उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ भरतखण्डस्य आसेतुहिमाचलपुण्यक्षेत्राणि अधिष्ठाय विश्रुतानां देवी-मूर्तीनां स्तवोऽस्मिन् पञ्चविंशे स्तबके भवति। आदौ दक्षिणदेशस्थलानि प्रस्तूयन्ते। तत्र अर्वाचीनतमं कन्याकुमारीति प्रथितं क्षेत्रमारभ्य तदधिष्ठात्री कन्याकुमारी स्तौति ॥
कन्याकुमारी सुतरां वदान्या मान्या समस्तैः प्रकृतेरनन्या ।। आक्षेपकं सागरबुद्दानां हासं विधत्तां जगतः सुखाय ॥१॥
कन्येति- सुतरां नितान्तं वदान्या दानकुशला समस्तैः नरैः सुरैर्वा मान्या पूज्या, प्रकृतेरनन्या प्रकृतेरविशेषा प्रकृतिरेवेत्यर्थः, ’मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्’ इति श्रुतेः ईशस्य मायाशक्तिरेव प्रकृतिर्बोध्या । कन्याकुमारी एतन्नाम्ना प्रसिद्धा बाला देवी सागरबुद्बुदानां समुद्रफेनोद्गम-बुद्दाकाराणाम् आक्षेपकं प्रतिषेधकं हासं जगतः लोकस्य सुखाय विधत्ताम् विदधातु। अनवरतोत्तरङ्गतरङ्गधवलफेनबुद्रुदाक्षेपको हास इत्युक्तेः अभि-नवनित्योदयशुभ्रशोभातिशायी कुमारीहासः जगन्माङ्गलिक: स्तूयते ॥१॥
सेतुबन्धप्रसिद्धं रामेश्वरक्षेत्रं तत्र प्रसन्नायाः पर्वतवर्धनीदेव्याः स्तवेन प्रस्तौति ।
रक्ष स्वचेतो मदमत्सरादे- भिक्षस्व काले तनुरक्षणाय ॥ वोक्षस्व रामेशवधूपदाब्जं मोक्षस्वलाभे यदि तेऽभिलाषः ॥२॥
रक्षेति- भोः ! ते तव मोक्षस्वलाभे मोक्ष एव स्वं धनं तस्य लाभे अभिलाषो भवति यदि, मदमत्सरादेः मदो दर्पः मत्सरोऽन्यशुभद्वेषश्च आदी यस्य तस्मात् दोषात् इत्यर्थः, तद्गुणसंविज्ञानो बहुव्रीहिः, स्वचेतः स्वं चेतः मनः कर्म रक्ष त्रायस्व। तनुरक्षणाय शरीररक्षार्थ काले क्षुन्निवृत्तये भिक्ष-स्व भोजनं याचस्व। रामेशवधूपदाब्जं रामेशस्य वध्वाः पर्वतवर्धनीदेव्याः पदाब्जं चरणारविन्दं वीक्षस्व पश्य। मुमुक्षु प्रति सम्बोधनम् । तव आत्म-प्रेप्सायाम् इमानि मुख्यानि कर्तव्यानि, मदमात्सर्यादेर्मनसो गोपनं, शरीरधार-णाय भिक्षा, पर्वतवर्धनीपाददर्शनं च ॥२॥
मधुराक्षेत्राधिदेवतां सुन्दरेश्वरसनाथां मीनाक्षी देवी स्तौति ॥
लोकस्व दूरीकृतभक्तशोकं हालास्यनाथेक्षणपुण्यपाकम् ॥ भीतिः सखे चेद्भवतः पवित्रं ज्योतिविशेषं जलचारिनेत्रम् ॥३॥
लोकस्वेति-- सखे! भवतः जन्मपर्यायात् भवशब्दात्तसिल, जन्मनः भीतिः भवति चेत् दूरीकृतभक्तशोकं दूरीकृतः भक्तानां शोक: येन तत् भक्त-लोकदुःखघ्नमित्यर्थः। हालास्यनाथेक्षणपुण्यपाकं हालास्यस्य मधुरापरनाम-धेयस्य क्षेत्रस्य नाथस्य सुन्दरेश्वरस्य ईक्षणस्य दृष्ट: पुण्यस्य पाकं परिपाकं फलभूतमिति यावत्, जलचारिनेत्रं जलचारिणौ मीनौ इव नेत्रे यस्य तत् मीनाकारचारुनेत्रमित्यर्थः । यद्वा जलचारिणः मीनस्य नेत्रं वीक्षितमिव नेत्र यस्य तत्। मीनवत् वीक्षितेनैव पोषयति निजान् जातानित्यर्थः । तत् ज्योतिविशेषं किञ्चन ज्योतिः लोकस्व पश्य ॥३॥
जम्बुकेश्वरक्षेत्रमूर्तिम् अखिलाण्डनायिकां वन्दते ॥
यो लोकते तामखिलाण्डराज्ञी- मज्ञानविध्वंसविधानविज्ञाम् ॥ अम्बां परां जीवनलिङ्गशक्ति भूयः स कायं न भवे लभेत ॥४॥
य इति- यः अखिलाण्डराज्ञीम् अखिलानामण्डानां ब्रह्माण्डानां राज्ञी-मीश्वरी, अज्ञानविध्वंसविधानविज्ञाम् अज्ञानस्य सर्वानर्थहेतोः विध्वंसस्य विना-शस्य विधानस्य विज्ञां वेत्त्री, जीवनलिङ्गशक्ति जीवनलिङ्गस्य जीवने जले स्थितं लिङ्गं जम्बुकेश्वराख्यं शिवलिङ्गं तस्य शक्ति परामम्बां लोकते पश्यति, सः भूयः पुनः भवे जन्मनि कायं देहं न लभेत न प्राप्नोति । तस्य नास्ति दक्षिणदेशे प्रसिद्धेषु पञ्चभूतक्षेत्रेषु जम्बुकेश्वरक्षेत्रम् पुनर्जन्मेति भावः । आप्यं प्राहुः ॥४॥
बिभत्सहस्रं च मुखानि शक्तो वक्तुं गुणान् कः कमलालयस्य ॥ जन्मापि यत्र प्रभवेज्जनानां मुक्त्य मुनीनामपि दुर्लभायै ॥५॥
बिभ्रदिति- कमलालयस्य कमलालयक्षेत्रस्य द्रविडभाषया ’तिरुवारूर्’ इति विश्रुतस्य चोलमण्डलस्थस्य, त्यागराजसनाथया त्रिपुरसुन्दर्या अधिष्ठित-स्य गुणान् धर्मादिपुरुषार्थसिद्धिदान् गुणान् वक्तुं वर्णयितुं कः सहस्रं मुखानि बिभ्रत् च सहस्रमुखः अपि को वा शक्तः ? आदिशेष इव सहस्रमुखोऽपि पुरुषो न प्रभुरित्यर्थः । यत्र क्षेत्रे जन्म जननमपि मुनीनां ध्याननिष्ठानाम् अपि दुर्लभायै मुक्त्यै प्रभवेत्। एतत्क्षेत्रे जननमपि मोक्षप्रदम् ॥५॥
व्याघ्राङघ्रिवाताशनपूजितस्य नाट्यस्थलीनायिकया शिवस्य । नेत्रावभाजा शिवकामया वो मित्राणि कामाः फलिनो भवन्तु ॥६॥
व्याघ्रति- मित्राणि, भोः सखायः ! व्याघ्राज्रिवाताशनपूजितस्य व्याघाङघ्रिणा व्याघ्रपादेन मुनिना वाताशनेन शेषेण च, पतञ्जले: शेषावतारः प्रसिद्धः। पतञ्जलिव्याघ्रपादाभ्यां पूजितस्य शिवस्य चिदम्बरनटराजप्रभोः नाट्यस्थलीनायिकया रङ्गस्थलाध्यक्षया नेत्रावभाजा दृष्टिपथं गतया शिव-कामया शिवकामेश्वर्या व: कामाः मनोरथाः फलिनः भवन्तु सिद्धयन्त्विति भावः। चिदम्बरक्षेत्राध्यक्षनटेश्वरप्रियायाः शिवकामेश्वर्याः दर्शनेनाभीष्टार्थ-सिद्धिरस्त्वित्यर्थः। पञ्चभूतक्षेत्रेषु चिदम्बरम् आकाशक्षेत्र प्रसिद्धम् ॥६॥
आलोकतेऽपीतकुचामयि त्वा-मालोलचित्तामरुणाचले यः॥ निर्वेदवान् पर्वसुधांशुवक्त्रे सर्वे वशे तस्य भवन्ति कामाः ॥७॥
आलोकते इति- अयि पर्वसुधांशुवक्त्रे पूर्णचन्द्रवदने अम्ब ! निर्वेदवान् विषयविद्वेषजन्या चित्तवृत्तिनिर्वेदः तद्वान्, यः पुमान् अरुणाचले तैजसलिङ्गे अरुणाचलेश्वरे आलोलचित्ताम् अनुरागवशात् तत्र आलोलं विलसच्चित्तं यस्याः ताम् अपीतकुचाम् एतदाख्यया ख्यातां त्वाम् आलोकते पश्यति, तस्य वशे सर्वे कामाः भवन्ति। अरुणाचलसनाथाया अपीतकुचाम्बिकायाः दर्शनात् सर्वे कामा: स्वाधीना भवन्तीत्यर्थः । कवेः स्वगुरुलाभोऽत्र क्षेत्रे, चिरकालवास-श्च ॥७॥
यः कुण्डलीपट्टणराजधानी- मालोकते कामपि कृत्तमस्ताम् ।। निस्सारमानन्दकथाविहीनं संसारमेतं स जहाति बुद्धया ॥८॥
य इति- यः कुण्डलीपट्टणराजधानी कुण्डलीपट्टणं कुण्डलीपुरं राजधानी मुख्यनगरी यस्याः तां कामपि कृत्तमस्तां छिन्नमस्तां देवीं रेणुकाख्याम् आलो-कते वीक्षते, स निस्सारं सारहीनं नीरसमिति यावत्, आनन्दकथाविहीनम् आनन्दकथया आनन्दवचसाऽपि हीनं वर्जितम् एतं संसारं जननमरणाख्यं बुद्ध्या जहाति त्यजति विरक्तो भवतीत्यर्थः। द्रविडभाषया ‘पडैवीडु’ इति प्रसिद्ध रेणुकाक्षेत्रं कुण्डलीपट्टणमुक्तम् । कवेः तपःस्थलेषु मुख्यमेकमिदं क्षेत्रं बोध्यम् ॥८॥
दृष्ट्वा वधूमादिपुरीश्वरस्य यो लोचनारोचकमाधुनोति ॥ तस्यान्तरङ्गं धुतसर्वसङ्गं भूयोभवारोचकमावृणोति ॥९॥
दृष्ट्वेति- आदिपुरीश्वरस्य आदिपुरी ’तिरुवोत्तियूर’ इति पावनं क्षेत्र तदीश्वरस्य वधूं देवीं त्रिपुरसुन्दरीं दृष्ट्वा वीक्ष्य यो जनः लोचनारोचकं लोचनयोः अक्ष्णोः अरोचकं दृश्यविषयद्वेषं जुगुप्साम् इति यावत्, आधुनोति निवारयति, दर्शं दर्शं पुनदर्शनीयमिदं पश्येयमिति यः सफलनेत्रो भवति, तस्य अन्तरङ्गम् अन्तःकरणं धुतसर्वसङ्गं धुतः नष्ट: सर्वेषु सङ्गो यस्य तत् सङ्ग-रहितं सत् भूयोभवारोचकं भूयोभवे पुनर्जन्मनि अरोचकं जुगुप्सामावृणोति आच्छादयति। त्रिपुरसुन्दरी दृष्टवतोऽन्तरङ्ग निस्सङ्गं भूत्वा, पुनर्जन्मनि तस्याः दर्शनं लभ्यते इति हेतोः तत्र जुगुप्सा न जायते इति तात्पर्यम् ॥९॥
काञ्ची रमण्याः कुरुतां गृहस्थे क्वाणैर्मुदं कामपि किङ्किणीनाम् ॥ काञ्ची भुवः पुण्यपुरी यतीन्द्र त्वामम्बिकानामरवैधिनोतु ॥१०॥
काञ्चीति- गृहस्थे जने रमण्याः स्वप्रेयस्याः काञ्ची मेखला ’स्त्रीकटयां मेखला काञ्ची सप्तकी रशना तथा। क्लीबे सारसनं च’ इत्यमरः। किङ्किणीनां क्षुद्रघण्टिकानां क्वाणैः नादैः कामपि मुदं प्रीतिं कुरुताम् । भोः यतीन्द्र, भुवः भूलोकस्य काञ्ची एतदाख्या मेखलास्थानीया वा पुण्यपुरी अम्बिकानामरवैः कामाक्षीति ख्याता क्षेत्राधिराज्ञी तस्याः अम्बिकायाः नाम-रवैः कामाक्षीनामध्वनिभिः त्वां धिनोतु प्रीणयतु। काञ्चीक्षेत्र दक्षिणे, तदध्यक्षा कामाक्षी। पञ्चभूतक्षेत्रेषु पृथिवीक्षेत्रमिदं प्राहुः ॥१०॥
एवं दक्षिणदेशस्थलानि अभिष्टुत्य आन्ध्रदेशस्थलं कालहस्तिक्षेत्रं गायति ॥
श्रीकालहस्तिस्थलदर्शनस्य कैलासवीक्षां पुनरुक्तिमाहुः॥ ज्ञानं प्रदातुं चरणाश्रितेभ्यो ज्ञानाम्बिका यत्र निबद्धदीक्षा ॥११॥
श्रीति- श्रीकालहस्तिस्थलदर्शनेन कैलासवीक्षां कैलासदर्शनं पुनरुक्ति-माहुः। क्षेत्रमाहात्म्यविद इत्यर्थः। कैलासनिविशेषं कालहस्तिक्षेत्रमिति यावत् । यत्र चरणाश्रितेभ्यः निजं चरणं शरणं गतेभ्यः पुण्यपुरुषेभ्यः ज्ञानं प्रदातुं ज्ञानाम्बिका एतन्नाम्ना विश्रुता क्षेत्रमूर्तिरम्बिका निबद्धदीक्षा धृतव्रता विजयते इति शेषः। इदं च वायुक्षेत्रं विश्रुतम् ॥११॥
श्रीशैलभृङ्गस्य विलोकनेन सङ्गेन हीनो भविता मनुष्यः ।। धामास्ति यत्र भमरालकायाः शान्तभ्रमं तद् भमराम्बिकायाः ॥१२॥
श्रीशैलेति- श्रीशैलशृङ्गस्य ’दत्तमण्डला’ख्ये आन्ध्रदेशभागहरे श्रीशैल-क्षेत्रं सुप्रसिद्धम्। तस्य शिखरस्य विलोकनेन दर्शनेन मनुष्यः सङ्गेन हीनो निस्सङ्गो भविता भवेदित्यर्थः, यत्र क्षेत्रे शान्तभ्रमं शान्तो विरतो भ्रमः यस्मिन् तत् भ्रान्तिविवर्जितम् इत्यर्थः, भ्रमरालकायाः भ्रमरा इव अलका यस्यास्तस्याः भ्रमराम्बिकायाः तत् प्रसिद्धम् धाम स्थानम् अस्ति । श्रीशैलेश-कान्ता देवी भ्रमराम्बिका क्षेत्रदेवता ॥१२॥
पश्चिमाब्धितीरे उत्तरकेरलभागस्थे गोकर्णक्षेत्रे विराजमानाया भद्रकर्णीति विख्यातायाः देव्याः महिमानमाह ॥
तीरे विपश्चिद्वर पश्चिमाआधे- गोकर्णगां लोकय भद्रकर्णीम् ॥ बुद्धि शिवां सर्वमनोरथानां सिद्धि च यद्यस्ति मनोऽधिगन्तुम् ॥१३॥
तीर इति-- विपश्चिद्वर पण्डितश्रेष्ठ, शिवां कल्याणी बुद्धिं सर्वमनो-रथानां सर्वेषां मनोरथानां कामानां सिद्धिं च अधिगन्तुं प्राप्तुं ते तव मनो मानसम् अस्ति यदि, पश्चिमाब्धेः पश्चिमसमुद्रस्य तीरे वेलायां गोकर्णगां गो-कर्णक्षेत्रे कृताधिष्ठानामित्यर्थः, भद्रकर्णीम् एतदाख्यया प्रथितां काली लोकय पश्य ॥१३॥
अथ महाराष्ट्रदेशगं करवीरक्षेत्रं प्रशंसति ॥
धाम्नि प्रसिद्ध करवीरनाम्नि पुण्याभिधानां कृतसन्निधानाम् ॥ देवी परां पश्यति यो विरक्तो मुक्तेः स पाणिग्रहणाय शक्तः ॥१४॥
धाम्नीति- करवीरनाम्नि करवीरः नाम यस्य तस्मिन् प्रसिद्ध धाम्नि स्थाने क्षेत्रे इति यावत्, कृतसन्निधानां सान्निध्यं कृतवतीं प्रसन्नामिति यावत्, पुण्याभिधानां पुण्यं पावनम् अभिधानं नाम यस्यास्तां, यद्वा पुण्या इति अभि-धानं यस्यास्तां परां देवीं यो विरक्तो वैराग्यवान् जनः पश्यति, स मुक्तेः स्त्रीलिङ्गस्वारस्यात् मुक्तिनाम्न्याः स्त्रियाः पाणिग्रहणाय परिणयाय शक्तः क्षमः मुक्तिकान्तारतये प्रभुरिति भावः ॥१४॥
ज्ञाने दृढा ते यदि काऽपि काङ्क्षा नानेहसं मित्र मुधा क्षिपेमम् ।। सेवस्व देवी तुलजापुरस्थां नैव स्वरूपादितरा किलेयम् ॥१५॥
ज्ञान इति-- मित्र सखे! ते तव ज्ञाने दृढा काङक्षा वाञ्छा भवति यदि, इमं गच्छन्तम् अनेहसं कालं मुधा वृथा न क्षिप, कालं व्यर्थ मा कृथाः। तुलजापुरस्थां देवीं सेवस्व। इयं स्वरूपात् आत्मस्वरूपात् इतरा न, किल ऐतिह्ये। सर्वस्याप्यात्मनः अनन्यभावेन राजमानां तुलजापुरस्थां देवीं भजेत्यर्थः ॥१५॥
अथ द्वे उत्कलदेशस्थले स्तूयते ॥
गोपालिनीवेषभृतं भजस्व लीलासखों तां भुवनेश्वरस्य । इष्टं हृदिस्यं तव हस्तगं स्यात् कष्टं च संसारभवं न भूयः ॥१६॥
गोपालिनीति- गोपालिनीवेषभृतं गाः पालयतीति गोपालिनी तस्याः वेषं बाह्यरूपं बिभर्तीति गोपालिनीवेषभृत् तां वल्लवीवेषामित्यर्थः, भुवनेश्व-रस्य उत्कलेषु प्रसिद्धस्य स्वनामक्षेत्रेश्वरस्य लीलासखीं विलासिनी देवी भज-स्व सेवस्व। भजसि चेत्, हृदिस्थं हृद्गतम् इष्टं तवाभीष्टं हस्तगं फलितम् स्यात् भवेत् ; संसारभवं संसारात् जन्म-मृतिरूपात् भ्रमात् भवः उद्भवो यस्य तत् कष्टं दुःखं च भूयः पुनः न भवेदिति शेषः ॥१६॥
आराध्यते वैतरणीतटस्था येनेयमम्बा विरजोऽभिधाना॥ आराधितं तेन समस्तमन्यत् सारो धरायामयमार्यगीतः ॥१७॥
आराध्यते इति- वैतरणीतटस्था वैतरणीनदीतीरकृतावासा विरजाः अभिधानं नाम यस्याः सा इयं विरजोदेवी येन आराध्यते तेन अन्यत् सम-स्तम् आराधितं भवेदिति शेषः । तस्याः सर्वात्मकत्वात्, सर्वस्मिन् तस्यां निहिते तस्याम् आराधितायां सर्वम् आराधितं भवति। अयम् आर्यगीतः पूज्यः विद्भिः गीतः धरायां भुवि सारः। अन्यत् सर्वं निस्सारं, विरजोदेवीभजन-मेव भुवि सर्वसारं गायन्ति विज्ञा इति भावः ॥१७॥
अथ वङ्गदेशस्थलमाह ॥
सङ्गीयमानं स्थलमार्यबृन्दै- वृन्दारकाणां सरितस्तटेऽस्ति । यः कालिकां पश्यति कालकेशों तत्रास्य कालादपि नैव भीतिः॥१८॥
सङ्गीयमानमिति आर्यबृन्दैः अभियुक्तसङ्घः सङ्गीयमानं सङ्कीर्त्य-मानं स्थलं क्षेत्रं बृन्दारकाणां देवानां सरितो नद्याः तटे तीरे गङ्गातीरे इत्यर्थः, अस्ति वर्तते। तत्र स्थले कालकेशी कालाः केशाः यस्याः तां कालिकां यः पश्यति वीक्षते अस्य तस्य कालीदर्शनभाग्यवतो जनस्य कालादपि मृत्योरपि, नैव भीतिः भवतीति शेषः, मृत्योरपि भीः नास्ति चेत् अन्यस्मात् का भीः ? दर्शनवानकुतोभयो भवति ॥१८॥
अथ कामरूपदेशस्थं कामरूपक्षेत्र कीर्तयति ॥
नीलाचलं सिद्धसमूहसेव्यं लीलानिकेतं प्रवदन्ति यस्याः॥ भद्रा परा काचन गुह्यमुद्रा कामेश्वरी सा भुवनस्य मूलम् ॥१९॥
नीलाचलमिति- सिद्धसमूहसेव्यं सिद्धजनसमुपास्यं नीलाचलम् एतन्नामकं क्षेत्रं यस्याः देव्याः लीलानिकेतं लीलावासं प्रवदन्ति बुधा इति शेषः। काचन गुह्यमुद्रा योनिमुद्रा रहस्यरूपा सा परा भद्रा शिवा कामेश्वरी भुवनस्य जगतो मूलं भवतीति शेषः। देव्येव सर्वस्य जगतः जनिस्थानमिति लक्षयितुं गुह्य-मुद्रेति तान्त्रिकैः कथ्यते ॥१९॥
अथ मगधदेशस्थलकीर्तनं भवति ॥
माङ्गल्यगौरीपददर्शनस्य कर्ता तु भूत्वा सुकृतस्य भर्ता ॥ आचारपूतैरधिगम्यमनचं स्थानं प्रपद्येत यतो न पातः॥२०॥
माङ्गल्येति- माङ्गल्यगौरीपददर्शनस्य माङ्गल्यमय्याः गौर्याः पादयोः दर्शनस्य कर्ता तु गौरीपददर्शनं कृतवांश्चेदित्यर्थः । स दर्शनकृत् सुकृतस्य पुण्यस्य भर्ता धारक: पोषकश्च भूत्वा आचारपूतैः सदाचारपवित्रः पुरुषः अधि-गम्यं लभ्यम् अग्रयं श्रेष्ठं स्थानं परमं पदं प्रपद्येत गच्छेत्, यतो यस्मात् स्थानान्न पातो भवति, अच्युत पदं भजते इति भावः ॥२०॥
अथोत्तरदेशस्थले द्वे आह ॥
बाराणसी शुभ्रगिरेरनून क्षेत्रं पवित्रं भुवनत्रयेऽपि ॥ अर्थ प्रजानां विधृतान्नपात्रा गौरी स्वयं यत्र विशालनेत्रा ॥२१॥
वाराणसीति- वाराणसी काशी भुवनत्रयेऽपि त्रैलोक्येऽपि पवित्रं पावनं शुभ्रगिरेः कैलासस्य अनूनं तत्सममित्यर्थः, क्षेत्रं भवति, यत्र क्षेत्रे गौरी विशाल- नेत्रा विशालाक्षी प्रजानामर्थे प्रजापोषणाय स्वयं विधृतान्नपात्रा विधृतम् अन्न-पूर्ण पात्रं यया सा अन्नपूर्णा सती विराजते ॥२१॥
वृन्दारकाराधितपादपद्मां नन्दामिमामिन्दुसमानवक्त्राम् ॥ आलोक्य विन्ध्याचलवासिनीं ना नालोचयेत्संसृतितो भयानि ॥२२॥
बृन्दारकैति- बृन्दारकाराधितपादपद्मा सुरजनार्चितचरणारविन्दाम् इन्दु-समानवक्त्रां चन्द्रसुन्दरमुखीं विन्ध्याचलवासिनीम् इमां नन्दां भगवतीम् आलोक्य ना नरः मनुजः संसृतितः संसारात् भयानि न आलोचयेत् न पश्येत् विन्ध्यगिरिकृतनिवासां नन्देति विश्रुतां मूर्ति प्राप्य तद्दर्शनात् संसृतिभीति-विमुक्तो भवति नर इति भावः ॥२२॥
अथ मालवदेशीय-अवन्तीपुरीश्वरी स्तौति ॥
आनन्ददेहामिह मुक्तिसंज्ञा नारों परीरब्धुमना मनुष्यः॥ दूतीं वृणोतु प्रमथेश्वरस्य कान्तामवन्तीपुरनायिकां ताम् ॥२३॥
आनन्द इति- आनन्द एव देहो यस्याः तां मुक्तिसंज्ञां मुक्तिः इति संज्ञा सङ्केतो नामेति यावत् यस्य : तां नारी स्त्रियम् इह भुवि परीरब्धुमनाः परीरब्धम् आलिङ्गितुम् मनः यस्य स मनुष्यः प्रमथेश्वरस्य भूतपतेः शिवस्य कान्तां रमणीम् अवन्तीपुरनायिकाम् अवन्तीपुराधिष्ठात्री देवी दूतीं विधेय-विशेषणं, वृणोतु। मुक्तिस्त्रियां रन्तुकामेन पुंसा तां सङ्गमयितुं भगवती दूती दौत्यकर्मरता भवतीति तात्पर्यम्। मुक्तिकामं प्रति मोक्षस्य सम्पाद-यित्रीति भावः ॥२३॥
अथ कैलासस्तुतिः ॥
यत्राचलच्छिन्द्रकृता सहाहं भात्रा मुहुः खेलितवान्वनेषु ॥ तं सिद्धदेवर्षिन्तं स्मरामि कैलासमावासगिरि जनन्याः॥२४॥
यत्रेति- यत्र कैलासे वनेषु अचलच्छिद्रकृता गिरिरन्ध्रकृता सुब्रह्मण्येन कनीयसा भ्रात्रा सह अहं गणपतिः मुहुः अभीक्ष्णं खेलितवान् क्रीडितवान् अस्मि, तं सिद्धदेवर्षिनुतं सिद्धपुरुषैः देवैः ऋषिभिश्च स्तुतं, जनन्याः पार्व-त्याः आवासगृह कैलासं गिरिं स्मरामि ध्यायामि ॥२४॥
स्तबकोपसंहारस्तुतिः ॥
पूर्णाऽम्बरे शीतकरेऽधिकारं बिभ्रत्यगेन्द्र धवले सलीला ॥ क्षेत्रेषु काश्यादिषु गुप्तशक्ति-गौरीन्द्रवजासु च सन्निधत्ताम् ॥२५॥
पूर्णाऽम्बर इति- अम्बरे आकाशे पूर्णा, धवले सिते अगेन्द्रे हिमाचले सलीला सक्रीडा, शीतकरे चन्द्र अधिकारं बिभ्रती, चन्द्रे स्वामाज्ञां लीलया प्रयुञ्जाना, ततोऽप्यधिकशोभा देवी गौरी, काश्यादिषु क्षेत्रेषु गुप्तशक्तिः गुप्ता गूढा शक्तिर्यस्याः सा, इन्द्रवज्रासु च इन्द्रवज्रावृत्तनिबद्धास्विमासु स्तुतिषु, चकारात् काश्यादिषु क्षेत्रेषु सन्निधत्ते इति सत्यम्, इमासु स्तुतिष्वपि सान्निध्यं करोतु। अनेन वीर्यवत्यो दृष्टफलकाश्च भवन्त्वित्युक्तम् ॥२५॥
पञ्चविंशः स्तबकः सव्याख्यः समाप्तः ॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.