उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथास्मिन्पञ्चदशे स्तबके देव्याः वैभवप्रसक्त्या तयानप्रकारप्रस्तावो भवति ॥
आपदामपहरन्तु ततिं नः सम्पदामपि दिशन्तु समृद्धिम् ॥ दन्तकुन्दरुचिदत्तबलानि व्योमकेश्.सुदृशो हसितानि ॥१॥
आपदामिति- दन्तकुन्दरुचिदत्तबलानि दन्ताः कुन्दानि माघीकुसुमानीव दन्तकुन्दास्तेषां रुचिभ्यः कान्तिभ्यो दत्तं बलं यस्तानि, व्योमकेशसुदृशः व्योम-केशस्य शिवस्य सुदृशः कान्तायाः पार्वत्याः हसितानि नः अस्माकमापदां विपदां तति संहतिम् अपहरन्तु निवारयन्तु, सम्पदां श्रियां समृद्धि पुष्कलतां दिशन्तु ददतु। कुन्दकुसुमोपमरुचिरदन्तरुचिभ्योऽपि बलदानकथनात् हसि-तानां शुभ्रशोभावहत्वं गम्यते । हसितानीति बहुवचनात् क्षणक्षणविलासित्वं मन्दत्वं च द्योत्यते। आपन्निवारण-सम्पद्वितरणदक्षाणि देवीमन्दहसितानि स्तबकादौ स्तुतानि ॥१॥
अल्पमप्यधिकशक्तिसमृद्धं मन्दमप्यधिकसूक्ष्मविसारम् ॥ सुस्मितं स्मरविरोधिरमण्याः कल्पतां मम कुलस्य शुभाय ॥२॥
अल्पमिति- अल्पं तन्वपि अधिकशक्तिसमृद्धं अधिकया अनल्पया शक्त्या समृद्धं पूर्ण, मन्दम् अलसमपि अधिकसूक्ष्मविसारम् अधिकसूक्ष्मः अत्यन्त-सूक्ष्मः वेगप्राबल्यात् स्थूलदृगगोचरः विसारः प्रसारः यस्य तत् स्मरविरोधि-रमण्याः कामारिकान्तायाः देव्या: सुस्मितं शोभनमन्दहसितं मम कुलस्य शुभाय मङ्गलाय कल्पतां प्रभवतु । अल्पमप्यनल्पशक्ति, मन्दमप्यमन्द-विसारि मन्दस्मितं सकलकुलमङ्गलाधानसमर्थं प्रार्थितम् । कामविरोधिनो-ऽपि कामाधायिनीति साभिप्रायं स्मरविरोधिरमणीपदम्। एवं सर्वत्र अन्यो-न्यविरोध एव कथितः। सुस्मितप्रभावात् विरोधाभासः । हेतूनामसमग्रत्वे गर्योत्पत्तिश्च सा मता’ इति विभावना चन्द्रालोकलक्षणानुसारेण स्यात् । वरोधाभासे तु सुस्मितप्रभावाद् इति विरोधपरिहृतिहेतुराहार्यः ॥२॥
पुष्कराद्रविमतो भुवमेतां भूमितश्शशधरं क्रममाणा ॥ नैव मुञ्चति पदं बत पूर्व नोत्तरं व्रजति नेशपुरन्ध्री ॥३॥
पुष्करादिति- ईशपुरन्ध्री ईश्वरयोषा देवी पुष्करात् आकाशात् पर-द्वयोम्नः इत्यर्थः, रविम्, अतोऽस्माद्रवेः एतां भुवं भूमि, भूमित: भूलोकात् शिवरं चन्द्रं क्रममाणा पादेन गच्छन्ती, पूर्वं पदं पादन्यासं नैव मुञ्चति, त्तरं पदं च न व्रजतीति न, व्रजत्येव, बत आश्चर्यम्। देवी सर्गादेः पुष्करात् प्रस्थाय रवौ पादं निधत्ते, ततः भुवि, ततश्चन्द्र। एवं पादविक्षेपे र्वस्मिन् रवौ निहितं पदम् अविहायव उत्तरं पदं भूमौ न्यस्यति, उभयत्राप्य-यक्तपदक्रमा सदा चन्द्रे पादन्यासं कुरुते। इदम् आश्चर्यम्। पूर्वं पदं मुक्त्वैव उत्तरं पदं न्यस्यति लोकः; इयं तु असाधारणपदक्रमेति आश्चर्य जनयत्यस्माकम्। भगवत्या उत्तरोत्तरसृष्टौ विधीयमानायां पूर्वपूर्वसृष्टिर्न यक्ता नोपेक्षिता, तत्तस्या वैभवमिति तात्पर्यम् ॥३॥
भूषणेष्विव सवित्रि सुवर्ण मृत्तिकामिव घटेष्वखिलेषु ॥ विश्ववस्तुषु निरस्तविशेषां देवि पश्यति सती विबुधस्त्वाम् ॥४॥
भूषणेष्विति- देवि सवित्रि ! जननि, भूषणेषु आभरणेषु सुवर्णं हिर-यमिव, अखिलेषु घटेषु कुम्भेषु रूपेषु मृत्तिकामिव, यथा कटकरुचकादिषु रूपेषु सुवर्णमेव तेषां स्वरूपं भवति, यथा च मृत्तिकैव स्वरूपं घटानां, तथा वं सर्वस्य स्वरूपमसीत्यर्थः । ’वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति छन्दोगाः। अद्वितीयसर्वमयी सर्वेश्वरी विबुधस्य प्रत्यक्षेति भावः। निरस्तविशेष इति च पाठः । निरस्तविशेषामिति पाठे निविशेषां त्वां भगवतीमित्यर्थः। विश्ववस्तुषु विश्वस्मिन् सर्वत्र वस्तुषु पदार्थेषु निर-स्तविशेषो निरस्त: अपाकृतः विशेषो भेदो येन स विबुधो विद्वान् सती निविशेषसत्तामात्रेणावस्थितां त्वां पश्यति ॥४॥
किट्टभूतमखिलेश्वरजाये दृश्यजातमखिलं निजपाके ॥ प्राणबुद्धिमनसामिह वर्गः सारभूत इति सूरिजनोक्तिः ॥५॥
किट्टभूतमिति- अखिलेश्वरजाये ! सर्वेश्वरसहमणि, निजपाके निजे स्वीये पाके पचनक्रियायां तव परिणमनकर्मणीति यावत्, अखिलं दृश्यजातं समस्तं दृग्गोचरं स्थूलं वस्तुजालं किट्टभूतं किट्टमिव असारांशभूतं मलं भवति, ’किटं मलोऽस्त्रियाम्’ इत्यमरः। प्राण-बुद्धि-मनसां प्राणानां बुद्धीनां मनसां च वर्गः समूहः सारभूतः सारो भूतः सारतां गत इति सूरिजनोक्तिः, विदुषां वचनम्। भूतपदमिह स्वरूपवाचि, न तु सादृश्यपरम्। भूप्राप्ता-वित्यस्य ’आधुषाद्वा’ इति णिजभावे रूपम्। स्थूलं वस्तु सर्वं सारांशमावृत्य किट्टवत् स्थितम्। तस्य पचने प्रवृत्ते, तत्तद्वस्तु तत्तत्सारं विसृजति । स्थूलस्य किट्टत्वं ततोऽपि सूक्ष्मस्य तत्सारत्वं चाभिप्रेत्य श्रुतय उद्घोषयन्ति । अत एव सूरिजनोक्तिरिति उक्तम् । तथा च तैत्तिरीयकाः समामनन्ति ’पृथिव्या ओषधय ओषधीभ्योऽन्नम् अन्नात्पुरुषः स वा एष पुरुषोऽन्नरसमयः’ इति पुरुषस्य सारभूततोक्ता। छान्दोग्ये च उद्गीथविद्याप्रस्तावे ’पृथिव्या आपो रसः अपामोषधयो रसः ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसः वाच ऋग्रसः ऋचः साम रसः साम्न उद्गीथो रसः’ इति स्थूलात् सूक्ष्मस्य सूक्ष्मात् सूक्ष्मतरस्य च सारांशतामाह श्रुतिः । ’अन्नमशितं त्रेधा विधीयते।’ इत्यु-पक्रम्य छान्दोग्य षष्ठे प्रपाठके अन्नाप्तेजसां सारांशाः एव मनःप्राणवाचः इति आम्नातम् । सर्वमिदं दृश्यं ब्रह्माण्डम् अस्मदादीनां स्थूलदृष्टे: स्थायिवत् भास-मानं वस्त्वपि सर्वेश्वर्या महाशक्त्या परिपच्यमानं परिणमदेव स्वसारं प्राणा-दिकं दददेव वर्तत इति कवेः हृदयम् ॥५।।
सारमीश्वरि तिलेष्विव तैलं विग्रहेषु निखिलेषु निगूढम् ॥ ये धिया मयनतो विदुरेकं ते भवन्ति विबुधास्त्वयि लीनाः ॥६॥
सारमिति- ईश्वरि! तिलेषु धान्यविशेषेषु तैलमिव निखिलेषु सकलेषु विग्रहेषु शरीरेषु निगूढं गुप्तमन्तर्गतम् एकं मुख्यम् अद्वितीयं वा सारं स्थिरांशं रसाख्यं कर्म, ये धिया बुद्धया सूक्ष्मया करणेन, मथनतः विलोडनात् विदुः जानन्ति, ते विबुधा: विद्वांसः त्वयि लीनाः भवन्ति लयं गत्वा त्वदात्मतां भजन्त इत्यर्थः । ’तिलेषु तैलं दधनीव सर्पिरापः स्रोतस्स्वरणीषु चाग्निः। एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति’ (श्वेताश्वतरोपनिषत् १-१५) ॥६॥
आयसं त्रिभुवनेश्वरि पिण्डं वह्निनेव तपसा तनुपिण्डम् ॥ यस्य चिज्ज्वलनजालमयं स्यात् तप्तमम्ब स तवालयभूतः ॥७॥
आयसमिति- त्रिभुवनेश्वरि, त्रिलोकनायिके ! वह्निना अग्निना तप्तं ज्वलितम् आयसम् अयसो लोहस्येदम् आयसं पिण्डम् इव यस्य तनुपिण्डं तनुरेव पिण्डं घनं वस्तु शरीरमिति यावत् तपसा तप्तं सत् चिज्ज्वलनजालमयं चिदेव ज्वलनः तस्य जालं संहतिः तद्विकारः स्यात् भवेत् सः जनः तवालय-भूतः भवतीति शेषः। यथा अग्निज्वलितं लोहपिण्डं ज्वलनमयं भवति, तथा योगिनः तपस्तप्तं शरीरं ज्ञानज्वालमयं भवेत्। यस्य योगिन एवं ज्वलितं चिन्मयशरीरं भवति स धन्यः तव आवासस्थानं भवतीति तात्पर्यम् ॥७॥
योऽरणेर्मथनतोऽतिपवित्रं वीतिहोत्रमिव वीतकलङ्कः॥ प्राणमुज्ज्वलयति स्वशरीरात् त्वामसावभयदेऽर्हति यष्टुम् ॥८॥
योऽरणेरिति- अभयदे, देवि ! यः वीतकलङ्कः वीतः कलङ्कः पाप्मा यस्मात् सः अपहतपाप्मा पुरुषः, अरणे: निर्मन्थ्यदारुणः मथनतः विलोडनात् अतिपवित्रम् अत्यन्तपावनं वीतिहोत्रम् अग्निम् इव, स्वशरीरात् निजदेहात् प्राणं जीवनहेतुं प्राणाख्यं पवनम् उज्ज्वलयति ’वायोरग्निः’ इति श्रुतेः असौ सः त्वा यष्टुं पूजयितुम् अर्हति । यथा मथनादग्निमरणेरुज्ज्वाल्य यष्टुमर्हति यजमानः, तथा तपोबलतः शरीरात् प्राणमुज्ज्वाल्यैव योगी त्वामचितुम् अर्हति। शरीर-मेवारणिः, तपोध्यानादि मथनं, कुण्डलिनीप्रेरितप्राणज्वालव अग्निः इति उप-मानोपमेयविवेकः । एवमन्तर्यागसमाराध्या भगवती प्रतिपादिता। ’स्वदेहमरणि कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद्देवं पश्येत् निगूढवत्’ (श्वेताश्वतरोपनिषत् १-१४) ॥८॥
प्राणता श्वसितमेव विचार्य कुर्वता करणमेव निभाल्यम् ॥ गच्छता गमनमेव विशोध्यं तत्तनौ मथनमागमबोध्यम् ॥९॥
प्राणतेति- प्राणता श्वसता जनेन श्वसितमेव श्वासकर्मैव विचार्यम् आलोच्यम्। कुर्वता कर्माणि कुर्वता करणं क्रियाप्रचलनम् एव निभाल्य निभालयितुम् आलोकितु योग्यम्, आलोचनीयमिति यावत् । गच्छता गमनक्रिया-वता गमनमेव विशोध्यम् परीक्षणीयम्, सर्वत्र निभाल्येत्यादेरावृत्तिः। तत् प्राणन-करण-गमनानाम् आलोचनमेव तनौ शरीरे आगमबोध्यम् आगमैः वेदा-दिशास्त्रैः साधनैः बोध्यम् ग्राह्यं मथनं भवतीति शेषः। पूर्वश्लोके मथन-प्रसक्तेः तत्स्वरूपमिह व्याख्यातम् । श्वसन् पुरुषः कथं श्वसिमि, श्वसिति ? इति विचारयेत् तथा श्वासस्य प्रत्यवेक्षणम् एकं मथनं, एवं कर्मणि क्रियमाणे, क: करोति कथं करोति ? इति बुद्धया पश्येत्, एवं निभालनं मथन भवति, गमने एवमेव परीक्ष्यम् । इदं त्रयं देहे प्राणोज्ज्वलनं मथनं भवतीति निगमागमतात्पर्यम् । इदं चावधेयम्। अकुर्वता अगच्छताऽपि श्व-सतैव भूयते। तथा तूष्णींभावे च श्वसनान्ववेक्षणं मथनं स्यात्। तूष्णीं भवन्, कुर्वन्, गच्छन् वा सर्वथा मथनं चालयेत् इति भावः ॥९॥
यो रसं पिबति मूर्धसरोजात् सोमपोऽयमनघः प्रयतात्मा ॥ अग्निहोत्रमखिलेश्वरि नित्यं मूलकुण्डदहनस्थितिरस्य ॥१०॥
यो रसमिति- यो योगी मूर्धसरोजात् मूर्धनि शिरसि यत् सरोजं सह-स्रारकमलं तस्मात् रसं स्रवन्तं पिबति अयं सोऽनघः अपाप्मा प्रयतात्मा प्रयतो नियत आत्मा अन्तःकरणं प्रकृतिः शरीरं वा यस्य स सोमपः सोमं पिबतीति सोमपो भवतीति शेषः। शिरस्तो द्रवतो रसस्य सोमात्मत्वात् अस्मिन्नन्त-र्यागे यजमानस्य सोमपानस्वरूपवं निरूपितम् । अखिलेश्वरि सर्वेश्वरि, अस्य सोमपस्य नित्यं सदा अग्निहोत्रं, कालनियमो बहिर्याग इव नास्ति, कुतः ? अस्य नित्यं विच्छेदराहित्येन मूलकुण्डदहनस्थितिः मूलं मूला-धार एव कुण्डं तत्र यो दहनः अग्निः तस्य स्थितिः जाग्रत्तया वर्तनं भव-तीति शेषः । नित्यं कुलकुण्डाग्निस्थितेरग्निहोत्रं नित्यमिति भावः ॥१०॥
अम्ब ! चिन्मयी पिबसि सोममिमं कि सोम एव किमसावसि मातः॥ पीयसे पिबसि च स्वयमेका पेयपातृयुगलं किमु भूत्वा ॥११॥
चिन्मयीति- अम्ब ! त्वं चिन्मयी भोक्त्री सती इमं सोमं सहस्रारात् स्रुतं पिबसि किम् ? मातः, त्वम् असौ सोमः पीयमानरस एवासि किम् ? अथवा पेय-पातृगुगल पेयं पातृ च पेयपातॄणी तयोः युगलं द्वयं भूत्वा स्वयं पीयसे पिबसि च किमु ? त्वमेव पात्री त्वमेव पेयं च भूत्वा उभयधर्ममव-लम्बसे किम् ? चिन्मय्यास्तवैकस्या एव भोक्तृता भोग्यता च भवतः किम् इति भावः ॥११॥
तैजसं कनकमग्निवितप्तं तेज एव कनकाङ्गि यथा स्यात् ॥ मोदरूपकलया तव तप्तं तन्मयं भवति मोदजपिण्डम् ॥१२॥
तैजसमिति- कनकाङ्गि! सुवर्णविग्रहे तेजोमयशरीरे इत्यर्थः, सुवर्णस्य तैजसत्वात् अग्निवितप्तं विशुद्धये अग्निना वितप्तं तैजसं तेजोमयं कनकं हेम तेज एव यथा स्यात् भवेत्, आकरजं तेज एव सुवर्णमित्याहुः अत एव तैजसमित्युक्तम् । तव मोदरूपकलया मोदरूपस्य आनन्दस्वरूपस्य कलया अंशेन तप्त तपसा साधित संस्कृतमिति यावत्, मोदजपिण्डम् आनन्दजातशरीरं तन्मयं मोदमयम् आनन्दमयमेव भवति । यथा आकरजं कनकरूपं तेजः संस्काराय अग्नितप्तं सत् तेज एव भवति, तथा ’आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते’ इति श्रुतिसिद्धम् आनन्दजातं शरीरपिण्डं तव आनन्दकलयैव संस्कृतम् आनन्दमयमेव भवतीति तात्पर्यम् ॥१२॥
कापि मोदलहरी तव वीचि निर्गता दशशतारसुधाब्धेः॥ पूरयत्यखिलमम्ब शरीरं नेह वेनि परमे जडभागम् ॥१३॥
कापीति- अम्ब ! परमे उत्तमे, दशशतारसुधाब्धेः सहस्रारसुधासाग-रात् निर्गता तव मोदलहरी आनन्दलहरी कापि वीचिरूमिः अखिलं शरीरं पूरयति आत्मना पूरितं करोति । इह शरीरे जडभागम् अचेतनांशं न वेद्मि। सहस्रारात् निर्गत्य सर्वं मम देहम् आत्मना पूरयन्त्याः सुधावीचेः ममेयं दशा प्राप्ता यत्र सर्वं चिन्मयं मम शरीरम् अनुभवामि इति भावः ॥१३॥
सेयमुत्तमतमा निपतन्ती शीतलाद्दशशतारपयोदात् ॥ प्रेरितादखिलराज्ञि भवत्या बुद्धिसस्यमवताद्रसवृष्टिः ॥१४॥
सेयमिति- अखिलराज्ञि ! अम्ब, सेयं तथाविधेयं मयेदानीमनुभूयमाना उत्तमतमा रसवृष्टि: रस एव वृष्टि: वर्षणं शीतलात् सुखस्पर्शाद् भवत्या प्रेरिताद् दशशतारपयोदात् दशशतारं सहस्रारमेव पयोदः मेघस्तस्मात् निपतन्ती अधो व्याप्नुवन्ती, बुद्धिसस्यं बुद्धिर्बोध एव सस्य क्षेत्ररूढं धान्यम् अवताद्रक्षतु। शरीरमेव क्षेत्र तत्रोदितो बोध एव सस्यं सहस्रारं मेघः रस एव वृष्टि: इति विविच्य ग्राह्यम् । स्फुट रूपकम् ॥१४॥
दुग्धसिन्धुमथनादमृतं वा शब्दसिन्धुमथनात्प्रणवो वा ॥ लभ्यते सुकृतिभिस्तव वीचि- द्र्धकञ्जमथनाद्रस एषः ॥१५॥
दुग्धेति- अम्ब ! दुग्धसिन्धुमथनात् क्षीरसागरमथनात् अमृतं वा इव, शब्दसिन्धुमथनात् शब्द एव सिन्धुः सागरः तस्य मथनात् प्रणवो वा इव, मूर्धकञ्जमथनात् शिर:कमलस्य सहस्रारस्य मथनादेष रसः तव आनन्दस्व-रूपाया: वीचिस्तरङ्गः सुकृतिभिः पुण्यवद्भिर्लभ्यते प्राप्यते। यथा सुधाब्धेः मथनात् तत्सारभूतममृतं लभ्यते, यथा शब्दानां मथनेन तत्सारः प्रणवो लभ्यते, तथा सहस्रारमथनात् सोमरसः तवानन्दकला लभ्यत इति भावः ॥१५॥
अस्थिषु प्रवहति प्रतिवेगं मज्जसारममृतं विदधाना ॥ बिभ्रती मदमनुष्णमदोषं मूर्धकञ्जनिलये तव धारा ॥१६॥
अस्थिष्विति- मूर्धकजं सहस्रारकमलं निलयः आलयः यस्याः तस्याः सम्बुद्धिः, मूर्धकञ्जनिलये, अम्ब ! तव धारा सोमरससम्पात इत्यर्थः, अस्थिषु मज्जसारम् अस्थ्नः अन्तर्द्रवसारः तस्यापि सारभूतम् अमृतं विदधाना वितन्वाना अनुष्णं न उष्णम् अदोषम् अविद्यमानदोषं मदं बोधविशेष, मदसामान्यं तु सदोषं विस्मृतिकारकदोषदूषितं, उष्णं तापदं च, अतथाविधं मदं बिभ्रती धारयमाणा प्रतिवेग वेगे वेगे प्रतिप्रवाहम् इत्यर्थः, ’वेगः प्रवाहजवयोरपि’ इत्यमरः। प्रव-हति । “मज्जन्"शब्दः नकारान्तः टाबन्तोऽप्यभ्युपगम्यते ’ऊष्मया सार्धमूष्मा-ऽपि मज्जोक्तौ मज्जया सह’ इति द्विरूपकोशम् उदाहरति तत्त्वबोधिनीकारः । मज्जत्यस्थिषु इति मज्जा अस्थिसारः ॥१६॥
तैत्तिरीयकथितो रसलाभः सोऽयमेव सकलागमवयें । एतदेव शशिमण्डलनाथे तन्त्रभाषितपरामृतपानम् ॥१७॥
तैत्तिरीयेति- सकलागमवण्ये ! सर्ववेदस्तुत्ये, अम्ब, सोऽयमेव इहानु-भूयमानः मज्ज्ञोऽन्तः प्रवहन् सहस्रारसोमः एव तैत्तिरीयकथितः तैत्तिरीयश्रुती ’रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति कथितः रसलाभः भव-तीत्यध्याहार्यम्। भोः शशिमण्डलनाथे ! सोममण्डलनायिके एतदेव तन्त्र-भाषितपरामृतपानं तन्त्रशास्त्रेषु भाषितं प्रोक्तं परम् उत्कृष्टम् अमृतपानं भवति वैदिकाः वहिर्यागे सोमरसमिव तान्त्रिकेषु मध्ये कौलाचाराः बहिः देव्यै निवेदितं सुरामृतं पिबन्ति । उभयोस्तत्त्वमन्तरदोषानुष्णमदमोदलहरीधायी सहस्रारसोम एवेति निर्णयः ।।१७।।
मूर्धसोममजरामररूपे युक्तवीक्षणकरेण निपीड्य ॥ शम्भुसुन्दरि सुनोमि धिनोमि त्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥१८॥
पूर्वेति- शम्भुसुन्दरि ! शङ्करकान्ते, अजरामररूपे अजरं जरारहितम् अमररूपं देवरूपं यस्याः तस्या: सम्बुद्धिः, मूर्धसोमं मूर्धनि यः सोमो रसवान् तं युक्तवीक्षणकरेण युक्तं योगस्थं वीक्षणम् आलोकनमेव करस्तेन निपीड्य सुनोमि सवं करोमि, अभिषवणफलके सोमं निष्पीड्य रसमादाय यथा सवं करोति यजमानो यागे तथाऽहं मूर्धनि सोमं निष्पीड्य ततः पवमानं रसं सुनोमि। निष्पीडनसाधनं बहिर्यागे करः, इह योगदृष्टि: इति तात्पर्यम्। तथा सुत्वा प्रदीप्तकुलकुण्डनिशान्तां ज्वलितकुलकुण्डाग्निनिलयां मूलाधारस्थां त्वां धिनोमि तर्पयामि। एवमग्नीषोमीयमन्तर्यजनं मया क्रियत इति भावः ।।१८।।
दृष्टिरेव रविदीधितिरुमा शीर्षकजशशिनं प्रविशन्ती ॥ शीतलामृतमयी खलु भूत्वा योगिनो द्रवति मोदकला ते ॥१९॥
दृष्टिरिति- दृष्टिरेव योगदृष्टिरेव उग्रा चण्डा रविदीधितिः रवेः सूर्यस्य दीधितिः कान्तिः, शीर्षकञ्जशशिनं सहस्रारकमलस्थं चन्द्रं प्रविशन्ती शीतलामृतमयी भूत्वा ते तव मोदकला सती द्रवति स्रवति । अयं न स्वयंप्रकाशश्चन्द्रः, उष्णा सूर्यकान्तिः एव चन्द्रबिम्बे प्रति-फलिता शीतला चन्द्रिका भवतीति दैववित्सिद्धान्तः । अत्र देव्येव प्रथम योगिनो योगदृष्टि: सहस्रारं प्रविश्य ततोऽमृतमधीम् आनन्दलहरीमादधाति इति भावः ॥१९॥
मूर्धनि द्रवसि योगयुतानां चक्षुषि ज्वलसि शङ्करभामे ॥ तिष्ठसि स्थिरपदा कुलकुण्डे बाह्यतः स्खलसि नैव कदापि ॥२०॥
मूर्धनीति- शङ्करभामे शिवप्रिये ! अम्ब ! योगेन युतानां योगयुतानां नित्ययोगिनां मूर्धनि शिरसि द्रवसि तव तत्रस्थसोमात्मकत्वात्, चक्षुषि तेषां दृष्टौ ज्वलसि दीप्यसि तवैव वस्तुतो द्रष्टुत्वात्, कुलकुण्डे मूलाधारे स्थिर-पदा स्थिरम् अचञ्चलं पदं स्थानं यस्याः सा सती तिष्ठसि स्थिताऽसि । बाह्यतः उक्तेभ्यः स्थानेभ्यः बहिः कदापि नैव स्खलसि च्युताऽसि। योग-युतानां शिरोऽक्षिकुलकुण्डेषु स्थिरस्थितिका त्वं तेभ्यो न कदाऽपि च्यवसी-त्यर्थः ॥२०॥
सा यदि द्रवति मोदकला स्यात् सा यदि ज्वलति चित्कलिका स्यात् ॥ सा परा स्थिरपदा यदि तिष्ठ-त्यक्षरा भवति काचन सत्ता ॥२१॥
सेति- सा देवी द्रवति सोमो भूत्वा स्रवति यदि, मोदकला स्यात् आनन्दकला भवेत् । सा ज्वलति यदि दीप्ता यदि, चिदेव कलिका चित्कलिका स्यात् चिन्मयी भवेत्। परा सा ईश्वरी स्थिरपदा निश्चल-स्थाना तिष्ठति यदि, अक्षरा अखण्डसत्ता भवति। एकैव सोमात्मिका आनन्दमयी, तेजोरूपिणी अक्षरस्वरूपा सती इत्येकस्याः स्थान-क्रियाभेदेन त्रितोवताऽपि वस्तुतः सा सर्वं भवति चिदानन्दमयीति भावः ॥२१॥
चिन्मयी, पश्यता नयनमण्डलवृत्ति गृह्यसे त्वमचलाधिपकन्ये ॥ जानता दशशतारविलासं स्पृश्यसे विदितमम्ब रहस्यम् ॥२२॥
पश्यतेति- अचलाधिपकन्ये पार्वति ! नयनमण्डलवृत्ति नयने नेत्रे मण्डले मण्डलाकारे मयूरव्यंसकादिवत्समासः नयनमण्डले तयोः वृत्ति व्यापारं दर्शन-क्रियाम् इत्यर्थः, पश्यता योगिना त्वं गृह्यसे लभ्यसे दृष्टेः द्रष्टुर्योगिनस्त्व-प्राप्तिरित्यर्थः। दशशतारविलास सहस्रारस्य विलसितं रसवर्षणात्मक जानता अवबुद्धयमानेन योगिना त्वं स्पृश्यसे तस्य म्पर्शविषयभूताऽसीत्यर्थः । अम्ब, रहस्यं विदितम्। दृष्टयुपास्त्या त्वां चिन्मयीं साक्षात्कुरुते, सहस्रा-रामृतादानेन आनन्दमयीं त्वामुपलभते, इदं रहस्यं ज्ञातम् ॥२२॥
व्याप्तशक्त्यसुबलेन लसन्ती भानुबिम्बनयनेन तपन्ती ॥ चन्द्रबिम्बमनसा विहरन्ती सा पुनर्जयति मूनि वसन्ती ॥२३॥
व्याप्तेति- व्याप्तशक्त्यसुबलेन व्याप्ता, कर्तरि क्तः, विभ्वी शक्तिरेव असुबल प्राणबलं तेन लसन्ती क्रीडन्ती सर्वत्र व्याप्रियमाणा सर्व व्यापारयन्ती चेत्यर्थः, भानुबिम्बनयनेन भानुबिम्बमेव नयनं चक्षुस्तेन तपन्ती तपः कुर्वन्ती, चन्द्रबिम्बमनसा चन्द्रबिम्बमेव मनः तेन विहरन्ती विचरन्ती, सा देवी पुनः देहे मूनि सहस्रारे वसन्ती जयति। ब्रह्माण्डे व्यापकशक्तिरेव तस्याः प्राणः, सूर्य एव चक्षुः, चन्द्र एव मनः ’चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत’ इति सूर्यस्य चक्षुरात्मकत्वं चन्द्रस्य मानसत्वं च श्रूयेते। अत्र शिवशतकम् एवम् आह ’सौर मण्डलमुज्ज्वलं तव तपः श्वासश्चरन्मारुतः’ इति । आदित्यस्य तपस्त्वं चक्षुस्त्वं च श्रुतिप्रतिपादितम् । एवं ब्रह्माण्डशरीरा भगवती पिण्डाण्डे सहस्रारे विलसतीति भावः ॥२३॥
स्वागतं सकललोकनुताय स्वागतं भुवनराजमहिष्य ॥ स्वागतं मयि भृशं सदयायै स्वागतं दशशतारमिताय ॥२४॥
स्वागतमिति- सकललोकनुतायै समस्तजगद्वन्दिताय देव्यै स्वागतम् । आगच्छतु महादेवीति प्रीतिगौरववचनम्। भुवनराजमहिष्य सर्वेश्वरहृदयेश्वर्य स्वागतम्। मयि भक्ते भृशम् अत्यन्तं सदयायै सकरुणाय, ईदृशीर्योगा-नुभूतीरनुगृह्य स्वां कृपां प्रदर्शितवत्यै स्वागतम। दशशतारं सहस्रारम् इतायै प्राप्तायै स्वागतम्। या सर्वलोकसंस्तुता सर्वेश्वरनायिका सैव मयि सकरुणा मम सहस्रारे सविलासेदानी विजयते इति भावः । कवौ योगिनि तस्याः शाश्वतप्रतिष्ठाय स्वागतोक्तिरियं स्तबकोपसंहारावसरे दत्ता ॥२४॥
सत्कविक्षितिभुजो ललिताभिः स्वागताभिरनघाभिरिमाभिः ॥ स्वागतं भणितमस्तु भवान्य खेलनाय शिर एतदितायै ॥२५॥
सत्कवीति- सत्कविक्षितिभुजः सताम् अभ्यहितानां कवीनां क्षितिभुजः राज्ञः पूजनीयकविलोकराजस्य ’सत्ये साचौ विद्यमाने प्रशस्तेऽभ्यहिते च सत’ इत्यमरः। अनघाभिः अविद्यमानदोषाभि: लक्षणसम्पन्नाभिः ललिताभिः कोमलपदाभिः, पक्षे कोमलगात्रीभिः, इमाभिः , स्वागताभिः सुखेनानायासेन आगताभिः प्रवृत्ताभिः स्वागतावृत्तरचिताभिः स्त्रीलिङ्गसामर्थ्यादङ्गनाभिः, एतत् मम शिरः सहस्रारं खेलनाय विलसनाय इताय प्राप्ताय भवान्यै भव-महिष्य पार्वत्यै स्वागतं सुखागमनविजयप्रार्थनं भणितम् उक्तमस्तु भवतु । प्रकृतार्थपरैः पदैः सूच्यार्थस्य स्तबकवृत्तस्य सूचनात् श्लेषोत्थापितो मुद्रा-लङ्कारः ॥२५॥
पञ्चदशः स्तबकः सव्याख्यः समाप्तः ।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.