ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




एकोनविंशः स्तबकः

अथाङ्गशोभावैभववर्णनपरोऽयं स्तबकः । अत्र ध्येयं ललितारूपं प्रति-पाद्यते॥

प्रफुल्लकल्पपादप- प्रसूनसद्यशोहरम् ॥
महारुजं धुनोतु ते महेशसुन्दरीस्मितम् ॥१॥

कल्पपादपस्य प्रफुल्लेति-- प्रफुल्लकल्पपादपप्रसूनसद्यशोहरं प्रफुल्लस्य कल्पतरोः प्रसूनस्य पुष्पस्य सद्यशसः हरं हरतीति हरं तत् महेशसुन्दरीस्मितं परमेश्वरीचारुहसितं ते तव महारुजं महतीं रुजं रुजां रोगमित्यर्थः, धुनोतु अपहरतु। विकसितसुरलोककल्पकुसुमस्य, स्पृहणीयदर्शनस्य, सर्वाभीप्सित-सिद्धिप्रदस्य, अमरलोकजन्यत्वात् सर्वरोगनिवारणस्य या ख्याति: तामप्यति-शेते महेशीमन्दस्मितम्। सर्वेषु रोगेषु महान् भवरोगः तदपहरणफलामाशिषं प्रयुक्ते ॥१॥

मुनीन्द्रमूलवेदिभू धनञ्जयप्रबोधनम् ॥
यतीन्द्रहार्दपेटिका कवाटबन्धभेदनम् ॥२॥

मुनीन्द्रेति-- मुनीन्द्रमूलवेदिभूधनञ्जयप्रबोधनं मुनीन्द्राणां मूलं मूलाधार एव वेदिभूः परिष्कृता भूमिः तत्र यो धनञ्जयः अग्निः तस्य प्रबोधनं, योगि-जनमूलाधाराग्निप्रबोधकृदित्यर्थः, यतीन्द्रहार्दपेटिकाकवाटबन्धभेदनं यतीन्द्राणां संयमिनां हृद इयं हार्दा पेटिका पेटी तस्याः कवाटस्य अररस्य भेदनम् उद्-घाटनम्। ’कवाटमररं समे’ इति अमरः। योगमार्गिणां मूलाग्नि ज्वल-यत्, ज्ञानमार्गिणां हृदयमुन्मीलयत् इत्यर्थः, अम्बिकास्मितमित्युत्तरेणान्वयः ॥२॥

यथाविधिक्रियापर द्विजातिचित्तशोधनम् ॥
ममाम्बिकास्मितं भव त्वघप्रतापरोधनम् ॥३॥

यथाविधीति- यथाविधिक्रियापरद्विजातिचित्तशोधनं विधिभनतिक्रम्य यथा-विधि क्रिया परं प्रधानं येषां ते यथाविधिक्रियापराः द्विजातयो द्विजाः तेषां चित्तानां शोधनं शुद्धिकरम् अम्बिकास्मितं श्रीमातृमन्दहसितं मम अघप्रताप-रोधनं पापपराक्रमप्रध्वंसन भवतु। शास्त्रोक्तकर्मानुष्ठायिनां चित्तशोधकं देवीस्मितं मम पापापनोदनं भवतु इति भावः ॥३॥

सुवर्णसालभञ्जिका चरेव शोभयाऽधिका ॥
अतीव मार्दवान्विता नवेव पुष्पिता लता ॥४॥

सुवर्णेति- चरा चरतीति चरा जङ्गमा सुवर्णसालभञ्जिका कनक-पाञ्चालिका इव शोभया कान्त्या अधिका, अमितप्रभेत्यर्थः । नवा अभिनवा पुष्पाण्यस्याः सञ्जातानीति पुष्पिता लता इव अतीव अत्यन्तं मार्दवान्विता मृदुलतायुक्ता, जङ्गमा स्वर्णपुत्रिकेव स्पृहणीयशोभा, प्रत्यग्रकुसुमितवल्लीव कोमला चेत्यर्थः ॥४॥

सुपर्वमौलिरत्नभा- विराजिहेमपादुका ॥
मरालिकानिमन्त्रक-प्रशस्तरत्ननूपुरा ॥५॥

सुपर्वेति- सुपर्वमौलिरत्नभाविराजिहेमपादुका सुपर्वणां देवानां मौलीनां किरीटानां रत्नानां भाभिः कान्तिभिः विराजिन्यौ विभ्राजिन्यौ हेमपादुके स्वर्णोपानहौ यस्याः सा ‘पादूरेव पादुका’ ’अथ पादुका, पादूरुपानत् स्त्री’ इत्य-मरालिकानिमन्त्रकप्रशस्तरत्ननूपुरा निमन्त्रयत्याह्वयतीति निमन्त्रक: मरालिकानां हंसीनां निमन्त्रक: प्रशस्तः श्रेष्ठ: रत्नखचितो नूपुरः पादकटक: रत्ननूपुरः यस्याः सा, हंसकाहूतहंसवधूः हंसगतिरित्यर्थः ।।५।।

वलक्षदीधितिप्रभा- विशेषहन्नखावली ॥
मुनीन्द्रशुद्धमानस- प्रमेयपादसौष्ठवा ॥६॥

वलक्षेति-वलक्षदीधितिप्रभाविशेषहृन्नखावली वलक्षदीधिते: धवलांशोः चन्द्रस्य प्रभाविशेषान् कान्तिविशेषान् हरति इति प्रभाविशेषहृत् नखानाम् आवली राजिः यस्याः सा, चन्द्रप्रभातिशायी नखांशुरस्या इत्यर्थः। मुनी-न्द्रशुद्धमानसप्रमेयपादसौष्ठवा मुनीन्द्राणां शुद्धेन मानसेन प्रमेयं प्रमातुं योग्यं ज्ञयं पादयोः सौष्ठवं प्रशंसनीयता यस्याः सा, सुष्ठुभावः सौष्ठवं, ’सुष्ठु प्रशंसने’ इत्यमरः। निर्मलमुनिजनमानसावासित्वात् देवीपादयोः, मुनिमानस-प्रमेयं देवीचरणसौष्ठवमित्युक्तम् ॥६॥

घनीभवत्तटित्प्रभा- प्रवाहकल्पजङ्घिका ॥
मतङ्गजेन्द्रनासिका- मनोज्ञसक्थिशोभिनी ॥७॥

घनीभवदिति- घनीभवत्तटित्प्रभाप्रवाहकल्पजविका अघनो घनः सम्पद्य-मानो भवन् घनीभवन् पिण्डीभवन्नित्यर्थः, तटित्प्रभाप्रवाहः विद्युत्प्रभाप्रवाहः ईषदसमाप्तः सः जङ्के एव जङ्घिके प्रसृते यस्याः सा, पिण्डीभूतविद्युत्प्रभाभे अस्याः जो इत्यर्थः। मतङ्गजेन्द्रस्य गजश्रेष्ठस्य नासिका शुण्डा इव मनोज्ञे चारुणी सक्थिनी ऊरू ताभ्यां शोभत इति मतङ्गजेन्द्रनासिकामनोज्ञसक्थि-शोभिनी करीन्द्रकराभे ऊरू अस्याः इत्यर्थः ॥७॥

प्रसूनसायकागम प्रवादचुञ्चुकाञ्चिका ॥
विशालकेशचुम्बितो ल्लसन्नितम्बमण्डला ॥८॥

प्रसूनेति- प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका प्रसूनसायकस्य मन्मथस्य आगमस्य तन्त्रस्य प्रवादचुञ्चुः प्रवादेन वित्ता प्रतीता काञ्ची मेखला यस्याः सा, कामतन्त्रप्रवचननिपुणा मेखला अस्या इत्यर्थः । तेन वित्तश्चुञ्चुपचणपौ’ इति चुञ्चुप्। विशालकेशचुम्बितोल्लसन्नितम्बमण्डला विशालकेशः विपुल-कचैः चुम्बितं स्पृष्टम् उल्लसत् नितम्बमण्डलं श्रोणिप्रदेशो यस्याः सा असंयतः कचः आनितम्बं लम्बतेऽस्या इत्यर्थः ।।८।।

अजाण्डपिण्डसंहति- प्रपूर्णकुक्षिशालिनी ॥
अपारदिव्यकान्तिवा- निधाननाभिदीधिका ॥९॥

अजाण्डेति- अजाण्डानां ब्रह्माण्डानां पिण्डानां पिण्डाण्डानां च संहत्या समूहेन प्रपूर्णः कुक्षिरुदरं तेन शालते इति अजाण्डपिण्डसंहतिप्रपूर्णकुक्षि-शालिनी दिव्याः कान्तयः वारीणीव दिव्यकान्तिवारीणि, तेषां निधानं निधिः अपारं दिव्यकान्तिवानिधानं यस्याः सा नाभिर्दीधिकेव वापीव नाभिदीर्घिका, अपारदिव्यकान्तिवानिधाना नाभिदीर्घिका यस्याः सा अपार-दिव्यकान्तिवानिधाननाभिदीर्घिका ॥९॥

बिसप्रसूनसायक- च्छुराभरोमराजिका ॥
जगत्त्रयीवसज्जनो पजीव्यदुग्धभृत्कुचा ॥१०॥

बिसेति- बिसप्रसूनसायकच्छुराभरोमराजिका बिसयुक्तं मृणालयुक्तं प्रसून पुष्पं सायको बाणो यस्य तस्य मन्मथस्य छुराभा छुरिकामा रोमराजिः यस्याः सा। रोमराजिरस्याः कन्दर्पस्य निशिताया शस्त्रीवेत्यर्थः, जगत्त्रय्यां त्रैलोक्यां वसद्भिः जनः उपजीव्यं दुग्धं स्तन्यं बिभृत इति दुग्धभृतौ कुचौ यस्याः सा जगत्त्रयीवसज्जनोपजीव्यदुग्धभृत्कुचा ॥१०॥

महेशकण्ठबन्धक- प्रशस्तबाहुवल्लरी ॥
समस्तविष्टपाभय प्रदायिपाणिपङ्कजा ॥११॥

महेशेति- महेशस्य कण्ठस्य बन्धको आलिङ्गको प्रशस्तौ बाहू वल्लयाँ मञ्जरों इव यस्याः सा महेशकण्ठबन्धकप्रशस्तबाहुवल्लरी। समस्ताय विष्ट-पाय जगते अभयं रक्षणं दातुं शीलमस्येति समस्तविष्टपाभयप्रदायि पाणिः पङ्कजमिव यस्याः सा समस्तविष्टपाभयप्रदायिपाणिपङ्कजा ॥११॥

विलोलहारमौक्तिक- प्रतानसंवदत्स्मिता ॥
विशुद्धसुन्दरस्मित- प्रकाशभासिताम्बरा ॥१२॥

यस्याः सा विलोलेति- विलोलानां तरलानां हारमौक्तिकानां कण्ठमालामौक्तिकानां प्रतानेन विस्तरेण संवदत् संवादं कुर्वत् सामरस्यं भजत् स्मितं मन्दहसितं विलोलहारमौक्तिकप्रतानसंवदत्स्मिता। विशुद्धस्य निर्मलस्य सुन्दरस्मितस्य रमणीयदरहसितस्य प्रकाशेन भासितं प्रकाशितम् अंबरम् आकाशं यस्याः सा विशुद्धसुन्दरस्मितप्रकाशभासिताम्बरा। महोज्ज्वलमस्याः स्मितं सर्वव्यापीत्यर्थः ॥१२॥

सुकोमलोष्ठकम्पन- प्रभीतदुर्जयासुरा ॥
सुयुक्तकुन्दकुटमल प्रकाशदन्तपङक्तिका ॥१३॥

सुकोमलेति- सुकोमलस्य सुतरां मृदुलस्य ओष्ठस्याधरस्य कम्पनात् स्पन्दनात् प्रभीताः, दुःखेन जेतुं शक्याः दुर्जयाः असुराः यस्याः सा सुकोमलो-ष्ठकम्पनप्रभीतदुर्जयासुरा, अस्याः रोषलाञ्छनाधरकम्पमात्रेणासुराणां नाश-भीतिरित्यर्थः। सुयुक्ता दृढसन्दृब्धा कुन्दकुटमलप्रकाशा माघीमुकुलाभा दन्त-पङक्तिर्यस्याः सा, सुयुक्तकुन्दकुटमलप्रकाशदन्तपङ्क्तिका ।।१३।।

शरत्सुधांशुमण्डल प्रभाविगर्हणानना ॥
सुधामरन्दवज्जपा सुमोपमाधराधरा ॥१४॥

शरदिति- शरदः ऋतोः सुधांशुमण्डलस्य चन्द्रमण्डलस्य प्रभाया विगर्हणं निन्दकम् आननं मुखं यस्याः सा सरत्सुधांशुमण्डलप्रभाविगर्हणानना। च्चन्द्रादतिरिच्यते मुखमस्या: शोभयेत्यर्थः । मरन्दो मकरन्दः अस्यास्तीति मरन्दवत् सेन जपासुमेन रक्तपुष्पेणोपमा सादृश्यं यस्य सः जपासुमोपमः, सुधापूर्णः जपासुमोपमः अधराधरः यस्याः सा। जपाकुसुमं रक्तं मरन्दवच्च, अधरश्च रक्तः अमृतवांश्च ।।१४।।

तिलप्रसूनचारुता ऽपहासिभासिनासिका॥
नवीनभाभनासिका विलम्बिदिव्यमौक्तिका ॥१५॥

तिलेति- तिलप्रसूनचारुतापहासिभासिनासिका तिलप्रसूनस्य चारुतां मनोहरताम् अपहसितुं शीलमस्या इति तिलप्रसूनचारुतापहासिनी भासिनी नासिका यस्याः सा, नवीनं भं नक्षत्रं तस्य आभा इवाभा यस्य तत्, नासिकायां विलम्बि दिव्यं मौक्तिक मुक्ताफलं यस्याः सा नवीनभाभनासिका-विलम्बिदिव्यमौक्तिका, नासिकायां नवोदितनक्षत्रम् इवोज्ज्वलं भूषणमौक्तिक-मस्याः इत्यर्थः ॥१५॥

विशुद्धगण्डबिम्बित स्वरूपरत्नकुण्डला ॥
महामहस्तरङ्गित प्रभावशालिलोचना ॥१६॥

विशुद्धेति- विशुद्धयोः स्वच्छयो: गण्डयोः कपोलयोः बिम्बिते स्वरूपे ययोः ते विशुद्धगण्डबिम्बितस्वरूपे रत्नकुण्डले रत्नखचिते कुण्डले कर्णभूषणे यस्याः सा विशुद्धगण्डबिम्बितस्वरूपरत्नकुण्डला। महतां महसां तेजसां तरङ्गा अस्य सजाता इति महामहस्तरङ्गित: प्रभावोऽनुभावः तेन शालेते इति महामहस्तरङ्गितप्रभावशालिनी ते लोचने यस्याः सा महामहस्तरङ्गितप्रभाव-शालिलोचना ॥१६॥

दलान्तरस्थयामिनी प्रभुप्रभालिकस्थली ॥
मयूरबर्हगर्हण प्रकृष्टकेशभासिनी ॥१७॥

दलेति- दलस्य सहस्रदलस्य सहस्रारस्येति यावत्, देवदत्तो दत्तः सत्य-भामा भामेतिवत्, अन्तरे तिष्ठतीति दलान्तरस्थः यामिनीप्रभुः निशाकान्तः चन्द्रः तस्य प्रभेव प्रभा शोभा यस्याः सा अलिकस्थली ललाटस्थली यस्याः सा ’ललाटमलिक गोधिः’ इत्यमरः, दलान्तरस्थयामिनीप्रभुप्रभालिकस्थली। मयूरबर्हस्य शिखिपिञ्छस्य गर्हण: निन्दक: प्रकृष्ट: केशः तेन भासत इति मयूरबर्हगर्हणप्रकृष्टकेशभासिनी ॥१७॥

दिवाकरायुतोज्ज्वला हिमांशुलक्षशीतला ॥
तटित्सहस्रभासुरा निरङ्कचन्द्रशेखरा ॥१८॥

दिवाकरेति- दिवाकराणां भास्कराणाम् अयुतम् इव दशसहस्राणि इव उज्ज्वला भास्वरा दिवाकरायुतोज्ज्वला, हिमांशुलक्षशीतला शतसहस्रचन्द्रा इव शीतला इत्यर्थः। तटित्सहस्रभासुरा तटितां विद्युतां सहस्रमिव भासुरा उज्ज्वला, निरङ्कचन्द्रशेखरा निरङ्कः निष्कलङ्कः चन्द्रः शेखरः आपीड: यस्याः सा ’शिखास्वापीडशेखरौं’ इत्यमरः ॥१८॥

नभोन्तरालचारिणी महाविचित्रकारिणी ॥
कुलाग्निकुण्डशायिनी जगत्कथाविधायिनी ॥१९॥

नभ इति- नभोन्तराले आकाशाभ्यन्तरे चरितुं शीलमस्या इति नभो-न्तरालचारिणी। महत् विचित्रम् अद्भुतं कर्तुं शीलमस्येति महाविचित्र-कारिणी । कुलाग्निकुण्डशायिनी, कुः पृथिवीतत्त्वं अत्र लीयते इति कुलं मूलाधारमाहुः तान्त्रिकाः। कुलाग्निकुण्डे मूलाधाराग्निकुण्डे शेते इति कुला-ग्निकुण्डशायिनी। जगत्कथाविधायिनी जगतो विश्वस्य कथायाः चरित्रस्य विधायिनी विधात्री जगत्कार्यप्रचलनं जगत्कथा तां विधत्तेऽसाविति भावः ॥१९॥

नभस्तले बलेश्वरी धरातले क्रियेश्वरी ॥
दिवाकरे विभेश्वरी सुधाकरे रसेश्वरी ॥२०॥

नभस्तले इति- नभस्तले आकाशदेशे बलस्य सर्वस्यापि पराक्रमस्य ईश्वरी बलेश्वरी। धरातले भूतले क्रियेश्वरी सर्वस्या अपि क्रियायाः ईश्वरी, दिवाकरे सूर्ये विभेश्वरी विभानां त्विषाम् ईश्वरी, सुधाकरे चन्द्रमसि रसेश्वरी रसस्य ईश्वरी। अत्र बल-क्रिया-विभा-रसादिरूपेण तत्र तत्र भासमाना तन्मयी ईश्वरीति वा बोध्यम् ॥२०॥

महेशवेश्मदीपिका जगत्त्रयप्रमापिका ॥
अशेषशीर्षशासिनी समस्तहृन्निवासिनी ॥२१॥

महेशेति- महेशवेश्मदीपिका महेश्वरगृहस्य दीपिका, गृहिण्या विना गृहं शून्यम् अन्धकारमयं हि भवति । जगत्त्रयप्रमापिका जगत्त्रयस्य त्रैलोक्यस्य प्रमापिका प्रज्ञापिका प्रपूर्वकस्य माङ् मान इति धातोर्हेतुमण्ण्य-न्तात् डीपि रूपम्। प्रोपसर्गस्य माते: ज्ञानहेतुत्वात् त्रैलोक्यज्ञानप्रवर्ति-केत्यर्थः। मीञ् हिंसायामिति धातोनिष्पत्तौ संहन्त्रीत्यर्थः । तच्च प्रकृते वैरस्यात नेष्टम् । अशेषशीर्षशासिनी सर्वेषां शिरस्सु सहस्रारेषु शास्तीत्यर्थः । समस्तहृन्निवासिनी सर्वेषां हृदयेषु निवसतीत्यर्थः ॥२१॥

गुणस्तवे गुणस्तवे गुणप्रकर्षदायिनी ॥
विचिन्तने विचिन्तने विशिष्टशक्तिधायिनी ॥२२॥

गुणेति- गुणस्तवे गुणस्तवे प्रतिगुणस्तवं गुणप्रकर्षदायिनी स्तोतृभ्यः गुणप्रकर्ष सद्गुणोत्कर्ष ददाति इत्यर्थः। विचिन्तने विचिन्तने ध्याने ध्याने प्रतिध्यानं विशिष्टशक्तिधायिनी अधिकां शक्ति विधत्ते इत्यर्थः ॥२२॥

भ्रमाकुलेन दुस्तरा भवालसेन दुर्गमा ॥
अमन्त्रकेण दुर्भरा जगत्त्रयेण दुर्जया ॥२३॥

भ्रमेति- भ्रमाकुलेन भ्रमेण आकुल: विक्षिप्तचेताः जनस्तेन दुस्तरा दुःखेन तर्तुं शक्या, भ्रमशून्यस्यैव सुतरेत्यर्थः। भवालसेन भवेन जननेन अलसो मन्दः तेन जन्मनिमग्नतया संसारित्वादलसेन मन्देन जनेन दुर्गमा दुःखेन गन्तुं शक्या, अनलसस्यैव सुगमेत्यर्थः। अमन्त्रकेण न विद्यते मन्त्रो यस्य सोऽमन्त्रः स एवामन्त्रकस्तेन दुर्भरा दुःखेन भर्तुं शक्या । सुभरेत्यर्थः। जगत्त्रयेण दुर्जया जेतुमशक्येति भावः ॥२३॥

मन्त्रधरस्य सुवर्णचेलधारिणी समस्तमोदकारिणी ॥
विलासिनी निरामया विचिन्त्यतां मनस्त्वया ॥२४॥

सुवर्णेति- सुवर्णचेलधारिणी हेमवस्त्रधारिणी, समस्तमोदकारिणी सर्वेषा-मानन्दकृत्, निरामया नीरोगा अत एव न तदाश्रितानामनारोग्यं, विलासिनी विलासवती देवी, मनः रे मानस ! त्वया विचिन्त्यतां ध्यायताम् ॥२४॥

पदाब्जवन्दिनः कवे रियं प्रमाणिकावली ॥
महेशमानसेश्वरी गृहे महाय कल्पताम् ॥२५॥

पदाब्जेति- पदाब्जवन्दिनः पादारविन्दस्तुतिपाठकस्य कवेर्गणपतेर्मम इयं प्रमाणिकावली प्रमाणिकानाम् प्रमाणिकावृत्तनिबद्धानां कृतीनाम् आवली माला महेशमानसेश्वरीगृहे महेश्वरहृदयेश्वरीवासगृहे महाय उत्सवाय कल्पताम् प्रभवतु ॥२५॥

एकोनविंशः स्तबकः सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates