ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




प्रथमः स्तबकः

अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् ॥
अनुगृह्णात्वनुकम्पा सुधार्द्रया हसितचन्द्रिकया ॥१॥

अथोमासहस्रस्यायमादिमः श्लोको भवति । अखिलेति- उमाऽस्मा-ननुगृह्णात्विति विशदं वाक्यम् । तमसा अज्ञानेन तापेन आध्यात्मिका-दित्रिविधदुःखानुभवेन च आकुलानभिभूतानविद्यातिरस्कृतान् तापत्रयाः-नस्माननुगृह्णात्विति शेषः। अनुग्रहसाधनीभूतम उमाहसितम् चन्द्रिकात्वेना-रोपितम् अनुकम्पासुधार्द्रयेति विशिनष्टि। अनुकम्पा दयैव सुधा तया आर्द्रया अत एव शीतलया, हसितचन्द्रिकया हसितमेव चन्द्रिका तया। यथा सुधा-र्दा चन्द्रिका तथा दयार्द्र हसितमित्यर्थः। चन्द्रिकया तमो ध्वान्तं नश्यति, तापश्च धर्मः शान्तो भवति। हसितप्रकाशेन अज्ञानहानिर्दुःखनिवृत्तिश्च । एवं तमस्तापहरत्वं हसितचन्द्रिकयोः समानो धर्मः श्लेषानुगृहीतः । प्राधा-न्येनानयोः साधयं तु आह्लादकत्वं, तच्च गूढं व्यङ्ग्यम्। चन्द्रिका-पक्षे अमृतकिरणशीतलसुखस्पर्शतया व्यञ्जितं, हसितपक्षे दयारूपामृतमय-त्वेन। तापार्तेरमृतं हि भेषजम्। चिदावरकं तमो जाड्यलक्षणम्, आनन्द-प्रतिबन्धकश्च तापः । अनयोरुभयोरुमाहसितानुग्रहान्निवृत्तिरिष्यते । सा च हसितस्य प्रकाशरूपचिन्मयत्वेन अमृतमयानन्दर्भितत्वेन च निर्वा-ह्येति व्यज्यते। चिदानन्दस्वरूपमुमाहसितं ज्ञानप्रकाशस्पर्शनास्माकं जाड्यम् अमृतानन्दप्रवेशेन दुःखं च ध्वंसयत्विति तात्पर्यम् ।।

अनुगृह्णातु, अनुग्रहश्च अनुसृत्य ग्रहणम्। उमायाः अस्माकं च अन्तरं यथा न स्यात्तथा अविच्छिन्नधारया हसितधोरणी करोतु व्यापार-मित्यर्थः। हसितचन्द्रिकया उमामुखचन्द्र आक्षिप्यते। स च नित्यपूर्ण-कलः, न चेत् सर्वत्र व्याप्य अस्माननुगम्य कथं गृह्णीयात् ?

अस्मान् अस्मदादीन् भूजुषः सर्वानित्यर्थः, नेदं प्रायिकाभिप्रायम् । विरलानां निर्धूततमस्तापानां सिद्धानामपि सिद्धत्वम् उमाहसितानुग्रहबलादेवेति बोध्यम्। अखिलजगन्मातृत्वम् उमाविशेषणम् अनुग्रहक्रियाप्रकर्षकम् ।

स्तावकलोकप्रतिनिधेः कविसार्वभौमस्य ग्रन्थस्यादौ उमाहसितनिर्वहणीय-लोकानुग्रहाशासनं कवेदृष्टिवैशाल्यं महासत्त्वतां च द्योतयति। कविगत-परदेवताविषयकरतिभावध्वनिश्चायम् । श्लेषोज्जीवितं रूपकमलङ्कारः तेना-नुप्राणितं वस्तु। आर्यावृत्तम् ॥१॥

निखिलेषु प्रवहन्ती निरुपाधिविमर्शयोगदृश्योमिम् ॥
अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥२॥

प्रथमश्लोकेन सामुदायिकमाङ्गल्यमाशासितम् । उमायाः अखिलजग-त्प्रसूत्वेन स्वरूपबृहत्त्वम् अनुमेयतया ज्ञापितम्। इह तु द्वितीये वन्द्यमानाम् उमां महाशक्तिस्वरूपिणीं विशिनष्टि ।

निखिलेष्विति-निखिलेषु सर्वेषु वस्तुषु इह अमुत्र वा प्रवहन्तीम् अवि-च्छेदेन यथा तरङ्गिणीतोयप्लावनेन क्षेत्राणि नदीमातृकाणि फलितानि भवन्ति, तथा सृष्टौ सकलानि वस्तूनि महाशक्तिमातृकाणि भवन्ति, सर्वेषां वस्तूनां जीवनाधारत्वेन क्षरन्तीं महाशक्ति वन्दे इति शेषः॥

निरुपाधिविमर्शयोगदृश्योमि निर्गत उपाधिरवच्छेदः देशकालादिः यस्मात्स विमर्श: आलोचनरूपः स एव योगो युक्तावस्थाविशेषः तस्मिन् दृश्याः सूक्ष्मदृग्गोचराः ऊर्मयस्तरङ्गाः यस्यास्तां, देशकालाद्यनवच्छिन्नाखण्ड-स्वरूपपर्यालोचनात्मको यो निविषयध्यानयोगः ध्यातृध्यानयोनिरन्तरधारा-त्वेन युक्तत्वविशिष्ट: तस्मिन् · योगे महाशक्त्याः सर्वत्र निरन्तरं क्षरन्त्या अपि अप्रत्यक्षायास्तरङ्गाः प्रत्यक्षा भवन्तीत्यर्थः । ऊर्मीणामेव योगचक्षु-लभ्यत्वं न तूर्मिमत्याः पूर्णाया महाशक्तेः। ऊर्मयश्च भङ्गाः प्रवाहरूपिण्या महाशक्तेः चलनात्मकाल्पांशद्योतकाः । निविषयध्याने उन्मीलितचक्षुषः शक्तिभङ्गानां गोचरीकृतत्वात्, सत्यदृष्टौ महाशक्तेः सद्भावः प्रतिपाद्य-त्वेन गम्यः। अनेन परमार्थदृष्टौ शक्तेरसद्भावं प्रतिपादयतामेकेषां मतं कवेर्नाभिमतमिति सिद्धम्। आह चान्यत्र ’न तेऽस्ति भावता न शक्ति-रूपिणी हि विद्यसे’ इति ।

अजराम् अविकार्यत्वप्रतिपादनपरमिदं विशेषणं सततपरिचलत्प्रवाह-रूपिण्याः शक्तेर्व्ययशङ्का मा भूदिति च, अक्षय्यामित्यर्थः । अजां काल-त्रयसद्भावतया जन्मराहित्यं कथितं, नित्यामित्यर्थः। अमेयां मातुं न शक्याम् ‘इयद् बहुलगोलं जगल्लघु दधाना’ इत्यन्यत्रापि स्तूयमानाया महा-शक्तेरियत्तापरिच्छेदो नास्तीत्यर्थः । अत एव निरुपाधीति विशेषणेन महा-शक्तेः केषाञ्चिदंशविशेषाणामेव दृश्यत्वमुक्तम्, न तु महाशक्तिः साकल्येनाव-गन्तुं शक्येति। कामपि अनिर्वाच्यां निखिलवस्तुजीवनाधारत्वेऽप्यंशेष्वेव तस्या योगचक्षुषा गृह्यमाणत्वात्। जरा-जन्मरहितां मानातीतां महतीं शक्ति वन्दे स्तौमि ॥

एवं महतोऽस्य स्तोत्रकाव्यस्यादौ आयेन श्लोकेन लोकानुग्रहाभ्यर्थनं पुरस्कृत्य द्वितीयेन स्वीयध्यानपरिचितस्वरूपव्यापारां महाशक्तिम् अभिष्टुत्य च कविनैवं श्लोकद्वयन शिष्टसम्मतं ग्रन्थारम्भमङ्गलमाचरितम् ॥

चतु:स्तबकेऽस्मिन्नाद्यशतके परदेवतामुमामधिकृत्य निगमागमेतिहासपुराणा-धारान् समयभेदानुदाहरन् तत्र तत्र यावदवकाशं तेषां गूढार्थान् प्रकाशयन्, उमास्वरूपस्य विवरणं तत्साक्षात्कारपथावतीर्णानुभवविशेषान् व्याचष्टे। तदिह प्रथमे स्तबके परार्धशब्दवाच्यस्य सत्य-तपो-जनाभिधस्य नित्यत्रैलोक्यस्य तत्त्व-कथनेन परदेवतास्वरूपं प्रस्तूयते, तदधिकृत्य प्रवृत्तानां कथानां तात्पर्य च ॥२॥

सा तत्त्वतः समन्ता त्सत्यस्य विभोस्तता तपश्शक्तिः॥
लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥३॥

सा तत्त्वत इति-या महाशक्ति: प्रक्रान्ता सा तत्त्वतः वस्तुतः विचार-दृष्टया परिशीलनेनेत्यर्थः । सत्यस्य विभोः पुरुषस्य ईश्वरस्य समन्तात् परितः सर्वत्र तता । व्याप्ता तपश्शक्तिः भवतीत्यध्याहार्यम् । लीलामहिलावपुषा लीलया महिलायाः स्त्रियाः वपुषा शरीरेण हैमवती हिमवतः पुत्री भवति, तनुषु अस्मदादीनां शरीरेषु कुण्डलिनीशक्तिः योगिनां विदिता तन्त्रशास्त्रेषु प्रसिद्धा। महाशक्तेरत्र त्रैविध्येनावस्थानमुक्तम् । अद्वितीयस्यैकस्य सत्या-त्मन ईश्वरस्य भास्करस्य प्रभेव निसर्गसिद्धा सर्वव्यापिनी तपश्शक्तिर्महाशक्ते-राद्यं मूलं स्वरूपम्। अनुग्रहार्थं लीलाविग्रहस्वीकारात् हैमवतीरूपं द्वितीयम् । अत्र देव्याः प्रत्येकव्यक्तित्वम् अनङगीकुर्वाणान् प्रति उत्तरत्राह । ’एकान्तविदेहौ तौ चेदतिसूक्ष्मौ। लीलातनुबन्धाशक्तावभिधेयौ ॥’ इति । अनुग्रहार्थं लीलया शरीरस्वीकारासामर्थ्यं कथं सर्वशक्ते पुरुषे परस्यां शक्तौ वा आरो-प्येत? एवमध्यण्डं अधिदैवतं चोक्ते, अध्यात्मं तु कुण्डलिनी तृतीयं रूपम् । उमाया हैमवतीनामग्रहणस्वारस्यं तु ’भासुरहेमाभरणां’ ’तस्य प्रथमः साक्षी’ इति श्लोकद्वयव्याख्याने प्रपञ्चयिष्यामः ॥३॥

परमः पुरुषो नाभि र्लोकानां सत्य उच्यते लोकः ॥
परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥४॥

अथ परमपुरुषस्य तच्छक्तेश्च सत्य-तपो-जनलोकात्मनावस्थितत्वप्रकारं निरूपयति द्वाभ्यां श्लोकाभ्याम् ॥

परम इति–परमः पुरुषो लोकानां नाभिः सत्यो लोक उच्यते। उत्त-रार्धं क्रमान्वयम्। सत्यो विभुरिति पूर्वश्लोकोक्त: परमः पुरुष उच्यते। स एव सत्यो लोकश्च आख्यातः । सत्यस्वरूपस्य तस्य अखण्डत्व-बृहत्त्वद्योत-नाय सर्वेषां लोकानाम् आद्यत्वज्ञापनाय च स लोकशब्दवाच्य इति ग्राह्यम् । यथा रथचक्रस्य नाभौ मध्ये मूळस्थानभूते सर्वे अराः अर्पिताः तथा परम-पुरुषे सत्ये लोके सर्वे लोकाः प्रतिष्ठिता इत्यर्थः । वृत्तस्य मूलं मध्यमिव लोकजालस्य मूल केन्द्रं सत्यलोकापरपर्यायः परमपुरुष इति विशदं भवति । तं परितः तस्य समन्तात् सरन्ती या वितता भूत्वा प्रसरन्ती राजते सा शक्तिः तपोलोक उच्यते । प्राणिनः प्राण इव परमपुरुषात् तच्छक्तिर्न वियो-सत्यस्य शक्तस्य सूक्ष्मा शक्तिस्तपश्शब्दवाच्या निसर्गसिद्धा। पुरु-षस्य तच्छक्तेश्च सत्य-तपो-लोकात्मकत्वमुक्त्वा जनलोकस्वरूपं विवृणोति ॥४॥

अन्तगूढार्थानां पुरुषाग्नेधूमकल्प उद्गारः॥
शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥५॥

अन्तरिति- पुरुषाग्नेः पुरुष एवाग्निस्तस्माद् धूमकल्पः ईषदसमाप्तो धूमः धूमोपम इत्यर्थः। अन्तगूढार्थानां परमपुरुषस्यान्तः गूढानाम् अस्पष्टा-नाम् अव्यक्तावस्थानां सृज्यमानजगज्जालबीजभूतानां नानाविधजगज्जीवोपाधि-भूतानां भूतानां भवतां भव्यानां चोपादानतां दधतां परमपुरुषादाविष्क्रिय-माणानां पदार्थानाम् उद्गारो निर्गमः शक्तिज्वालाः परितः परमपुरुष -तपो-ज्वालानां समन्तात् प्रान्तेषु पर्यन्तेषु जनो लोकोऽभवत् स्थित इत्यर्थः । ज्वलनाद् धूमो निर्गत्य तज्ज्वालाः परित आवृणोति, तथा सत्यलोकात् परम-पुरुषात् व्यञ्जिष्यमाणाः गूढार्थाः निर्गम्य तदीयशक्तितरङ्गान् परितः प्रदे-शेषु सरन्तीति भावः। एष एव जनलोक उच्यते यः सत्यलोकात् तपोलोक-द्वारा सर्वलोकोपादानत्वेनावस्थितः। अत्रेदमवधेयम् । इदं जन-तपः-सत्याख्यं लोकत्रयम् अवियोज्यं नित्यं च भवति । परमस्य सर्वशक्तेनिसर्गसिद्धत्वात्, तस्याश्च परमपुरुषान्तगूढार्थाविष्कारकस्वभावाच्च। अत एव लोकसंस्थान-वेदिनः सप्तलोकवादिनः सत्यादिलोकत्रयं नित्यमकृतकमाहुः । पराशरोऽप्याह ’जनस्तपस्तथा सत्यमिति चाकृतकत्रयम्’ इति । तथा च त्रैविध्येन वेदान्तिभिः प्रतिपाद्यमानं सच्चिदानन्दलक्षणम् एकमेवाद्वितीयं परं वस्तु सर्गसम्बन्धापेक्षया लोकत्रयात्मनाऽवस्थाय जयतीति कवेराशयः । एवं च सदेव सत्यं, चिदेव तपश्शक्तिरूपा, जनश्चानन्द इति ग्राह्यम्। सन् परमः पुरुष एव सर्गस्य उपादानं निमित्तं चेति अद्वैतिसम्मतं तत्त्वमभ्युपगम्य तस्य त्रिरूपत्वात् तप-श्शक्तिरूपचिदात्मना निमित्तकारणत्वं, जनयितृत्वधर्मकानन्दात्मना उपादान-कारणत्वं च एकस्यैव परस्योक्तम् इति ज्ञेयम्। पुरुषस्य प्राण इव तपः क्रियाकारकं, शरीरमिव आनन्दश्च स्वरूपं भवतीत्येतावताऽलम् ॥५॥

अप्तिसूक्ष्मधूमकल्पं लोकं ततमाख्ययाऽन्यया नाकम् ॥
एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥६॥

अथ त्रिभिः श्लोकैः तपो-जनलोकयोः सम्बन्धं विवृण्वन् तयोर्नामभेदेन व्यवहारं च निर्दिशति ॥

अतिसूक्ष्मेति-अतिसूक्ष्मधूमकल्पम् अत्यन्तसूक्ष्मतया धूमाकारमिव स्थितम् अन्यया आ-ख्यया नाकं ततम् एतं लोकं नाक: स्वर्ग इति नामान्तरेणाभिहितम् इमं जनलोकं ततोऽपि सूक्ष्मा परा शक्तिः अन्तरत: व्याप्ता धूमकल्पात् जनलोकादपि सूक्ष्मतरा परा शक्ति: तस्यान्तरवस्थाय तमखिलं जनलोकं अन्तप्यि राजत इत्यर्थः । धूमस्यान्तालेव जनस्यान्तस्तप इति तस्याः सूक्ष्मत्वं गरीयस्त्वरूपं ज्ञेयम् । नाकः स्वर्गवाची, न विद्यते अकम् असुखं दुःखमस्मिन्निति नाकस्य निर्वचन-माहुः। अत एव जनलोकमानन्दमयं केषाञ्चिद् भाषया नाकं प्राहुः ॥६॥

धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः॥
तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥७॥

केचन धूमान्तरस्थां शक्तिज्वालां तपश्शक्तिकलां स्वर्गमाहुरिति मतभेद-माह धूमान्तरेत्यादिना- धूमान्तरोष्मकल्पा धूमस्यान्तरे यथा ऊष्मा धर्मः तथा उद्गीर्यमाणस्य गूढार्थसङ्घातस्य जनलोकस्य अन्तः शुद्धज्वालोपमा या च शक्तिः तां दिवं स्वर्गमाहुरेके केचन, परमं व्योमापरे प्राहुः । प्रथमम् एकैव शक्तिस्तपोरूपा परस्य पुरुषस्योक्ता, अनन्तरं सा पुरुषं परितः सरन्ती-त्युदिता, ततश्च तस्याः परितः प्रान्तेषु पुरुषान्तगूढार्थमयोद्गारो जनलोको भवतीत्युक्तम्। इह तु जनलोकान्तः इह तु जनलोकान्तःप्रचाराम् अत एव सोपाधिका शक्ति निरुपाधेर्मूलशक्तेर्विविच्य विसृज्यमानगूढार्थरूपजनलोकोपाधिका शक्ति स्वर्गमाहु-रेके, अपरे तु इमामेव परमं व्योमेति कथयन्तीत्युक्तम्। परमं व्योम तु ऋग्वेदप्रसिद्ध ’ऋचो अक्षरे परमे व्योमन्’ इत्यादौ, तथोपनिषत्सु च। तैत्ति-रीयकाश्चामनन्ति ’यो वेद निहितं गुहायां परमे व्योमन्’ इति । तस्मादिदमव-गतम्। एके सृष्टयुपादानद्रव्यमयं जनलोकाख्यं परमपुरुषान्निर्गच्छदर्थजालं स्वर्गमाहुः। केचित्तु तदुपहितज्वालोपमशक्ति स्वर्गमाहुः; तां च पुनः पर-माकाशपदवाच्यां मन्यन्ते ॥७॥

उद्गीर्णधूमकल्पो योऽयमपारो महाजनो लोकः॥
व्योमान्तरिक्षगगन- प्रभृतिभिरिभिधाभिराहुस्तम् ॥८॥

यदि जनलोकोपाधिकायाः शक्तेः परमव्योमपदवाच्यत्वमुच्यते, तर्हि जन-लोकस्य व्योमपदवाच्यत्वं चेत्यनयोर्भेदमाह ॥

उद्गीर्णेति- उद्गीर्णधूमकल्पः उद्गीर्णो धूम इवेत्यर्थः । यो जनो लोक: अयमपारो निरवधिः महान् बृहत्त्वलक्षितः। तं जनलोकं ब्योम-अन्तरिक्ष-गगनप्रभृतिभिः अभिधाभिः नामभिरित्यर्थः आहुः। जनलोकस्या-काशपदवाच्यत्वे सिद्धे तस्य आनन्दस्वरूपत्वेन प्रतिपाद्यमानत्वात् आनन्द एवा-काश इत्युक्तं भवति। श्रूयते च ’यदेष आकाश आनन्दो न स्यात्’ इति ’आकाशशरीरं ब्रह्म’ ’आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते’ इत्यादि । अत एव छन्दोगश्रुतिः आकाशस्य अनुत्पन्नत्वमाह ब्रह्मशरीरत्वात्। तस्यैव सर्वजगदुपादानत्वं चेह बोध्यम्। टुनदि समृद्धौ इति समृद्धयर्थकानन्दतेर्धातो—निष्पन्नस्य आनन्दशब्दस्य समृद्धिमत्त्वं वाच्यम्, एवं पूर्णत्वमुक्तं भवति । आकाशश्च आङ समन्तात् काशते इति व्युत्पत्त्या सर्वत्र प्रकाशमानतया विभुः पूर्णः समृद्ध इति गम्यते। व्योम्नः जनलोकस्य तदुपहितशक्तेः परमव्योम्न-श्चैष भेदः। एकत्र आकाशे शक्तिप्रकाशो गूढः, अन्यत्र परमाकाशे स्पष्टः । किं च आकाशः केवलदेशवाचकत्वेन न ग्राह्यः, तस्य सर्वमूलकारणावस्थित-परमपुरुषशरीरभूतदिव्यद्रव्यत्वात् ॥८॥

एवं तपोजनलोकयोः सृज्यमानलोकानां क्रमशः निमित्तोपादानभूतयोः शक्त्याकाशयोविवेकमाख्याय प्रसङ्गवशात् सर्गपद्धति निरूपयन् परमात् पुरु-षात् पृथक् स्फुरन्नात्मा जनलोकात् सर्गमनुगृह्णातीत्याह ।

प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन ॥
परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥९॥

प्रान्तेष्विति- शक्तेः प्रान्तेषु उक्तलक्षणायाः शक्तेर्व्वलन्त्याः उपान्तेषु तीरेषु तपोलोक-जनलोकयोः सन्धिप्रदेशेष्वित्यर्थः। वियदुपाधिसङ्गेन जन-लोकाकाशोपाधिसम्बन्धेन कोऽपि पृथगात्मा परमात्मनो विभक्तः ईदृशोऽसा-विति निश्चेतुमशक्यः परमपुरुषात् अव्यक्तात् पृथक् व्यक्तिमापन्नः स्वयमभि-मन्ता विनिष्पेदे स्वाभिमानवान् स्फूर्तो जातः। परमः पुरुष एव परमात्मा, स सर्वस्मात् परस्तादव्यक्तः सत्यः, तस्मादात्मव्यक्तिः शक्तिप्रान्तेषु आकाशो-पाधिसम्पर्कात् स्वाभिमानितया सृष्टेरध्यक्षोऽभवदिति भावः । अभिमानश्च अभितः स्वीयत्वेनावबोधनं, अहमस्मि इदं मदीयमिति ज्ञानं, इदमेव सर्गमूलं अभिमानी स्फुरन्नात्मा परमात्मनः पृथग्व्यक्तिरित्यभिप्रायः। पर-मात्मा सर्वस्यापि मूलपुरुषः, तस्य पृथगात्मा व्यक्तिस्तु साक्षादध्यक्षत्वं सर्ग-स्य धत्ते इति ज्ञेयम् ॥९॥

अथ यत्र आकाशस्वरूपे जनलोके शक्तिज्वालया स्फुरन्नात्मा व्यक्तः स एव दक्ष इति प्रोक्तः, तच्छक्तिर्दाक्षायणीति च त्रिभिः श्लोकराह ।।

भवति । दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः॥
तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥१०॥

दक्ष इति- त्विषामचिषामेष पन्थाः मार्गः ज्वलिताकाशो दक्षः परोक्षम् अप्रत्यक्षं गूढभाषयेत्यर्थः। उदितः तद्गर्भे ज्वलिताकाशदक्षात्मनो गर्भ उदरे अन्तरित्यर्थः लब्धात्मा प्राप्तस्वरूपा तथाविधोपहितसत्ताका दाक्षायणी शक्तिः दक्षजातत्वाभिप्रायेण कथिता। अथ कथमिदं दक्षस्य स्वरूपं कविः स्वकपोलकल्पितं प्राहेति मा भूद्विचिकित्सा। परोक्षमित्युक्तम् । गूढभाषया तत्त्वान्याहुर्वेदे मन्त्राः, ’परोक्षप्रिया देवा’ इति ब्राह्मणं च भवति। मन्त्रेष्वेव दृश्यते ’निण्या वचांसि’ इति। निण्यानि अन्तहितानि गूढानीत्यर्थः । ’प्रजा-पतिरात्मनो वपामुदक्खिदत्’ इति तैत्तिरीयश्रुति: शबरस्वामिभिः जैमिनीय-सूत्रभाष्ये एवं व्याख्याता “नित्यः कश्चिदर्थः प्रजापति: स्यात् वायुराकाश आदित्यो वा , ‘स आत्मनो वपामुदक्खिदत्’ इति वृष्टि वायुं रश्मि वा, ’तामग्नौ प्रागृह्णात्’ इति वैद्युते आचिषे लौकिके वा, ’अजः’ इत्यन्नं बीजं वीरुद्वा, ’तमालभ्य’ तमुपयुज्य प्रजाः पशूनाप्नोति इति गौणाः शब्दाः” (मी. भा. १-२-१)। अथ प्रकृतमनुसरामः । दक्षमधिकृत्य क्वैतत् परोक्षवचनं मन्त्रेषु दृश्यते ? ’अदितेर्दक्षो अजायत दक्षाद्वदिति: परि’ इति । इदं चोत्त-रत्र प्रपञ्च्यते ॥१०॥

सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः ॥
ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥११॥

अथ शक्तेर्दाक्षायण्याः प्रादुर्भावमुपपादयति ॥ सत्या इति— ईशाभिमान-मय्याः मयट प्राचुर्ये परमपुरुषस्वीयाभिमानप्रचुरायाः प्रागपि सत्याः दक्षा-ख्यपृथगात्मस्फूर्तेः पूर्वमपि स्थितायाः शक्तेः पृथगभिमानित्वनिष्पत्त्या व्यक्ता-त्माभिमानवत्त्वाद्धतोरित्यर्थः। तद्गर्भे लब्धात्मा’ इत्युक्तत्वात्, स प्रथमः प्रादुर्भाव: अभिव्यक्तिविशेषः कीर्त्यते। ईशाभिमानमय्याः अजायाः शक्तेः पृथगभिमानितया जन्मोपपद्यत इति भावः । सतीनामधेयां दाक्षायणीमाहुः पुराणानि । एवमपि सतीशब्दप्रयोगोऽत्र स्वरसतामापादयति ॥

एवं जनन्या एव सुतात्वोपपत्ति लाक्षणिकभाषया वेद आह ॥११।।

आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः ॥
अदितेर्दक्षो दक्षा ददितिरिति श्रुतिरबाधैवम् ॥१२॥

आकाशस्येति- वस्तुत: याथार्थ्यन प्रसूः जनयित्री दक्षात्मन आका-शस्यापीति शेषः, शक्ति: एवं लक्षणया वृत्त्या, प्रसुवः सुतात्वे प्रतिपाद्य-माने मुख्यार्थबाधाल्लक्षणा वृत्तिः, आकाशस्य सुता भवतीत्यध्याहार्यम् । एवम् अनेन प्रकारेण अदितेर्दक्षो जातः, दक्षाददिति: जातेति श्रुतिः मन्त्रदृष्टि: अबाधा उपपन्ना भवति । ’अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥ अदितियजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृत-बन्धवः’ (ऋ. १०, ७२-४, ५)॥ अथ भाषाभेदेन पुरुषं शक्ति च व्यवहरन्ति पण्डिता इत्याह ॥१२॥

जगतां माता-पितरौ सती-भवौ केऽपि पण्डिताः प्राहुः॥
अदिति-प्रजापती ता- वपरेषां भाषया विदुषाम् ॥१३॥

जगतामिति- जगतां माता-पितरौ उद्देश्यौ सती-भवौ विधेयौ सती दाक्षायणी, भवः शिवश्च तौ केऽपि एके पण्डिताः प्राहुः तौ जगन्माता-पितरौ अपरेषां विदुषां भाषया अदिति-प्रजापती अदितिश्च देवमाता, प्रजा-पतिश्च कश्यपः तौ भवत इति शेषः । एतच्च पुराणमतम् ॥१३॥

अथ लीलार्थं स्त्री-पुरुषाकारतां स्वीकृतवन्तौ सर्वशक्तौ शक्तः पुरुषस्त-च्छक्तिश्चेत्याह ।।

दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय ॥
दिव्यवनिताकृति सा बभार माता च भुवनानाम् ॥१४॥

ईश इति– ईशे ईश्वरे पुरुष लीलार्थं दिव्यपुमाकृतिं बिभ्रति दिव्यं धुलोकोचितं पुरुषरूपं न त्वस्मदादीनां परिचितं चक्षुर्गोचरं भावनागम्यं वा धारयमाणे सति, सा च भुवनानां माता दिव्यवनिताकृति बभार । स्पष्टम् ॥१४॥

तामेवोमामाहुरिति बहुशोभामित्यौपनिषदभाषां प्रयुञ्जानस्तां विशिनष्टि ।

भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् ॥
मूर्ति पावनकीति तां हैमवतीमुमामाहुः ॥१५॥

भासुरेति- ताम् भासुरहेमाभरणां जाज्वल्यमानसौवर्णालङ्काराम् ईश्वर-प्रमोदकलां ईश्वरानन्दाविर्भूतरसिकताविष्कारकरतिरहस्यविद्यारूपां मूर्ति सविग्रहां पावनकीति विमलश्लोकां हैमवतीम् उमामाहुः । स्पष्टमन्यत् । उमापदस्य निर्वचनभेद उत्तरत्र कथ्यते । इह तु अवतेरुमाशब्दनिष्पत्तिरुप-पन्ना शब्दशास्त्रसम्मता। वेदेऽपि ’ओमासो’ रक्षका देवा इति अवतेर्धातो-रेव निष्पद्यते। हैमवती यद्यपि हिमवतोऽपत्यं स्त्रीति साध्वेव निष्पादनं, तथापि प्रकृतमनुसृत्य हैमं सौवर्ण ज्योतिरस्याः अस्तीति वक्तव्यम् । कथम् ? उच्यते। ग्रन्थकृत् प्रथमं ऋग्वेदाद् दक्षादितिप्रादुर्भावमुल्लिख्य ततस्तलवकार-शाखिभिराम्नाताम् उमाकथां स्मारयति। अग्निवाय्वोः किं तद्यक्षमित्यज्ञात्वैव निवृत्तयोः, इन्द्रो ज्ञातुं प्रवृत्तः, तत्तु यक्षरूपम् अन्तर्दधे। तदा तस्मिन्नेवाकाशे स उमां स्त्रियमपश्यत् । सा तं ब्रह्मेत्यवोचत्। तथा च केनोपनिषदि ’स (इन्द्रः) तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां हो-वाच किं तद्यक्षमिति । सा ब्रह्मेति होवाच ॥’ अत एव हैमवतीमुमां बहु-प्रयुक्तम्। विशदतरं भवतीदमुत्तरश्लोके ॥१५॥

शोभामिति प्रयुक्तम् । तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये ॥
वपुषः किलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥१६॥

तस्येति- भुवनजुषां जगति प्राप्तस्थितिकानां नयनशालिनां चक्षु-ष्मतां मध्ये निरुपमपुण्यः असमानः सुकृती निलिम्पपतिः देवराडिन्द्रः आदिसुदृशः आदिस्त्रियाः तस्य वपुषः प्रागुक्तस्य बहुशोभस्य देदीप्यमान-विग्रहस्य प्रथमः साक्षी अभूदित्यध्याहार्यम् । इन्द्र एव तां प्रथमं दृष्टवा-निति केनोपनिषद्वाक्यबलेनोक्तम् ॥१६॥

अथ तामेव स्वाभिमतामुमामाह ॥

पल्लवमृदु वेदिगत- ज्वलनपवित्रं महाघमणिकान्तम् ॥
नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥१७॥

पल्लवमृद्विति- शिवसुदृशो वपुः स्मरामि स्पष्टं वाक्यम्। अन्यानि उमावपुषो विशेषणानि सुबोधानि । मार्दव-पावनत्व-कमनीयता-प्रसन्नतानां क्रमशः किसलयादिगतैर्गुणविशेषैः सादृश्यं निर्वर्ण्य तद्वपुः स्मरामीत्याह। योग-बलात्स्वभावसिद्धसामर्थ्याद्वा जन्मान्तरे लोकान्तरे वा दृष्टपरिचितम् उमा-वपुः कविः स्मरति ॥१७॥

अथेमामेवोमां पुराणेषु प्रसिद्धां हिमाचलपुत्रीं गौरीं वदन्त्येक इत्याह ।

केचन गौरी देवी शीतार्देवतात्मनो जाताम् ॥
कथयन्ति स्त्रियमुत्तम- लावण्यास्वादितो गण्याम् ॥१८॥

केचनेति- शीताद्रेः देवतात्मनः जातां गौरी देवीम् उत्तमलावण्यासु उत्तम प्रशस्तं लावण्यं रामणीयकं यासां तासु लोकोत्तरसुन्दरीषु आदितः आदौ सार्वविभक्तिकस्तसिल गण्यां गणयितुं योग्यां, रसोत्तरसौन्दर्यसम्पन्नानाम् अग्रे माननीयां स्त्रियं केचन कथयन्ति ॥१८॥

अचलपुत्री गौरीति भक्तगीता कथा सत्याऽप्यस्तु, तस्या मूर्तर्याथार्थ्य तु तेजोंशविशेष इत्याह ॥

सत्यव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तः ॥
तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोशम् ॥१९॥

सत्यवेति- यद्यपि सेयं कथा सत्यैव भवतु, तथाऽपि भक्तः प्रभा-षितां ताम् आदिसुदृशो मूर्ति कमपि तेजोंशं जानीयात् इति योजना ॥१९॥

अथ कथं सा पार्वती वेदे तेजोंश उच्यत इत्याह ।।

मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा ॥
प्रादुर्भवति गभीर- ध्वनिरविषह्या यतः शक्तिः ॥२०॥

मन्यन्त इति- केऽपि केचन निगूढया रहस्यया वाचा वेद-भाषया उक्तं घनं मेघ पर्वतं गिरि मन्यन्ते। निरुक्ते निघण्टौ त्रिंशन्मेघनामसु पर्वतपदं नवमं पठितम् । यतः यस्मान्मघात् गभीरध्वनिः गम्भीरघोषा अविषह्या दुर्भरा शक्तिः विद्युद्रूपा प्रादुर्भवति प्रकाशतां गच्छति ॥२०॥

अथ दक्षयागपुराणकथांशस्य उपपत्ति गूढार्थविवरणेन द्वाभ्यां प्रदर्शयति ।

आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् ॥
नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥२१॥

आकाश इति- दक्षस्य प्रजापतेर्यजने शिवो नाहूतः, अन्येभ्यो देवेभ्यो हवींषि दत्तानि । रुद्रः क्रुद्धोऽभूत्। पितुर्यागे सन्निहिता दाक्षायणी तत्र नष्टाऽभवत्। अयं कथासारः । आकाशः सर्वोपादानद्रव्यभूतः गोलेभ्यः खगोलेभ्यः ज्योतिर्मण्डलेभ्यः निजरजश्चयात् अन्नं वितरति ईशाय न इति यत् उक्तप्रकाराकाशगतरेणुसमूहात् आहारं जनन-जीवन-पोषणसाधनीभूतं द्रव्यं ददातीति यत् सा संसारे दक्षयागकथा उत्पत्ति-विनाशस्वभावे जगति दक्षप्रजापतियजनवृत्तान्त इति भावः । परस्यात्मनो विभक्तः पृथगात्मा यत्र स्फूर्तः स आकाशो दक्ष इति पूर्वमेवोक्तम्। तस्मादेव समस्तजगदाधायक-सामग्री विसृष्टा भवति, सा च सर्गाय दीयते, न तु ईश्वराय परस्मै पुरुषाय । ततश्च दक्षाख्याकाशोदरस्था शक्तिः व्यापिन्यपि अन्तर्निगूढत्वात् बाह्यदृष्ट्य-पेक्षया नष्टेति तत्राप्युपपत्ति दर्शयति व्याप्ताऽपीत्यादिना ॥२१॥

व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्धयपेक्षया नष्टा ॥
शक्तिर्यागे तस्मि नवसानं तदुदितं सत्याः ॥२२॥

व्याप्ताऽपीति- यत् यस्मात् व्याप्ताऽपि शक्तिः बहिरीक्षकबुद्धय-पेक्षया नष्टा, तत् तस्मात् तस्मिन् दक्षयागे सत्याः सतीदेव्याः दाक्षा-यण्याः अवसानं निर्याणं उदितम् ॥२२॥

वेदभाषायां पार्वतीशब्दार्थमाह ।।

पर्वतनाम्नो वैदिक भाषायां यदियमतिबला शक्तिः ॥
घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥२३॥

पर्वतेति- यत् यस्मात् इयमतिबला शक्ति: वैदिकभाषायां पर्वत-नाम्नो पर्वताभिधानात् घनत: मेघात् व्यक्ता स्पष्टा भवति, तत् तस्मात् पार्वतीजननम् अभिहितं कथितम्। वैद्युतज्योतिःस्वरूपिणीत्याशयः ॥२३॥

अस्त्वेव सर्वं गूढार्थविवरणम्; तत्तु हिमाचले भूजुषामनुग्रहाय शिव-शक्तिभ्यां कृतं सान्निध्यं न बाधत इत्याह तेजोंश इत्यादिना ॥

तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् ॥
दत्तो यत्सान्निध्यं लोलाचारित्रमन्यदिदम् ॥२४॥

तेजोंश इति- इह भूतले हिमाचले देवतात्मनि पर्वतराजक्षेत्रे भूमिजुषाम् अस्मदादीनां अनुग्रहाय तेजोंशतः दिव्यज्योतिषः कलाविशेषेणा-वस्थितौ तौ शिवौ पार्वती-परमेश्वरौ सान्निध्यं दत्तः वितरतः उपस्थिती प्रसन्नौ भवत इत्यर्थः इति यत् तदिदं अन्यत् लीलाचारित्रम् चरित्रमेव चारित्रं लीलया भक्तानुग्रहाय कृता चर्येत्यर्थः। तेजोमयदेही सूक्ष्मदृग्गोचरौ हिमाचलक्षेत्रकृताधिष्ठानाविति तात्पर्यम् ॥२४॥

स्तबकमुपसंहरति ॥

एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् ॥
जानीयुभवमहिषी भुवनानामम्बिकां देवीम् ॥२५॥

भव-एतासामिति- एतासामार्याणां आर्यावृत्तनिबद्धानां पद्यानां शास्त्र-सम्मतं भावं वेदादिशास्त्रानुरोधेनोपपादितमाशयं जानन्तो विद्वांसः महिषीं शिवललनां भुवनानामम्बिकां देवीं जानीयुः जगन्मातुरुमायाः स्व-रूपमवगच्छेयुरित्यर्थः ॥२५॥

प्रथमः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates