ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




सप्तमः स्तबकः

वाणीसरोरुहदृशो हयराजहंसो वक्त्रारविन्दनिलयावहिरागतायाः ॥
आलापकालदरहास इह स्थितानां क्षेमं करोतु सुतरां हरसुन्दरीयः ॥१॥

वाणीति- हरसुन्दरीयः हरसुन्दर्याः पार्वत्या अयम् आलापकालदरहासः आलापकाले सम्भाषणकाले यः दरहास: मन्दहासः सः इह स्थितानां भूजुषां सुतराम् अत्यन्तं क्षेमं मङ्गलं करोतु विदधातु। आभाषणसमकालमन्दहासस्य सरस्वतीवाहराजहंसेन तादात्म्यमुपपादयन् तं विशिनष्टि। वक्त्रारविन्द-निलयात् वक्त्रारविन्दं मुखपद्मं तदेव निलयः वासः तस्मात् बहिरागतायाः निर्गतायाः वाणीसरोरुहदृशः वाणी सरस्वती इति सरोरुहदृक् सुन्दरी सम्भावना-पूर्वपद: कर्मधारयः, तस्याः हयराजहंसः हयभूतः राजहंसः, स एव आलाप-कालदरहासः इति व्यस्तं रूपकम्। वक्त्रारविन्देत्यत्र हरसुन्दर्या इत्यर्थादव-गम्यते। पद्मसम्भवस्य सुन्दर्याः सरस्वत्याः वाहनहंसः प्रसिद्धः। अरविन्दं पत्युः पद्मयोनेः जन्मस्थलं तत् सरस्वत्याश्च निलयो भवितुमर्हति। तस्मात् न स्याच्छङ्का कथं लक्ष्मीजन्मस्थानं सरस्वतीनिलयो भवतीति । अत्रेदं विवेचनीयम्। शुभ्रत्वसाधर्म्यात् राजहंस-दरहासयोस्तादात्म्यम् अध्यवसितम् । अन्यत्र वैयधिकरण्येन समासार्थगतेन व्यस्तं रूपकम् । तच्च वाणीसरोरुह-दृशो बहिरागमनस्य आलापस्य च ताद्रूप्यम्। मन्दहासो वाचं वायति भगवत्या इति भावः ॥१॥

नादोऽसि वागसि विभाऽसि चिदस्यखण्डा खण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते ॥
तत्तादृशीं निखिलशक्तिसमष्टिमीशे त्वामन्तरिक्षपरिक्लृप्ततनुं नमामि ॥२॥

नाद इति- अखिलेन्द्रकान्ते सर्वेश्वरसुन्दरि! नादोऽसि कारणावस्थः शब्द: प्रणवोऽसीति यावत् वागसि कार्यरूपोऽभिव्यक्तः शब्दोऽसीत्यर्थः, विभा असि ज्योतिः असीत्यर्थः, अखण्डा चित् अनंशा भेदशून्या प्रज्ञाऽसि खण्डी-भवन्ती चिदपि असि अखण्डम् खण्डं सम्पद्यमानं खण्डीभवत् ततो डीप् खण्डी-भवन्ती अखण्डैकव चित् अनेकखण्डभूताश्चितोऽपि तवैव चिद्रूपाणीत्यर्थः । यथाऽव्यक्तनादात्मनस्तव व्यक्तवागात्मकत्वं, तथाऽखण्डचितः खण्डचिद्रूपत्वं चेति भावः। ईशे ईश्वरि, तत् तस्मात् सकलजगद्भेदनिर्माणसमर्थनाद-वाग्विभाखण्डाखण्डचिद्रूपतया त्वदवस्थानाद्धेतोः निखिलशक्तिसमष्टि निखि-लानां सर्वासां शक्तीनां समष्टि संहतिम् अशेषशक्तिजालरूपिणीमिति यावत् । अन्तरिक्षपरिक्लृप्ततनुम् अन्तरिक्षे आकाशे परिक्लुप्ता निहिता सिद्धेत्यर्थः, तनुः शरीरमिति यावत्, यस्याः तां नादज्योतिरात्मना आकाशं व्याप्य स्थिता-मिति भावः, तादृशीं तथाविधां त्वां नमामि। यद्यपि स्त्रीवेषां परिच्छिन्न-शरीरां त्वां स्तौमि, तथाऽपि तव स्वरूपं ज्योतिर्नादमयं विभ्विति जाने, तथाविधामेव त्वां नमामि ॥२॥

विश्वप्रसिद्धविभवास्त्रिषु विष्टपेषु याः शक्तयः प्रविलसन्ति परःसहस्राः ॥
तासां समष्टिरतिचित्रनिधानदृष्टिः सृष्टि-स्थिति-प्रलयकृद् भुवनेश्वरि त्वम् ॥३॥

विश्वेति- भुवनेश्वरि लोकराज्ञि ! त्रिषु विष्टपेषु लोकेषु भूरादिषु विश्वप्रसिद्धविभवाः विश्वस्मिन् ब्रह्माण्डे प्रसिद्धाः विश्रुताः विभवाः सामर्थ्य-रूपाः अर्थाः यासां ताः, परस्सहस्राः सहस्रात्पराः परस्सहस्राः सहस्राधिकाः ’परश्शताद्यास्ते येषां परा सङ्ख्या शताधिकात्’ इत्यमरः । याः शक्तयः प्रविलसन्ति विलसिता भवन्ति, तासां शक्तीनां समष्टि: संहतिः त्वं, सकलानां विश्वविश्रुतानां सृष्ट्याद्यधिकृतानां शक्तीनाम् एकत्र त्वयि समस्यमानत्वात् ॥

कथम्भूताऽसि ? अतिचित्रनिधानदृष्टि: अतीव चित्रमद्भुतं निधानं सर्व-सृष्टिसामग्रीनिक्षेपभूतं दृष्टौ यस्याः साः। । पुनः पुनः कथंभूता ? सृष्टि-स्थिति-प्रलयकृत् सर्जनरक्षणसंहारकारिणीत्यर्थः । न केवलं स्त्रीरूपपरिच्छिन्नं ते स्वरूपमिति तात्पर्यम् ॥३॥

जाने न यत्तव जगज्जनयित्रि रूपं सङ्कल्प्यते किमपि तन्मनसो बलेन ॥
सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रि विन्यस्यते तव वचोतिगधाम नाम ॥४॥

जाने इति- जगज्जनयित्रि लोकसवित्रि, यत् यस्मात् तव रूपं स्वरूपं न जाने न वेनि तत् तस्मात् हेतोः मनसो बलेन भावनाबलेनेत्यर्थः, किमपि आराधनार्थं रूपं सङ्कल्प्यते मयेति शेषः। श्रितशोकहन्त्रि आश्रितजनदुःखा-पनेत्रि, सङ्कल्पितस्य तथा भावनातो निष्पादितस्य तव वपुषो गात्रस्य वचो-तिगधाम वचांसि वचनानि अतिगच्छत्यतिक्रामतीति वचोतिगं तत् धाम प्रभाव इत्यर्थः, यस्य तन्नाम नामधेयम् उमेत्यादि विन्यस्यते क्रियते। यद्यपि तव यथार्थरूपपरिज्ञानालाभाद्भावनाबलाद्रूपं मया कल्पितं मितमेव स्यात्, तथाऽपि क्रियमाणस्य तन्नाम्नः प्रभावस्तु वाचामविषयः ॥४॥

कामं वदन्तु वनितामितिहासदक्षा-स्त्वां सर्वलोकजनयित्रि सदेहबन्धाम् ॥
सत्यं च तद्भवतु सा तव काऽपि लीला दिव्यं रजस्तु तव वास्तविकं शरीरम् ॥५॥

काममिति- सर्वलोकजनयित्रि सकलभुवनप्रसु मातः, त्वाम् इतिहासदक्षाः पुरावृत्तकथाकुशलाः सदेहबन्धां विग्रहवती वनितां स्त्रियं कामं यथेप्सितं वदन्तु भणन्तु। तत् तथा कथनं सत्यं वास्तवं च भवतु। कथं स्त्रीविग्रहवत्त्वं सत्यम् ? आह। तव काऽपि लीला सर्वशक्तायास्तव लोकानुग्रह-निमित्तको विलासविशेषः । यद्यप्येवं लीलाविग्रहनारीवेषस्वीकार ऐतिहासिकः प्रसिद्धो भवति, तु तथाऽपि दिव्यं दिव्यन्तरिक्षे भवम् आकाशगतमित्यर्थः, रजः सूक्ष्मो रेणुः तव वास्तविकं वस्तुतो निर्वृत्तं सत्यं शरीरं वपुर्भवति । भगवत्याः वास्तविकं शरीरमधिकृत्य प्रथमे शतके ’सा तत्त्वतः समन्तात्’ इत्यादिश्लोकेषु प्रतिपादितं तत्र तत्र व्याख्यातं च द्रष्टव्यम् ॥५॥

भूजन्मपांसुभिरहितशुद्धरूपा या काऽपि पांसुपटली विपुलेऽन्तरिक्षे॥
सा ते तनुः सुमहती वरदे सुसूक्ष्मा तामेव देवसरणि कथयन्ति धीराः ॥६॥

भजन्मेति- विपुले विशाले अन्तरिक्षे आकाशे भूजन्मपांसुभिः भुवो जन्म येषां ते भूजन्मानः पांसव: धूलयः तैरगर्हितशुद्धरूपा अहितम अदूषितं शुद्धं निर्मलं रूपं यस्याः सा या काऽपि पांसुपटली पांसूनां रेणूनां पटली संहति-विद्यते इत्यध्याहार्यम् । पार्थिवभौतिकसम्पर्कशून्या स्वतःसिद्धा स्थूलबुद्धी-न्द्रियातीता योगिजनसूक्ष्मदृग्गोचरा आकाशगतसूक्ष्माणुपटली या वर्तते इत्यर्थः सा वरदे अभीष्टवरदात्रि अम्ब, सुमहती सुतरां बृहती, वैपुल्यात्तदालया-काशस्य, सुसूक्ष्मा सुतरां सूक्ष्मा दिव्यदृगेकगोचरत्वात् ते तव तनुः शरीरं भवतीत्यर्थः। धीराः धियं प्रशस्तां बुद्धि रान्ति आददत इति धीराः विज्ञाः तामेव आकाशगरेणुपटलीं तनुं देवसरणिं देवपद्यां देवयानमिति यावत् कथ-इदमेव देवयानम् अचिरादिमार्गमाहुः, येन विदुष उत्क्रान्तस्य, ऊर्ध्वगतिरुक्ता श्रुतिषु। देवयानात्मिकां भगवत्यास्तनुं पुनर्विवृणोति ॥६॥

यन्ति । या देवि देवसरणिर्भवमग्नदुर्गा वैरोचनीति कथिता तपसा ज्वलन्ती॥
राजीवबन्धुमहसा विहिताङ्गरागा सा ते तनुर्भवति सर्वसुपर्ववर्ण्य ॥७॥

येति- देवि, या भवमग्नदुर्गा भवमग्नानां दुर्गा जन्माम्बुधिनिमग्नानां दुष्प्रापेत्यर्थः, देवसरणिः देवपद्या विद्वदेकगम्या तपसा स्वात्मनिहितदृढदृष्टिबलेन ज्वलन्ती दीप्यमाना वैरोचनी विशेषेण रोचते इति विरोचनः सूरः ज्वलत्प्रकाशः सविता सर्वेश्वरः तस्येयं वैरोचनी इति कथिता भवतीति शेषः। सर्वसुपर्व-वर्ण्य सकलसुरजनस्तुत्ये, सा तपसा ज्वलन्ती वैरोचनी ते तनुर्भवतीति भगवती दुर्गा वैरोचनीं मन्त्रोऽपि गायति-“तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः" इति। तां तनुं विशिनष्टि। राजीवबन्धुमहसा राजीवबन्धोः सूर्यस्य महसा तेजसा सौरेण ज्योतिषेति यावत्, विहिताङ्गरागा विहितः रचितः अङ्गरागः रजकलेपः यस्याः सा। अयं भावः। अस्माल्लोकादुत्क्रान्तस्य विदुषः स्वर्लोकगामिनो देवयानस्य ज्योतिर्गिस्य दिव्यरजःपटलपूरितस्य देवीतनुत्वं प्रतिपादितम् । नभोगतस्य दिव्यरजोरूपदेवीशरीरस्य विरोचनरोचिषा अङ्गलेपोर्म्यत इति महोऽङ्गरागयोः तादात्म्यसम्भावनया किं गम्योत्प्रेक्षा, उत विषय-विषयिणोर्महोऽङ्गरागयोः विषयस्य महसो निगरणेन विषयिणोऽङ्गरागस्या-ध्यवसानादतिशयोक्तिरिति द्वयोरलङ्कारयोः सन्देहसङ्करः ।।७।।

प्राणास्तवात्र हृदयं च विराजतेऽत्र नेत्राणि चात्र शतशः श्रवणानि चात्र ॥
घ्राणानि चात्र रसनानि तथा त्वचश्च वाचोऽत्र देवि चरणानि च पाणयोऽत्र ॥८॥

प्राणा इति-- देवि, अत्र तव तनुत्वेन अवस्थिते दिव्यरेणुमये देवयाना-ख्ये अचिर्मार्गे प्रागुक्ते तव प्राणा: जगज्जीवनधारणहेतुभूताः विराजन्ते इति वचनव्यत्ययेन अध्याहार्यम् । हृदयं च सर्वेषां ज्ञानक्रियाविलासानां मूलम् आत्मस्थानं अत्र विराजते, तथा शतशः नेत्राणि श्रवणानि च घ्राणानि रस-नानि त्वचश्च वाचश्चरणानि पाणयश्च विराजन्ते। पाणिपादवाक्प्राणचक्षुः-श्रोत्रादीनां सर्वेषां कर्म-ज्ञानेन्द्रियाणां समष्टिरस्याः जगत्सवित्र्याः दिव्यरेणु-शरीरेऽवतिष्ठत इत्युक्तम् । हृदयस्यैकवचनं वाक्प्राणादीनां बहुवचनं च प्रयुक्ते । अनेन इह व्यष्टिगतानां वागादीनां बहुत्वेऽपि, सर्वासां व्यष्टीनां मूलमात्मस्थान-मेकमेव हृदयमिति विवक्षितम् । तथा च श्रीरमणगीतायां रवोपनिबन्धे श्रीमहर्षे-रुपदेशं हृदयमधिकृत्यैवमाचार्येण अभ्यधायि-- ’अण्डं वपुषि निश्शेषं निश्शेष हृदये वपुः । तस्मादण्डस्य सर्वस्य हृदयं रूपसङ्ग्रहः’ इति भगवत्याः शरीरे सर्वाणि वाक्प्राणचक्षुरादीनि व्यवस्थितानीत्युक्तेः सर्वेषां तदनन्यत्वं तदुपादानत्वं तदाधारत्वं च स्थूलसूक्ष्मकारणावस्थासु प्रतिपादितानीति ज्ञेयम् ।।८।।

सर्वत्र पश्यसि शृणोषि च सर्वतोऽम्ब सर्वत्र खादसि विजिघ्रसि सर्वतोऽपि ॥
सर्वत्र च स्पृशसि मातरभिन्नकाले कः शक्नुयान्निगदितुं तव देवि भाग्यम् ॥९॥

सर्वत्रेति- अभिन्नकाले! अभिन्नः न भिन्नः अतीतानागतवर्तमानत्वेन त्रेधा विभक्तः काल; यस्याः सा सार्वकालिकी नित्येति यावत्, तस्याः सम्बुद्धिः अम्ब, देवि ! त्वं सर्वत्र पश्यसि तव चक्षुषः एव सर्वेषां चक्षुरात्मतयाऽव-स्थानात्, यद्वा ’चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्’ इत्यादिश्रुतिषु प्रसिद्धायाश्चक्षु-भूतायास्तव चक्षुषश्चक्षुष्टुनावस्थानात् सर्वत्र त्वमेव द्रष्ट्रीति भावः, एवं शृणोषीत्यादौ त्वमेव श्रोत्री ध्रात्रीत्यादि बोध्यम् । सर्वतः शृणोषि, सर्वतः सर्वत्र सार्वविभक्तिक: तसिल, सर्वत्र खादसि, भोक्त्रीत्यर्थः, सर्वतोऽपि विजि-घसि विशेषेण जिघ्रसि, घ्रात्री त्वं, तथा स्पृशसि, एवं सर्वत्र ज्ञानेन्द्रियरूपेण अवस्थाय व्यापारान् विदधत् तव भाग्यमैश्वर्यं निगदितुं कथयितुं कः शक्नुयात् ? न कोऽपि शक्त इत्यर्थः ॥९॥

सर्वत्र नन्दसि विमुञ्चसि सर्वतोऽम्ब सर्वत्र संसरसि गर्जसि सर्वतोऽपि ॥
सर्वत्र देवि कुरुषे तव कर्मजाल-वैचित्र्यमीश्वरि निरूपयितुं क्षमः कः ॥१०॥

सर्वत्रेति-- देवि, ईश्वरि सर्वत्र नन्दसि मोदसे, आनन्दस्वरूपत्वात् सर्वतो विमुञ्चसि विसृजसि, विमुञ्चन-नन्दनाभ्यां पायूपस्थेन्द्रियव्यापारावुक्तौ । सर्वत्र संसरसि प्रकरणात् सञ्चरसीत्यर्थः, अनेन पादेन्द्रियव्यापार उक्तः । सर्वतो गर्जसि, अनेन वाग्व्यापारः, सर्वत्र कुरुषे, पाणीन्द्रियव्यापारश्चोक्तौ। तव कर्मजालवैचित्र्यं सर्वत्र कर्मेन्द्रियव्यापाररूपक्रियाकलापानाम् अद्भुतं को निरूपयितुं वर्णयितुं क्षम: ? न कोऽपि समर्थ इत्यर्थः ॥१०॥

विश्वाम्बिके त्वयि रुचां पतयः कियन्तो नानाविधाब्धिकलिताः क्षितयः कियत्यः॥
बिम्बानि शीतमहसां लसतां कियन्ति नैतच्च वेद यदि को विबुधो बहुज्ञः ॥११॥

विश्वाम्बिके इति-- विश्वाम्बिके जगन्मातः, त्वयि अधिकरणभूतायां कियन्त: रुचां पतयः कति सूर्याः ? नानाविधाब्धिकलिताः लवणेक्षुसुरादि-समुद्रवलयिताः क्षितयः भूमयः कियत्यः कति ? लसतां राजमानानां शीत-महसां चन्द्राणां बिम्बानि मण्डलानि कियन्ति ? एतच्च यदि न वेद न जानाति, को बहुज्ञो बहु जानातीति बहुज्ञः विबुधः पण्डितो भवतीत्यध्या- हारः, सर्वाधारभूतायां त्वयि आधेयभूताः सूर्यचन्द्रभूमयः पृथक् पृथक् कति सन्तीति अजानन् पुरुषः कथं बहुज्ञः पण्डितो भवितुमर्हति ? सर्वोऽपि किञ्चिज्ज्ञ एवेत्यर्थः । अनेन बहवः सूर्याः नक्षत्रात्मनाऽवस्थिताः तथा एक-कस्यापि सूर्यकुटुम्बस्य भूमयः, ताः समाश्रित्य चरन्तश्चन्द्रमसश्चेति प्रथम-शतकद्वितीयस्तबकस्थश्लोकाः स्मरणीयाः। तत्र ’पुनर्विपाकतः’ इति श्लोके ’मण्डलानि भास्वताम्’ ’विसर्जनेन’ इति श्लोके ’महीषु चाम्बिके युवाम्’ इत्या-द्यवधेयम् ॥११॥

अथ ब्राह्मयादिसप्तमातृकाणां वैभवं पृथक् सप्तभिः श्लोकरभिधीयते ॥

अव्यक्तशब्दकलयाऽखिलमन्तरिक्ष त्वं व्याप्य देवि सकलागमसम्प्रगीते ॥
नादोऽस्युपाधिवशतोऽथ वचांसि चासि ब्राह्मीं वदन्ति कवयोऽमुकवैभवां त्वाम् ॥१२॥

अव्यक्तेति-- सकलागमसम्प्रगीते सकलैरागमैस्तन्त्रशास्त्रैः सम्प्रगीते अभि-ष्टुते देवि, अव्यक्तशब्दकलया अव्यक्तशब्दः प्रणवः तस्य कलया अंशेनेत्यर्थः, अखिलम् अन्तरिक्षमाकाशं व्याप्य स्थिता त्वं नादोऽसि नादशब्दवाच्याऽसि कारणवाग्रूपाऽसीत्यर्थः, अथ अनन्तरम् उपाधिवशतः उप समीपे स्थित्वा स्वीयं रूपमन्यत्र आदधातीति उपाधिः तस्य कार्योपकरणादेर्वशतः तन्त्रतः वचांसि चासि व्यक्ता: वाचोऽपि भवसि इत्यर्थः । प्राक्चोक्तं ’नादोऽसि वागसि’ इति। अमुकवैभवाम् अमुकं कार्य-कारणोभयविधवागात्मकम् ईदृक् वैभवं विभो-र्भावः ऐश्वर्य यस्याः तां त्वां कवयः सूरयः ब्राह्मीं ब्रह्मण इयं ब्राह्मी तां ब्रह्मशक्ति वदन्ति ॥१२॥

अथ वैष्णवीं मातृकां व्याचष्टे ।

नानाविधैर्भुवनजालसवित्रि रूपै-प्तिकनिष्कलगभीरमहस्तरङ्गः ॥
व्यक्तं विचित्रयसि सर्वमखर्वशक्ते सा वैष्णवी तव कला कथिता मुनीन्द्रः ॥१३॥

नानाविधैरिति- भुवनजालसवित्रि जगज्जालजनयित्रि, अखर्वशक्ते न खर्वा ह्रस्वा अखर्वा अनल्पेत्यर्थः, शक्तिर्यस्याः सा तस्याः सम्बोधनं, व्याप्तक- निष्कलगभीरमहस्तरङ्गः व्याप्ताः व्यापिनः कर्तरि क्तः, एकस्य अद्वितीय-स्य निष्कलस्यानंशस्य गभीरस्य अगाधस्य गम्भीरस्य वा महसस्तरङ्गाः भङ्गाः येषां तैः नानाविधैः रूपैश्चक्षुर्गायैः साधनैः सर्वं विश्वगतं वस्तुजातं व्यक्तं पृथक्तया स्पष्टं विचित्रयसि विचित्रम् अद्भुतं करोषि। यया कलया त्वमेवं करोषि, सा तव कला मुनीन्द्रस्तापसोत्तमैः वैष्णवी विष्णोरियं विष्णुशक्तिः कथिता। कारणज्योतिषः कार्यावस्थायां रूपात्मकतासिद्धिः प्रसिद्धा। व्यक्तस्य सर्गस्य रूपसम्पादिका माता विष्णुशक्तिरिति तात्पर्यम् । ॥१३॥

अथ माहेश्वरी मातृकाम अभिधत्ते ॥

व्यक्तित्वमम्ब हृदये हृदये दधासि येन प्रभिन्न इव बद्ध इवान्तरात्मा।
सेयं कला भुवननाटकसूत्रभत्रि माहेश्वरीति कथिता तव चिद्विभूतिः ॥१४॥

व्यक्तित्वमिति-- भुवननाटकसूत्रभत्रि ! भुवनं नाटकमिव तस्य सूत्र-भत्रि सूत्रधारभूता नाटयितृत्वात्, तस्याः सम्बुद्धिः, अम्ब, हृदये हृदये प्रति-हृदयं व्यक्तित्वं पृथगात्मतया अहमहमिति वृत्तित्वं दधासि धारयसे, सर्वस्यापि अहन्तास्पदं हृदयमिति प्रसिद्धेः । येन हृदयाधिकरणकव्यक्तित्वधानेन अन्त-रात्मा एकोऽपि सर्वान्तरात्मा प्रभिन्नः इव भेदवाननेक इव बद्ध इव नित्य-मुक्तोऽपि बन्धवानिव भवति । यया भेदभ्रमजनयित्र्या कलया एकोऽप्यन्त-रात्मा अनेक इव अव्यक्तोऽपि व्यक्त इव स्वतन्त्रोऽपि बद्ध इव भवति, सेयं तव कला अंशः चिद्विभूति: चित: अखण्डप्रज्ञायाः विभूतिरैश्वर्यभूता माहे-श्वरी महेश्वरस्येयं महेश्वरशक्तिः कथिता प्रोक्ता। नादात्मिका वाग्विभूति-ब्राह्मी कला, विश्वरूपस्थितिसम्पत्तिः शोभाविभूतिर्वैष्णवी कलेति अतीताभ्यां श्लोकाभ्यां प्रतिपाद्य, इह अगणितभेदभ्रमभूयिष्ठजगन्नाटकसंविधात्री हृदय-स्थेश्वरमाया चिद्विभूति: माहेश्वरी कलेत्युक्तम् । अत्र हृदय-प्रभिन्न इव-बद्ध-इव-भुवननाटकादिशब्दप्रयोगादीश्वरो हृदयदेशे मायया सर्वभूतानि भ्रामयंस्ति-ष्ठतीति गीताश्लोकार्थोऽनुसन्धेयः ॥१४॥

अथ कौमारी मातृकाम् आचष्टे ।

आहारशुद्धिवशतः परिशुद्धसत्त्वे नित्यस्थिरस्मृतिवरे विकसत्सरोजे ।
प्रादुर्भवस्यमलतत्त्वविभासिका या सा त्वं स्मृता गुरुगुहस्य सवित्रि शक्तिः ॥१५॥

आहारेति- आहारशुद्धिवशतः आहारशुद्धिश्च स्थूलतया सात्त्विकाहार-सम्पादितदेहाश्रितान्तःकरणशुद्धिः, सूक्ष्मतया तु विषयेन्द्रियसंयोगेषु ’गुणा गुणेषु वर्तन्ते’ ’इन्द्रियाणि इन्द्रियार्थेषु’ इति व्यवसायात्मिकया बुद्ध्या प्रकृति-व्यापारात् पृथगात्मानं प्रत्यगवस्थितं विदन् यश्चरति तस्य आहारशुद्धिः जायते, आहारश्च आह्रियमाणाः विषयाः, इन्द्रियैः आह्रियमाणानां विषयाणां शुद्धिः रागादिभिरलिप्तत्वात्, तद्वशतः परिशुद्धसत्त्वे परिशुद्धं निर्मलं सत्त्वम् अन्तःकरणं यस्य तस्मिन्, नित्यस्थिरस्मृतिधरे नित्या स्थिरा ध्रुवा स्मृतिः प्रज्ञा तस्याः धरः तस्मिन् विकसत्सरोजे विकसत् उन्मीलितं सरोजं पुण्डरीकं प्रकरणात् हृदयं यस्य तस्मिन् जने, अमलतत्त्वविभासिका शुद्धसत्यप्रकाशिका या त्वं प्रादुर्भवसि, आविर्भवसि प्रकाशस इत्यर्थः, सा त्वं, सवित्रि जननि, गुरु-गुहस्य कुमारस्य शक्ति: कौमारी शक्तिः स्मृता। अत्र नारदसनत्कुमारा-ख्यायिकाप्रकरणस्य छन्दोगश्रुतिवचनं भवति- ’आहारशुद्धौ सत्त्वशुद्धिः, सत्त्व-शुद्धौ ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः । तस्मै मृदितकषा-याय तमसः पारं दर्शयति भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते तं स्कन्द इत्याचक्षते’ इति। एवं स्कन्दसनत्कुमारयोरव्यतिरेकमामनन्ति छन्दोगाः । सेयं सनत्कुमाराख्यस्य स्कन्दस्य गुरुगुहस्य शक्तिः कौमारी शक्तिः इहाभि-वणिता ॥१५॥

अथ वाराहीं मातृकां स्तौति ।।

हव्यं यया दिविषदो मधुरं लभन्ते कव्यं यया रुचिकरं पितरो भजन्ते ॥
अश्नाति चान्नमखिलोऽपि जनो ययैव सा ते वराहवदनेति कलाऽम्ब गीता ॥१६॥

हव्यमिति- यया कलया दिविषदो देवाः मधुरं स्वादु हव्यं देवेभ्यो दीयमानम् अन्नं लभन्ते प्राप्नुवन्ति, ’हव्यकव्ये दैवपत्रे अन्ने’ इत्यमरः । यया पितरः पितृदेवाः रुचिकरं रोचकं कव्यं पितृभ्यो दीयमानमन्नं भजन्ते सेवन्ते, यया कलयव अखिलोऽपि जनः मानवः अन्नं भोज्यमश्नाति भुक्ते, सा ते कला वराहवदना वाराहीति गीता। सर्वस्य भोक्त्री भोजयित्री च वाराही ययैव सर्वे देवाः पितरो मनुष्याश्च भोजनसामर्थ्यवन्तो भवन्तीति भावः ॥१६॥

अथेन्द्राणी मातृकां स्तौति ॥

दुष्टान्निहंसि जगतामवनाय साक्षा-दन्यैश्च घातयसि तप्तबलैर्महद्भिः॥
दम्भोलिचेष्टितपरीक्ष्यबला बलारेः शक्तिय॑गादि तव देवि विभूतिरेषा ॥१७॥

दुष्टानिति- देवि, जगतां लोकानामवनाय रक्षणाय दुष्टान् साक्षात् प्रत्यक्षं निहंसि हिनस्सि अन्यद्वारा विनैव स्वयमेव निगृह्मासीत्यर्थः । अन्यैः इतरैः तप्तबलै: तप्तं प्रतप्तं ज्वलितमिति यावत् बलं येषां तै: महद्भिः महासत्त्वारा च घातयसि, स्वयं हंसि अन्याराऽपि घातयसि । एषा एवं कुर्वती तव विभूति: दम्भोलिचेष्टितपरीक्ष्यबला दम्भोलेरशनेः वज्रायुध-स्येति यावत्, चेष्टितेन विलसितेन परीक्ष्यं प्रमाणः अवधार्य बलं यस्याः सा। अस्याः शक्तेर्बलनिर्णयविषये वज्रायुधमेव परीक्षकं स्यादिति भावः । बलारे-रिन्द्रस्य शक्तिः इन्द्राणी न्यगादि। दुष्टनिप्रहशक्तिर्मातुर्विभूतिः इन्द्राणीति तात्पर्यम् ॥१७॥

अथ चामुण्डां सप्तमी मातृकां वर्णयति ॥

सङ्कल्परक्तकणपानविवृद्धशक्त्या जाग्रत्समाधिकलयेश्वरि ते विभूत्या ॥
मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्या9

सङ्कल्पेति- ईश्वरि देवि चामुण्डया एतदाख्यया ते तव विभूत्या तनुषु अस्मदादीनां शरीरेष्वित्यर्थः, किं न कृतं स्यात् ? सर्वमपि कृतं भवेदित्यर्थः । तस्याश्चामुण्डायाः स्वरूपं निरूपयितुं तां विशिनष्टि। सङ्कल्परक्तकणपान-विवृद्धशक्त्या सङ्कल्पाः चित्तवृत्तिविशेषाः एव रक्तकणाः रुधिरबिन्दवः तेषां पानेन विवृद्धा बृंहिता शक्तिर्यस्यास्तया, जाग्रत्समाधिकलया सम्यगांधीयते मनोऽस्मिन्निति समाधिः जाग्रद्दशायां यः समाधिः जाग्रत्समाधिः स एव कला विद्या तया मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्या मूलाग्निरेव मूलाधारस्थः कुल-कुण्डाग्निरेव चण्ड: चण्डाख्योऽसुरः शशी चन्द्र: स एव मुण्ड: एतदाख्योऽसुरः तयोः तनुत्रयोः कवचभूतयोः ग्रन्थ्योः भेत्र्या विदारयित्र्या चामुण्डया किं न कृतं स्यादिति सम्बन्धः । अत्र देवीमाहात्म्यप्रोक्तस्य चामुण्डया कृतस्य रक्त-बीजासुररुधिरपानस्य चण्डमुण्डनिषूदनस्य च आध्यात्मिकं तत्त्वं रूपकापदेशेन उद्घाटितं कविना। तथा हि अष्टमेऽध्याये दुर्गासप्तशत्यां चामुण्डानामलाभ-प्रकारः कथ्यते- ’यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता। चामुण्डेति ततो लोके ख्याता देवि भविष्यसि’ इति। पुनश्च नवमेऽध्याये रक्तबीजा-सुरप्रस्तावे- ’पलायनपरान् दृष्टा दैत्यान् मातृगणार्दितान्। योद्धमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ।।. . . . . . तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत्। व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ तान्विषण्णान्सुरा-न्दृष्टा चण्डिका प्राह सत्वरा। उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु । मच्छस्त्रपातसम्भूतान् रक्तबीजान् महासुरात्। रक्तबिन्दून् प्रतीच्छ त्वं वक्त्रे-णानेन वेगिना॥’ इति । अत्र श्लोके चामुण्डाया विभूते: स्वरूपं जाग्र-त्समाधिकलेत्युक्तम्। जाग्रद्दशायामेव यः सहजः समाधिरेकाग्रध्यानरूपो न तु सुषुप्तौ अष्टाङ्गयोगनिष्पाद्ये लये वा, स एव विचित्रा विद्या कला चामुण्डा-विभूते: स्वरूपम्। अस्याः शक्तिस्तु सङ्कल्पोपसंहाराद्वर्धते। इदं सङ्कल्पो-पसंहरणमेव चामुण्डाकृतरक्तबीजासुररुधिरबिन्दुपानम्। मूलाधाराग्निप्रबोध-नमेव चण्डतनुत्रभेदनम्। मूलाग्नेरयोगिषु तमोधूमावृतत्वात्सोऽसुरवत् प्रति-कूलश्चण्डो भवति। तत्कवचभेदनं तु तत्रस्थग्रन्थिभेदनं येन निरावरणो ज्वलति। योगिषु प्रसिद्धस्य सहस्रारामृतांशुमण्डलस्य प्रावरणं मन एव मुण्डोऽसुरः, तस्मान्मनसो निग्रहणमेव सुण्डकवचभेदनं, येन सहस्रारामृतकिरण-झरीमास्वाद्यामृतीभवति योगी। एवं रक्तकणपानचण्डमुण्डतनुत्रभेदनरूपेण सङ्कल्पोपसंहार-मूलाग्निधूमापावरण-सहस्रारावरणप्रभेदनानि यया कलया नि-ह्यिन्ते सा चामुण्डा विभूतिर्महाशक्तेरुमाया इति गहनं योगिजनकवेद्यं सङक्षेपेण दिङमात्रमुपदर्शितम् ॥१८॥

एवं सप्त मातृकाः संस्तूयेदानीम् एकैव महाशक्तिर्माया स्थानभेदात् चातुर्विध्यं भजत इत्याह ।

त्वं लोकराज्ञि परमात्मनि मूलमाया शके समस्तसुरभर्तरि जालमाया ॥
छायेश्वरान्तरपुमात्मनि योगमाया संसारसक्तहृदयेष्वसि पाशमाया ॥१९॥

त्वमिति- लोकराज्ञि, त्वं परमात्मनि मूलमाया भवसि। समस्तसुर-तरि सर्वदेवराजे शके जालमाया असि। लोकप्रसिद्धं चेन्द्रजालम् । इन्द्र-य जालमायाया मन्त्रलिङ्गं च भवति । ’रूपं रूपं प्रतिरूपो बभूव तदस्य पं प्रतिचक्षणाय। इन्द्रो मायाभिः पुरुरूप ईयते’ इति। छायेश्वरान्तर-मात्मनि छायेश्वरस्य सूर्यमण्डलस्य अन्तरे यः पुमात्मा पुरुषः विष्णुः तस्मिन् गमाया भवसि। विष्णोर्योगमाया दुर्गासप्तशत्यां गीतासु च प्रसिद्धा। सारसक्तहृदयेषु संसारे जननमरणात्मके सक्तानां सङ्गिनां हृदयेषु पाश-या बन्धजननी माया असि ।।

अत्र प्रथमं केवला परमात्मनः ततः विश्वापेक्षया परमेश्वरस्येन्द्रस्य क्तिः, ततोऽस्य ब्रह्माण्डस्य पितु: भानोर्मध्यवर्तिनः विष्णोः, अन्ते चाध्या-संसारिणश्च मायाः चतस्रः एकस्या एव रूपाणीति प्रत्यपादि ॥१९॥

एवं क्रियात्वेन विजृम्भितां चतुर्विधां मायापदवाच्यां महाशक्तिमभिष्टुत्य क्रियाधारभूतां समुपसंहृतस्वात्मविलासां स्वस्थां समाहितसर्वसामर्थ्यां यस्वरूपां निद्रापदवाच्यां तामेव महाशक्ति प्रस्तौति ॥

त्वं भूतभर्तरि भवस्यनुभूतिनिद्रा सोमस्य पातरि बिडौजसि मोदनिद्रा।
सप्ताश्वबिम्बपुरुषात्मनि योगनिद्रा संसारमग्नहृदयेष्वसि मोहनिद्रा ॥२०॥

त्वमिति- भूतभर्तरि भूतानां प्राणिनां भर्तरि पालके भूतेशे ईश्वरे अनु-तिरूपिणी निद्रा अनुभूतिनिद्रा भवसि, सोमस्य सोमरसस्य पवमानाख्यस्य तरि पानं कुर्वति बिडौजसि इन्द्रे, मोदरूपिणी निद्रा मोदनिद्रा आनन्द-मखभुज इन्द्रस्य सोमपात्वं प्रसिद्धम्। सप्ताश्वबिम्बपुरुषा-मनि सप्ताश्वबिम्बे सूर्यबिम्बे यः पुरुषः तस्यात्मनि विष्णौ योगनिद्रा, राहोः शिर इव पुरुषात्मनीत्यत्र बोध्यम्। संसारमग्नहृदयेषु भवाम्बुधौ मग्नानां जनानां हृदयेषु मोहनिद्रा मोहात्मिका निद्रा असि । अत्रेदं बोध्यम्। अव्या-कृतनामरूपं परं ब्रह्म सदेव असदिति श्रुतिषु गीयते- ’असद्वा इदमग्र आसीत्’ इति इदमेवासत् तमः इति मन्त्रवर्णेनाभिहितम्। ’तम आसीत्तमसा गूळ्ह-मग्रे’ इति, इदं च मूलं तमः सर्वलयात्मकं वस्तु स्वास्थ्यानुभूतिरूपं स्वशक्त्या निद्रापदवाच्यत्वं भजते। इमां च महाशक्ति तान्त्रिकाः तामसी काल-रात्रिं गायन्ति। सैषैका निद्रा लयस्वभावा भूतेशे स्वस्थानुभूतिः, इन्द्रे आनन्द-लहरी, विष्णौ योगसम्पत्तिः, संसारिणि पुरुषे मोहशक्तिश्चेति संक्षेपः ॥२०॥

अथ देवीमाहात्म्यचरित्रत्रयप्रतिपादितासु तिसृषु देवीमूर्तिष्वाद्यां काली प्रस्तौति॥

विष्णुश्चकार मधुकैटभनाशनं य-न्मुक्तः सहस्रदलसम्भवसंस्तुता सा ॥
काली घनाजननिभप्रभदेहंशालि-न्युग्रा तवाम्ब भुवनेश्वरि कोऽपि भागः ॥२१॥

विष्णुरिति- अम्ब भुवनेश्वरि, यन्मुक्त: यया योगनिद्रया मुक्त: विष्णुः मधु-कैटभनाशनं मधुः कैटभश्च मधु-कैटभौ एतन्नामानावसुरौ तयोर्नाशनं चकार। सहस्रदलसम्भवसंस्तुता सहस्रदलसम्भवेन पद्मयोनिना ब्रह्मदेवेन सं-स्तुता सन्नुता, घनाञ्जननिभप्रभदेहशालिनी घनाजननिभा सान्द्रकज्जलाभा प्रभा शोभा यस्य सः देहः तेन शालते शोभत इति घनाञ्जननिभप्रभदेह-शालिनी उग्रा उद्गीर्णबला सा काली मूर्तिः तव कोऽपि भागः कलाविशेष इति भावः। अत्रेमे सप्तशतीप्रथमाध्यायश्लोका उल्लेख्या भवन्ति- ’योग-निद्रां यदा विष्णुर्जगत्येकार्णवीकृते। आस्तीर्य शेषमभजत् कल्पान्ते भगवा- नप्रभुः॥ तदा द्वावसुरौ घोरौ विख्यातौ मधु-कैटभौ। विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।। स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । तुष्टाव योगनिद्रां ताम् एकाग्रहृदयस्थितः ।। ’ इति । तथा चोत्तरत्र ‘एवं स्तुता तदा देवी तामसी तत्र वेधसा’ इति अत्र तामसी योगनिद्रेत्यर्थः, ’उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः’ अत्र तया योगनिद्रयेति बोध्यम् । अत एव श्लोके यन्मुक्त इत्यत्र यया योगनिद्रया मुक्त इति व्याख्यातम् ॥२१॥

एवं काली मधुकैटभदमनी स्तुत्वा, लक्ष्मी महिषमर्दिनीं द्वितीयचरित-देवतां देवीमूर्ति प्रस्तौति ॥

विद्युत्प्रभामयमधृष्यतमं द्विषद्धि-श्चण्डप्रचण्डमखिलक्षयकार्यशक्तम् ॥
यत्ते सवित्रि महिषस्य वधे स्वरूपं तच्चिन्तनादिह नरस्य न पापभीतिः ॥२२॥

विद्युदिति- सवित्रि जननि, महिषस्य असुरस्य वधे हनने विषये विद्यु-प्रभामयं वैद्युतज्योतिर्मयं दुर्दर्शमिति भावः, द्विषद्भिः शत्रुभिः अधृष्यतमं अनभिगम्यतमम् अत्यन्तदुर्गममित्यर्थः, यत् ते तव चण्डप्रचण्डम् अखिलक्षय-कार्यशक्तं स्वरूपम् अभूत् इत्यध्याहार्यम्। तच्चिन्तनात् तस्य चिन्तनात् व्यानात् नरस्य पापभीतिर्न भवतीति शेषः, महिषासुरवधोद्युक्तं यत्ते दुर्ग दुर्दर्श वैद्युतप्रभामयं स्वरूपं तस्य ज्योतिर्मयवपुषो ध्यानेन सर्वतमोरूपपाप-ध्वंसो भवतीति नात्र चित्रम् ॥२२॥

अथ शुम्भदमनीं तृतीयचरितदेवतां सरस्वतीमूर्ति स्तौति ॥

शुम्भ निशुम्भमपि या जगदेकवीरौ शूलाग्रशान्तमहसौ महती चकार ॥
सा कौशिकी भवति काशयशाः कृशोद-र्यात्माङ्गजा तव महेश्वरि कश्चिदंशः ॥२३॥

शुम्भमिति- महेश्वरि ! जगदेकवीरौ जगतो लोकस्य एको मुख्यौ अ-समानौ वा वीरौ शूरौ जगदेकवीरौ शुम्भम् असुरं निशुम्भमपि तस्य भ्रातर-मसुरं या महती तव मूर्तिरित्यर्थः, शूलाग्रशान्तमहसौ शूलस्य आयुधस्याग्रे शान्तं निर्वीर्यं महस्तेजः प्रताप इति यावत्, ययोस्तौ विधेयविशेषणं चकार, या ते महती मूर्तिः शुम्भ निशुम्भं च शूलेन निस्तेजस्को व्यधादिति भावः । काशयशाः काशः श्वेतपुष्पविशेषः स इव यशो यस्याः सा शुभ्रयशा इति यावत्, कृशोदरी तनुमध्या आत्माङ्गजा तव शरीरसम्भूता सा कौशिकी एतन्नाम्नी देवी तव कोऽपि भागः अंशविशेष इत्यर्थः । तथा चोक्तमन्यत्र ’कौशिकी नाम सा दुर्गा हन्त्री शुम्भ-निशुम्भयोः’ इति ॥२३॥

अथ महाशक्तिमिष्टदेवतां शरणागतिमुखेन तत्प्रसादं याचते ॥

माये शिवे श्रितविपद्विनिहन्त्रि मातः पश्य प्रसादभरशीतलया दृशा माम् ॥
एषोऽहमात्मजकलत्रसुहृत्समेतो देवि त्वदीयचरणं शरणं गतोऽस्मि ॥२४॥

माये इति- माये कपटनाटकसूत्रभत्रि, शिवे, मङ्गलस्वरूपे, श्रितविप-द्विनिहन्त्रि, श्रितानामाश्रितानां विपदामापदां विनिहन्त्रि विनिवारिणि मातः अम्ब, प्रसादभरशीतलया प्रसादः प्रसन्नता अनुग्रहश्च तस्य भरेण शीतलया शीतया दृशा दृष्टया माम् इमम् जनं पश्य वीक्षस्व । देवि, आत्मजकलत्रसुहृ-त्समेत: मदाश्रितपुत्रदारमित्रैः सह त्वदीयचरणं शरणं गतोऽस्मि प्रपन्नो-ऽस्मि । दुर्गा भगवती न केवलं निजचरणाश्रितं जनम् अनिष्टपरिहरणाभीष्टदा-नाभ्यामनुगृह्णाति, अपि तु तम् अन्येषामाश्रयं च विधत्त इति देव्याः परम-कारुणिकत्व-वदान्यत्वे प्रसिद्धे। अत एव मामाश्रितैः आत्मजादिभिः सह शरणं गतोऽस्मीत्युपपन्नम् । तथा च सप्तशत्यां ’त्वामाश्रिता ह्याश्रयतां प्रयान्ति’ इति ॥२४॥

अर्थभिः वसन्ततिलकानिबद्धैः स्तोत्रैर्देवीप्रीणनाशंसया साधुसङ्गानन्दलाभ-प्रार्थनया च स्तबकमुपसंहरति ।

धिन्वन्तु कोमलपदाः शिववल्लभाया-श्चेतो वसन्ततिलकाः कविकुञ्जरस्य ॥
आनन्दयन्तु च पदाश्रितसाधुसङ्ख कष्टं विधूय सकलं च विधाय चेष्टम् ॥२५॥

धिन्वन्त्विति-- कोमलपदाः कोमलानि ललितानि पदानि यस्याः सा कविकुञ्जरस्य कविश्रेष्ठस्य गणपतेर्मम वसन्ततिलका एतन्नामकवृत्तबद्धाः स्तुतयः शिववल्लभायाः उमादेव्याः चेतो हृदयं धिन्वन्तु प्रीणयन्तु। कष्टम् अनिष्टं दुःखं विधूय अपवार्य इष्टम् ईप्सितं विधाय च पदाश्रितसाधुसङ्घ चरणाश्रितसज्जनसमूहम् आनन्दयन्तु च। इमाभिः मदीयाभिः वसन्ततिलकाभिः स्तुतिभिः द्वे अपि कर्मणी निर्वाह्येतां देव्याः प्रीणनकर्मैकम् अपरं च साधुजना-नन्दनम् ॥२५॥

सप्तमः स्तबकः सव्याख्यः समाप्तः









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates