उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
पञ्चत्रिंशेऽस्मिन् स्तबके भगवत्याः कटाक्षं प्रार्थयमानस्तस्यां भक्ति तत्प्रभावसङ्कीर्तनेन पुष्णाति । शक्वरीप्रस्तारगतेन इन्दुवदनावृत्तेन निबद्धोऽयं स्तबकः ॥
अन्धतमसं शशिविभामभिदधाना कान्तिमलमास्यकमलस्य विदधाना ॥ अन्धकविरोधिदयितास्मितलवश्री-र्भातु भुवनस्य सकलस्य कुशलाय ॥१॥
अन्धेति- शशिविभां चन्द्रप्रभाम् अन्धतमसं गाढान्धकारम् अभिदधाना भण-न्ती, आस्यकमलस्य मुखपद्मस्य कान्ति शोभाम् अलं विदधाना अलङकुर्वाणा अन्धकविरोधिदयितास्मितलवश्रीः अन्धकविरोधिनो हरस्य दयितायाः पार्वत्याः स्मितस्य मन्दहासस्य लवस्य लेशस्य श्रीः शोभा सकलस्य भुवनस्य कुशलाय क्षेमाय भातु भासताम्। मन्दहासशोभायाः पुरस्तात् चन्द्रस्तिमिरायते। अपि च सा मुखपद्मकान्तेर्भूषायते। उभयत्र तेजसोऽपि मूलतेजो देवीस्मितलवश्री-रिति द्योत्यते ॥१॥
भाहि विविधा कृतिमती द्विजसमूहे पाहि गतिहीनमखिलेश्वरि कुलं नः ॥ देहि बहुकालभजकाय वरमेतं याहि नगनन्दिनि यशः शशिवलक्षम् ॥२॥
भाहीति- अखिलेश्वरि विश्वाधिराज्ञि नगनन्दिनि पार्वति ! द्विजसमूहे द्विजानां द्विजन्मनां जन्मना संस्कारेण च द्विर्जातानां ब्राह्मणानां समूहे समाजे विविधा नानाप्रकारा सती कृतिमती कृतिः प्रयत्नोऽस्या अस्तीति कृतिमती भाहि भासस्व। द्विजसमूहे तव भानात् सर्वस्यापि लोकस्य श्रेयो भवेत् । गतिहीनम् उपायहीनं नः अस्माकं कुलं पाहि रक्ष। बहुकालभजकाय दीर्घ-कालभक्ताय मह्यम् एतं वरं देहि। गतिहीनस्य अस्माकं मानवकुलस्य भारतकुलस्य वा रक्षादानमेव वरं प्रार्थये। शशिवलक्ष चन्द्रघवलं यशः याहि प्राप्नुहि। तेन वरदानेन तव शुभ्रं यशः स्यात् ॥२॥
वारयति घोरतरपातकसमूह वर्धयति धर्ममपि शर्मकरमन्ते ॥ किङ्करजनस्य न किमावहति भव्यं शङ्करपुरन्धि तव पादपरिचर्या ॥३॥
वारयतीति- शङ्करपुरन्धि शिवमहिषि ! तव पादपरिचर्या पादयोः परिचर्या शुश्रूषा घोरतरपातकसमूहम् अतिभयावहपापनिवहं वारयति निवार-यति । अन्ते परिणतौ शर्मकरं सुखकरं धर्ममपि वर्धयति पोषयति। धर्मश्च हृदयाभ्यनुज्ञानसम्पन्नः सतामाचारो बोध्यः। किङ्करजनस्य भक्तस्य किं भव्यं कुशलं नावहति ? सर्वाणि कुशलानि धत्ते इत्यर्थः ॥३॥
यस्य मनुजस्य हृदयेऽस्ति सदये ते नाकचरसेव्यमयि पादसरसीजम् ॥ तं भजति पद्ममुखि पद्मवनवासा लाभभवने भवतु नामरपुरोधाः ॥४॥
यस्येति- सदये कारुण्यवति अयि अम्ब ! यस्य मनुजस्य हृदये नाकचर-मेव्यं नाकचरैः स्वर्गसञ्चारिभि: देवै: सेव्यं पूज्यं ते तव पादसरसीजं चरण-कमलम् अस्ति, भोः पद्ममुखि कमलवदने ! तं पद्मवनवासा लक्ष्मी: भजति सेवते । लाभभवने प्राप्तिगृहे लक्ष्मीप्राप्तिस्थले अमरपुरोधाः देवपुरोहितः बृहस्पतिः न भवतु । तस्य पादभजकस्य देवगुरोरनुग्रहो न भवतु। मन्दबुद्धिमपि तं लक्ष्मीः प्राप्नोतीति भावः ॥४॥
यद्यखिलमौनिगणगीतगुणजालं कालभयहारिकरुणारसमरन्दम् ॥ अद्वितनयाङघिजलजन्म हृदये स्या-दष्टमगतोऽपि विदधातु रविनः किम् ॥५॥
यदीति- अखिलमौनिगणगीतगुणजालम् अखिलेन समस्तेन मौनिनां नैष्ठि-कानां गणेन वर्गण गीतं कीर्तितं गुणानां कारुण्यादीनां जालं पटलं यस्य तत्, कालभयहारिकरुणारसमरन्दं कालान्मृत्योर्भयं हर्तुं शीलमस्येति कालभयहारी स करुणारसमरन्दः करुणारस एव मरन्दः मकरन्दः यस्य तत्, अद्रि-तनयाङघ्रिजलजन्म पार्वतीपादपङ्कजं हृदये स्याद्यदि भवेद्यदि, अष्टमगतोऽपि चारवशात् जन्मराशेरष्टमस्थानं प्राप्तोऽपि रविजः शनैश्चरः किं विदधातु कुरु-ताम् ? न किमपि दुःखं दातुं प्रभवतीत्यर्थः। चारवशात् चन्द्रराशेरष्टमगो मन्दो विविधान्यशुभानि तनोतीति ज्यौतिषप्रसिद्धम् । हृदयस्थं देवीचरणं ग्रहगतिवीर्यमपि जेतुं प्रभ्विति भावः ॥५॥
लेखललनाकचसुमैः कृतलिं ते यो भजति पादघृणिमालिनमनन्ते ॥ निस्तरति नूनमयमस्तमितमोहः शोकतिमिरं सकललोकगणमातः ॥६॥
लेखेति- सकललोकगणमातः, सर्वजगज्जालजननि ! लेखललनाकचसुमैः देवाङ्गनाजनशिरोजालङ्कारमाल्यैः कृतबलिं कृतः आचरितः बलि: पूजा यस्मै तं ते तव पादघृणिमालिनं पाद एव घृणिमाली अंशुमाली सूर्यस्तं यो भजति सेवते अयं स भजकः अस्तमितमोहः अस्तमितः नाशङ्गतः मोहः अज्ञान-मित्यर्थः यस्य सः, शोकतिमिरं शोक एव तिमिरम् अन्धकारः तं निस्तरति अतिगच्छति, नूनं ध्रुवम्। पादे घृणिमालिनः शोके तिमिरस्य चारोपणात् रूपकमलङ्कारः ॥६॥
शीतकरदर्पहरवक्त्रजलजाते शीतगिरिनन्दिनी तवाङघिजलजातम् ॥ यः स्मरति देवि हृदि विस्मरति सोऽयं विष्टपमशेषमपि कष्टततिमुक्तः ॥७॥
शीतकरेति- शीतकरदर्पहरवक्त्रजलजाते चन्द्रगर्वापहवदनकमले, शीत-गिरिनन्दिनि हिमवत्पुत्रि! तव अङघ्रिजलजातं पादपद्मं यः हृदि हृदये स्म-रति ध्यायति सोऽयं कष्टततिमुक्तः कष्टततिभिः दुःखसन्ततिभिविमुक्तः सन् अशेषं समस्तं विष्टपं लोकमपि विस्मरति । पदध्यानजपरमानन्दपारवश्यात् जगद्विस्मृतिः, न तु निद्रा-मदादिपारवश्यादिव । कष्टततेनिद्रादौ विस्मरण-मेव भवति, न तु सा विमुक्तिः भवति ॥७॥
सक्तिरयि यस्य तव पादसरसीजे शक्तिधरमातरनलाक्षगृहनाथे ॥ पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौ स्वर्णशिखरीव बुधलोकशरणं स्यात् ॥८॥
सक्तिरिति- अयि शक्तिधरमातः सुब्रह्मण्यजननि, अनलाक्षगृहनाथे अन-लोऽग्निः अक्षिणि भालनेत्रे यस्य, यद्वा अनलोऽक्षि तृतीयं यस्य तस्य हरस्य गृहनाथे गृहिणि, पूर्णशशिजैत्रमुखि पूर्णचन्द्रजित्वरवदने ! यस्य तव पादसर-सीजे चरणकमले सक्ति: सङ्गः असौ पुण्यपुरुषः स्वर्णशिखरीव मेरुगिरिरिव बुधलोकशरण विद्वल्लोकरक्षणं स्यात् भवेत् ॥८॥
वैरिगणनिर्दलनखड्गवरपाणे वाससि पदोर्दशनवाससि च शोणे ॥ नेत्रमिषपावकविशेषितललाटे पापमखिलं जहि मृगाधिपतिघोटे ॥९॥
वैरीति- वैरिगणनिर्दलनखड्गवरपाणे शत्रुसमूहच्छेदनखड्गहस्ते ! वाससि वसने पदोश्चरणयोः दशनवाससि अधरे च शोणे रक्ते, रक्ताम्बरा अरुण-चरणा बिम्बाधरा चेत्यर्थः। नेत्रमिषपावकविशेषितललाटे नेत्रस्य मिषेण व्याजेन यः पावकोऽग्निस्तेन विशेषितं भूषितं ललाटं भालं यस्याः तस्याः सम्बुद्धिः, अग्निनेत्रस्य शिवस्य पत्न्याः अपि अग्निनेत्रं भवति। मृगाधिपति-घोटे ! मृगाधिपतिः सिंहः घोटक एव घोटो वाहो यस्याः तस्याः सम्बुद्धिः सिंहवाहने इत्यर्थः । ’घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहार्व-गन्धर्वहयसैन्धवसप्तयः’ इत्यमरः। अखिलं समस्तं पापं जहि हतं कुरु ॥९॥
वेदचयवेदिजनवादविषयस्य प्रीतियुतलोकततिशोकशमनस्य ॥ वेतनविजितभटोऽयमहमङघ्रः शीतकरपोतधरपुण्यवनिते ते ॥१०॥
वेदेति- शीतकरपोतधरपुण्यवनिते ! शीतकरपोतधरस्य चन्द्रबालभृतः शिवस्य पुण्या सुन्दरी वनिता कान्ता तस्याः सम्बुद्धिः ’पुण्यं तु चार्वपि’ इत्य- मरः। वेदचयवेदिजनवादविषयस्य सकलवेदविज्जनभाषितानां विषयभूतस्य उद्देशभूतस्येत्यर्थः, प्रीतियुतलोकततिशोकशमनस्य भक्तलोकबृन्दगतशोकान्त-कस्येत्यर्थः, ते तव अङ ः चरणस्य अहं वेतनविजितभट: भृति विनैव सेव-कोऽस्मीति शेषः ॥१०॥
कार्यमयि मे किमपि कार्यपटुबद्धः पादसरसीजयुगलीपरिजनस्य ॥ अम्ब वद जम्भरिपुगीतगुणजाले शुम्भकुलनाशकरि शम्भुकुलयोषे ॥११॥
कार्यमिति- जम्भरिपुगीतगुणजाले ! जम्भरिपुणा इन्द्रेण गीतं कीर्तितं गुणजालं यस्यास्तस्याः सम्बुद्धिः, शुम्भकुलनाशकरि शुम्भासुरवंशविध्वंसिनि, शम्भुकुलयोषे शिवकुलाङ्गने अयि अम्ब ! कार्यपटुबुद्धेः कर्तुं योग्ये कार्ये पटु-निपुणा बुद्धिः यस्य तस्य पादसरसीजयुगलीपरिजनस्य पादारविन्दद्वयपरिचार-कस्य मे मम किमपि कार्यं वद ॥११॥
त्वं यदि शिलावदयि नो वदसि कृत्यं नास्ति तव राज्यपटुबुद्धिरिति सत्यम् ॥ आदिश यथार्हकरणीयकृतिनित्यं राज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥१२॥
त्वमिति- अयि भुवनस्य राज्ञि अम्ब ! त्वं शिलया तुल्यं शिलावत् शिलेव, कृत्यं यत् कर्तव्यं तत् नो वदसि न चेद् भणसि, तव राज्यपटुबुद्धिः राज्ये पटुः समर्था बुद्धिः नास्तीति सत्यम्। भुवनराज्ञीति त्वं प्रसिद्धाऽपि तव राज्यकौशलं नास्तीति वक्तव्यम् । यथार्हकरणीयकृतिनित्यं यथार्हाः योग्या: करणीयाः कृतयस्तासु नित्यं स्थिरं चरणाम्बुरुहभृत्यं पादारविन्दभटम् आदिश आज्ञापय ।।१२।।
पञ्चसु विहाय मनसः कमपि सङ्ग पुत्त्रधनमित्रजनबान्धववधूषु ॥ एष भजते जननि पादजलजं ते पालय नु मुञ्च नु तवोपरि स भारः ॥१३॥
पञ्चस्विति- जननि मातः ! पुत्त्रधनमित्रजनबान्धववधूषु पुत्त्रे धने मित्र-जन वान्धव वध्वां च एवं पञ्चस्वपि कमपि यथार्ह वृत्तं सङ्गं विहाय त्यक्त्वा एषोऽयं जनः ते तव पादजलज भजते सेवते । पालय नु रक्ष वा मुञ्च नु त्यज वा तवोपरि सः भारः । पुत्त्रादिषूज्झितसङ्गस्त्वय्यहं भारं निक्षिप्त- वान् । अतः परं त्वमेव प्रमाणम् ॥१३॥
वजधरमुख्यसुरसञ्चयकिरीट-स्थापितमहाघमणिरञ्जितनखाय ॥ जीवितमदायि जगदीश्वरि मदीयं पादजलजाय तव पालय नु मा वा ॥१४॥
वज्रति- जगदीश्वरि वज्रधरमुख्यानाम् इन्द्रादीनां सुराणां सञ्चयस्य समूहस्य किरीटैर्मुकुटः स्थापितैनिहितः महाधैंः अधिकमूल्यैः मणिभिः रत्न-विशेष: रञ्जिताः अपितवाः नखाः पदरुहाः यस्य तस्मै तव पादजल-जाय पादारविन्दाय मदीयं जीवितम् अदायि दत्तमित्यर्थः । पालय नु रक्ष वा मा वा त्यज वेत्यर्थः ॥१४॥
देहि जगदीश्वरि न वा मदभिलाषं पाहि करुणावति न वा कुलमिदं नः ॥ शूलधरकामिनि सुरासुरनिषेव्यं पादकमलं तद परे न विजहामि ॥१५॥
दहीति- जगदीश्वरि ! मदभिलाषं मम अभिलाष मनोरथं देहि वा न वा, करुणावति ! न: अस्माकम् इदं भारतीयं कुलं पाहि रक्ष वा न वा । शूलधरकामिनि रुद्रकान्ते परे अम्ब ! सुरासुरनिषेव्यं देवासुरसेव्यं तव पाद-कमलं न विजहामि त्यजामि ॥१५।।
पासि किल पादयुगकिङ्करसमूह हंसि किल पापततिमापदि नुता त्वम् ॥ दन्तिवदनप्रसु वदन्ति मतिमन्तो नानृतमिदं भवतु नाकिजनवयं ॥१६॥
पासीति- पादयुगकिङ्करसमूहं त्वच्चरणभजकलोकं पासि किल रक्षसि, किल वार्तायां, रक्षसीत्याहुरित्यर्थः । ’वार्ता सम्भाव्ययोः किल’ इत्यमरः । आपदि विपदि आपतितायां नुता स्तुता त्वं पापतति दुरितसंहति हंसि किल ध्वंसयसीति वार्ता, भोः दन्तिवदनप्रसु गजमुखमातः ! मतिमन्तः वदन्ति एवं भणन्ति। नाकिजनवर्पा स्वर्गवासिभिर्देवैः स्तुत्य ! इदं मतिमद्भिरुच्यमानम् अनृतं न भवतु मृषा मा भूत् ॥१६।।
शक्रमुखदेवततिवन्दितविसृष्ट वक्रघनकेशि चरणे तव लुठन्तम् ॥ आपदि निमग्नमिममाश्रितमनाथं नन्दिहयसुन्दरि न पालयसि केन ॥१७॥
शक्रेति- वक्रघनकेशि कुटिलमेघश्यामलकचे ! शक्रमुखदेवततिवन्दित-विसृष्ट इन्द्रादिदेवबन्दैर्वन्दिते विसृष्टे मुक्ते च तव चरणे लुठन्तं संश्लिष्यन्तम् आपदि दुरवस्थायां निमग्नं, भोः नन्दिहयसुन्दरि वृषवाहनस्य शिवस्य कान्ते, अम्ब ! आश्रितं त्वां प्रपन्नम् अनाथं नाथरहितम् इमं जनं केन हेतुना न पालयसि न रक्षसि? ॥१७॥
घोषमयमम्ब विदधाति पदलग्नो नावसि पुराणि किमु नारि बधिराऽसि ॥ वन्दिसुरबृन्दनुतिभाषितहृतं वा कर्णयुगलं तव कपालिकुलयोषे ॥१८॥
पोषमिति- अम्ब ! पदलग्न: पदयोः चरणयो: लग्नः सक्तः अयं घोषं विदधाति क्रन्दतीत्यर्थः, पुराणि नारि पुरातनपुरुषि ! नावसि न पासि, बधिरा प्रहतश्रवणेन्द्रियाऽसि किमु ? कपालिकुलयोषे शिवाङ्गने ! तव कर्णयुगलं श्रोत्र-युग्मं वन्दिसुरबृन्दनुतिभाषितहृतं वा स्तुतिपाठकदेवबृन्दस्तोत्रवचनैरपहृतं वा ? मम घोषस्य अनाकर्णनस्य किं कारणम् ? किं बाधिर्यम् ? उत सुरजनस्तोत्रे चित्तं तवावहितम् ? ॥१८॥
अम्ब भव बिम्बफलकल्परदचेले शम्बरसपत्नबलकारिबहुलीले ॥ प्रागमृतभानुमुकुटस्य मदयित्री तं कुरु ततः परमुरीकृतमदर्थम् ॥१९॥
अम्बेति- बिम्बफलकल्परदचेले ! ईषदूनं बिम्बफलं रक्तफलं बिम्बफल-कल्पं रदचेलं दशनवासोऽधर इत्यर्थः, यस्यास्तस्या: सम्बुद्धिः, शम्बरसपत्न-बलकारिबहुलीले ! शम्बरसपत्नस्य मन्मथस्य बलकारिण्यो बह्वयो लीला यस्यास्तस्याः सम्बोधनं, प्राक् प्रथमम् अमृतभानुमुकुटस्य चन्द्रचूडस्य शिवस्य मदयित्री हर्षयित्री भव । तत: अनन्तरं तं परम् ईश्वरम् उरीकृतमदर्थम् उरीकृतः अङ्गीकृतो मदर्थः मम विषयः यस्य तं विधेयविशेषणं कुरु । शिवं मदयितुं प्रभुरसि त्वं, तस्मात् प्रथमं तं हर्षयित्वा वशय, अनन्तरं मत्प्रस्ताव: क्रियतां तदङ्गीकाराय ॥१९॥
निर्मलसुधाकरकलाकलितमस्ते धर्मरतपालिनि दयावति नमस्ते ॥ एतमव देवि चरणाम्बुरुहबन्धु शीतधरणीधरसुते गमय नान्धुम् ॥२०॥
निर्मलेति- निर्मलसुधाकरकलाकलितमस्ते ! निर्मलया स्वच्छया सुधा-करकलया चन्द्रकलया कलित बद्धम् अलङकृतमिति यावत् , मस्तं शिरो यस्या-स्तस्याः सम्बुद्धिः । धर्मरतपालिनि धर्मासक्तानां रक्षिके, दयावति ! ते नमः । देवि ! चरणाम्बुरुहबन्धुं चरणाम्बुरुहं पादारविन्दं बन्धुः यस्य तम् एतं भक्तम् अव रक्ष। शीतधरणीधरसुते पार्वति ! अन्धु कूपं न गमय प्रापय, माऽस्तु ममाधोगतिः ॥२०॥
अद्रिकुलपालककुलध्वजपताके भद्रगजगामिनि दरिद्रमयि मत्या ॥ क्षुद्रमिव शोच्यमिममङघिजलजाप्त रुद्रदयिते जननि पाहि न जहीहि ॥२१॥
अद्रिकुलेति- अद्रिकुलपालककुलध्वजपताके हिमवद्वंशवैजयन्ति ! ध्वज-पताकयोः सामान्यविशेषरूपयोः झटिति बोधनार्थं गोबलीवर्दन्यायेनायं प्रयोगः । नेह पुनरुक्तिः। भद्रगजगामिनि मत्तगजगमने ! ‘भद्रश्चापि गजान्तरे’ इत्य-मरः, अयि अम्ब ! मत्या दरिद्र, कर्मकौशलायापेक्षितायाः प्रज्ञाया: ऊनता मतिदारिद्रयं बोध्यम् । शोच्यम् अनुकम्पनीयम् अङघ्रिजलजाप्तं पदार-विन्दबन्धुम् इमं मां, रुद्रदयिते पार्वति ! पाहि पालय, क्षुद्रं नीचमिव न जहीहि न त्यज ॥२१॥
अस्तु तव पादकमले स्थितिरजस्रं नास्ति परदुःखविवशे हृदि तु शान्तिः ॥ अस्तु करुणेयमयमस्तु मतिलोपः कष्टमिदमम्ब मम भूरि परिशिष्टम् ॥२२॥
अस्त्विति- अम्ब! तव पादकमले अजस्रं नित्यं मम स्थितिरस्तु। पर-दुःखविवशे परेषाम् अन्येषामस्मादृशां दुःखैः विवशे सहानुभूत्या परवशे हृदि हृदये तु मम शान्तिः नास्ति। इयं करुणा मम परदुःखपारवश्यजननी अस्तु। इयं करुणा बुद्धिहीनतैवेति चेत्, अयं मतिलोपः बुद्धिलोपरच अस्तु भवतु। मम इदं भूरि अमितं कष्टं दुःखं परिशिष्टम् अवशिष्टम् । मतिलोपः, करुणा, अन्ते अवशिष्टं कष्टमित्येतानि सन्तु । हृदये शान्त्यभावात् तस्य तव पादकमले स्थिति प्रार्थये ॥२२॥
दुःखसुखभेदरहिता न मतिरासीत् सावुखलभेदरहिता न मतिरासीत् ॥ भाग्यमतिमान्यमथ वा मम तदेत-न्मातरिह सङ्घभजने यदवकाशः ॥२३॥
दुःखेति- मातः ! दुःखसुखभेदरहिता दुःखं प्रतिकूलानुभवः, सुखम् अनु-कूलानुभवश्च तयोर्भेदेन रहिता वर्जिता मति/र्मम नासीत्। साधुखलभेद-रहिता सज्जन-दुर्जन-भेदरहिता मतिर्मम नासीत्। शास्त्राणि समबुद्धिमुप-दिशन्ति, मम तु तादृश्यभेदधी: नास्तीत्येष दोषः स्यादिति चेन्माऽस्त्वित्याह । अथवा तदेतत् अतिमान्यम् अतीव पूज्यं मम भाग्यम्। यत् यतः इह भुवि सङ्घभजने जनसमुदायसेवने अवकाशो भवति, तन्मम भाग्यमिति सम्बन्धः । असत्यां सुखदुःखसाधुखलभेदबुद्धौ न स्यात्सङ्घसेवावकाशः । भेदबुद्धिर्भाग्य-मिति समर्थनं दुष्करम् । तस्य सङ्घभजनावकाशलाभरूपेण वाक्यार्थेन सम-र्थनात् काव्यलिङ्गमलङ्कारः ॥२३॥
अस्तु मम भेदमतिरस्तु मम पक्षो यत्नपरताऽस्तु मम माऽस्तु च विमोक्षः ॥ मोक्षमयि वेनि कुलकष्टततिमोक्षं प्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥२४॥
अस्त्विति- मम भेदमति: भेदबुद्धिः साध्वसाध्वादिभेदबुद्धिरस्तु । मम पक्षः साधनयोग्यार्थः अस्तु भवतु। ’पक्ष: पतत्रे कुचयोः पार्वे सख्यौ नृप-स्य च। गजे स्याच्चुल्लिरन्ध्रे च बले साध्यविरोधयोः’ इति त्रिकाण्डशेषः । मम यत्नपरता अस्तु उद्योगो भवत्वित्यर्थः । विमोक्षश्च ज्ञानलभ्यो जन्म-बन्धविनिर्मोक्षश्च माऽस्तु मा भूत्। अयि, महेश्वरि अम्ब ! कुलकष्टतति-मोक्षं भारतीयकुलदुःखसन्ततिविमोचनमेव मोक्षं वेद्मि जानामि। तस्मात् तव कटाक्षं दृगन्तपातं सकृत् एकवारं प्रेषय। येन मदभिमतम् उक्तं मोक्षं कुल-कष्टनिवृत्तिरूपम् लभेयेति भावः ॥२४॥
शाक्वरगणेन मुखरेऽत्र गणनाथे विष्णुयशसीशवधु जिष्णुमुखवन्ये ॥ अम्ब करणां कुरु शिवङ्करि निरङ्क-स्वच्छकिरणार्भकविभूषितललाटे ॥२५॥
शाक्वरगणेनेति- ईशवधु ईश्वरपुरन्ध्रि जिष्णुमुखवन्द्ये विष्ण्वादिभिः स्तु-त्य निरङ्कस्वच्छकिरणार्भकविभूषितललाटे निरङ्केण अकलङ्केन स्वच्छकिरणा-भकेण शुभ्रांशबालेन अर्धचन्द्रेणेति यावत्, विभूषितम् अलङ्कृतं ललाटं यस्या- स्तस्याः सम्बुद्धिः, शिवङ्करि क्षेमकारिणि अम्ब ! शाक्वरगणेन, चतुर्दशाक्षरा शक्वरी, शक्वर्याः शक्वरीछन्दस: इमे शाक्वराः तेषां गणेन समूहेन मुखरे शब्दायमाने विष्णुयशसि विष्णोर्यश इव यशो यस्य तस्मिन् गणनाथे गणपतौ मयि करुणां कुरु सदया भव। विष्णुयशसीत्यत्र भव। विष्णुयशसीत्यत्र विष्णुशब्दो विघ्नेश्वर-वाचितया ग्राह्यः । ’शुक्लाम्बरधरं विष्णुम्’ इति सुप्रसिद्धश्लोकेन अवयवार्थ-मजहत् विष्णुपदं विभुत्वाद्विघ्नेश्वरम् अभिधत्ते ॥२५॥
पञ्चविंशः स्तबकः सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.