति स धुनोतु हासो निश्शेषलोकेश्वरवल्लभायाः ॥१॥
व्याप्येति- य एव प्रायेण बाहुल्येन इन्दोश्चन्द्रस्य इदं पुरो दृश्यमानं मण्डलं व्याप्य तस्य चन्द्रस्य अमलचन्द्रिका प्रसन्ना ज्योत्स्ना अभूत्, स निश्शेष-लोकेश्वरवल्लभायाः समस्तजगद्राजप्रेयस्याः पार्वत्याः मन्दो हासः तव आति व्यथां धुनोतु निवारयतु। आर्तेरमृतं भेषजम्, अमृतमयत्वाच्चन्द्रिकायाः, मन्द-हासश्च चन्द्रिकाभूतत्वोक्तेः । मन्दहासस्यातिहरत्वमुपपन्नम्। मन्दहासश्च-न्द्रिका अभूदित्यत्र हासस्य चन्द्रिकासम्भावनया गम्योत्प्रेक्षा न शक्या । य एव इति एवकारेण चन्द्रिकानिषेधाक्षेपात्, नेयं चन्द्रिका किंतु मन्दहास एवेति गम्यते। तस्मादपह्नवोऽलङ्कारः । ’प्रकृतं प्रतिषिध्यान्यस्थापनं म्या-दपलुतिः’ इति तल्लक्षणात् (साहित्यदर्पणम्) ॥१॥
पूर्णे वियत्येकतटिज्ज्वलन्ती लोकानशेषाननिशं पचन्ती ॥ मेघे कदाचिन्महसा स्फुरन्ती चण्डी प्रचण्डा हरतादघं नः ॥२॥
पूर्णे इति- पूर्णे अखण्डे वियति आकाशे एकतटित् एका अद्वितीया तटित् सती ज्वलन्ती विद्योतमाना, अशेषान् समस्तान् लोकान् अनिशम् अनवरतं पचन्ती परिणमयन्ती परिपक्वान् विदधती, कदाचित् जातु मेघे महसा विद्युद्रूपेण ज्योतिषा स्फुरन्ती क्षणप्रभा, एवम्भूता प्रचण्डा चण्डी नः अस्माकम् अघं दुरितं हरतादपहरतु। सर्वत्र भूमन्याकाशे अतिसूक्ष्मा अन्तर्दृष्टिगम्यैकदेशा व्यापिनी विद्युत् विश्वपरिपाकविधात्री स्थलदृग्गोचरविद्युद्रूपेण कदाचित् स्वसत्तामंशतो व्यञ्जयन्ती महाशक्तिरेन्द्री अस्मत्पापापहाराय प्रभवतु इति तात्पर्यम् ॥२॥
प्रचण्डचण्डी-काल्योरोजस्त्वसाम्यादेकं तत्त्वं, कर्मद्वैधान्नामभेद इति बोध्यम् । काली पाचकशक्ति सम्बोधयति—
गोलानि कान्यप्यधुनोद्भवन्ति जीर्यन्ति कान्यप्यखिलेशकान्ते ॥ यान्त्यम्बिके कान्यपि वृद्धिमत्र पाके भवत्याः परितः प्रवृत्ते ॥३॥
गोलानीति- अखिलेशकान्ते सर्वेश्वरसुन्दरि, अम्बिके ! भवत्याः तव अत्र अस्मिन् पाके परिणमनविधाने परितः सर्वतः प्रवृत्ते प्रचलति सति, कान्यपि गोलानि गोलाकाराणि भुवनानि ब्रह्माण्डानीति यावत्, अधुना सद्यः उद्भवन्ति जायन्ते। कान्यपि गोलानि जीर्यन्ति क्षयं यान्ति। पुनः कान्यपि गोलानि वृद्धि यान्ति वर्धन्ते। सकलभुवनजन्मवृद्धिक्षयकारी तव पाक इत्यर्थः । केषुचिद् भुवनेषु जायमानेषु, अन्यानि क्षीयमाणानि, पुनरितराणि वर्धमानानि च भवन्ति । स ते पाकस्य महिमा येन एकस्मिन् काले देशभेदेषु त्रिविधं कर्म निष्पाद्यते ॥३॥
भासां विनेत्रा महता ग्रहश्च भूरिप्रमाणैर्युतमीशकान्ते ॥ एकैकमण्डं तव लोमवच्चे कस्ते महद्भाग्यमिह बबीतु ॥४॥
भासामिति- ईशकान्ते ईश्वरप्रिये ! महता बहुप्रमाणेन भासां रुचां विनेत्रा सुर्येण, बहुसहस्रगुणितभूमण्डलप्रमाणः सूर्य इति खगोलतत्त्वज्ञाः प्राहुः। भूरि-प्रमाणः प्रभूतप्रमाणः कुजादिग्रहैश्च युतम् एकैकम् अण्डं युतं ब्रह्माण्डं तव लोमवत् लोम्ना तुल्यं त्वत्तनूरुहवत् भवति चेत्, ते तव महत् भाग्यम् ऐश्वर्यम् इह अस्मासु को ब्रवीतु ? न कोऽपि वक्तुं शक्तः। यथा पृथिव्या लोमवत् वनस्पतयो जायन्ते, तनूरुहाश्च अस्मदादिशरीरेभ्यः, तथा देवीशरीरात् परमाकाशात् तत्र तत्र रोहन्ति ब्रह्माण्डानि असङ्खयेयानि। ’एतावान् अस्य महिमा’ ॥४॥
नाथस्य ते रूपमणोरणीयो मातस्त्वदीयं महतो महीयः ॥ जानाति यो देवि रहस्यमेतद् व्याख्यातुमेष प्रभवत्यशेषम् ॥५॥
नाथस्येति- मातः! ते तव नाथस्य ईश्वरस्य रूपम् अणोरणीयः सूक्ष्मात् सूक्ष्मतरं भवति । त्वदीयं रूपं महतो महीयः, गुरोर्गुरुतरम् अत्यन्तं बृहदित्यर्थः ’अणोरणीयान् महतो महीयानात्माऽस्य जन्तोनिहितो गुहायाम्’ इति उभे अणो-रणीयस्त्वं सूक्ष्मत्वात् चित्स्वरूपत्वादन्तर्निहितत्वाच्च, महतो महीयस्त्वं तु विकासित्वात् बृहत्त्वात् सर्वात्मकत्वाच्च । देवि ! य एतद्रहस्यं जानाति स एष: अशेषं समस्तं व्याख्यातु विशेषेण वक्तुं प्रभवति शक्नोति । आत्मनः पुरुषस्य द्रष्टुः अणोरणीयस्त्वम्, आत्मशक्तेः वैभवाविष्कारान्महतो महीयस्त्वं चेति बोध्यम् ॥५॥
यद् गजितं वारिदघर्षणेषु शब्दस्तवायं सुगभीरघोषः ॥ यल्लोकराज्ञि स्फुरितं तदेत-दुज्जृम्भितं किञ्चन कान्तिवीचेः ॥६॥
यदिति- अम्ब ! वारिदघर्षणेष मेघानां सङ्घर्षणेषु यत् गजितं स्तनितं भवति, अयं सुगभीरघोषः सुतरां गम्भीरनिर्घोषः तव शब्दो भवति । स्तनितमुद्दिश्य विधेयस्य शब्दस्य प्राधान्यात् अयमिति पुंल्लिङ्गः। लोकराज्ञि जगदीश्वरि ! यत् स्फुरितं क्षणं ज्वलितं मेघेष्विति शेषः, तदेतत् कान्तिवीचे: तव प्रभोर्मेः किञ्चन उज्जम्भितम् उल्लसितं भवति ॥६॥
इन्द्रस्य वज्र ज्वलितं कृशानो ज्योतिस्सहस्रच्छदबान्धवस्य ॥ पीयूषभानोर्हसितं विसारि जीवस्य चक्षुर्मम तात दैवम् ॥७॥
इन्द्रस्येति- तात अङ्ग ! इन्द्रस्य वज्रं विद्युद्रूपं तेजः, कृशानोरग्नेः ज्वलि-तं ज्वलनं, सहस्रच्छदबान्धवस्य पद्मबन्धोः सूर्यस्य ज्योतिः, पीयूषभानोरमृतां-शोश्चन्द्रस्य विसारि प्रसरत् हसितं प्रकाश इत्यर्थः, जीवस्य देहिनः चक्षुः द्रष्ट तेजः, मम दैवम् सर्वत्र ज्योतिर्मयं मम दैवस्वरूपमिति भावः । एकमेव ज्योतिः इन्द्रस्य वज्रं कृशानोवलितं सूर्यस्य ज्योतिः चन्द्रस्य महः चक्षुषस्तेज इति उपाधिभेदान्नामव्यापारभेदो भवतीत्यत: तत्परं ज्योतिरेकं ममोपास्यं दैवमित्यु-क्तम् ॥७॥
यस्यैव तेजः प्रविभक्तमर्क- विधुच्छशाङ्कानललोचनेषु ॥ गूढं तदाकाशगृहे समस्ता- दन्तानभिज्ञं प्रणमामि देवम् ॥८॥
यस्येति- यस्य दैवस्यैव तेजः अर्कविद्युच्छशाङ्कानललोचनेषु अर्के सूर्ये विद्युति क्षणप्रभायां शशाङ्के सोमे अनलेऽग्नौ लोचने चक्षुषि च प्रविभक्तं पृथ-गिव भिन्नं, आकाशगृहे आकाशमेव गृहं तस्मिन् समन्तात् सर्वतः गूढं गुप्तम् अन्तानभिज्ञं अन्तस्य अवधेः अनभिज्ञम् अविदितावधिम् अनवधिकमिति यावत्, तत् दैवं प्रणमामि ॥८॥
जाग्रत्सु बुद्धिनिमिषत्सु निद्रा शुष्केषु पक्तिस्तरुणेषु वृद्धिः ॥ धीरेषु निष्ठा चपलेषु चेष्टा देवी ममापत्तिमपाकरोतु ॥९॥
जाग्रदिति- जाग्रत्सु बुद्धिः बोधरूपेण स्थिता, निमिषत्सु निमीलितनयनेषु निद्रा सुप्तिरूपेण स्थिता, गुष्केषु विगतरसेषु पक्तिः पाकरूपिणी, तरुणेषु यौवनसम्पन्नेषु वृद्धिः पुष्टिस्वरूपा, धीरेषु विवर्जितमनोविकारेषु निष्ठा दृढा स्थितिः, चपलेषु चञ्चलेषु चेष्टा चलतयाऽवस्थिता, देवी ममापत्तिमापदम् अभाकरोतु दूरीकरोतु। एकस्या एव बुद्धिनिद्रादिभिः बहुधोल्लेखनादुल्लेखा-लङ्कारः ॥९॥
विद्यावतो वादविधानशक्ति- ऊरस्य सङग्रामविधानशक्तिः ॥ नारीमगेर्मोहविधानशक्ति- लॅशत्रयं किञ्चिदपारशक्तेः ॥१०॥
विद्यावत इति- विद्यावतः विदुषो वादविधानशक्तिः वादनिर्वाहसमर्थता, वीरस्य विक्रमवतः सङग्रामविधानशक्ति: युद्धकरणकुशलता, नारीमणेः स्त्रीरत्न-स्य मोहविधानशक्तिः सम्मोहनपटुता इति शक्तित्रयम्, अपारशक्तेः अनन्तायाः महाशक्तेः किञ्चित् अल्पं लेशत्रयं त्रयो लवा एव भवन्तीत्यर्थः ॥१०॥
उत्साहयन्ती तपतां मनांसि सञ्चोदयन्ती च महाक्रियासु ॥ सक्षोभयन्ती हृदयं खलानां सम्मोहयन्ती च पराऽवतानः ॥११॥
उत्साहयन्तीति- तपतां तपसि तिष्ठतां मनांसि उत्साहयन्ती उद्योजयन्ती तेषां मनस्सु उत्साहशक्ति विदधतीत्यर्थः, महाक्रियासु महतीषु क्रियासु तानि सञ्चोदयन्ती प्रेरयमाणा, खलानां हृदयं सङक्षोभयन्ती धर्षयन्ती, सम्मोहयन्ती तेषां हृदये व्यामोहं विदधाना परा अम्बिका नः अस्मान् अवतात् रक्षतु । तपोनिष्ठानामनुग्रहं खलानां निग्रहं च कुर्वाणा परा शक्तिरस्मद्रक्षा भवत्विति भावः ॥११॥
सञ्चालयन्ती सकलस्य देहं व्यानस्य शक्त्या परितो लसन्त्या ॥ जेतुः प्रतापेऽस्ति पलायनेऽस्ति भीतस्य चेयं निखिलेशशक्तिः ॥१२॥
सञ्चालयन्तीति- परितः सर्वतः लसन्त्या विलसन्त्या व्यानस्य वायोः व्यापनशीलस्य प्राणस्येत्यर्थः, शक्त्या सकलस्य जनस्य देहं चालयन्ती निखिलेश-शक्तिः सर्वेश्वरशक्ति: जेतु: युद्धे जयवतः प्रतापे अस्ति । भीतस्य युद्धात् इति शेषः, पलायने पराजयेन धावनेऽप्यस्ति। जयिनः प्रतापे, जितस्य भीत्या पलायने च, उभयत्र सैव चालकशक्तिः इति भावः ।।१२।।
एकं स्वरूपं बहुचित्रयोगात् सन्दर्शयन्ती विविधं जनेभ्यः ॥ सम्यग्दृशे स्वं विभुमर्पयन्ती सर्वादिमायव महेशजाया ॥१३॥
एकमिति- एक स्वरूपं निजं रूपं बहुचित्रयोगात् बहुभिः चित्रकलाभिर्यो-गात् सम्बन्धात् अनेकाद्भुतकल्पनेनेत्यर्थः विविध नानारूपं जनेभ्यः सन्दर्श-यन्ती एकस्यैव स्वरूपस्य अद्भुतविशेषैः नानारूपतामापाद्य प्रदर्शयन्तीत्यर्थः, यद्वा यथा चित्रकलाविशषैः एकमेव बहुविधं प्रदर्श्यते, तथा स्वरूपमेकं बहु-रूपं प्रदर्शयन्ती, जनेभ्यः इत्यनेन मूलस्वरूपाज्ञानिभ्यः इत्यर्थः। सम्यग्दृशे साधुदृष्टये यथार्थदर्शनाय ज्ञानिने स्वं विभुं प्रभुम् ईश्वरम् अर्पयन्ती ददती सम्पा-दयन्तीत्यर्थः। एवम्भूता सर्वादिमाया सर्वस्य विश्वस्य आदिमाया मूलमाया शक्तिरेव महेशजाया महेश्वरप्रेयसी भवतीति शेषः ॥१३॥
यस्संश्रयेताखिलसङ्गतिस्त्वां ध्यानेन मन्त्रेण गुणस्तवैर्वा ॥ त्रैलोक्यसाम्राज्यधुरन्धरस्य शुद्धान्तकान्ते स कृती मनुष्यः ॥१४॥
य इति- अम्ब ! त्रैलोक्यसाम्राज्यधुरन्धरस्य त्रिभुवन राज्यभारवहस्य सर्वे-श्वरस्य शुद्धान्तकान्ते अन्तःपुरसुन्दरि! यः अखिलसङ्गतिः अखिलेन सकलेन विश्वेन सङ्गतिः हृदयङ्गमता संवाद इति यावत्, यस्य सः, अखिलेन सङ्गतः सन् त्वां ध्यानेन अन्तर्मननेन मन्त्रेण जपेन गुणस्तवैः गुणसङ्कीर्तनैर्वा संश्रयेत, स मनुष्यः कृती धन्यः ॥१४॥
मूलाग्निमुद्दीप्य शिरश्शशाङ्क सन्द्राव्य यस्तर्पयते कृती त्वाम् ॥ तस्मिन्नगाधीश्वरकन्यके त्वं प्रादुर्भवन्ती न किमादधासि ॥१५॥
मूलेति- मूलाग्नि मूलाधारे कुलकुण्डाग्निम् उद्दीप्य उज्ज्वाल्य शिरश्शशाङ्क सहस्रारमोमं सन्द्राव्य स्यन्दयित्वा यः कृती धन्यस्त्वां तर्पयते प्रीतां करोति, नगाधीश्वरकन्यके पार्वति ! तस्मिन् प्रादुर्भवन्ती प्रकाशा भवन्ती त्वं किं न आदधासि ? सर्वमपि तस्मिन् उत्पादयसीत्यर्थः ।।१५।।
यस्त्वां सहस्रारसरोजमध्ये सोमस्वरूपां भजतेऽम्ब योगी ॥ तस्यान्तरः शान्तिमुपैति तापो बाह्यस्य का नाम कथाऽल्पकस्य ॥१६॥
य इति- अम्ब ! यो योगी सहस्रारसरोजमध्ये शिरसि सहस्रारपद्मान्तरे सोमस्वरूपां चन्द्ररूपिणीं त्वां भजते सेवते, तस्य योगिन आन्तरः आध्यात्मिक: तापः शान्तिम् उपैति शान्तो भवति । अल्पकस्य कुत्सायां कन्, कुत्सितस्य अल्प-स्य बाह्यस्य तापस्य धर्मस्य का नाम कथा? बाह्यतापः शान्तो भवतीति किम वक्तव्यम् ? ॥१६॥
दण्डेन योऽन्तर्दहरेऽवतीर्णः प्राणेन वाचा महसा धिया वा ॥ प्राप्नोति सोऽयं पुरमद्वितीयं यत्र त्वमीशा सह चित्रलीला ॥१७॥
दण्डेनेति- यः दण्डेन वीणास्थिदण्डेन पश्चान्मार्गेण, पुरोमार्गः पश्चान्मार इति मार्गद्वयं प्राक् प्रतिपादितम्। प्राणेन वायुना वा वाचा मन्त्रेण महसा तेजसा धिया बुद्धया वा साधनेन दहरे हृदयाकाशे अवतीर्णो भवति, सोऽयम् अद्वितीयम् एकं पुरं ब्रह्मपुरं प्राप्नोति, यत्र त्वम् ईशा ईश्वरेण सह चित्रलीला चित्राः अद्भुता लीलाः यस्याः सा भवसि इति शेषः ॥१७॥
तन्त्रोवितं विश्वविनेत्रि मन्त्रं यस्ते नरः संयमवानुपास्ते ॥ रुद्राणि सान्द्राम्बुदकेशपाशे पार्शविमुक्तः स जयत्यशेषम् ॥१८॥
तन्त्रेति- विश्वविनेत्रि जगन्नायिके ! तन्त्रोदितं तन्त्रशास्त्रप्रतिपादितं मन्त्रं वीर्यवत् अक्षरात्मकं यः नरः संयमवान् ‘संयमश्च धारणाध्यानसमाधय’ इति पातञ्जलाः, अत्र मनोवश इत्यर्थः, तद्वान् सन् उपास्ते भजते। रुद्राणि रुद्र-पत्नि, सान्द्राम्बुदकेशपाशे घनमेघकचभारे, अम्ब ! सः पाशैः अविद्यावामने-रितपुत्रदारादिसङ्गजैः बन्धैः विमुक्त: अशेष समस्तं जयति ।।१८।।
अथ तन्त्रोदितं श्रीविद्याख्यं मन्त्रराजं द्वाभ्याम् उद्धरति । श्रीविद्यायां पञ्चदशाक्षरमन्त्रस्य खण्डत्रयात्मकस्य प्राधान्यात् पञ्चदशीमाह
पद्मासनो द्वादशवर्णशान्ती दम्भोलिपाणिर्भुवनाधिनाथा ॥ गीर्वाणमार्गो भृगुरब्जयोनि रन्ते तथाग्रे च हलां विराजी॥१९॥
जम्भस्य हन्ताऽनलशान्तिचन्द्रः संयुक्त ऊष्मा गलदेशजन्मा ॥ दन्तस्थलीसम्भव ऊष्मवर्णो वाणीपतिर्वजधरश्च लज्जा ॥२०॥
पद्मासन इति- (युग्मम्) पद्मासनो ब्रह्मा ककारः, द्वादशवर्णशान्ती द्वादशो वर्णः स्वर: एकारः, शान्तिश्च ईकारः, दम्भोलिपाणिः वज्रहस्तः इन्द्रो लकारः, भुवनाधिनाथा भुवनेश्वरी ह्रीङ्कारः। ‘क-ए-ई-ल-ह्रीम्’ इति प्रथमः खण्डः । गीर्वाणमार्गः सुरवर्त्म आकाशः हकारः, भृगुः सकारः, अब्जयोनिः ब्रह्मा ककारः तथा अग्रे ककारस्य अग्रे पुरस्तात् हलां हलक्षराणां अन्ते विराजत इति विराजी विभ्राजी अक्षरः हकारः, जम्भस्य हन्ता इन्द्रो लकारः । ’ह-स-क-ह-ल’ इति सिद्धम्। गलदेशजन्मा कण्ठस्थानज: ऊष्मा शषसहानामेक: हकारः, अनलशान्तिचन्द्रः अनलो रेफः, शान्तिरीकारः, चन्द्रोऽनुस्वारः, एतैः रकार-ईकार-बिन्दुभिः संयुक्तः ह्रीम् इत्येतदक्षरम् । ’ह-स-क-ह-ल-ह्रीम्’ इति सिद्धम् । अयं च द्वितीयः खण्डः पञ्चदशाक्षर्याः । दन्तस्थलीसम्भव: दन्त्यः ऊष्मवर्णः सकारः, वाणीपतिः ब्रह्मा ककारः, वज्रधरः इन्द्रः लकारः, लज्जा ह्रीङ्कारः । ’स-क-ल-ह्रीम्’ अयं तृतीयः खण्डः ॥१९-२०।।
विद्या त्वियं पञ्चदशाक्षराढया साक्षान्महामौनगुरूपदिष्टा ॥ गोप्यासु गोप्या सुकृतरवाप्या श्रेष्ठा विनुत्या परमेष्ठिनाऽपि ॥२१॥
विद्येति- एवं खण्डत्रयात्मिका इयं तु पञ्चदशाक्षराढ्या ’कएईलह्रीं, हस-कहलह्रीं, सकलह्रीम्’ इति पञ्चदशभिरक्षरैर्युक्ता विद्या श्रीविद्या साक्षात् मौन-गुरूपदिष्टा मौनगुरुणा दक्षिणामूर्तिना महादेवेन उपदिष्टा। पञ्चदश्या ऋषिः दक्षिणामूर्तिः कीर्तितः। गोप्यासु रहस्यविद्यासु गोप्या रहस्यतमा, सुकृतः पुण्यैरवाप्या लभ्या, श्रेष्ठा सर्वासां विद्यानाम्। परमेष्ठिनाऽपि ब्रह्मणा अपि विनुत्या स्तुत्या भवतीति शेषः ॥२१॥
देहेष्वियं कुण्डलिनी न्यगादि भूतेषु विद्युद् भुवनेषु चाभम् ॥ देवाङ्गनामस्तकलालिताघ्रि- देवो भवानी खलु देवतासु ॥२२॥
देहेष्विति- इयं विद्या शरीरेषु कुण्डलिनी न्यगादि निगदिता। भूतेषु वस्तुषु विद्युत् न्यगादि। भुवनेषु लोकेषु अभ्रम् आकाशः न्यगादि। देवा-ङ्गनामस्तके लालिताङघ्रिः सुरसुन्दरीशिरोलालितचरणेयं देवी देवतासु भवानी। खलु वाक्यालङ्कारे॥२२॥
चक्षुविधायाचलमन्तरेण प्राणं प्रपश्यन् मनुवर्णरूपम् ॥ संसेवते चेत्सकलस्य धात्री सर्वेष्टलाभो विदुषः करस्थः ॥२३॥
चक्षुरिति- चक्षुर्नेत्रम् अचलं स्थिरं विधाय अन्तरेण मनसा मनुवर्णरूपं मन्त्राक्षररूपं प्राणं प्रपश्यन् सकलस्य धात्रीं भर्ती संसेवते चेत् उपासक इत्य-ध्याहार्यम्, विदुषः तथा विद्यां सेवमानस्य सर्वेष्टलाभः करस्थः हस्तगतो भवति। इह मन्त्रयोगः उपदिष्टः । स च गुर्वनुग्रहादनुभववेद्यः। अयम् अत्र सार-भूतोऽभिप्रायः। मनसा जपकर्मणि प्रवृत्तस्य उपासकस्य प्राणवायोर्यातायात-योरवहितस्य प्राण एव मन्त्रवर्णरूपो भवति । प्राण एव मन्त्रात्मना नदतीति वेदनं भवति । अयं च मन्त्रयोगो मनोनिग्रहाध्याये श्रीरमणगीतायामेवं वर्णित:-’जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत्। मानसेन तदा मन्त्र-प्राणयोरेकता भवेत् । मन्त्राभराणां प्राणेन सायुज्यं ध्यानयुश्यते।’ इति । एवम् उपास्यमानानां सर्वेषां मन्त्राणां प्राणन सायुज्यं भवतीति तत्त्वम् । तत्र विशेषतः पञ्चदशाक्षर्याः सिद्धिः । तस्यां मन्त्राक्षराण्येव देव्याः अवयवताम् भजन्त इति आगमः । तमनूद्य आनन्दला---’शिवः शक्तिः काम’ इति मन्त्रोद्धारश्लोके–’भजन्ते वर्णास्ते तव जननि नामावयवताम्’ इत्युक्तम् । सहस्र-नामसु च–’मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा’ इत्यादि च कीर्तितम् ॥२३॥
एकाक्षरीः पञ्चदशाक्षरों वा विद्याः प्रकृष्टाः सकलेशशक्तेः ॥ यो भक्तियुक्तः प्रजपेदमुष्य प्राणो वशे निस्तुलसिद्धियोनिः ॥२४॥
एकेति- एकाक्षरीः ’ह्रीं क्रीं हूं श्रीम्’ इत्याद्याः क्रमशो भुवनेश्वरी-काली-प्रचण्डचण्डी-ललितादीनां बीजाक्षररूपिणी:, पञ्चदशाक्षरी वा, सकलेशशक्तेः परस्या देवतायाः प्रकृष्टा विद्याः दशमहाविद्या वा यो भक्तियुक्तः प्रजपेत् निस्तुलसिद्धियोनिः अनुपमसिद्धीनाम् उदयक्षेत्रभूतः प्राणः अमुष्य तस्य वशे भवेत्। वशितायां प्राणशक्ती सर्वाः सिद्धयो हस्तगताः भवन्ति ॥२४॥
एताः कवीनां पदकिङ्करस्य पूताः प्रमोदं परमावहन्तु ॥ गीतास्सभक्तिद्रवमिन्द्रवजाः श्वेताचलाधीश्वरवल्लभायाः ॥२५॥
एता इति- एताः पूताः पवित्रा: भक्तिद्रवेण भक्तिरसेन सह वर्तत इति सभक्तिद्रव गीताः कवीनां पकिङ्करस्य चरणभजकस्य गणपतेः इन्द्रवज्रा: इन्द्रवज्रावृत्तबद्धाः स्तुतयः श्वेताचलाधीश्वरवल्लभायाः कैलासपतिप्रेयस्याः पार्व-त्याः परं श्रेष्ठं प्रमोदम् आनन्दम् आवहन्तु आदधतु ॥२५॥
एकोनचत्वारिंशः स्तबक: सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.