ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




सप्तदशः स्तबकः

पापविधूतौ निर्मलगङ्गा तापनिरासे चन्द्रमरीचिः ॥
भर्गपुरन्ध्रीहासकला मे भद्रममित्रं काऽपि करोतु ॥१॥

पापेति- पापविधूतौ पापानाम् अंहसां मालिन्यानां च विधूतो अपनोदने निर्मलगङ्गा पावनी स्वर्णदी, तापनिरासे तापस्य ऊष्मणः दुःखस्य च निरासे निराकरणे चन्द्रमरीचिः शीतला अमृतमयी च चन्द्रकान्तिः, एवम्भूता काऽपि भर्गपुरन्ध्रीहासकला भर्गस्य रुद्रस्य पुरन्ध्रयाः महिष्या: हासस्य कला सुषमा अंशो वा मे मम अमिश्रं शुद्धम् असांसर्गिकं भद्रं कल्याणं करोतु । पापशमने गङ्गा, तापहरणे चन्द्रमरीचिरिति द्विधा हासकलोल्लेखनात् उल्लेखालङ्कारः ॥१॥

शिष्टकुलानां सम्मदयित्री दुष्टजनानां संशमयित्री ॥
कष्टमपारं पादजुषो मे विष्टपराज्ञी सा विधुनोतु ॥२॥

शिष्टेति-शिष्टकुलानां सज्जनवंशानां सम्मदयित्री आनन्दविधात्री, दुष्ट-जनानां खलानां संशमयित्री दमयित्री सा विष्टपराज्ञी भुवनेश्वरी पादजुषः पादसेविनो मे मम अपारम् अनवधिकं कष्टं दुःखं विधुनोतु अपहरतु ॥२॥

नूतनभास्वद्विम्बनिभाघ्र शीतलरश्मिद्वेषिमुखाब्जाम् ॥
ख्यातविभूति पुष्पशरारेः पूतचरित्रां योषितमीडे ॥३॥

नूतनेति- नूतनभास्वद्विम्बनिभाधेि नूतनो नवो भास्वान् अर्कस्तस्य बिम्बनिभौ बिम्बोपमौ अङघ्री पादौ यस्यास्तां बालसूर्यप्रभचरणां, शीतल-रश्मिद्वेषिमुखाब्जां शीतलरश्मे: चन्द्रस्य द्वेषि द्विषत् मुखम् अब्जमिव यस्यास्तां चन्द्रजित्वरमुखारविन्दां, ख्यातविभूति ख्याता विश्रुता विभूतिरैश्वर्यं यस्यास्तां पूतचरित्रां पावनकथां पुष्पशरारे: पुष्पबाणरिपोः शिवस्य योषितं स्त्रियं पार्वतीम् ईडे स्तौमि ॥३॥

उज्ज्वलतारे व्योम्नि लसन्ती सारसबन्धौ भाति तपन्ती ।
शीतलभासा चिन्तनक पातु कुलं मे विष्टपभ: ॥४॥

उज्ज्वलेति- उज्ज्वलतारे उज्ज्वला: भास्वरास्ताराः नक्षत्राणि यस्मि-स्तस्मिन् व्योम्नि आकाशे लसन्ती क्रीडन्ती, भाति भासमाने सारसबन्धौ कमलसुहृदि भास्करे तपन्ती तप आलोचने इति धातोनिष्पन्नत्वादालोच-यन्तीत्युपपन्नं सूर्यस्य चक्षुस्त्वात्तपस्त्वाच्च । शीतलभासा चन्द्रेण साधनेन चिन्तनकी चिन्तयन्तीत्यर्थः, चन्द्रमसो मनस्त्वश्रुतेः। विष्टपभ: लोक-धात्री मे मम कुलं पातु रक्षतु ॥४॥

प्राणमनोवाग्व्यस्तविभूति- लॊकविधातुः काचन भूतिः ॥
पुष्करपृथ्वीपावकरूपा शुष्कमघं नः सा विदधातु ॥५॥

प्राणेति- प्राणमनोवाग्व्यस्तविभूति: प्राण-मनो-वाग्भिः व्यस्ता विभक्ता विभूतिरैश्वर्यं यस्याः सा लोकविधातुः सर्वलोकस्रष्टुरीश्वरस्य काचन भूति-रैश्वर्यं पुष्कर-पृथ्वी-पावकरूपा पुष्करम् आपः, पृथ्वी भूमिरन्नमिति यावतू, पावकोऽग्निश्च पुष्करपृथ्वीपावका: तेषां रूपाणि यस्याः सा अबन्नतेजोरूपा ’कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्’ इत्यमरः, नः अस्माकम् अघं पापं शुष्कं नीरसं निस्सारं विदधातु। अबन्नतेजसाम् अणिष्ठांशाः इह क्रमशः प्राणमनोवाग्धातवः विभूतित्वेनोक्ताः, इदं च पूर्वं व्याख्यातम्। अनेन प्राण-मनोवाक्कृतम् अघं ध्वंसयितुं प्रभ्वी पुष्करादिरूपेणावस्थिता देवी प्रार्थिता भवति ॥५॥

इष्टफलानामम्ब समृद्धये कष्टफलानां तत्क्षणधूत्यै ॥
चेष्टितलेशोद्दीपितक्ति विष्टपत्रि त्वामहमीडे ॥६॥

इष्टेति- विष्टपत्रि! लोकराज्ञि अम्ब, इष्टफलानां अभीप्सितसुख-फलानां समृद्धयै पूर्णसम्पदे, कष्टफलानां दुःखानुभवानां तत्क्षणधूत्यै सद्यो-नाशाय चेष्टितलेशोद्दीपितशक्ति चेष्टितलेशेन ईषच्चलनविशेषेण उद्दीपिता उत्तेजिता शक्तिर्यस्यास्तां त्वाम् ईडे स्तौमि ।।६।।

भूमिहाग्रस्थापितभाण्डाद् यो म पायं पायमजस्रम् ॥
विस्मृतविश्वो नन्दति मात स्तत्र किल त्वं धाम दधासि ॥७॥

भूमीति- मातः ! यः भूमिरुहाग्रस्थापितभाण्डात् भूमिरुहस्य वृक्षस्य अग्रे उच्चैःस्थाने स्थापितान्निहिताद्भाण्डात् पात्रात् मधु मदकरं पेयम् अजस्रं सततं पायं पायं पीत्वा पीत्वा विस्मृतविश्वः सन् विस्मृतं विश्वं जगत् येन सः नन्दति मोदते तत्र तस्मिन् त्वं धाम स्थानं दधासि विर्षि, किल सम्प्रदाये। अत्र शरीरमेव वृक्षः तस्याग्रं शिरः तत्र सहस्रारं भाण्डं तत्र मधु सोमरसो-ऽमृतं तस्य पानेन ब्रह्मानन्दजः मदः तेन विश्वविस्मरणम् । नारिकेलताला-दिवृक्षाग्रे मृद्भाण्डं स्थापयित्वा मद्यमाददते लोके । अधिकं तत्पानेन मत्तो भूत्वा जगद्विस्मरति। अत्र विषयस्य देहसहस्रारादे: स्वशब्देनोल्लेखनं विना विषयिवाचकेनैव भूमिरुहाग्रादिना ग्रहणात् विषयनिगरणं भवति। अनेन शरीराविषयस्य भूमिरुहादिविषयिरूपतया आहार्यनिश्चयात् विषयनिगरण-पूर्वकमध्यवसानमाहुः। तस्मात् रूपकातिशयोक्तिरलङ्कारः ’रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः’ इति तल्लक्षणात् ।।७।।

कोऽपि सहस्ररेष मुखानां शेष इतोड्यः पन्नगराजः ॥
उगिरतीदं यद्वदनेभ्यो देवि तनौ मे तद्वत पासि ॥८॥

कोऽपीति- कोऽपि अयमीदगिति निर्देष्टुम् अशक्यः, मुखानां सहस्रैः सहस्र-वदनैः आदिशेष इति ईड्यः स्तुत्यः पन्नगराजो नागेन्द्रः, एकेन मुखेन वक्तु-मशक्यमस्य वीर्यम् । अत एव सहस्रैर्वदनानामीड्य इत्युक्तम् । यत् यस्मात्, इदम् अर्थाद्विषं मे मम तनौ वपुषि उगिरति तत् तस्मात् पासि रक्षसि, बत हा कष्टम् ! अयं भावः । महायोगे देव्यनुगृहीते प्रचलति, कस्याश्चित् सिद्धेः पूर्वम् अमृतमथनसमये अमृतात्प्राक् गरलम् इव निस्सृत्य देहमावृणोति, तत्र दुर्भरस्तापः विषज इव भवति। इमं स्वानुभवम् अत्र प्रस्तौति योगनिष्ठः कविः ।।८।।

साकममेये देवि भवत्या पातुमहन्ता यावदुदास्या ॥
तावदियं तां मूर्छयतीशे पन्नगराजोद्गारजधारा ॥९॥

साकमिति- अमेये मानातीते देवि ! भवत्या साकं त्वया सहेत्यर्थः, पातुम् उद्गीर्णं गरलं भोक्तुमित्यर्थः, यावत् अहन्ता अहम्भावः उदास्या ऊर्ध्व- मासितुं योग्या औदासीन्येन स्थेया भवतीत्यर्थः, तावत्, देवि, इयं पन्नगराजो-द्गारजधारा पन्नगराजस्य शेषस्य उद्गारजधारा विषधारा ताम् अहन्ताम् अहम्भावं मूर्छयति मोहयति । त्वया अमृतवाहिन्या सह अमृतात् प्राक् निस्सरद्विषं भोक्तुं यावत्कालम् अहन्ता औदासीन्येन भवेत् तावत्कालम् इयं विषधारा तां मूर्छितां करोति। किं करवाणि ? अस्यां दशायाम् अनुभूतान् क्लेशान् पुनराह ॥९॥

शाम्यति चिन्ताजीवितमस्या मिन्द्रियसत्ताऽप्यस्तमुपैति ॥
याति निरुद्धा हा गलदेशे संशयमेषा मातरहन्ता ॥१०॥

शाम्यतीति- मातः जननि ! अस्यां विषधारायां चिन्ताजीवितं चिन्तायाः जीवितं शाम्यति शान्तं भवति, चिन्तनं मृतप्रायं भवतीत्यर्थः। इन्द्रियसत्ता चक्षुरादीन्द्रियाणां सत्ता वर्तनम् अस्तमुपैति नाशं गच्छति, एषा अहन्ता गल-देशे कण्ठप्रदेशे निरुद्धा स्तम्भिता सती संशयं याति, किमिदं योगे वर्तमानस्य शक्तिविलासवंतो मम मृत्युरापतित इति सन्दिग्धे ॥१०॥

गौरि महेशप्राणसखीमां पाहि विपन्नां मातरहन्ताम् ॥
सा यदि जीबेदीश्वरि तुभ्यं दासजनस्तामर्पयतेऽयम् ॥११॥

गौरीति- गौरि महेशप्राणसखि, ईश्वरस्य जीवितसखि मातः ! विपन्नां नष्टाम् ईदृशीम् आपदं प्राप्य नश्यन्तीमित्यर्थः, इमाम् अहन्तां पाहि रक्ष। ईश्वरि, सा जीवेद्यदि, दासजनः किङ्करोयं जनः तुभ्यं तामहन्ताम् अर्पयते। योग-साधनविशेषे प्रवृत्ते अवान्तरक्लेशेषु ईदृशेषु अहन्ताविलयो न कदाऽपि स्पृह-णीयः । कुतः ? परस्य देव्यै समर्पणीयस्याहम्भावस्य दुःखेषु पतनात् पुन-दुःखानां वर्धनं सम्भवश्चेति तादृशी मा भूत् दशास्या अहन्ताया इत्येवमुक्तम् । अशुद्धा चेदहन्ता, सा न कदाऽप्यर्पणमनुमन्यते अर्पणीया च न भवति, अत आह॥११॥

त्वत्स्मृतिवीर्याच्छान्तिसमृद्धां मातरहन्तां शुद्धतमां मे ॥
आत्मभुजिष्यां कर्तुमिदानी शान्तधियस्ते कोऽस्ति विकल्पः ॥१२॥

त्वदिति- मातः ! शान्तधियः मे मम इमाम् अहन्तां त्वत्स्मृतिवीर्यात् तव स्मृतिः स्मरगं ध्यानमिति यावत्, तस्य बलात् शान्तिसमृद्धां शान्त्या शमेन समृद्धां सम्पूर्णाम् अत एव शुद्धतमाम् अत्यन्तशुद्धाम् आत्मभुजिष्याम् आत्मनो भुजिष्यां नियोज्यां ’नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः’ इत्यमरः, कर्तुं विधातुं ते तव को विकल्पोऽस्ति, वितर्कोऽस्ति ? कुतः शङ्कसे? माऽस्तु संशय इत्यर्थः ।। १२॥

मन्दरधारी नामृतहेतु- र्वासुकिरज्जुर्नामृतहेतुः ॥
मन्थनहेतुस्साऽमृतहेतुः सर्वबलात्मा शर्वपुरन्ध्री ॥१३॥

मन्दरेति- मन्दरधारी अमृतमथने मन्दरगिरि धृतवान् कूर्मो हरिः अमृतहेतुः न, वासुकिरेव रज्जुः मथनवटी ’रज्जुस्त्रिषु वटी गुणः’ इत्यमरः, सोऽमृतहेतुर्न, मन्थनहेतुः मन्थनस्य विलोडनस्य हेतु: कारणं सा सर्वबलात्मा सर्वस्य बलस्य आत्मा जीवभूता यद्वा सर्वं समस्तं बलम् आत्मा शरीरं यस्याः सा शर्वपुरन्ध्री शर्वाणी दुर्गा अमृतहेतुः अमृतलाभकारणं भवतीत्यर्थः । पि मन्दरमन्था वासुकिरज्जुश्च सहकारिणौ भवतः, तथाऽपि मन्थनस्य मुख्यं निमित्तं दुर्गा भगवत्येवेत्यर्थः ॥१३॥

यद्य-अमृतमन्थनवृत्तान्तस्य गूढं तत्त्वं द्वाभ्यामाह ।।

प्राणिशरीरं मन्दरशैलो मूलसरोज कच्छपराजः ॥
पूर्णमनन्तं क्षीरसमुद्रः पृष्ठगवीणा वासुकिरज्जुः ॥१४॥

प्राणीति- प्राणिशरीरं प्राणिनो जन्मिनः शरीरं मन्दरशैल: मन्दराचल:, मूलसरोजं मूलाधारकमलं कच्छपराजः कूर्मराट् येन मन्दरो धृतः, पूर्णम् अनन्तम् आकाशं दहराख्यं हृदयं क्षीरसमुद्रः दुग्धाब्धिः, पृष्ठगवीणा वीणास्थिदण्ड: वासुकिरज्जुः ॥१४॥

दक्षिणनाडी निर्जरसेना वामगनाडी दानवसेना॥
शक्तिविलासो मन्थनकृत्यं शीर्षजधारा काऽपि सुधोक्ता ॥१५॥

दक्षिणेति- दक्षिणनाडी सुषुम्नायाः मध्यगनाड्या अपसव्यगा पिङ्ग-लाख्या निर्जरसेना देवसेना भवति, वामगनाडी इलाख्या दानवसेना असुरसेना भवति, शक्तिविलासः शक्तेविलासः क्रीडा मन्थनकृत्यं मथनकर्म भवति। शीर्षजधारा सहस्रारकमलान्निस्त्रुता काऽपि मोदधारा सुधा अमृतम् उक्ता॥१५॥

कण्ठनिरुद्ध भूरिविषाग्नौ तैजसलिङ्गावासिहरेण ॥
त्वद्वलजातं स्वाद्वमृतं को देवि निपीय प्रेत इह स्यात् ॥१६॥

कण्ठेति- देवि! भूरिविषाग्नौ अमृतमन्थनसमये प्रथमं विनिर्गते वासुकिमुखात् भूरिणि विष एव अग्नौ तैजसलिङ्गावासिहरेण तेजोमयलिङ्ग-निवासिना रुद्रेण कण्ठनिरुद्धे कण्ठे निरुद्ध प्रतिरुद्ध सति, त्वद्वलजातं तव वीर्यात् उद्भूतं स्वादु मधुरम् अमृतं निपीय नितरां पीत्वा इह को वा प्रेत: स्यात् न कोऽपि शरीरपाते प्रेतलोकं गच्छतीत्यर्थः। अमृतमथने प्रथम-निर्गतं गरलं हरेण कण्ठे निरुद्धं, तथा विषप्रसारस्य प्रतिरोधे विहिते, त्वद्वलादमृतं जातं तत्पाता न प्रेतः स्यात् इति भावः । तेजसलिङ्गा-वासिहरेणेत्यत्रेदं वक्तव्यम् । षट्चक्रभेदमार्गानुष्ठायिनां समये मूलाधारा-दाज्ञाचक्रावधि अग्नि-सूर्य-सोमात्मकं खण्डत्रयं व्यवह्रियते तत्रादौ मूलाधार-स्वाधिष्ठाने अग्निमण्डलमाहुः। तदेव तैजसं मूलाधारे लिङ्गमिति भाष्यते। तत्रस्थो भगवान् हर एव विषप्रसारं कण्ठस्थल एव प्रतिरुद्ध-वानित्यर्थः । इह योगनिष्ठस्याचार्यस्य कवेः अरुणाचलक्षेत्रे निवसतः अयम् अनुभवोऽभूत् । अरुणाचललिङ्गं तैजसलिङ्गं पुराणप्रसिद्धं तत्रावासिना हरेण भगवता मम कण्ठ एव निरुद्धा विषमदधारा, अतस्त्वद्वलादमृतं जातम् अपि-बमिति भावः ।।१६।।

येन विभुस्ते माद्यति शर्वो यत्र शिवे त्वं क्रोडसि हृष्टा ॥
सम्मदमूलं तं मदमाये वर्षय पुत्रेऽनुग्रहपात्रे ॥१७॥

येनेति- शिवे भगवति ! येन मदेन ते विभुः प्रभुः शर्वः शिवः माद्यति हृष्यति मोदलहरीमनुभवतीत्यर्थः, यत्र मदे त्वं हृष्टा सन्तुष्टा सती क्रीडसि विलससि, सम्मदमूलम् आनन्दमूलकारणं तं मदम् अनुग्रहपात्रे प्रसादास्पदे आद्ये पुत्रे ज्येष्ठे गणपतौ वर्धय वर्धमानं कुरु ।।१७।।

यो मदमीदृङमार्गमुपेक्ष्य स्वविभुपूज्ये गर्वसमेतः॥
आहरति श्रीबाह्यसमृद्धया ना सुरया वा सोऽसुर उक्तः ॥१८॥

य इति- स्वविभुपूज्य, स्वविभुणा स्वर्गराजेनेन्द्रेण पूज्ये आराध्ये अम्ब ! यो ना मनुजः गर्वसमेत: गर्वेण अहङ्कारेण समेतो युक्तः सन् ’गर्वोऽभिमानोऽहङ्कारः’ इत्यमरः ईदृङमार्गम् ईदृक् एवंविधः पूर्वश्लोकोक्तः मार्गः सम्मदमूलमार्गः यस्य तं मदं हर्षम उपेक्ष्य तिरस्कृत्य श्रीबाह्यसमृद्धया श्रियः सम्पदः बाह्यया समृद्धया बृद्धया सुरया वा मदिरया वा मदं हर्षम् आहरति सम्पादयति, सः असुर उक्तः। अकृत्रिमानन्दमूलं मदमनपेक्ष्य बाह्यपूजासामग्रया धनसाध्यया हालया वा यः पुमान् मदं लभते सोऽसुर एव, न दिव्यमार्ग भजते। स च दिव्योऽध्वा उत्तरत्र ’केऽपि यजन्ते’ इत्यादि श्लोकेषु वक्ष्यते ॥१८॥

ताम्यति तीवाफेननिषेवी क्लाम्यति संवित्पत्रनिषेवी ॥
भ्राम्यति हालाभाण्डनिषेवी शाम्यति शीर्षद्रावनिषेवी ॥१९॥

ताम्यतीति- तीव्र नितान्तम् अफेनम् अहिफेनाख्यं मादकद्रव्यं निषेवत इति तीवाफेननिषेवी ताम्यति खिद्यति। संवित्पत्रं मादकद्रव्यविशेष भाषया ’गजा’ इति प्रख्यातं निषेवत इति संवित्पत्रनिषेवी क्लाम्यति ग्लायति क्षीण-हर्षो भवत्यन्ते इत्यर्थः। हालाभाण्डं सुरापूर्ण भाण्डं पानपात्रं निषेवत इति हालाभाण्डनिषेवी अमितसुरापायी इत्यर्थः, भ्राम्यति भ्रान्तो भवति । शीर्ष-द्रावनिषेवी सहस्राररससेवी तु शाम्यति शान्ति गच्छति, एष विशेष: माद-कानाम् अहिफेनादीनां सहस्राररसमदस्य चेत्युक्तम् ।।१९।।

अस्तु विरेके पथ्यमफेनं पत्रमजीर्णेष्वस्तु निषेव्यम् ॥
अस्तु हितं तद्यक्ष्मणि मद्यं संसृतिहारी देवि रसस्ते ॥२०॥

अस्त्विति- अफेनम् अहिफेनं मादकद्रव्यं भेषजतया प्रयुक्तं सत् विरेके अजीर्त्यादिजन्ये विरेचने अतिसारादौ रोगे वा पथ्यं हितम् अस्तु भवतु । पत्रं संवित्पत्रम् अजीर्णेषु मन्दाग्निषु निषेव्यं जठराग्निदीपनाय सेव्यम् अस्तु । यक्षमणि क्षयरोगे मद्यं सुरा हितम् अनुकूलम् अस्तु । देवि, अम्ब ! ते तव रसः सहस्रारसोमरसस्तु संसृतिहारी जनन-मरण-भ्रान्तिहृत् भवति । अहि-फेनादि भेषजे प्रयुक्तं गुणाय, अन्यथा तु दोषायेति कृत्वा महतां तत्सेवनेन अदोषेपि, अन्येषां दोषावहमित्याह ॥२०॥

नैव महान्तस्सत्त्वसमृद्धाः सर्वमदेष्वप्यम्ब चलन्तु ॥
अल्पजनानां मादकवस्तु- प्राशनमीशे नाशनमुक्तम् ॥२१॥

नैवेति- अम्ब, ईशे ईश्वरि ! सत्त्वसमृद्धाः सत्वेन समृद्धाः सारसम्पूर्णाः महासत्त्वाः महान्तः पुरुषाः सर्वमदेषु, सर्वेषु मदेषु अहिफेनादिषु नैव चलन्तु न किमपि मादकं वस्तु सेवन्ताम् । तेषामदोषेऽपि, तद्दर्शनेन अन्येऽप्यल्पाः ताननुसृत्य पतिताः स्युरितीयं रतीयं प्रार्थना। अल्पजनानां सामान्यानाम् अल्प-सत्त्वानां मादकवस्तुप्राशनं मदकरद्रव्यनिषेवणं नाशनं पातकम् उक्तं भवति ॥२१॥

केऽपि यजन्ते यन्मधुमांस- स्त्वां त्रिपुरारेर्जीवितनाथे ॥
अत्र न यागो दूषणभागी द्रव्यससङ्गो दुष्यति यष्टा ॥२२॥

केपीति- त्रिपुरारेः रुद्रस्य जीवितनाथे प्राणेश्वरि, देवि ! केऽपि तान्त्रिकाः त्वां मधु-मांस: मकारपञ्चकान्तर्गतैः मद्यः मांसंश्च यजन्ते इति यत् अत्र विषये यागो यजनकर्म दूषणे दोषे भागोऽस्येति दूषणभागी न भवति एवं मधु-मांसः त्वद्यजनकर्म न दोषाय भवति। किन्तु द्रव्यससङ्गः सङ्गेन वर्तते इति ससङ्गः द्रव्ये मधु-मासांत्मके ससङ्गः मधु-मांससक्तो यष्टा याजकः दुष्यति दोषी भवति। येन केनापि साधनेन यजनं गुणायैव। मधु-मांस-ससङ्गस्तु दोषकृदेवेत्यर्थः ॥२२॥

दक्षिणमार्गे सिद्धचति भक्तः सव्यसरण्यां सिद्धयति वीरः ॥
नेश्वरि सव्ये नाप्यपसव्ये सिद्धयति दिव्ये त्वध्वनि मौनी ॥२३॥

दक्षिणेति- ईश्वरि ! दक्षिणमार्गे समयाचारपथे भक्तः सिद्धयति सिद्धो भवति उपासको भक्तो भवतीत्यर्थः, भक्तिरेव प्रधानं, समयाचारेण देवी-मपासमानस्येति भावः । सव्यसरण्यां वाममार्गे वीरः सिद्धयति । वाममार्गः कुलाचारपथः, तत्र मकारपञ्चकं प्रधानं तन्त्रोक्तम् । तेनोपासमानो वीरो भवति। एतन्मार्गावलम्बी कौल: वीरभावं भजते इत्यर्थः । मौनी सव्ये अध्वनि वामे मार्गे न सिद्धयति, अपसव्ये अपि अध्वनि दक्षिणेऽपि मार्गे मौनी न सिद्धयति, किन्तु दिव्ये अध्वनि मार्गे सिद्धयति सिद्धिमधिगच्छति इत्यर्थः । तान्त्रिकाः पशुभावो वीरभावो दिव्यभाव इति मार्गत्रयमाहुः । तत्र आद्यौ भावी पूर्वार्धेनोक्त्वा तृतीयः उत्तरार्धेनोक्तः । तस्यैव स्वरूपं विवृणोति उत्तरश्लोकेन ॥२३॥

नार्चनभारो नापि जपोऽस्यां दिव्यसरण्यां भव्यतमायाम् ॥
केवलमम्बापादसरोज निश्चलमत्या मृग्यमजस्त्रम् ॥२४॥

नार्चनेति-- भव्यतमायाम् अत्यन्तशुभायाम् अस्यां सरणौ दिव्येऽध्वनी-त्यर्थः, अर्चनभारो पूजनोपकरणसामग्रीसम्पादनमारो नास्ति, नापि जपः यथा-विधि मन्त्रपुरश्चरणं वा नास्ति। केवलं निर्धारितम् अम्बापादसरोज देवी-पादारविन्दमेव निश्चलमत्या अचञ्चलधिया ऐकाग्रणेत्यर्थः, अजस्रं नित्यं मृग्यम् अन्वेष्यम्। नित्यं देवीपदान्वेषणमेव दिव्यो मार्गः, स च न बहि-रङ्गपूजापद्धति जपादि वापेक्षते ॥२४॥

काचिदमूल्या चम्पकमाला- वृत्तनिबद्धा मञ्जुलमाला ॥
अस्तु गणेशस्येश्वरकान्ता- कण्ठविलोला चम्पकमाला ॥२५॥

काचिदिति- गणेशस्य गणपतेः कवेः काचित् चम्पकमालावृत्तनिबद्धा चम्पकमालाख्येन वृत्तेन निबद्धा रचिता अमूल्या अनर्घा मञ्जुलमाला मृदु-मधुरपदार्थगुम्फितपद्यपङक्तिः, कोमलस्रक् च चम्पकमाला चम्पकपुष्पमाला भूत्वा ईश्वरकान्ताकण्ठविलोला ईश्वरकान्तायाः ईश्वर्याः कण्ठे गले विलोला तरला अस्तु। ईश्वर्याः कण्ठे ममेयं स्तुतिः चम्पकपुष्पमालायतामित्यर्थः । अमूल्यामञ्जुलमाले श्लिष्टे विशेषणे। कण्ठविलोलेत्यत्र कण्ठे नादे इति लक्षणया व्याख्याते भगवत्याः कण्ठध्वनौ मम कृतिः चलत्विति भावः, ’कण्ठो वाचकशब्दे स्यात्सन्निधाने गले ध्वनौ’ इति नानार्थरत्नमाला। एकान्तभक्तेन

पुत्रेण मया रचितामिमां स्तुतिं श्रुत्वा, साऽपि देवी अमूल्यरमणीयां निब-द्धवानयं मे पुत्र इति स्वयं तां सूक्ष्मतः भणतु ॥

अत्र चम्पकपुष्पमालाया उपमानभूतायाः प्रकृतोपयोगित्वेन विषयभूत-चम्पकमालास्तुतिरूपतया परिणमनात् श्लेषोत्थापित: परिणामोऽलङ्कारः ॥२५॥

सप्तदशः स्तबकः सव्याख्यः समाप्तः।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates