ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




पञ्चमः स्तवकः

श्रीखण्डचर्चामिव कल्पयन्स्यो मुहुः कपोलेषु सखीजनस्य॥
श्रीकण्ठकान्ताहसिताङकुराणां श्रीमन्ति कुर्वन्तु जगन्ति भासः ॥१॥

श्रीखण्डेति- श्रीकण्ठकान्ताहसिताङकुराणां श्रीकण्ठस्य शिवस्य कान्तायाः उमादेव्याः हसितानि अङकुरा इव अभिनवोद्भेदा इव तेषां भासः शोभाः जगन्ति भुवनानि श्रीमन्ति शोभावन्ति सौभाग्यवन्तीति यावत्, कुर्वन्तु विदधतु। कीदृश्यो भासः ? सखीजनस्य जयादेः कपोलेषु गण्डस्थलेषु श्री-खण्डचर्चा श्रीखण्डेन चन्दनेन चर्चा लिप्ति मुहुः पुनः पुनः कल्पयन्त्य इव स्थिताः। पर्वतराजपुत्र्याः पार्श्ववर्तिन्यौ सख्यौ जया विजयेति च शिव-पुराणप्रसिद्धे। बह्वीः सखी ल्ये पार्वत्याः कथयन्ति कवयः । कुमारसम्भवे ’रेमे मुहुर्मध्यगता सखीनाम्’ इति। कपोलेष्विति बहुवचनात् द्वयोर्बहूनां वा। इवोत्प्रेक्षायाम्। शुभ्राणां मन्दहसितभासां सखीजनगण्ड-स्थलेषु गन्धलेपनविधायकत्वमुत्प्रेक्ष्यते। प्रसरन्तीनाम् दरहसितभासां शुभ्र-त्वशोभावहत्वाह्लादकत्वादिधर्मसम्बन्धेन गम्यमानेन निमित्तेन पार्श्वस्थितसखी-जनकपोलोपगतशीतस्पर्शसुखशोभावहगन्धलेपकृत्तादात्म्यसम्भावना स्वरूपोत्प्रेक्षा॥

मुहुःपदेन हसिताङकुराणां निस्सरतां पौर्वापर्यक्रमवतां तत्र तत्र भवेदन्तर-मिति न भ्रमितव्यम्। विसृत्वराणां नवनवोद्भेदानां नैरन्तर्येऽपि प्रसार-भङ्गीसौभाग्यात् प्रत्येक भासमानतया पौनःपुन्येन सखीजनकपोलेषु गन्ध-लेपार्पणं सम्भावितम्। बहूनामपि उमाहसितसमुद्भेदानाम् अविरामतयैक-रूपत्वेऽपि नवनवोल्लसद्विसृमरत्वं लोकोत्तररामणीयकव्यञ्जकम् । माघश्चाह। ’क्षणे क्षणे यन्नवतामुपैति, तदेव रूपं रमणीयतायाः’ इति ।।

पार्वतीहासशोभानां सखीजनकपोलेषु विलासकथनात् देव्याः सखीनां प्रायेण सवयस्त्वं समानाकारत्वं च द्योतिते । तेन च श्रीकण्ठकान्तात्व-प्राप्तावपि सखीसहचरी नवोढा देवीति ध्वन्यते। तथैवास्मिन् स्तबके नव-यौवनपरिणयकल्याणवार्ताः प्रस्तूयन्ते। एवं सकलभुवनमाङ्गल्यसम्पादिकाः पार्वतीमन्दहासप्रभाः प्रार्थनागर्भिताशीरुक्तिभिरभिष्टुताः कविनेत्यलम् ॥१॥

कोतिर्वलक्षा कुसुमायुधस्य स्वर्णाद्रिकोदण्डजयोन्नतस्य ॥
दरस्मितश्रीद्विरदास्यमातु- घीयसीं वो वितनोतु भूतिम् ॥२॥

कीर्तिरिति- द्विरदास्यमातुः गजवक्त्रजनन्याः पार्वत्याः दरस्मितश्री: मन्दहासप्रभा वः युष्माक द्राघीयसीं दीर्घतरां भूर्ति विभूति चिरस्थायिनी सम्पदमिति यावत्, वितनोतु विदधातु। सा च दरस्मितश्रीः कन्दर्पकीर्ति-त्वेनावस्थितेति पूर्वार्धेनाह। स्वर्णाद्रिकोदण्डजयोन्नतस्य स्वर्णाद्रिर्मेरुः कोदण्ड-श्चापः यस्य तस्य मेरुधन्वनः शिवस्य जयेन, कर्मणि षष्ठी, उन्नतस्य उन्नति प्राप्तस्य कुसुमायुधस्य पुष्पबाणस्य वलक्षा शुभ्रा कीर्तिः समाख्या यश इति यावत्॥

त्रिपुरध्वंसोधुक्तस्य शिवस्य सर्वोन्नतेन मेरुणा धनुष्मतः तस्माद्धनुषो-प्युत्तुङ्गतरत्वं तस्य व्योमकेशस्योन्नेयम्। स्वशरीरदाहेनापि तस्मिन्महोन्नते भगवति भर्गे पार्वतीविषयकरतिभावनिर्वाहेण तज्जयः सम्पादितः । च शैलधनुषः पुष्पायुधेन विजयः पञ्चशरस्य अलौकिकं प्रभावं द्योतयति। तादृशा जयेन सिद्धैवास्य महोन्नतिरिति नात्र चित्रम्। कीर्तिश्च वलक्षा कामदेवस्य। आब्रह्मकीटं त्रिभुवनजयेन स्मरस्य कीर्तेर्ने तथा वलक्षत्वं यथा हरविजये रतिनाथस्य। अत्र तु जगद्रूपापत्यसम्पादकपार्वतीपरमेश्वरपरि-णयपर्यवसायित्वाज्जयस्य । शिव-शक्तियोगरूपस्यास्य परिणयस्य पावन-तमत्वादनङ्गस्य कीर्तिः वलक्षा शुभ्रा निर्मलेति यावत् ॥

पार्वतीमन्दहसितप्रभव कन्दर्पकृतहरविजयजातकीर्तिहेतुरिति सिद्धे हेतुहेतु-मतोः अभेदाध्यवसायात् स्मितश्री: कुसुमायुधकीर्तिरित्युक्तम्। हेत्वलङ्कारः । ’हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षते’ इति तल्लक्षणात् ॥२॥

तत्र प्रमथ्यमानामृतराशिवीचि- प्रोद्गच्छदच्छाच्छतुषारकल्पाः ॥
युष्माकमिच्छां विदधत्वमोघां विघ्नेशमातुर्दरहासलेशाः ॥३॥

प्रमथ्येति- विघ्नेशमातुः पार्वत्याः दरहासलेशाः मन्दस्मितलवाः युष्माकम् इच्छाम् वाञ्छाम् अमोघाम् अविफलां विधेयविशेषणं विदधतु कुर्वन्तु । गणेश-मातृमन्दस्मितस्तुत्या अभीष्टसिद्धिप्रदायकाशिषः प्रयुक्ताः। पूर्वार्धेनैकपदेन मन्दस्मितलेशान् विशिनष्टि। प्रमथ्यमानामृतराशिवीचिप्रोद्गच्छदच्छाच्छतुषार-कल्पाः प्रमथ्यमानस्य विलोड्यमानस्य अमृतराशेः क्षीरोदस्य वीचिभ्यः ऊर्मिभ्यः प्रोद्गच्छन्तः शीघ्रप्रबलमथनात् प्रकर्षेण निष्पन्ना अच्छाच्छा अतिस्वच्छाः तुषारकल्पाः ईषदूनाः अम्बुकणाः प्रसन्नशीकरोपमा इति यावत् । सुनिर्मल-प्रसन्नसुखस्पर्शः अमृततुषारैः दरस्मितलेशानामुपमितत्वात् सुखस्पर्शकवेद्यत्वं प्रायेण स्थूलतया अदृश्यविलासत्वं च ध्वनिते॥३॥

चन्द्रातपः कश्चन सम्प्रसन्नो महेशनेत्रातिथितर्पणो नः ॥
मनोभिलाषं सफलीकरोतु महेश्वरीहासलवप्रकाशः ॥४॥

चन्द्रातप इति- महेश्वरीहासलवप्रकाशः पार्वतीमन्दहासद्योतः नः अस्माकं मनोभिलाषम् अभीष्टविशेष सफलीकरोतु सिद्धं विदधातु। कथंभूतः महे-श्वरीहासलवप्रकाशः ? महेशनेत्रातिथितर्पण: महेशस्य नेत्रे लोचने एव अतिथी जनीयौ भोजनार्थिनौ तौ तर्पयतीति महेशनेत्रातिथितर्पणः सम्प्रसन्नः समी-चीनप्रसन्नताविशिष्ट: कश्चन चन्द्रातपः ज्योत्स्नाविशेषः। तद्रूपो देवीमन्द-हासप्रकाशोऽस्मदभीष्टसिद्धि विदधात्वित्यभ्यर्थना। यद्यपि चन्द्रातपहासलव-प्रकाशयोस्ताद्रूप्यकथनाद्रूपकमलङ्कारः, तथाऽपि महेश्वरीहासलवप्रकाशे आरो-प्यमाणस्य चन्द्रातपविशेषस्य महेशनेत्रातिथेयोपयोगित्वात्परिणामोऽलङ्कारः । सुखशीतलामृतगर्भचन्द्रातपविशेषेण हासलवेन महेशनेत्रयोः अमृताशनत्वे सिद्धे, तस्य सर्वेशदृष्टिसन्तर्पणस्य सकतापोपशमनत्वं मनोभिलाषपूरणेन निर्वाह्य-मिति अलङ्कारेण वस्तुध्वनिः ॥४॥

वलक्षवक्षोजपटाञ्चलेन चलेन साधं कृतकेलयो नः ॥
पुरत्रयारातिकलत्रहास- भासो निरासं विपदां क्रियासुः ॥५॥

वलक्षेति- चलेन चञ्चलेन, वलक्षवक्षोजपटाञ्चलेन वलक्षं धवलं वक्षोजयोः स्तनयोः पटाञ्चलं वस्त्राग्रं तेन सार्धं धवलोत्तरीयाग्रेण सहेति यावत्। कृतकेलयः कृताः केलयः परीहासाः याभिस्ताः पुरत्रयारातिकलत्र-हासभासः पार्वतीमन्दहासशोभाः नः अस्माकं विपदाम् आपदाम् निरासं क्रियासुः सर्वापद्विनिवारणं विधेयासुरित्याशीरूपप्रार्थना । देव्याः शुभ्रस्मितहासभास शुभ्रोत्तरीयवसन चलाञ्चलेन सह क्रियमाणानां केलीनाम् आनुरूप्यात् समा- लङ्कारः। तदुक्तं विश्वनाथेन ’समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः’ इति ॥५॥

भूयासुरायासहराणि तानि स्मितानि भूतेशमृगीदृशो नः ॥
येषां त्विषो बिभ्रति दिग्वधूटी- गण्डेषु कर्पूरपरागलीलाम् ॥६॥

भूयासुरिति- भूतेशमृगीदृशः शिवसुन्दर्याः तानि, यानि उत्तरार्धेन वर्ण्य-मानानि स्मितानि दरहसितानि नः अस्माकम् आयासहराणि श्रमापनोदनानि भूयासुः। येषां स्मितानां त्विषो भासः दिश एव वधूटयस्तासां गण्डेषु कपोलस्थलेषु दिग्वधूटीगण्डेषु कर्पूरपरागलीलां कर्पूरस्य घनसारस्य परा-गाणां धूलीनां लीलां बिभ्रति। स्मितत्विट्सु कर्पूरपरागगतलीलापदार्था-रोप: पदार्थवृत्तिनिदर्शनाऽलङ्कारः । इमां ललितोपमामाह दण्डी। उपा-त्तयोः स्मितत्विट्-कर्पूरपरागपदार्थयोराभेदः, उपमाने उपमेयवर्मारोपात् औपम्यपर्यवसायी । तथा चोक्तं रसगङ्गाधरकृता ’उपात्तयोरर्थयोराभेद औपम्यपर्यवसायी निदर्शना’ इति। उपमेयभूतशिवसुन्दरीस्मितत्विषां कर्पूर-परागगतोपमानधर्मेण सूक्ष्मतया सर्वदिग्व्यापकत्वं सर्वशोभावहत्वं शीतसुख-स्पर्शत्वं च द्योत्यन्ते। शीतलोपचारस्य आयासहरत्वप्रसिद्धेः आशीरूप-प्रार्थनस्यौचित्यमवधेयम् ॥६॥

कुर्वन्तु कामं सफलं (त्व)मदीयं कुलाद्रिकन्याहसितानि तानि ॥
येषां मयूखैः क्रियते सितारे रुद्यानवाटीषु नवो वसन्तः ॥७॥

कुर्वन्त्विति- यानि उत्तरार्धेन वक्ष्यमाणानि तानि कुलाद्रिकन्याहसितानि पार्वतीस्मितानि त्वदीयं तवेमं कामं मनोरथं सफलं फलितं कुर्वन्तु विदधतु। येषां कुलाद्रिकन्याहसितानां मयूखैः किरणैः सिताद्रेः हिमाचलस्य उद्यान-वाटीषु उपवनराजिषु नवो वसन्तः कुसुमप्रसवसमयः क्रियते। हसितमयू-खानां नित्यसन्निहितत्वात् वसन्तस्य नवत्वम् । तच्च नित्यकुसुमितोप-वनत्वं बोध्यम्। उपवनराजिषु नित्याभिनववसन्तविलासाधायकत्वात्तेषां मयूखानाम् अमृतात्मकत्वं द्योत्यम्। अमृतकिरणो ह्योषधीशः ।।

अत्र हसितमयूखानां नववसन्तकरणोपयोगित्वं निबध्यते, न तु गम्यमाना-मृतमयूखानाम्। तस्मादारोप्यमाणानाम् अमृतमयूखानाम् आरोपविषयस्मित-मयूखात्मतया परिणमनात्परिणामालङ्कारः ॥७॥

आमेडितं भूषणचन्द्रभासां नासाविभूषामहसां द्विरुक्तिः ॥
पुरारिनारीस्मितकान्तयो मे पूर्णानि कुर्वन्तु समीहितानि ॥८॥

आम्रडितमिति- पुरारिनारीस्मितकान्तयः पार्वतीमन्दहसितप्रभाः मे मम समीहितानि अभीष्टानि पूर्णानि सिद्धानि कुर्वन्तु। कथंभूताः पुरारिनारी-स्मितकान्तयः? भूषणचन्द्रभासां हरशिरोऽलङ्कारभूतचन्द्रकान्तीनाम् आर्मेडितं द्विस्त्रिरुक्तं, पुनश्च नासाविभूषामहसां नासिकाभरणमणिशोभानां द्विरुक्तिः पुनरुक्तिः ॥

स्मितकान्तिषु आरोप्यमाणानां भूषणचन्द्रभासां विभक्तिभेदाद्वैयधिकर-ण्येन रूपकम्। एवं भूषामहसां स्मितकान्तीनां च विभक्तिभेदः । रूपकं च विषयस्य उपमेयस्य विषयिणा उपमानेन ताद्रूप्याद्रञ्जनं ’विषय्यभेदताद्रूप्य-रञ्जनं विषयस्य यत्’ इति रूपकलक्षणात् ॥८॥

एवमष्टाभिः श्लोकैर्भगवत्याः स्मितस्य सर्वजगन्माङ्गल्य-सर्वाभीष्टप्रदाय-कत्वादि स्तुत्वा निर्मायेत्यारभ्यास्तबकान्तं परिणयकल्याणवार्ताः प्रतुष्टूषुः तत्र प्रसक्तमङ्गबन्धसौन्दर्यादि देव्याः स्तौति ॥

निर्माय विश्वालयमम्ब शर्व- स्त्वया समं शिल्पविदा स शिल्पी॥
विहर्तुमिच्छन्नयि वोढुमैच्छ-नारी भवन्तीं पुरुषो भवंस्त्वाम् ॥९॥

निर्मायेति- अम्ब ! सः प्रसिद्धः तच्छब्दवाच्यः शर्वः सर्वेश्वरः शिवः स्वयं शिल्पी निर्माणकलाविचक्षण: शिल्पं वेत्तीति शिल्पवित् तया शिल्पविदा त्वया समं सह विश्वं ब्रह्माण्डमेवालयः निवासप्रदेशः तं निर्माय कल्पयित्वा, अयि सम्बोधने, विहर्तुं सञ्चरितुं क्रीडितुमिति यावत्, इच्छन् काङक्षन्नपि स्वयं पुरुषो भवन् जायमानः, नारी भवन्तीं भुवः शतुर्डीप् स्त्रीरूपतया जायमानां त्वां वोढुं भर्तुम् ऐच्छत् अकामयत। उत्पूर्वकस्य वहेरेव परिणयार्थत्वेऽपि शिवयोः नारी-पुरुषभावप्रेप्साकथनादत्र वहनपदं उद्वहनपर्यायत्वेनैव वाच्यम् । विहारार्थे विश्वनिर्माणे शर्वेण अम्बासहचरेण निर्वर्तयितुमिष्टे, निर्माणात्परं स्त्री-पुरुषभावेन भार्या-भर्तृभावेच्छा सञ्जाता। तेन शर्वे वोढरि भर्तरि जाय-माने, अम्बायां च वोढुम् अर्हायां भार्यायां जायमानायां कुतः शर्वस्य विहारे-च्छापूर्तिः ? विश्वालयनिर्माणप्रारम्भिकेच्छा जगन्माता-पितृत्वबीजभूतदाम्पत्य-भावनिर्वाहिका जातेत्यर्थः ॥९॥

दिव्यं दुकूलं धवलं दधाना वेण्या फणीन्द्रोपमया लसन्ती ॥
प्रफुल्लराजीवविलोचना त्वं प्रपञ्चभर्तुर्नयनान्यहार्षीः ॥१०॥

दिव्यमिति- अम्ब ! प्रफुल्लराजीवविलोचना विकसितकमलनयना त्वं प्रपञ्चभर्तुः जगत्पतेः शिवस्य नयनानि त्रीण्यपि अहार्षीः समाकर्षः । तादृक् सौभाग्यं तव सरोजनेत्रयोः, यादृशा हरस्य सोमसूर्याग्निनेत्राणि हृतानि जिता-नीति यावत्। पार्वतीसन्दर्शनपारवश्यात् हरस्य ज्वलननेत्रस्यापि निर्वीर्यत्व-मुक्तं भवति॥

कथंभूता त्वम् ? दिव्यं दिवि भवं न भौमं धवलं शुभ्रं दुकूलं वसनं दधाना परिदधाना, फणीन्द्रेण भोगिराजेनोपमा सादृश्यं यस्याः तया फणीन्द्रो-पमया वेण्या संयतकबर्या लसन्ती राजमाना, तादृशी त्वम् अहार्षीरिति सम्बन्धः । वेणीबन्धस्य भोगीन्द्रस्य च नैल्यमसृणत्वादिसाधर्म्यात् औपम्यमुक्तम्। परि-धानधवलिमा तु वेणीनीलिमलावण्यं पुष्णाति ॥१०॥

प्रत्यङ्गबन्धं ज्वलदुत्तमं ते भुजङ्गराजोपमवेणि रूपम् ॥
आत्मैकनिष्ठस्य च विश्वभर्तु-राराधयामास विलोचनानि ॥११॥

प्रत्यङ्गबन्धमिति- प्रत्यङ्गबन्धम् अङ्गबन्धे वदनवक्षोजभुजलतादौ ज्वलत् परिस्फुटम् उत्तमं वरिष्ठं सर्वलक्षणलक्षितमिति यावत्। भुजङ्गराजोपम-वेणि भुजङ्गराजेन नागेन्द्रेणोपमा सादृश्यं यस्याः सा वेणी केशबन्धो यस्य तत् ते तव रूपम् अङ्गसौष्ठवसम्पन्नं कर्तृ आत्मैकनिष्ठस्य आत्मनि स्वात्मनि एका केवला निष्ठा दृढस्थितिर्यस्य तस्य, चाप्यर्थे, विश्वभर्तुर्जगदीश्वरस्य विलोचनानि बहुवचनात् त्रीण्यपि आराधयामास तर्पयामास। लोकोत्तर-सौन्दर्यदर्शनजन्यशीतलतया ज्वलनात्मकतृतीयनेत्रस्यापि शान्तिः अभूत् । तथा-विधशान्तिजनकं त्वद्रूपकृतमाराधनम् । यद्यपि विश्वभर्तुः शिवस्य आत्मै-कनिष्ठतया अनन्यविषयत्वम् अनिर्वाच्या धीरता च सिद्धे, तथाऽपि तन्नयना-कर्षकलावण्यसौभाग्यादुमादेवीरूपं भगवतो हरस्य हृदयमावय॑ धीरतां वि-चाल्य तन्नयनाराधकम् अभूदिति चकाराद् गम्यते। एवं च विषयविमुखस्य कामदाहिनो नयनत्रयतर्पणरूपपदार्थनिष्पत्तेरसम्भावनीयवर्णनादसम्भवोऽलङ्कारः ’असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम्’ इति तल्लक्षणात् ॥११॥

अभूस्त्वमाद्यस्य मनोमदाय स चापि ते प्रीतिपदं बभूव ॥
न केवलं वां सकलस्य चासी दाम्पत्यबन्धस्य तदम्ब वीजम् ॥१२॥

अभूः आसीः। सः अभूरिति- अम्ब ! त्वम् आद्यस्य सर्वेषां पुरुषाणां प्रथमस्य सर्वस्यापि मूलभतस्य पुरुषस्येति यावत्, मनोमदाय मनसश्चित्तस्य मदाय हर्षाय ’मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः’ इति त्रिकाण्डशेषः । शिवश्चापि ते तव प्रीतिपदं प्रीतेर्मुदः पदं स्थानं बभूव । एवं पूर्वार्धेन शिव-योः परस्परप्रेमास्पदत्वमुक्त्वा तत्फलितमुत्तरार्धेनाह तत् अन्योन्यहर्षाधायकत्वं वां केवलं युवयोरेव दाम्पत्यबन्धस्य जाया च पतिश्च दम्पती तयोर्भावः दाम्पत्यं तदेव बन्धः अन्योन्याविश्लेष्यतारूपः सम्बन्धः तस्य बीजं कारणं नासीत् नाभवत् ; किंतु सकलस्य दाम्पत्यवन्धस्य च लोके सर्वत्र दाम्पत्य-भावस्येत्यर्थः बीजमासीत्। युवयोरन्योन्यप्रेमबन्धः प्रथमं युवयोः दाम्पत्य-सम्पादक: अनन्तरं तत्फलिताज्जगद्रूपापत्याज्जायमानस्य सर्वस्यापि स्त्रीपुरुष-लोकगतदाम्पत्यभावस्य कारणमभूदिति भावः। बीजमित्यत्र शिवयोरन्यो-न्यप्रेम्णो बीजत्वोक्त्या तयोर्दाम्पत्यस्य वृन्तत्वं ध्वन्यते बन्धशब्दप्रयोगात् । ’वृन्तं प्रसवबन्धनम्’, फलं तु जगद्रूपमपत्यमुन्नेयम्। असत्यपत्ये जगति जगदीश्वरदाम्पत्यस्य वैयर्थ्यात् शैथिल्यापत्तेर्वा । तथा चाह भवभूति:--

"अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोयमपत्यमिति पठ्यते" ॥

इति । अत्र शिवयोः परस्परप्रेमाधानरूपोपकारादन्योन्यं नामालङ्कारः ॥१२॥

तवातिकान्ता नयनान्तवृत्ति- हासः पुरारेश्च नवेन्दुहारी ॥
उभौ विवाहोत्सवपूर्वरङ्ग निर्वतयामासतुरादिरामे ॥१३॥

तवातीति- आदिरामे ! आदिसुन्दरि भगवति, तव नयनान्तवृत्तिः नयना-न्तयोः अपाङ्गयोवृत्तिविलासः इत्यर्थः, अतिकान्ता अत्यन्तं कमनीया। पुरारेः शिवस्य च हास: नवेन्दुहारी नव इन्दुरिव हारी मनोहरः । उभौ त्वन्नयनान्तवृत्तिः पुरारिहासश्च विवाहोत्सवपूर्वरङ्ग विवाहे पाणिग्रहणे य उत्सव: उत्सूते सुखमित्युत्सवः उद्धर्षः तस्य पूर्वरङ्गं पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः तं विघ्नशामकं कर्मविशेषं निवर्तयामासतु: निर्वाहयामासतुः । उमा-देव्याः कमनीयकटाक्षविलासरूपा वृत्तिः, शिवस्य अर्धेन्दुवद्रमणीयो मन्दहासश्च उभौ मिलितौ निष्प्रत्यूहम् उद्वाहमहोत्सवनिर्वाहकावभूताम् इति भावः। पूर्व-रङ्गमित्यनेन पार्वतीपरमेश्वरयोरुद्वाहस्य नाट्यत्वद्योतनेन रूपकध्वनिः। पूर्व-रङ्गश्च नाट्यशाला। तत्र क्रियमाणो रङ्गविघ्नापहो नान्दीपाठ-गीत-वादित्रादिविविधाङ्गकर्मविशेषोऽपि पूर्वरङ्गशब्देन व्यपदिश्यते । अत्र नयना-न्तवृत्तिरिति स्त्रीलिङ्गस्य हास इति पुंल्लिङ्गस्य च स्वारस्यात् नटी नटश्च पूर्वरङ्गं प्रकुर्बाणौ ध्वन्यते। लज्जितायाः वध्वाः विवाहकाले नयनान्तवृत्तिः औचित्यं पुष्णाति। तथा वरस्य मन्दहासश्च । उत्तरत्र च एतच्छायः ’ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः’ इति श्लोको दृश्यमानो ऽवधेयः ॥१३॥

दातुं प्रभुः सान्त्वयितुं समर्यः कर्तुं क्षमस्तर्जयितुं च शक्तः ॥
संरक्षतान्मां तव सर्ववन्ध करस्तुषारांशुभृता गृहीतः ॥१४॥

दातुमिति- सर्ववन्द्ये ! सकलैरपि स्तुत्ये दातुम् अभीष्टं भक्तलोकायेति शेषः, प्रभुः ईशः। सान्त्वयितुं भक्तलोकं प्रीणयितुं समर्थः। कर्तुम् इच्छानु-सारेण किमपि भेदेनापि साधयितुं क्षमः, सर्वतन्त्रस्वतन्त्रत्वात्। तर्जयितुं भर्त्सयितुं च शक्तः। एवं सामादिचतुर्विधोपायदक्षः तुषारांशुभृता चन्द्रधरेण शिवेन गृहीतस्तव करः अर्थाद्दक्षिणः, विवाहे दक्षिणपाणेरेव ग्रहणस्य विहित-त्वात्। मां संरक्षतात् पालयतु। रक्षणपरो दक्षिणकरो देव्याः प्रसिद्धः । देवीदक्षिणहस्तस्य चन्द्रभृद्ग्रहणेन विशेषितस्य दानसान्त्वनादिसामर्थ्य स्वरसता-वहं बोध्यम्। एकस्यैव करस्य दान-सान्त्वन-करण-तर्जनोल्लेखनादुल्लेखा-लङ्कारः॥१४॥

स्प्रष्टुं न शक्या परमे परस्त्वं स चान्यया चिन्तयितुं न शक्यः ॥
त्वमेव शर्वस्य स एव तेऽम्ब दाम्पत्यमेवं युवयोस्तु सत्यम् ॥१५॥

स्प्रष्टुमिति- अम्ब ! परमे ! उत्तमे ! त्वं परैः ईश्वरात् अन्यैः स्प्रष्टुं स चेश्वरः त्वद् अन्यया चिन्तयितुं न शक्यः । शर्वस्य त्वमेव न शक्या। अत्र नान्याऽस्ति। तव स एव नान्योऽस्ति । एवं युवयोस्तु शिव-शक्त्योरेव दाम्पत्यं सत्यं, अन्यत् दाम्पत्यं न सत्यम् ।।

अत शिव-शक्त्योर्दाम्पत्यभावस्य अन्योन्यात्मकत्वमवियोज्यत्वं चोक्ते । अत एव यत्सत्यं दाम्पत्यं तदविकारि भवति नेतरत ।।

वस्तुतस्त्वेकमेव शिव-शक्त्योर्दाम्पत्यं सत्यं, अन्यानि लोके दाम्पत्यानि तद्विवर्ताः सर्वस्यापि पुजातेः शिवमूलत्वात् सर्वस्याश्च स्त्रीजातेः शक्तिमूल-त्वाच्चेति बोध्यम् ॥१५॥

निजाद्वतंसेन्दुत इन्दुमन्य मुत्पाद्य ते शम्भुरदाद्वतंसम् ॥
मूर्तामिवासौ शुभगात्रि रात्रि प्राप्य त्वदीयां कबरों चकासे ॥१६॥

निजादिति- शुभगात्रि! शुभानि मङ्गलानि गात्राणि अङ्गानि यस्याः सा शुभगात्री तस्याः सम्बुद्धिः, अम्ब ! शम्भुः शिवः निजात् स्वस्मात् वतंसे-न्दुतः वतंसभूतः भूषणभूत इन्दुश्चन्द्रः तस्मात् पञ्चम्यास्तसिल अन्यम् इतरम् इन्दुम् उत्पाद्य सृष्ट्वा तं ते तुभ्यं वतंसं भूषणम् अदात् व्यतारीत्। असौ भूषणचन्द्रः त्वदीयां त्वत्सम्बन्धिनी कबरी केशवेशमित्यर्थः, मूर्ती गृहीतरूपां रात्रिं निशामिव प्राप्य चकासे भासितवानित्यर्थः । उद्वाहसमये वरेण शिवेन वध्वं पार्वत्यै उत्तमाङ्गाभरणं स्वात्मशिरोभूषणान्निष्पाद्य दत्तमिति भावः । नैल्यसाधाद्रात्रिकबर्योस्तादात्म्यसम्भावनया स्वरूपोत्प्रेक्षा। चकास इत्यत्र हरस्य पिशङ्गजटागतभूषणादपि पार्वत्याः नीलकबरीगतभूषणस्य भासनाति-शयो द्योत्यते ॥१६॥

बभूविथागेन्द्रगृहे यदा त्वं स चेश्वरस्तत्र चकार वासम् ॥
विलोकमानस्तव देवि विद्यु- त्पाञ्चालिकायाः कमनीयभावम् ॥१७॥

बभूविथेति-देवि ! यदा त्वम् अगेन्द्रगृहे अगेन्द्रस्य पर्वतराजस्य पितुर्गुहे बभू-विथ वासमकरोः, तदा यत्तदोनित्यसम्बन्धात् तदेत्यध्याहार्य, तत्र हिमाचले स ईश्वरश्च वासं चकार । किं कुर्वन् ? विद्युत्पाञ्चालिकायाः विद्युन्मयी पाञ्चालिका कृत्रिमपुत्रिका तस्याः तव जाज्वल्यमानविद्युत्कृतपुत्रिकावत् स्थिताया इति यावत्, कमनीयभावं रामणीयकं विलोकमान आहरन् चक्षुषा वासं चकारेति सम्बन्धः। ज्योतिरुज्ज्वलरामणीयकसम्पन्नं तन्वीत्वं हरनयनाकर्षक विद्युदित्यनेन गम्यते ॥१७॥

सिद्धं स वां साधयितुं प्रवृत्तो योगं प्रदग्धो मदनश्चकल्पे ॥
वशीति कोति गिरिशस्य भर्तुं तुभ्यं त्वपर्णेति यशश्च कर्तुम् ॥१८॥

सिद्धमिति- अम्ब ! सः प्रसिद्धः मदनः मन्मथ: वां युवयोः सिद्धं नित्यं न तु साध्यं योग शिक्-शक्तिदाम्पत्यरूपं सम्बन्धं साधयितुं निष्पादयितुं प्रवृत्तः उपक्रान्तः प्रदग्धः भस्मसात्कृतः सन्, गिरिशस्य शिवस्य वशी जितेन्द्रियः स्वाधीन इति कीति ख्यातिं भर्तुं पोषयितुं तुभ्यं तु अपर्णा तपश्चर्यायां पर्णा-भ्यवहारं च त्यक्तवतीति हेतोः अपर्णेति यशः कर्तुं च चकल्पे प्रबभूव । कृच्छं तपः प्रियलाभाय चरितवत्या अपर्णेति नाम देव्याः प्रसिद्धम्। महा-कविश्चाह-

"स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः" ।।

(कुमारसम्भवे ५ स. १८ श्लो.) इति । अत्र सिद्धं पार्वती-परमेश्वर-योगं साधयितुं मदनस्य प्रवृत्तिर्हेतु: गिरिशस्य वशित्वकीर्तिभरणं हेतुमत् तथो-माया अपर्णेति यशःकरणं च। एवं हेतोर्हेतुमता सह वर्णनात् हेत्वलङ्कारः । तदुक्तं चन्द्रालोके - "हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते। असावुदेति शीतां-शुर्मानच्छेदाय सुभ्रुवाम्" ॥ इति ॥१८॥

घोरं तपश्चेद्रचितं त्वयाऽपि प्रापभर्तुः समनुग्रहाय ॥
विहाय यत्नं क इहाखिलाम्ब सम्बद्धमप्यर्थमुपैतु जन्तुः ॥१९॥

घोरमिति- अखिलाम्ब ! त्वयाऽपि का प्राग्रूपभर्तुः प्राग्रूपे पूर्वरूपे पूर्वं सतीत्वेनावस्थितायाः यः भर्ता पतिः तस्य समनुग्रहाय स्वाङ्गीकरणरूप-प्रसादाय घोरं कठोरं तपः अनशनादिकृच्छ्रवतसाध्यं रचितम् अनुष्ठितं चेत्, इह को जन्तुर्जन्मी यत्नं विहाय प्रयत्नं विनेत्यर्थः, सम्बद्धमपि अर्थं साध्यत्वेन सिद्धत्वेन वा स्थितम् उपपन्नम् इष्टविषयम् उपैतु लभताम्। सिद्धपूर्वभत्र-नुग्रहनिमित्तं घोरतपश्चरणं पार्वत्या अप्यावश्यकं चेत् किमुत अन्यस्याल्पस्य जन्तोरिष्टार्थलाभे अत्यन्तमावश्यक: प्रयत्न इति वक्तव्यम् ? आवश्यकमेवे-त्यर्थः। कैमुत्यन्यायेनार्थापत्तिरलङ्कारः। ’कमुत्येनार्थसंसिद्धिः काव्यार्थापत्ति-रिष्यते’ इति तल्लक्षणात् ।।१९।।

ज्वलत्कपर्दो दहनाङ्कभालः कपालमाली करिकृत्तिवासाः ॥
भुजङ्गभूषो भसिताङ्गरागः पुष्पेषुवैरी परुषाट्टहासः ॥२०॥

ज्वलदिति-ज्वलत्कपर्दो ज्वलन् भ्राजमानः कपर्दो जटाजूट: यस्य सः, दहनाङ्कभाल: दहनः अग्निः अङ्कः कलङ्कः यस्मिन् तत् दहनावं भालं ललाटस्थलं यस्य सः, कपालमाली कपालानां शिरोऽस्थ्नां माला सक् कपाल-माला सा अस्यास्तीति कपालमाली, करिकृत्तिवासाः करिकृत्ति: गजत्वक वासः परिधानं यस्य सः, भुजङ्गभूषः भुजङ्गाः सर्पा भूषा अलङकृतिर्यस्य सः। भसिताङ्गरागः भसितं भस्म अङ्गरागः अङ्गलेपो यस्य सः, पुष्पेषु-वैरी पुष्पेषोः कुसुमबाणस्य मदनस्य वैरी शत्रुः। पुष्पौघवैरी इति पाठे पुष्प-समूहस्य मदनबाणभूतस्य वैरी। कामारेर्वैराग्यप्रसिद्धिसूचकं च शृङ्गाराङ्ग-भूतपुष्पौघवैरित्वमिति बोध्यम् । परुषाट्टहास: परुषः कर्कश: अट्टहासः अति-हासः यस्य सः, “अट्टावतिशयक्षामौ” इति यादवः। अतिशयवाचकोट्टशब्दः अतिक्रमणार्थादट्टतेनिष्पन्नत्वात् । उत्तरश्लोके पुरुष इत्यनेनान्वयः ॥२०॥

श्मशानवासी पुरुषस्त्रिागी जहार ते चेदनघाङ्गि चेतः ॥
दृष्टान्तमर्थोऽयमवाप नैव प्रोतिर्बहिःकारणमाश्रितेति ॥२१॥

श्मशानवासीति- श्मशानवासी श्मशाने पितृवने वस्तुं शीलमस्येति श्मशानवासी त्रिशूली त्रिमुखं शूलं त्रिशूलं तदस्यास्तीति त्रिशूली पुरुषः पुमान् अनधाङ्गि! अनवद्यगात्रि, ते तव चेतः मनः जहार आचकर्ष चेत्, सर्व-लक्षणसम्पन्नाङ्गीं त्वां जटाजूटनेत्रज्वलन-कपालमालादिभिः अतिघोरजुगुप्सा-वहः शृङ्गारध्वंसनैः विशेषितः पुरुषः तव हृदयाकर्षकोऽभूदिति चेत्, तर्हि प्रीति: प्रियता बहिःकारणमाश्रिता बाह्योपाधिमाश्रित्य नैव प्रवर्तत इत्य-यमर्थः दृष्टान्तं निदर्शनम् अवाप लेभे। प्रीतिर्बाह्योपाधिसंश्रयेत्यर्थस्य नास्ति निदर्शनम् । अनेनान्तर एव कोऽपि हेतु: प्रेम्ण इति स्पष्टमवगम्यते । आह च भवभूति:- “व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः न खलु बहि-रुपाधीन् प्रीतयः संश्रयन्ते” इति । अत्र प्रकृतेनाप्रकृतसमर्थनादर्थान्तरन्यासो-ऽलङ्कारः ॥२१॥

रूपं पुरारेरथवा तदेतत् सेयं च चेष्टा समयान्तरेषु ॥
कान्तं वपुः कान्ततराश्च लीला- स्त्वया समं खेलितुमेष धत्ते ॥२२॥

रूपमिति- अथवा कवेर्विकल्पोऽयं वक्ष्यमाणोऽर्थः। समयान्तरेषु अन्येषु समयेषु, न तु पार्वत्या सह विहारकाले। तदेतद्रूपं ज्वलत्कपर्दादि प्रागुक्तं रूपं भवति। सेयं च चेष्टा श्मशानवासादिश्च समयान्तरेषु भवतीत्यध्या-हार्यम्। एष भगवान् तव कान्त: त्वया समं खेलितुं क्रीडितुं कान्तं कमनीयं वपुः गात्रं, कान्ततराः कमनीयतराः लीलाश्च धत्ते धारयते। इच्छानुसारे-णोपपन्नं रूपं स्वीकर्तुं प्रभुहि शम्भुः ।।

एवं च पार्वत्या सह विहारे कमनीयवपुर्धारी इति शिवयोः शृङ्गार-वर्णने मुक्तभोगिकटकेन पाणिनेत्यारभ्य द्वादशस्तबके वक्ष्यते ॥२२॥

प्रहृष्टयक्षः समवेतसिद्धो नृत्यद्गणेन्द्रो विकसन्मुनीन्द्रः ॥
भूयोऽपि योगो युवयोहिमाद्रौ बभार मातर्महमद्वितीयम् ॥२३॥

प्रहृष्टेति- मातः ! प्रहृष्टयक्षः प्रहृष्टाः मुदिताः यक्षाः देवयोनिविशेषाः हिमाचलवासिनः यस्मिन् सः, समवेतसिद्धः समवेताः सम्मिलिताः सिद्धाः सिद्धपुरुषाः यस्मिन् सः, नृत्यद्गणेन्द्रो नृत्यन्तः गणेन्द्राः प्रमथगणश्रेष्ठाः यस्मिन् सः, विकसन्मुनीन्द्रः विकसन्त: उल्लसितमानसाः मुनीन्द्राः तापसश्रेष्ठाः यस्मिन् सः। युवयोः शिवयोः भूयोऽपि पुनरपि योगः प्रकटितदाम्पत्यः समागमः हिमाद्रौ हिमाचले अद्वितीयम् अनुपमं महम् उत्सवं बभार पुपोष। प्रहृष्टपक्ष इति पाठे प्रहृष्टौ वधू-वरपक्षौ यस्मिन्निति विग्रहः, पार्वतीपक्ष: हिमवद्बन्धु-वर्गः, शिवपक्षस्तु प्रमथगणयक्षराजादिः ।।२३।।

महेश्वरस्त्वां परिणीय लेभे यावात्मजौ द्वावनघाङ्गि मुख्यौ ॥
एकस्तयोर्धाम्यति विश्वमत्तुं भूभृत्तटीराश्रयते बतान्यः ॥२४॥

महेश्वर इति- अनघाङ्गि अनवद्यविग्रहे, महेश्वरस्त्वां परिणीयोद्वाह्य यौ मुख्यौ प्रधानौ द्वौ आत्मजौ तनुजन्मानौ लेभे प्राप, तयोर्द्वयोः एको गणपति विश्वमत्तुं भोक्तुं भ्राम्यति अटति। गणपतेर्भुक्तिप्रियत्वं लम्बोदरत्वादिलक्षितं प्रसिद्धम् । अन्यः भूभृत्तटी: पर्वतभूमी: आश्रयते आश्रित्य वसति । बत ! विस्मये। एको भ्राता भ्रमणशील:, अन्यः न क्वापि गच्छन् सुखेन स्थिरो वसतीति विस्मयः॥ स्कन्दस्य पर्वतगुहावासित्वं नगरन्ध्रकृद्गुहादिनामभिः प्रख्यातम् ॥

जगत्कुटुम्बयोः शिवयोः सुरासुरमानवादिजनकत्वेऽपि स्कन्द-गणपत्योरा-त्मजातत्वे वैशिष्ट्यं द्योतयितुं तौ मुख्यत उक्तौ ॥२४॥

सङ्कीर्तयन्त्यो जगतां जनन्याः कल्याणवार्ताः कमनीयकीतः ॥
इमाः प्रमोदाय सतां भवन्तु सन्दर्भशुद्धा उपजातयो नः ॥२५॥

सङ्कीर्तयन्त्य इति- कमनीयकीर्तेः रमणीययशसः जगतां लोकानां जनन्याः मातुः कल्याणवार्ताः परिणयाधिकृतमङ्गलप्रवृत्तीः सङ्कीर्तयन्त्यः समीचीनतया गायन्त्यः सन्दर्भशुद्धाः सन्दर्भे पदवाक्यगुम्फनपद्यरचने निबद्ध शुद्धाः निर्दुष्टाः पदपदार्थवाक्यवाक्यार्थदोषरहिताः इमाः एवं रचिताः नः अस्माकम् उपजातयः उपजातिवृत्तनिबद्धाः श्लोकाः सतां सज्जनानां प्रमोदाय सन्तोषाय भवन्तु कल्पन्ताम् ॥२५॥

पञ्चमः स्तबकः सव्याख्यः समाप्तः









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates