ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




एकोनत्रिंशः स्तबकः

एकोनविंशे स्तबकेऽस्मिन् नवविधं भजनं प्रस्तूयते ॥

आयुष्या भुवनानां चक्षुष्यास्त्रिपुरारेः ॥
कुर्वन्तु प्रमदं नः पार्वत्याः स्मितलेशाः ॥१॥

आयुष्या इति- भुवनानाम् लोकानाम् आयुः जीवनं प्रयोजनम् एषाम् इति आयुष्याः सकलभुवनजीवनार्था इत्यर्थः। त्रिपुरारे: शिवस्य चक्षुष्याः चक्षुषे हिता: शिवनयनतर्पकाः पार्वत्याः स्मितलेशाः मन्दहासाः न: अस्माकं प्रमदं प्रहर्ष कुर्वन्तु ॥१॥

नात्यर्घाणि निरथं नेतव्यानि दिनानि ॥
अम्बायाश्चरितानि श्रोतव्यान्यनघानि ॥२॥

नेति- अत्य_णि अतिमूल्यानि दिनानि निरर्थं निष्प्रयोजनं यथा तथा न नेतव्यानि यापयितव्यानि। सर्वस्याप्यायुषो मितत्वात् दिनानि न व्यानि कार्याणि। सत्येवायुषि तत्कृतकृत्यं भवेत्। तस्मादाह। अनघानि पाव-नानि अम्बायाश्चरितानि श्रोतव्यानि। देव्याः पावनचरित्रश्रवणेन श्रोत्रेन्द्रियं कृतकृत्यं भवति, आयुषो दिनानि सार्थानि स्युः। अनेन श्रवणं नाम नव-विधभजनस्यादिमम् उक्तम् ॥२॥

उद्योगं कुरु जिह्वे संहर्तुं दुरितानि ॥
पूतान्यविसुतायाः कीर्त्यन्तां चरितानि ॥३॥

उद्योगमिति- जिह्वे रसने ! दुरितानि पापानि संहर्तुं नाशयितुम् उद्यो-गमुद्यमं कुरु। अद्रिसुतायाः पार्वत्याः पूतानि पवित्राणि चरितानि कीर्त्यन्ताम् त्वयति शेषः। पार्वतीपवित्रचरित्रकीर्तनेन तव पापसंहारोद्योगः फलितो भव-तीत्यर्थः। पूर्वं श्रवणेन्द्रियस्य कर्तव्यम् उक्तम्, इह वागिन्द्रियस्य । कीर्तनमुक्तम् ॥३॥

अथ त्रिभिः स्मरणं सनियमं प्रतिपादयति ।

श्रीसक्ििवनिवार्या चिन्ता कापे न कार्या ॥
नित्यं चेतसि धार्या दीनानां गतिरार्या ॥४॥

श्रीति- श्रीसक्तिः श्रियां सम्पदि सक्तिः सङ्गः अर्थेप्सेत्यर्थः विनिवार्या, काऽपि चिन्ता न कार्या, न केनापि हेतुना मनो व्याकुलं स्यात्। दीनानां सर्वथा बलहीनानां गतिः शरणमार्या पार्वती चेतसि मनसि नित्यमनवरतं धार्या निधेयेत्यर्थः। अर्थसङ्गवर्ज निश्चिन्ततया मनसि भगवती ध्यानेन धार्या स्यात् ॥४॥

ज्ञातुं या गदितुं या श्रोतुं या श्वसितुं या ॥
द्रष्टुं याऽन्तरशक्ति-स्तिष्ठात्र स्मृतिरेषा ॥५॥

ज्ञातुमिति- या ज्ञातुं विषयान् बोद्धम् अन्तरशक्तिर्भवति, तथा या गदितुं वाचं वक्तुम् अन्तरशक्तिः, या श्रोतुं शब्दान्, या च श्वसितुम् उच्छ्व-सितुम् निःश्वसितुम् वा अनितुं, या द्रष्टुं रूपाणि च अन्तरशक्तिर्भवति अत्र तस्याम् अन्तरशक्तौ तिष्ठ, एषा स्मृति: भवति, स्मृतिश्च ज्ञप्तिः केवला संवित् ॥५॥

विभ्राजीनशताभ बिभ्राणं शिरसीन्दुम् ॥
स्मर्तव्यं जगदम्बा रूपं वा धुतपापम् ॥६॥

विभ्राजीति- विभ्राजितुं शीलमस्येति विभ्राजि विदीप्यत्, इनशताभं इनानां सूर्याणां शतस्य आभेवाभा यस्य तत्, इन्दुं चन्द्रं शिरसि बिभ्राणं धारयमाणं, धुतपापं धुतम् अपहृतं पापं कलुषं भक्तानां येन तत् जगदम्बा-रूपं वा स्मर्तव्यम् ध्यातव्यम्। पूर्वश्लोके स्मृतिः स्यादित्युक्तम् । तथा कर्तुम् अशक्तौ भास्करशताभं विभ्राजमानं चन्द्रचूडम् अम्बायाः रूपं वा ध्येयमिती-होपासनविधा स्मृतिपर्यायत्वेनोक्ता ॥६॥

अथ विभिः पादसेवनं प्रतिपाद्यते ॥

येषां स्यात्परितप्तं प्रायश्चित्तमधेन ।
रुवाणीपवसेवा प्रायश्चित्तममीषाम् ॥७॥

यदा येषामिति- येषां जनानाम् अघेन पापेन चित्तं मनः प्रायः प्रायेण बहुश इत्यर्थः, ’प्रायो भूम्नि’ इत्यमरः, परितप्तं जातानुतापं दूनमिति यावत्, स्यात् भवेत्, अमीषां तेषां रुद्राणीपदसेवा देवीचरणभजनं प्रायश्चित्तं पापापनोदकं कर्म भवतीति शेषः। ’प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते। तपो-निश्चयसंयोगात् प्रायश्चित्तमितीर्यते’ इति हेमाद्रिः। अत्रेदं बोध्यम् । पापेन चित्तस्य परितापो जायते सोऽनुतापे पर्यवस्यति । तथाऽनुतापवतां भगवत्पादसेवा नामस्मरणं वा प्रायश्चित्तं भवति। असत्यनुतापे भगवन्नाम-स्मरणादिः न ऋजुः भवति, ततो न तत् पापापनोदकं प्रायश्चित्तं भवति । अत एवाहुरभियुक्ताः- ‘कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते। प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्’ इति ॥७॥

तद्दीप्तं पदयुग्म सेवे यत्र भवन्ति ॥
अमुल्यो दश भानो-र्भानूनां शतकानि ॥८॥

तदिति- तत् तस्मात् दीप्तं ज्वलितं पदयुग्मं देवीचरणयुगलं सेवे भजे, यत्र पदयुग्मे भानोः सूर्यस्य भानूनां किरणानां दश शतकानि दश अमुल्यः करशाखा भवन्ति। पादद्वयस्य दशाङ्गुल्य एव भानोः दशशतकानि इति ताद्रूप्येणोक्तम् । अत एव दीप्तमिति विशेषणम् ॥८॥

नो चेत्कुप्यसि किञ्चिद् याचे वाचमतीते ॥
सेवां मातरुरीकु विष्टं मे कुरु मा वा ॥९॥

नो चेदिति- वाचमतीते वाचामगोचरे, मातः ! नो कुप्यसि चेत्, किञ्चिद्याचे प्रार्थये। किं तत् ? सेवां मया क्रियमाणाम् उरीकुर्वनीकुरु, इष्टं ममाभीष्टं कुरु वा मा वा। अभीष्टं देहि वा मा वा, सेवां तु अङ्गी-कुरु ॥९॥

अथ द्वाभ्याम् अर्चनमाह ॥

शर्वाणीचरणार्चा पीठं पीवरकाणाम् ॥
वध्यस्थानमिदं स्या दुग्राणां दुरितानाम् ॥१०॥

शर्वाणीति- पीवरकाणां पीनानां कुत्सायां कन्, दुष्टपुष्टानामित्यर्थः उग्राणां घोराणां दुरितानाम् इदं शर्वाणीचरणार्चापीठं शर्वाणी शर्वस्य सर्व-पापहिंसकस्य शिवस्य पत्नी तस्याः चरणा पीठं पादपूजापीठं वध्यस्थानं बोध्यमिति भावः ॥१०॥

स्कन्दाम्बापदपीठ स्पृष्टं चेलमाप्तम् ॥
एककं सुममंह स्स्वेककं कुलिशं स्यात् ॥११॥

स्कन्दाम्बेति- स्कन्दाम्बापदपीठस्पृष्टं स्कन्दाम्बायाः पार्वत्याः पदयोः पादयोः पीठेन स्पृष्टं बलं वीर्यम् आप्तं लब्धं चेत्, अंहस्सु हन्तव्येषु पापेषु विषये एकैकं सुमं पुष्पं एकैकं कुलिशं वज्रायुधं स्यात्। देवीपादपीठस्पर्श-लब्धबलं सुमम् अंहस्संहारे वज्रायत इति भावः ॥११॥

अथ सप्तभिर्वन्दनमाह ॥

अम्भोजोपममधि शम्भोः पट्टमहिष्याः ॥
अंहस्संहतिमुग्रां संहर्तुं प्रणमामः ॥१२॥

अम्भोजेति- शम्भोः शिवस्य पट्टमहिष्याः महादेव्याः अम्भोजोपमम् अर-विन्दसन्निभम् अधिं चरणम् उग्रां भयङ्करीम् अंहस्संहतिं पापसन्तति संहर्तुं प्रणमामः । पापप्रणाशनप्रयोजनोऽस्माकं देवीचरणारविन्दयोः प्रणाम इत्यर्थः ॥१२॥

ये कालीपदवेषं नालीकं प्रणमन्ति ॥
नैषां किञ्चिदशक्यं नालीकं मम वाक्यम् ॥१३॥

य इति- ये जनाः कालीपदवेषं काल्याः देव्याः पदयोः चरणयोः वेषम् आकल्पं प्रसाधितं बाह्यम् आकारम् इति यावत् अलीकम् अप्रियम् यथा तथा न प्रणमन्ति आर्जवेन प्रीत्या ये नमस्कुर्वन्ति, एषां तेषां न किञ्चिदशक्यं, सर्व शक्यं भवति । मम वाक्यम् अलीकम् अनृतं न, तथ्यमित्यर्थः । काल्याः शिलादिप्रतिमायाम् अलङकृतं पादं ये ऋजुभक्ताः प्रणमन्ति तेषां सर्वत्र शक्तिः स्यादिति भावः, ’आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्’ ’अलीकं त्व-प्रियेऽनृते’ इत्यमरः ॥१३॥

वासस्तेऽत्र समाप्तः पङ्केतो व्रज दूरम् ॥
काली शङ्करनारी कालेऽस्मिन् प्रणमामः ॥१४॥

वास इति- पङ्क रे पाप, अत्र अस्मिन् मयि ते तव वोसः समाप्तः अव-सितः। इतोऽस्मात् दूरं व्रज अपेहि, अस्मिन् काले शङ्करनारी शङ्करस्त्रियं कालीं प्रणमामः । अंहस्संहाः काल्याः प्रणामसमयः अस्माकमागतः, इतः परं तव वध एव, दूरं गच्छेति भावः ॥१४॥

आशा रे तदवस्था भूभागानटतस्ते ॥
कामानां क्व नु पारः कामारेनम नारीम् ॥१५॥

आशेति- रे सखे ! भूभागान् भूगोलखण्डान् बहून् देशान् अटतः सञ्च-रतः ते तव आशा अधिकापेक्षा ’आशा तृष्णाऽपि चायता’ इत्यमरः। तद-वस्था सा अवस्था दशा यस्याः सा, नित्यमटतस्तव आशायाः अटनदर्शव, न सिद्धिरेकत्र स्थितिः स्यादिति भावः। कामानां मनोरथानां पारः क्व ? क्वाप्यन्तो नास्ति। तस्मात्कामारे: कामशत्रोः शिवस्य नारी देवी नम प्रणम ॥१५॥

धन्यास्ते तुहिनाद्रेः कन्यां ये प्रणमन्ति ॥
अन्यानुन्नतशीर्षा- न्मन्ये वन्यलुलायान् ॥१६॥

धन्या इति- ये तुहिनाद्रेः हिमाचलस्य कन्यां पार्वतीं प्रणमन्ति नम-कुर्वन्ति, ते धन्याः भाग्यशालिनः। उन्नतशीर्षान् उन्नतानि शीर्षाणि शिरांसि येषां तानन्यान् इतरान् वन्यलुलायान् वने भवान् लुलायान् महिषान् मन्ये ’लुलायो महिषो वाहद्विषत्कासरसैरिभाः’ इत्यमरः । येषां शिरांसि देव्य नतानि ते भाग्यवन्त: वस्तुतः उन्नता भवन्ति । अन्येषां शिरांसि एव उन्न-तानि यथा महिषाणाम् ॥१६॥

पादाम्भोजमुमायाः प्राज्ञास्संप्रणमन्तः ॥
गृह्णन्ति श्रियमस्मिन् राजन्ती निजशक्त्या ॥१७॥

पादेति- उमायाः पार्वत्याः पादाम्भोज सम्प्रणमन्तः नमस्कुर्वन्तः प्राज्ञाः अस्मिन् पादाम्भोजे राजन्ती शोभमानां श्रियं निजशक्त्या स्वया शक्त्या गृह्णन्ति आददते। प्रणामात्पादारविन्दश्रियो ग्रहणं प्राज्ञानां स्वशक्त्या सम्पद्यते ॥१७॥

मन्दाराद्रिसुताजघ्री दातारौ सदृशौ स्तः ॥
उत्कण्ठः फलमाद्या- दन्यस्मानतकण्ठः ॥१८॥

मन्दारेति- मन्दाराद्रिसुताङघ्री मन्दारः इष्टार्थदायी देवतरु: अद्रिसुता-अघ्रिः पार्वतीपादश्च उभौ सदृशौ समानौ दातारौ दानदक्षौ स्तः । अयं तु विशेषः। आद्यात् मन्दारवृक्षात् उत्कण्ठैः उद्गताः कण्ठाः येषां तैः, शिरस उपलक्षणं कण्टः, उन्नमितशिरस्कैरिति यावत्, फलं लभ्यत इति शेषः । वृक्षात् फलमर्थयमानैः शिर उन्नमितं हि भवति । अन्यस्मात् अद्रिसुताङ ः नतकण्ठः नम्रशिरोभिः फलं लभ्यते ॥१८॥

कालस्यापि विजेतुः शर्वाण्याश्चरणस्य ॥
एषोऽहं क्ष्मापालोऽस्मि भुजिष्यः॥१९॥

कविलोक-कालस्येति कालस्यान्तकस्यापि विजेतु: विजयिनः शर्वाण्याः देव्या-श्चरणस्य पादस्य भुजिष्यः किङ्कर एषोऽहं कविलोकक्ष्मापाल: कविकुलाधीशो जातोऽस्मि। तत् एतत् पार्वतीपादभक्तेर्माहात्म्यं यदहं कवीश्वरोऽभवम् । अत्र दास्यमुक्तम् ॥१९॥

इह सख्यमाह ॥

रक्ते दर्शय रागं रुद्राणीपदपग्रे॥
चेतः पुष्यति शोभां सारस्सारवतोऽग्ने ॥२०॥

रक्ते इति- चेतः रे मनः ! रक्ते रक्तवर्णे रुद्राणीपदपद्मे पार्वतीपाद-कमले रागं प्रेमाणं दर्शय । तत्र प्रीतिं कृत्वा अभ्यासबलात् प्रकाशय। तथा करोषि चेत् श्रेयः स्यादित्यर्थान्तरं न्यस्यति । सारवतः बलवतः अग्रे पुर-स्तात् सार: बलं शोभां पुष्यति वर्धयति । रागरक्तपदयोः श्लेषः। चेतो रागवत् रक्तम् अनुरक्तम्, रुद्राणीपदपद्मं च रक्तं रक्तवर्णं च अनुरक्तम् प्रीतिमत् इति यावत् । अनुरक्तस्य पुरः अनुरागो वर्धते। ’सारो बले स्थि-रांशेऽर्थे न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः ॥२०॥

अथ आत्मनिवेदनमेव परा भक्तिः प्रेमरूपा मुक्तिप्रदेति चतुर्भिः आत्म-रतिम् अम्बापदभक्तिरूपामभिधत्ते ॥

संशोध्यागमजालं सारांशं प्रवदामः ॥
स्कन्दाम्बापदभक्ति- भुक्त्यै चाथ विमुक्त्यै ॥२१॥

संशोध्येति- आगमजालम् आगमानां वेदानां तन्त्राणां च प्रमाणशास्त्राणां जालं बृन्दं संशोध्य परीक्ष्य सारांशं तत्र मुख्यमंशं प्रवदामः । तं वदति। स्कन्दाम्बापदभक्ति: भुक्त्यै ऐहिकामुत्रिकभोगाय अथ विमुक्त्यै च मोक्षाय च भवति। सर्वपुरुषार्थदा स्वर्गापवर्गदा सा भक्तिरित्यर्थः ॥२१॥

वात्सल्यं गतिहीने- ष्वायुष्यं सुकृतस्य ॥
भूयोभिः सह सख्यं श्रीहेतुष्विह मुख्यम् ॥२२॥

वात्सल्यमिति- गतिहीनेषु सर्वथोपायहीनेषु दीनेष्विति यावत् ’गतिस्तु गमने मार्गे दशायां बुद्धयुपाययोः’ इति नानार्थरत्नमाला । वात्सल्यं प्रीतिः सुकृतस्य पुण्यस्य आयुष्यम् आयुः प्रयोजनमस्येत्यायुष्यं भवति रक्षाविहीनेषु जनेषु प्रीति: पुण्यवर्धनी भवति इत्यर्थः। भूयोभिः बहुतरैः जनैः सह सख्यं सौहार्दम् इह लोके श्रीहेतुषु श्रियः शोभायाः यशस इति यावत् हेतुषु निमि-तेषु मुख्यं भवति। बहुजनसख्यं वर्चीवर्धनमिति भावः ॥२२॥

श्लाघ्यं पुष्यति कामं प्रेमा स्वप्रमदायाम् ॥
शर्वाणीपदभक्ति नित्याय प्रमदाय ॥२३॥

श्लाघ्यमिति- स्वप्रमदायां स्वस्यां स्त्रियां, नान्यस्त्रियां, प्रेमा श्लाघ्यं कीर्तनीयं श्रेष्ठं कामं पुष्यति वर्धयति । शर्वाणीपदभक्तिः उमाचरणप्रीतिः नित्याय अच्युताय प्रमदाय आनन्दाय भवतीति शेषः ॥२३॥

एकवं बहुभेदा भिन्नत्वाद्विषयाणाम् ॥
रत्याख्या द्रुतिरन्तः सा सूते फलभेदान् ॥२४॥

एकेति- एवं पूर्वश्लोकद्वयोक्तविधया एका रत्याख्या रतिः प्रीतिः आख्या यस्याः सा अन्तः अन्तरे द्रुति: प्रीतिरसस्रुतिः विषयाणाम् उपाधीनाम् भिन्न-त्वात् बहुभेदा बहवः वात्सल्य-प्रेम-भक्त्यादयो भेदाः विशेषाः यस्याः सा सती फलभेदान् सुकृतायुष्यश्लाघ्यकामनित्यप्रमदादिफलभेदान् प्रसूते। ’रतिः काम-प्रियाप्रीत्योः’ इति नानाथरत्नमाला ॥२४॥

हर्ष कञ्चन मातु- मत्तो भक्तिभरेण ॥
तन्वन्नेष विधत्तां हेरम्बो मदलेखाः ॥२५॥

हर्षमिति- भक्तिभरेण भक्त्यतिशयेन मत्तः हृष्टः, मदलेखाः एतद्वत्त-बद्धा नुतीः तन्वन् कुर्वनेष हेरम्बो गणपति: कविः मातुरुमायाः कञ्चन कमपि हर्ष सम्मदविशेषं विधत्ताम् । मत्तः दानधारया गजमुखत्वात्, मद-लेखाः मदजलरेखाः तन्वन् हेरम्बो गजानन इति मत्त-हेरम्ब-मदलेखापदेषु श्ले-षेण, मदलेखायुतः पुष्ट: गजमुखः मातुरुमायाः यथा हर्ष विधत्ते तथेत्युपमा-ध्वनिः। पुष्टं पुत्रं दृष्ट्वा मातुर्जायते हि हर्षः ॥२५।।

एकोनत्रिंशः स्तबक: सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates