ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




एकविंशः स्तबकः

परमेश्वरार्धाङ्गभूताया: पार्वत्याः स्तवो भवत्येकविंशे स्तबके ।

इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः ॥
जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥१॥

इत इति- स्कन्दे शिशौ सुब्रह्मण्ये इतः एकतः कुचं पीत्वा, ततः अन्यत: प्रसारितकरे प्रसारितौ करौ येन तस्मिन् सति, एकदेहयोः एको देहो ययोः तयोः शिवयोः शिवा पार्वती शिवः परमेश्वरश्च तयोः, पुमान् स्त्रियेत्येक-शेषः। उद्भूतं जातं स्मितं मन्दहसितं जयति उत्कर्षेण वर्तते। स्तनन्धयः कुमारो वामभागे स्तन्यं पीत्वा मातु: दक्षिणकुचं स्तन्यपानाय ग्रहीतुं हस्तौ प्रसारयति । शिवः पिता हि मातु: दक्षिणो भागः । तत्र क्व कुचः ? कथं तज्जानाति शिशुः ? एकदेहौ पितराविति कथं वेद स्तनन्धयः ? एकं कुचं पीत्वा अन्यस्मै कुचाय करप्रसारस्तु शिशूनां स्वभावतः प्रवर्तते। जातस्येदृशीं दशां दृष्ट्वा जनकयोरतितरां पुत्रविषया रतिः स्मितेन प्रकाशा भवति । स्कन्दालम्बनस्तन्यपानोद्दीपनविभावायाः दक्षिणस्तनार्थकरप्रसारणानुभावायाः जनकोभयार्धाङ्गस्थितसञ्चारिभावायाः पुत्रविषयरतेरभिव्यक्तिः ॥

यद्यप्यत्र जनकयोः एकदेहत्वहेतुकस्य कुमारकरप्रसारणस्य वैफल्यात् हासः स्थायी भावो ध्वन्यते, तथाऽपि स व्यभिचारितां भजमानः पुत्रविषय-रतिपरिपोषको भवति । ’रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः’ इति स्थिते, शृङ्गारस्येव पुत्रविषयरतेरनुच्छिद्यमानत्वात् रतिरेव स्थायिशब्दवाच्या ॥

स च हासः पुनरुत्पद्यमानो व्यभिचार्येवेत्यालङ्कारिक: समयः । हासश्च उत्तमानामल्प एव भवति। तदुक्तं दर्पणकृता ’ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च । नीचानामपहसितम्’ इति। अत्र जगत्पित्रोः शिवयोः उचितम् उत्तमं हसितं स्मितपदेनोक्तम् ॥

अत्र अपत्यफलिताभतदाम्पत्यसम्पन्नपरदेवताविषयक: कविगतो रतिभाव-

इति बोध्यम्। जयत्यर्थेन नमस्कारस्याक्षेपः। स्वक्रियावर्णनात् स्वभावोक्तिः स्फुटोऽलङ्कारः। ’स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्’ इति प्रकाश-लक्षणात् ॥१॥

एकतो मणिमञ्जीर- क्वाणाहूतसितच्छदम् ॥
अन्यतो नूपुराहीन्द्र- फूत्कारकृततद्भयम् ॥२॥

इति- एकत: वामार्धे मणिमञ्जीरक्वाणाहूतसितच्छदं मणि-मञ्जीराणां रत्नखचितपादकटकानां क्वाणेन नादेन आहूता: आकृष्टाः सित-च्छदा: हंसाः यस्य तत्। नूपुरध्वानमाकर्ण्य हंसाः अस्मज्जातीया हंसी काचनेहेति आगच्छन्तीत्यर्थः, हंसगतिक वामार्धमिति यावत् । दक्षिणतः नूपुराहीन्द्रफूत्कारकृततद्भयं नूपुराहीन्द्रस्य भूषणसर्पराजस्य फूत्कारेण श्वसितध्वनिना कृतं जनितं तद्भयं सितच्छदभयं यस्य तत्। दक्षिणार्धरुद्र-पादसर्पफूत्कारात् वामार्धदेवीपादाहूतहंसानां भीतिः जायते। अतिसौम्य-दर्शनरौद्रदर्शनयोः वामवामेतरार्धयोः शिवयोः भङ्गयन्तराश्रयेण गम्यमानत्वात् पर्यायोक्तम् अलङ्कारः। अस्मिश्चालङ्कारे व्यङ्गयं वाच्यपरम् । तेन अयं वाच्यसिद्धयङ्गगुणीभूतव्यङ्गयभेद इति ध्वनिकारानुयायिनः । रसगङ्गाधर-कृद्भिरुक्तं लक्षणं सूपपन्नम् ’विवक्षितार्थस्य भङ्गयन्तरेण प्रतिपादनं पर्या-योक्तम्’ इति । इतः परं प्रायेणाषोडशपद्यमयमेवालङ्कारः । श्लोके ’वस्तु मे हृदि सन्निदधातु’ इति वाक्यसमाप्तिः ॥२॥

गीर्वाणपृतनापालं बालं लालयदेकतः ॥
उत्सङ्गे गणसम्राज मर्भकं बिभ्रदन्यतः ॥३॥

गीर्वाणेति- एकतः सव्यत: गीर्वाणपृतनापालं देवसेनापति बालं कुमारं स्कन्दं लालयत् क्रीडयत् स्थितमित्यर्थः । लालयत् लल विलास इति शब्विकरणधातोर्हेतुमण्णिचि शत्रन्तं नपुंसकप्रथमैकवचनान्तम् । अन्यतः अप-सव्यत: गणसम्राजं गणपतिम् अर्भकं शिशुम् उत्सङ्गे अङ्के बिभ्रत् धरत्, वस्त्वित्युत्तरेणान्वयः। वामभागे स्कन्दो दक्षिणभागे गणपतिरित्युक्तेः, लालितः शक्तिधरः कुमारः, गणपतिज्येष्ठः शिवाङ्कनिलयः ओंकारवदनश्चेति शिवांशभूयस्त्वं ज्येष्ठस्य, कनीयसस्तु शक्त्यंशभूयस्त्वं चेति तत्त्वमवधेयम् ॥३॥

विडम्बितब्रह्मचारि- कोकैकस्तनमेकतः ॥
कवाटार्धनिभं बिभ्र- द्वक्षः केवलमन्यतः ॥४॥

विडम्बितेति- एकतः वामे भागे विडम्बितब्रह्मचारिकोकस्तनं ब्रह्मचारी अगृहस्थोऽभार्यः कोकश्चक्रवाक: ब्रह्मचारिकोकः विडम्बितोऽनुकृतो ब्रह्मचारि-कोको येन सः विडम्बितब्रह्मचारिकोकः, स एकस्तनो यस्य तत्, चक्रवाक-मिथुनस्य स्तनयुग्मोपमानता प्रसिद्धा, वामभाग एव कुत्रः कुचान्तरासत्त्वात् वियुक्तकोकोपमत्वं देवीभागस्थस्योक्तम्। अन्यत: दक्षिणार्धे कवाटार्धनिभं वैशाल्यादिद्योतनाय पुंवक्षसः कवाटेनौपम्यमाहुः, कवाटार्धसदृशं केवलं वक्षोज-रहितं पुंस्त्वलक्षणं वक्षः उरःस्थलं बिभ्रत् धारयमाणं वस्त्विति उत्तरेणान्वयः ॥४॥

सेनान्याऽऽस्वादितस्तन्य मनुफूत्कुर्वतैकतः ॥
फूत्कारमुखरं नाग मुग्रं जाग्रतमन्यतः ॥५॥

सेनान्येति- एकत: पार्वतीभागे अनुफूत्कुर्वता अनुसृत्य फूत्कारं कुर्वता उत्तरोत्तरस्तन्यास्वादनवेगोत्थमुखस्तन्यश्वाससंघर्षजं सीत्कारं कुर्वतेत्यर्थः। सेनान्या सेनां नयतीति सेनानी: स्कन्दस्तेन आस्वादितं स्तन्यं यस्य तत्, अन्यतः रुद्रभागे फूत्कारमुखरं फूत्कारेण श्वसितसीत्कारेण मुखरं शब्दायमानम् उग्रं क्रुद्धं जाग्रतम् अनिद्रितं नागं सर्प बिभ्रत् इति उत्तरश्लोकेन अन्वयः ॥५॥

एकतो दोलतां बिभ्रन् मृणालश्रीविडम्बिनीम् ॥
शक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥६॥

एकत इति- एकतः वामतः मृणालश्रीविडम्बिनीं मृणालस्य पद्मनालस्य श्रियं शोभां विडम्बयति अपहसतीति मृणालश्रीविडम्बिनी तां, दोलतेव तां दोर्लतां भुजलतां सौकुमार्यसम्पन्नां बिभ्रत्, अन्यतः दक्षिणतः शक्रशुण्डाल-शुण्डाभं शक्रस्येन्द्रस्य शुण्डाल: गजः ऐरावतः तस्य शुण्डायाः करस्याभेवाभा यस्य तत् ऐरावतहस्तोपममित्यर्थः, चण्डम् उग्रं विक्रान्तम् इत्यर्थः, दोर्दण्डं दो-बहुर्दण्ड इव तं बिभ्रत् ॥६॥

कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा ॥
परस्परकरस्पर्श लोभतो विहिताञ्जलि ॥७॥

कुत्रेति- वन्दनीये वन्दितुम् अभिवादयितुं योग्ये शिवाभ्यां पूजनीये इत्यर्थः कुत्रापि अविद्यमाने असत्यपि, तदा तदा काले काले परस्परकरस्पर्शलोभतः परस्परस्य करस्य स्पर्श लोभात्, विहिताञ्जलि विहितः वद्धः अञ्जलि: हस्तद्वयसंयोगरूप: नमस्कारसङक्षेपः येन तत् परशब्दस्य क्रियाविनिमयविवक्षायां द्विर्भावः, असमासवद्भावात् सुर्वक्तव्य इति परस्परशब्दव्युत्पत्तिरवधेया। वामवामेतरौ करौ अन्योन्यस्पर्शसुखमृध्यया मिलतः । तथा संयोगः अञ्जलि-बन्धो भवति। सर्वलोकवन्दनीयस्य प्रकृतस्यार्धद्वयस्य अञ्जलिविधि: समर्थन-सापेक्षः दुष्करविषयत्वात्तस्य । स च परस्परकरस्पर्शलोभेन पदार्थगतहेतुना सम-थित इति काव्यलिङ्गमलङ्कारः ’हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्’ ॥७॥

शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि ॥
ऊर्ध्वाधराङ्गसापेक्ष- सन्धिज्ञानगलस्थलम् ॥८॥

शक्रेति- उभयोरपि वामदक्षिणयोर्भागयोः इन्द्रनीलसवर्णत्वात्, समानो वर्ण: ययोस्तौ सवर्णी इन्द्रनीलेन सवर्णी इन्द्रनीलसवर्णी तयोर्भावः तस्मात् हेतोः। कण्ठप्रदेशे वामभागः देव्याः कालीत्वात् नील:, दक्षिणभागेऽपि नील: शिवस्य शुभ्राङ्गस्य कण्ठे नीलत्वात् । एवं कण्ठे सर्वे अपि नीले, कथं ज्ञायते पार्वत्याः कण्ठाधं शिवस्य कण्ठार्धं चेति चेत्, उच्यते उभयोः कण्ठार्धयोः यत्र समा-गमः तस्य ज्ञानं कण्ठादुपरि दक्षिणार्धे यत्र शिवाङ्गश्वेतिमा निवर्तते, नीलिमा च प्रवर्तते एवं कण्ठस्याधोभागे च यत्र नीलिमा निवर्तते, श्वेतिमा च प्रवर्तते, तत्सन्ध्यवलोकनेन कण्ठस्थलस्य अर्धद्वयं स्त्रीपुंसीयं वामदक्षिणगम् ऊह्यम् । तदाहैकपदेनोत्तरार्धेन। ऊर्ध्वं च अधरं च ऊर्ध्वाधरे ते अङ्गे तयोः सापेक्ष ऊर्ध्वाधराङ्गसापेक्ष सन्ध्योर्ज्ञानं सन्धिज्ञानं यस्य तत् ऊर्ध्वाधराङ्गसापेक्ष-सन्धिज्ञानं तत् गलस्थलं कण्ठस्थलं यस्य तत् वस्त्वित्युत्तरेणान्वयः ॥८॥

एकतः कैरवश्रेणी-निद्रामोचनलोचनम् ॥
अन्यतः कमलावास क्षणाधायकवीक्षणम् ॥९॥

एकत इति- एकतः वामतः कैरवश्रेणीनिद्रामोचनलोचनं करवश्रेण्याः कुमुदपङक्तेः निद्रामोचनं विकसने चन्द्रात्मकं लोचनं यस्य तत्, चन्द्रसूर्ययो-मिवामेतरनेत्रत्वं प्रसिद्धम्। अन्यतः दक्षिणतः कमलावासक्षणाधायकवीक्षणं कमलावासः लक्ष्मीनिलयः कमलं तस्य क्षणस्योत्सवस्य आधायकम् उत्पादक कमलविकासनं सूर्यात्मकं लोचनं यस्य तत् ॥९॥

एकतश्चक्षुषा चारु-तारेणाधीतविभ्रमम् ॥
अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥१०॥

एकत इति- एकतः वामे चारुतारेण चारु: कमनीया तारा कनीनिका यस्य तेन चक्षुषा नयनेन, अन्यतः दक्षिणे पाणिपाथोजे करकमले खेलतः क्रीडतः मृगबालतः हरिणशिशोः अधीतविभ्रमम् अधीतः शिक्षितः विभ्रमो विला-सो यस्य तत्। दक्षिणत: शिवहस्ते क्रीडतो बालहरिणात् वामार्धभूताया देव्याश्चक्षुर्विलासं शिक्षमाणं रमणीयम् इत्यर्थः ॥१०॥

एकतो भालफलके काश्मीरेण विशेषितम् ॥
अन्यतोऽर्धक्षणेनैव रतिभ्रूविभ्रमद्रुहा ॥११॥

एकत इति- एकत: वामपार्वे भालफलके भालं फलकमिव तस्मिन् ललाटफलके काश्मीरेण केसरेण काश्मीरदेशोद्भवसुगन्धद्रव्येण विशेषितम् अल-ङकृतम् । अन्यतः रतिभ्रूविभ्रमद्रुहा रते: मन्मथकान्तायाः भ्रुवो विभ्रमं विलासं द्रुह्यतीति रतिभ्रूविभ्रमध्रुक् तेन मन्मथदाहित्वाद्रतिविलासापहेन अर्धक्षणेनैव तृतीयस्य अग्निनेत्रस्य अर्धमेव दक्षिणे शिवभागे अवशिष्टं, तेन अर्धदृष्टये-त्यर्थः, विशेषितमिति पूर्वेणान्वयः। एवकारेण पूर्णेक्षणं नावश्यमभूत् रति-कान्तदहने इति भावः ।।

एकतः शीतलालोकं साधुलोकशिवङ्करम् ॥
अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥१२॥

एकत इति- एकतः वामार्धे, शीतलालोकं शीतल आलोक आलोकनं यस्य तत्, साधुलोकशिवङ्करं सज्जनसङ्घक्षेमावहं शिष्टानुग्रहकारकमित्यर्थः । अन्यतः दक्षिणार्धे दुष्टगोष्ठीभयङ्करं दुर्जनसङ्घभीतिकृत् दुष्टनिग्रहकारकमित्यर्थः । प्रज्वलत्प्रेक्षं प्रज्वलन्ती प्रेक्षा दृष्टि: यस्य तत् ॥१२॥

एकतो मणिताटङ्क- प्रभाधौतकपोलकम् ॥
अन्यतः कुण्डलीभूत- कुण्डलीभूतकुण्डलि ॥१३॥

एकत इति- मणिताटङ्कप्रभाधौतकपोलकं मणिखचितः ताटङ्कः कर्ण-भूषा, मणिताटङ्कस्तस्य प्रभया शोभया धौतः शुद्धः कपोल: यस्य तत्, ताटङ्करत्नप्रभापरिष्कृतं गण्डस्थलं वाममित्यर्थः। अन्यतः शिवार्धे, कुण्डलीभूतकुण्डलीभूतकुण्डलि अकुण्डलं कुण्डलं मण्डलाकारं सम्पद्यमानो भूतः कुण्डलीभूतः मण्डलाकारीभूतः सः कुण्डलीभूतः कर्णवेष्टनीभूतः कुण्डली सर्पः यस्य तत्, वर्तुलाकारेण कर्णभूषणतया सर्पः अस्मिन् स्थितः इत्यर्थः ॥१३॥

एकतः कुन्तलान्बिभ्र- दिन्द्रनीलोपमद्युतीन् ॥
अन्यतः पावकज्वाला-पाटलांशुच्छटा जटाः ॥१४॥

एकत इति- एकतः वामे इन्द्रनीलोपमद्युतीन् इन्द्रनीलेनोपमा यासां ताः, इन्द्रनीलोपमाः ताः द्युतयः कान्तयः येषां तान् कुन्तलान् कचान् बिभ्रत्। दक्षिणे पावकज्वालापाटलांशुच्छटाः पावकज्वालानाम् अग्निज्वालानां पाटलांशूनां श्वेतरक्तभासां छटाः रेखा इव रेखा यासां ताः जटाः बिभ्रत् ॥१४॥

अन्यतः एकतः केशपाशेन कीर्णेनोरसि भासुरम् ॥
अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥१५॥

एकत इति- अन्यतः दक्षिणार्धे लम्बमानस्य भोगिनः हारभूतस्य सर्पस्य श्रियं शोभां हरता अपहरता, एकत: वामार्धे उरसि वक्षसि कीर्णेन विक्षिप्तेन केशपाशेन भासुरम् उज्ज्वलम् । शिवहारभूषाभुजङ्गशोभातिशायी वामवक्षसि कीर्णो देवीकालकेशपाशः इत्यर्थः ।।१५।।

अवतंसितमम्लान पारिजातस्रजैकतः ॥
विमलोल्लोलमालिन्या विबुधापगयाऽन्यतः ॥१६॥

अवतंसितेति- एकतः स्त्रीभागे अम्लानपारिजातस्रजा प्रत्यग्रपारिजात-पुष्पमालया अवतंसितमलङकृतम् । अन्यतः पुरुषभागे विमलोल्लोलमालिन्या विमलानां प्रसन्नानाम् उल्लोलानां कल्लोलानां महातरङ्गाणामित्यर्थः, ‘महत्सू-लोलकल्लोलौ’ इत्यमरः, माला अस्या इति विमलोल्लोलमालिनी तया विबुधापगया देवनद्या गङ्गया अवतंसितमिति पूर्वेणान्वयः ॥१६॥

रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा ॥
वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥१७॥

रौप्येति- रौप्याचलकृतावासं रौप्याचले रजताद्रौ कैलासे कृतः आवासः येन तत् रामापुमाकारं रामा स्त्री पुमान् पुरुषश्च रामा-पुमांसौ तयोरा-काराविवाकारौ यस्य तत् स्त्री-पुरुषाकारं वस्तु मे मम हृदि हृदये सन्नि-दधातु सान्निध्यं करोतु ॥१७॥

कान्तार्धविग्रहे मात जटार्धाश्चिकुरास्तव ॥
दधत्यदभ्रसन्ध्या युक्तकालाभ्रविभ्रमम् ॥१८॥

कान्तेति-- कान्तस्य पत्युरर्धं समो भागः कान्तार्धं विग्रहः शरीरं यस्याः तस्याः सम्वुद्धिः कान्तार्धविग्रहे मातः, जटार्धाः जटायाः हरजटायाः अर्धं समांशः येषां ते व्यधिकरणबहुव्रीहिः, ’पुंस्थोऽध समेऽशके’ इत्यमरः, तव चिकुरा: कचा: अदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् अदभ्राणामनल्पानां सन्ध्या-भ्रेण सन्ध्याकालनभसा युक्तानां कालाभ्राणां श्यामलमेघानां विभ्रम विलासं दधति बिभ्रति । अत्र चिकुरेषु कालाभ्रत्वारोपानिदर्शनाऽलङ्कारः । चन्द्रा-लोके ’वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना’ इत्युक्त्वा ‘पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्। त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥’ इति तल्लक्षणात् ॥१८॥

दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे ॥
वामं पाव विभोः शेतुं दातुं ते दक्षिणः करः ॥१९॥

दम्पत्योरिति - शेतुं शयनाय विभोः शिवस्य तव दक्षिणार्धस्य वामं पार्वं नास्ति तस्य त्वयाऽपहृतत्वात्। दातुं दानाय ते तव दक्षिणः करः नास्ति तस्य शिवार्धगतत्वात्। एवम् उभयं नास्तीति यत् एष दम्पत्योः जाया च पतिश्च दम्पती तयोः युवयोः लोपः भवति । अत एव देव्याः वामो हस्तो दानाय प्रसिद्धः इति गम्या हेतूत्प्रेक्षा। शिवस्यापि स्वाश्रय-त्वात् शयनं पावनिरपेक्षम् । अशयानः शयानो वा स एवाश्रयो भवति हि जगज्जन्मादेः शक्तेः ॥१९॥

लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा ॥
स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥२०॥

लोक इति- लोके स्त्री जातावेकवचनं, स्तनयुग्मेन एक सुतं पुष्णाति न वा। स्तनयुगस्तन्यदानेन पुत्रमेकम् अपि भर्तुं समर्था वा न वेति संशय-ग्रस्तः विषयः। शर्वाणि, देवि ! त्वं तु एकेन स्तनेन जगत्त्रयं पुष्णासि पोषयसि अत्र न संशयः। अद्भुतस्ते महिमा ॥२०॥

खिद्यन्ति योषितः कुक्षौ वहन्त्योर्भकमेककम् ॥
अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥२१॥

खिद्यन्ति इति- अम्ब ! योषितः स्त्रियः कुक्षौ उदरे एककम् एकमेव अर्भकं शिशुं वहन्त्यः बिभ्रत्यः खिद्यन्ति श्रान्ता भवन्ति। त्वं तु अर्धकुक्षौ अन्याधस्य हरभागत्वात् उदरार्धे त्रिलोकीं त्रयाणां लोकानां समाहारः जगत्त्रयं लीलया अनायासेन दधासि धारयसे ॥२१॥

अनुरूपा शिवस्य त्व-मनुरूपः शिवस्तव ॥
अलङ्कारोऽनुरूपो वा मकलङ्कोऽर्भकः शशी ॥२२॥

अनुरूपेति- शिवस्य त्वम् अनुरूपा सदृशी, तव शिवोऽनुरूपः सदृशः, वां युवयोरनुरूपः सदृशः अलङ्कारः अकलङ्कः अङ्करहित: अर्भक: शिशुः शशी चन्द्रः प्रसिद्धचन्द्रादतिरिक्तो बालचन्द्रः युवयोः सदृशोऽलङ्कारः ॥ पूर्वार्धे अन्योन्यालङ्कारः, उत्तरार्धे समोऽलङ्कारः ॥२२॥

तवैव तव देहांशो हरस्यैव हरस्य यः ॥
प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥२३॥

एकविंशः स्तबकः] प्रभासहितम् २४३ वर्तते । यद्य-तवेति- तव देहांशः तवैव, वामभागस्त्वदीय एव न तत्र हरस्य स्वाम्यं यः हरस्य देहांशः सः हरस्यैव, न तत्र तव स्वाम्यमस्ति । प्येवम् उभयोर्देहभागौ संविभक्तौ, तथाऽपि, भोः जगतां धात्रि लोकत्रि! हरस्य त्वं प्राणाः असि, तव हरः प्राणा भवति । एवं युवयोः युवाम् अन्यो-न्यप्राणतां भजमानौ भवथः। अन्योन्यालङ्कारः ॥२३॥

अविभक्तं भवानि स्वं भवस्य तव चोभयोः ॥
सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥२४॥

अविभक्तमिति- भवानि, देवि! भवस्य शिवस्य तव च उभयोः अवि-भक्तं विभागेन विना एकतया स्थितं स्वं स्वीयं सकरुणं सदयं चेतः मानसं नः अस्माकं शिवं कल्याणं सकृत् एकवारं सङ्कल्पयतु युवयोः शरीरमेव विभक्तं, प्राणाश्च तस्य त्वं, तव च सः, भनस्त्वेकमेव । अमोघसद्यःफल-त्वात् सङ्कल्पस्य सकृदिति उक्तम् ॥२४॥

भवस्य भागमुत्सृज्य भवानी भागमात्मनः ॥
भजत्वनुष्टुभामासां सृष्टानां नासिहिना ॥२५॥

भवस्येति- भवानी देवी नारसिंहिना नरसिंहसूनुना कविना गणपतिना सृष्टानां निर्मितानामासाम् अर्पितानाम् अनुष्टुभाम् अनुष्टुब्निबद्धानां कृतीनां मध्ये भवस्य शिवस्य भागम् उत्सृज्य शिववर्णनपरं पद्यभागं तस्मै विसृज्य आत्मनो भागं स्वोचितं पद्यभागं भजतु स्वीकरोतु ॥२५॥

एकविंशः स्तबकः सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates