ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




सप्तत्रिंशः स्तबकः

सप्तत्रिंशेऽस्मिन्नाचार्यस्तत्त्वदर्शी स्वाभिमतं तत्त्वसिद्धान्तमतिसूक्ष्मगभी-राशयाभिः कारिकाभिः सङक्षेपतः प्रतिपादयति। स्तबकादौ मन्दहासं देव्याः सङ्कीर्तयन् तस्य स्वरूपं साक्षात् परतत्त्वमेवेति प्रस्तौति ॥

उद्दीपयतु नश्शक्ति-मादिशक्तेर्दरस्मितम् ॥
तत्त्वं यस्य महस्सूक्ष्म-मानन्दो वेति संशयः ॥१॥

उद्दीपयत्विति- आदिशक्तेः सवसिां शक्तीनाम् इच्छाज्ञानक्रियात्मिकानां सृष्टिस्थितिलयतिरोधानानुग्रहकारिणीनां च या आदिः तस्याः मूलशक्तेः दर-स्मितं मन्दहसित वदनविकसितमिति यावत्, नः अस्माकं शक्तिम् अस्मत्सत्तायां अन्तर्गताम् अनभिव्यक्तां निद्रिताम् उद्दीपयतु उज्ज्वलयतु, अस्मासु निमग्नां शक्तिम् उद्धृत्य विजृम्भयतु। किं तत् दरस्मितं यदेवं प्रार्थ्यते? आह। यस्य दरस्मितस्य तत्त्वं स्वरूपं ’तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि’ इति नानार्थरत्नमाला। सूक्ष्मम् अलौकिकम् अन्तर्दृष्टिगोचरं महो ज्योतिरानन्दो वेति संशयो भवतीति शेषः। तमोपहत्वात् किमिदं मह इति दुःखापहत्वात् किमयमानन्द इति सन्देह इत्यर्थः । वस्तुतस्तु एकमेव तत्स्वरूपं ज्योतिः आनन्दश्च भवति। तत्पुरस्तात् स्पष्टं भविष्यति ॥१॥

अथ प्रथमं परतत्त्व प्रतिपादयति-

पूर्ण प्रज्ञातृ सब्रह्म तस्य ज्ञानं महेश्वरी ॥
महिमा तेज आहोस्वि च्छक्तिर्वा प्राण एव वा ॥२॥

पूर्णमिति- पूर्ण पूर्णत्वावच्छिन्नं, पूर्णत्वं च स्वेतरान्यूनानतिरिक्तत्वा-वच्छिन्नप्रतियोगिताकम्, असमाभ्यधिकम् अद्वितीयमेकमित्यर्थः। प्रज्ञातृ प्रज्ञान-धर्मि विषयिचैतन्याभिव्यञ्जकं, सत् सत्ताप्रत्ययगोचरं ब्रह्म भवतीत्यध्या-हार्यम् । यस्यैकस्य पूर्णत्वं प्रज्ञानं सत्तेत्येतानि स्वरूपधर्मतया स्थितानि तत् ब्रह्मेत्युक्तम् ’तस्य ज्ञानं महेश्वरी’ तस्य धर्मिभूतस्य ब्रह्मणः ज्ञानं महेश्वरी- त्युच्यते। ज्ञानं च संवित् । यद्यपि ज्ञायतेऽनेनेति करणव्युत्पत्त्या वृत्तिर्ज्ञानं भवति, तथापीह भावव्युत्पत्त्या ज्ञप्तिर्ज्ञानमिति संविद्भवति । पूर्ण ज्ञानं सत्यम् इति ब्रह्मणः स्वरूपलक्षणमुक्तम्, धर्मिणस्तस्य ब्रह्मणः ज्ञानं धर्मो महेश्वरीति च। तं च धर्म नामान्तरतोऽभिधत्ते। महिमा महत्त्वधर्मः, तेजो ज्योतिः, आहोस्वित् शक्तिः प्राण एव वा, स धर्म उच्यते। ज्ञानेन प्रका-शकत्वं, महिम्ना व्यापकत्वं, तेजसा पाचकत्वं, शक्त्या विश्वधारणसामर्थ्य प्राणेन जीवितरूपत्वं चेति प्रकाशकत्व-विभुत्व-पाचकत्व-विश्वजीवितधारण-सामर्थ्य-लक्षणलक्षिता महेश्वरी प्रज्ञातु: ब्रह्मणो ज्ञानम् इति सिद्धम् । अत्रा-चार्यप्रोक्तौ श्लोकौ भवतः-- ’ज्ञानं प्रकाशकत्वेन महिमा व्यापकत्वतः । सन्ततात्पचनात्तेजः शक्तिविश्वस्य धारणात् ॥

प्राणो जीवितरूपत्वात्सेयमीशाऽन-पायिनी। मूलं सर्वविकाराणां प्रकृति: परिकीर्त्यते ॥’ इति । प्रज्ञानं ब्रह्म तस्य ज्ञानं महेश्वरीति उक्तम् ॥२॥

-अथ ज्ञातृज्ञानयोः अद्वैतं सम्बन्धं दृष्टान्तेनोपपादयति-प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः ॥
प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥३॥

प्रचक्षत इति- ज्ञातुः धर्मिणः ज्ञानस्य धर्मस्य चोभयोः चिदात्मत्वं संवि-त्स्वरूपत्वं प्रचक्षते आहुः । तत्र दृष्टान्तमाह। यथा प्रदीपस्य प्रभायाश्च उभयोः ज्योतिराकृतितां ज्योतिराकृतिः स्वरूपं ययोस्ते ज्योतिराकृती तयोः भावः ज्योतिराकृतिता ज्योतिस्स्वरूपता भवति तथेति पूर्वेण सम्बन्धः ॥३॥

--यद्येवं प्रदीपप्रभयोरिवाग्न्युष्णतयोरिव वा ज्ञातृज्ञानयोः सम्बन्धो भवेत्तदा गुणगुणिसम्बन्धस्तयोविशेष्यविशेषकभावो वाच्य इति चेन्नेत्याह –

चित एकपदार्थत्वा-चिच्चिता न विशिष्यते ॥
तस्माद् गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥४॥

चित इति- चितः संविदः एकपदार्थत्वात् एकः पदार्थः पदनिष्ठवृत्ति-विषयः अभिधेय इति यावत्, तस्य. भावस्तस्मात् चित्पदनिष्ठज्ञानविषयस्यैक-स्वरूपत्वादित्यर्थः। चित् सा चिता स्वयैव न विशिष्यते। विशिष्टप्रत्य-यस्य सम्बन्धान्तरसापेक्षत्वात् । स्वस्य स्वेन विशिष्टता न सङ्गच्छत इति भावः। तस्मात् ज्ञानस्य ज्ञातृस्वरूपत्वात् गुणत्वं शङ्करेण भगवता शङ्करा-वतारिणा अद्वैताचार्येण भगवत्पादैरिति यावत् निराकृतम् । भाष्यग्रन्थेषु उपपत्तिपूर्वकं तथा प्रकरणग्रन्थेषु च निरस्तम् ॥४॥

अथ ज्ञातृज्ञानयोः प्रदीपप्रभयोरिवैकस्वरूपानभ्युपगमे दोषमाह—

ज्ञातुर्मानं स्वरूपं स्या न गुणो नापि च क्रिया ॥
यदि स्वस्य स्वरूपेण वैशिष्टयमनवस्थितिः ॥५॥

ज्ञातुरिति- ज्ञातुर्विषयिचैतन्याभिव्यञ्जकस्य ज्ञानं चैतन्यं स्वरूपं स्यात् । ज्ञानं ज्ञातृगतं न भवितुमर्हति। नापि च क्रिया, ज्ञातृकर्तृका क्रिया वा भवितुमर्हति । ’महिमा तेज आहोस्वित् शक्तिर्वा प्राण एव वा’ इत्युक्तेः । ज्ञानं ज्ञातृगुणो मा भूत्, अस्तु ज्ञातृक्रियेति शङ्कायां तन्निरासाय न गुणो नापि क्रियेति निषेधोक्तिः। यदि स्वस्य स्वरूपेण वैशिष्ट्यं भवेत्, अनवस्थितिः स्यात् अनवस्थादोषः आपद्येत । अयं भावः। स्वस्य ज्ञातुः स्वरूपेण ज्ञानेन वैशिष्टयं विशेषणप्रयुक्तत्वं यदि भवेत्, स्वरूपस्य ज्ञानस्य तत्स्वरूपतया वैशि-ष्ट्यं, तस्यापि पुनः तत्स्वरूपेणेति अनवधिः भवेदुपपाद्योपपादकप्रवाहः । तस्मादनवधिककार्यकारणप्रवाहापत्तिः मा भूदिति ज्ञातुर्ज्ञानेन स्वरूपेण वैशि-ष्टयं नेष्यते ॥५॥

अथ ज्ञातृज्ञानयोरेक एव पदार्थश्चेत्, कुतो द्विधा व्यवहारः ? ज्ञानं च ज्ञातृगतं, ज्ञातृ च ज्ञानवदिति चेदाह-

वाचैव शक्यते कर्तु विभागस्स्वस्वरूपयोः ॥
नानुभूत्या ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥६॥

वाचेति- स्वस्वरूपयोः स्वस्य स्वरूपस्य च उभयोः विभाग: विवेकः वाचैव कर्तुं शक्यते। वाचेति मनस उपलक्षणम्। यथा प्रदीपस्य प्रभायाश्च पृथक्करणं वाचा मनसैव वा शक्यते न तु वस्तुतः अनुभवेन, तथा ज्ञातुर्ज्ञान-स्य च विभजनं वाचिकमेव न वास्तवम्, अनुभूत्या न कर्तुं शक्यते। स्तस्मात् सच्छक्त्योः सतः शक्तेश्च, द्वैतं द्वितैव द्वैतं, द्विधा पृथग्भाग इति तत- यावत्, व्यावहारिक व्यवहारसिद्धं, न तु वस्तुगतम् । अत्र अयमभिसन्धिः। द्रव्याश्रितगुणक्रियादीनां पृथक्पदार्थत्वं नाभिमतम् । शारीरकभाष्ये द्वितीया-ध्यायस्य द्वितीयपादे ’अपरिग्रहाच्चात्यन्तमनपेक्षा’ इति सूत्रव्याख्याने भगव-त्पादै. निपुणतरमिदमुपपादितम्- ’अथ भवति द्रव्याधीनत्वं गुणादीनाम्’ इति प्रकृत्य ’तस्माद् द्रव्यात्मकता गुणस्य, एतेन कर्मसामान्यविशेषसमवायानां द्रव्या-त्मकता व्याख्याता’ इत्यादिना। अथ च क्वचिद् गुणैः विशिष्टत्वं सतो ब्रह्मण उच्यते श्रुतिस्मृतिपुराणेष्विति चेत्, गुणाः धर्मे उपचरिताः, धर्मपरतया ग्राह्या इत्याचार्यस्याशयः। अत्रायमस्य श्लोको भवति ’प्रज्ञानस्य गुणत्वं यत् प्रज्ञातुर्द्रव्यता च या। धर्मत्वादपि धर्मित्वात्तद् द्वयं चौपचारिकम् ॥’ इति ॥६॥

उक्तं ज्ञातृज्ञानयोरेकमेव स्वरूपम्; तयोः द्विधाभावः व्यवहारमात्रः; वस्तुतो नेति । जानातेः सकर्मकत्वात् कस्तहि ज्ञानगोचरः? यश्च ज्ञानस्य विषयो भवति स ज्ञातुरन्य एव स्यात्। असति च ज्ञेये सतो ज्ञातृत्वमेव न सिद्धयेत् इति शङ्कायामाह –

ब्रह्मज्ञानस्य पूर्णस्य विषयो द्यौरुदीर्यते ॥
सा ब्रह्मणो व्यापकत्वा द्वस्तुतो नातिरिच्यते ॥७॥

ब्रह्मेति- पूर्णस्य अभिन्नस्य ब्रह्मज्ञानस्य ब्रह्मणः सतः ज्ञातुः ज्ञानस्य विषयः द्यौः अन्तरिक्षम् आकाश इति यावत्, उदीर्यते उच्यते। सा च द्यौः वस्तुतः सतो ब्रह्मस्वरूपत्वात् नातिरिच्यते न व्यतिरिक्ता। कुतः? ब्रह्मणो व्याप-कत्वात्। द्वितीयकारिकायां व्याख्याने च ’महिमा व्यापकत्वतः’ इति प्रति-पादितम् । ब्रह्मणो बृहत्त्वम् एव महत्त्वं भवति । तच्च व्यापकतया आकाशरूपेण गृह्यते । तस्मादाकाशं विभु ब्रह्म, स्वीयं व्यापकत्वं ब्रह्मज्ञानस्य विषयो भवतीत्यर्थः । तस्मादस्य वस्तुतः सतोऽव्यतिरेकः ॥७॥

आकाशस्योत्पत्तिविनाशौ श्रूयेते, कथं तत् नित्यम् अनाद्यनन्तं ब्रह्म भव-तीति चेदाह

विकासादपि सङ्कोचात् सर्गप्रलययोर्द्वयोः ॥
प्रज्ञानस्य बुरुक्तौ जन्मनाशावुभौ दिवः ॥८॥

विकासादिति- सर्गप्रलयययोः सर्गस्य सृष्टे: प्रलयस्य च विलयस्य द्वयोः विकासाद्विजृम्भणात् सङ्कोचात् सङग्रहादपि हेतोः प्रज्ञानस्य दिवः आकाश-रूपिणो ब्रह्मणो जन्म-नाशौ उत्पत्तिः नाशश्चोभौ बुधैरुक्तौ। विकासात्सृष्टि: सङ्कोचाच्च प्रलयः । जगत: सृष्टिप्रलययोः सत्त्वात् तन्मूलस्य आकाशस्यापि उत्पत्ति-लयश्रुतिर्भवति। वस्तुतस्तु सः आकाशो ब्रह्मवैभवमेव भवति, तन्नो-त्पद्यते । तैत्तिरीयाणामुत्पत्तिश्रुतिस्तु जगत्सृष्ट्यपेक्षया ॥८॥

अनुत्पन्नमाकाशं ब्रह्मानतिरेकादित्याह-

धर्मभूतं परस्येदं न कायं परमं नमः ॥
अखण्डत्वान्न विकृति विश्वस्मिन्नप्रकृतित्वतः ॥९॥

धर्मभूतमिति- परस्य ब्रह्मणो धर्मभूतं धर्मतां गतम्, इह भूतशब्द: स्व-रूपवाची, न तूपमार्थे, इदं परमम् उत्तम नभः परमव्योमपदवाच्यम् अन्तरिक्षम् न कार्य, तस्यैव ब्रह्मत्वात् विश्वकारणत्वाच्च । अत एव छान्दोग्यश्रुति-राकाशस्यानुत्पत्ति श्रावयति प्राणस्य च। कुतोऽनुत्पत्तिः ? पूर्ण ब्रह्म तन्-महत्त्वं चाखण्डम् । अखण्डत्वात् हेतोः न विकृतिः। विकृतित्वे तु कार्य स्यात्। तन्न। प्रत्युत विश्वस्मिन् सर्वत्र विक्रियमाणे अवशिष्यमाणस्य विभो-राकाशस्य प्रकृतित्वं भवतीति हेतोः न विकृतिरित्यर्थः। प्रकृतित्वं च उपा-दानकारणं बोध्यम् । एवं परस्य ब्रह्मणो धर्मिणो धर्म एव आकाशमिति स्थितम्। धर्मश्च भावादनन्यः ’यस्मिस्तत्त्वं न विहन्यते स भावो धर्म’ इति महाभाष्यकारः। एवम् अप्युपपद्यते- ’आकाशशरीरं ब्रह्म’ इत्यादिश्रुतिः । प्रज्ञातुः सतः परमात्मनः प्रज्ञानस्य विषयतया व्यापकमाकाशं स्वं वपुरित्यु-क्तम् । अनेन धर्मिणो वैभवं प्रतिपादितम् ॥९॥

अथ धर्मस्य वैभवमाह-

आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः ॥
एकाप्रत्वात्प्रवृद्धोष्म- गभीरमभवन्महः ॥१०॥

आकाश इति- आकाशे विषये स्वशरीरभूते दीप्यत् ज्वलत् परमात्मनः अस्मीति नित्यं स्फुरतः अहम्पदपरमार्थस्य आत्मनः सतः प्रज्ञानम् एकाग्रत्वात् स्वतोऽन्यस्याभावात् स्वस्मिन्नेव घनतया स्थितेर्हेतोः स्वास्थ्यादिति यावत्, प्रवृद्धोष्मगभीरं प्रवृद्धेन ऊष्मणा धर्मेण तपसेत्यर्थः गभीरं गम्भीरं महस्तेजः अभवत् । प्रज्ञानस्य व्यापकत्वे एकाग्रतया अवस्थानात् तपोविजृम्भणेन पाचकत्वलक्षणं तेजस्त्वं समपद्यतेत्यर्थः ॥१०॥

एतावतोक्तमर्थं सङक्षिप्य प्रज्ञानस्य त्रिधाऽवस्थानं निष्कृष्टमाह

त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृति विना ॥
शुद्धत्वविषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥११॥

विधेति- धर्मभूतस्य विकृति विना विकृति वर्जयित्वा स्वस्थस्य अत एव प्रकृतिभूतस्य ज्ञानस्य प्रज्ञानस्य, एवम् उक्तप्रकारेण त्रिधा त्रिप्रकारेण दशा-त्रयम् अवस्थात्रयं भवतीति शेषः। कुतः शुद्धत्व-विषयत्वाभ्यां शुद्धत्वात् प्रकृतित्वेन स्थितेः, विषयत्वाच्च व्यापकत्वेन स्थितेः, महस्त्वात् विकृति-निमित्तस्य तपोवैभवस्य तेजसः पाचकत्वेन स्थितेः च इति तिस्रो दशाः प्रज्ञान-स्य भवन्ति इत्यर्थः । अनेन प्रज्ञानस्य धर्मस्य प्रज्ञातृगता स्वरूपेणावस्थितिः शुद्धा दशा। आकाशे विषये व्यापकता विषयदशा, तपोवैभवजा पाचकता महस्त्वदशा चेत्युक्तं भवति । एवं दशात्रयवत् प्रज्ञानं सतः प्रज्ञातुर्ब्रह्मणो धर्मो भवति, स एव महेश्वरी परा शक्तिरुच्यत इति बोध्यम्। प्रथमस्तबके व्याख्यायां च निखिलजगत्कारणप्रसङ्गे आकाशः उपादानकारणं, निमित्त-कारणं तु तपः उभेऽपि कारणे एक एव सर्वशक्त इत्युपपादितं द्रष्टव्यम् । प्रज्ञानस्य दशात्रयमित्यत्र वर्तिपर्यायदशापदार्थसामर्थ्याद्यथा एकस्य दीपस्य एक-स्मिन्नेव काले तिस्रो वर्तयः वर्तन्ते, तथा एकस्यैव प्रज्ञानस्य समानकालं दशा-त्रयमिति गम्यते । तस्मात् प्रज्ञानं त्रिमुखतया शुद्धां स्वस्थितिम् अजहत् आकाशं व्याप्य तपसा विश्वपरिपाकं विधत्त इति फलितम् । आनन्दो ब्रह्म, आकाशशरीरं ब्रह्म, यदेष आकाशो आनन्दो न स्यादित्यादिश्रुतयः आकाशस्य ब्रह्मणः विश्वोपादानकारणतां प्रतिपादयन्ति। तदक्षत, स तपोऽतप्यत, सो-ऽकामयत’ इत्यादिवाक्यानि अनतस्तपतो द्रष्टुब्रह्मणः जगन्निमित्तकारणता-मुद्घोषयन्ति । ’सोऽहम् अस्मीति व्याहरत् ततोऽहम् नामाभवत्’ इत्यादिश्रुति-स्तु विश्वकार्यकारणभावमापन्नमपि स्वतः कार्यकारणवर्जितं शुद्धं सद्ब्रह्मेति तस्य नित्यशुद्धतां बोधयति। एवमपि दशात्रयम् उपपद्यत इत्यलम् ॥११॥

अथ तपःप्रभावादाकाशाद्विश्वस्मिन् विकसिते, तत्र अस्मदादीनां जन्मसु च निष्पादितेषु, सर्वं जगत् स्वतन्त्रमिव स्वतःसिद्धमिव सामान्यप्रतीतिः स्थूल-धियां साधारणी भवति । तत्र विचारः क्रियते विज्ञान इति-

विज्ञाने भाति ये भान्ति भावा द्रव्यगुणादयः ॥
न किञ्चिदनुभूयन्ते विज्ञानोपरमे तु ते ॥१२॥

विज्ञान इति- विज्ञाने विशिष्टज्ञाने वृत्तिविशिष्टज्ञाने भाति सति ये भावाः पदार्थाः द्रव्यगुणादयः आदिशब्देन कर्मसामान्यविशेषसमवायाः ग्राह्याः भान्ति भासन्ते धीगोचरा भवन्ति। ते भावाः विज्ञानोपरमे तु विज्ञानस्या-भाने निद्रादौ न किञ्चित् नाल्पमपि अनुभूयन्ते। विज्ञानभानाधीनमेव द्रव्या-दिभावानां भानमित्यर्थः ॥१२॥

अत्र विज्ञानं वृत्तिविशिष्टज्ञानं विषयिगतं बोध्यम् । तेन विषयिज्ञानस्य प्रकाशकत्वं ज्ञेयस्य विषयस्य प्रकाश्यत्वं चोक्ते भवतः । तदाह विषयः स्वतः प्रकाशो न भवतीति-

एवं स्वतः प्रकाशत्वं विषयाणां न दृश्यते ॥
सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥१३॥

एवमिति- विषयाणां स्वतः प्रकाशत्वं न दृश्यते। सत्येव प्रकाशके विज्ञान विषयाः प्रकाशाः भवन्ति । परतः अन्यतः स्वतोऽन्यस्मात् कञ्चित् सम्बन्धमन्तरा केनापि सम्बन्धन विना सिद्धिश्च न, विषयाणां विषयत्वेना-वस्थितिः न स्यात् । अयमर्थः । विषयाणां विषयत्वसिद्धिः विषयिणः सम्बन्धं विना न भवति । ज्ञातुः सम्बन्धं वर्जयित्वा विषयाणां ज्ञेयत्वं न भवति। तस्मात् इदं द्वयं बोध्यम्। विषयाणां नास्ति स्वतः प्रकाशः, प्रका-शत्वं तु विज्ञानभानायत्तम्। स्वतो विषयत्वसिद्धिश्च न भवति, विषयिज्ञातृ-सम्बन्धात् तु भवति ॥१३॥

भवत्वेवं स्वतोऽप्रकाशत्वं स्वतःसिद्धयभावश्च । विषयिणो ज्ञातुः भिन्नाः भावाः वर्तन्त एवेति चेदाह –

दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः ॥
प्रज्ञाविषयतादात्म्य मेवं साक्षात्प्रवृश्यते ॥१४॥

दृश्यत इति-- ग्रहणे पदार्थावबोधने, स्मरणे अवबुद्धानां भावानां स्मरणे च, धीः बुद्धि: वृत्त्यात्मकं ज्ञानमित्यर्थः विषयाकारा विषयरूपेणावस्थिता दृश्यते । एवं ग्रहणस्मरणात्मकस्य विज्ञानस्य विषयाकारतयाऽवस्थानात् हेतोः प्रज्ञाविषयतादात्म्यं प्रज्ञायाः धीवृत्तेः विषयस्य च तादात्म्यं तदाकारतासम्बन्धः साक्षात्प्रदृश्यते, सर्वेषामनुभवसिद्धम् इति भावः । प्रज्ञाया वृत्तेः विषया-द्भिन्नत्वे सति विषयादभिन्नत्वेन स्थितेः वृत्तिविषययोः तन्तुपटयोरिव तादात्म्यसम्बन्धो बोध्यः । सद्भावस्य विषयाकारतया भानं वृत्ति-वैभवात्, यथा तन्तूनां पटात्मकता तन्तुवायेच्छासामर्थ्यात्, तथा एकस्यैव सत आकाशस्य ब्रह्मणः नानाभावत्वेन विषयात्मकता तपोवैभवकृतेत्यव-गन्तव्यम् ॥१४॥

तदाहोत्तरकारिकया-

न चेत्समष्टिविज्ञान- विभूतिरखिलं जगत् ॥
विषयव्यष्टिविज्ञान- तादात्म्यं नोपपद्यते ॥१५॥

न चेदिति- अखिलं जगत् सर्वतः विषयाकारेणावस्थितम् इदं विश्वं सम-ष्टिविज्ञानविभूतिर्न चेत्, समष्टेः समुदायभावापन्नस्य पूर्णस्य सतो मूलवस्तुन इत्यर्थः विज्ञानस्य तपोमहिम्ना व्याप्य स्थितस्य विशिष्टज्ञानस्य विभूतिर्वैभवं न भवति चेत्, विषयव्यष्टिविज्ञानतादात्म्यं विषयस्य ग्रहणध्यानगोचरस्य पदा-र्थस्य, व्यष्टिविज्ञानस्य पृथगवभासमानविज्ञानस्य च उभयोः तादात्म्यं भेदे-ऽप्यभेदसम्बन्धः नोपपद्यते न युक्तो भवति । अस्मदादीनां प्रज्ञाविषय-तादात्म्यं प्रागुक्तम् । इह तस्य हेतुरुच्यते। समष्टिविज्ञानस्य जगतश्च तादात्म्यादेव समष्टेरन्तः पृथगवभासमानस्य व्यष्टिविज्ञानस्य तद्विषयस्य च तादात्म्यं सम्भवतीत्याशयः । उभयोस्तादात्म्यसम्बन्धे प्रतिपाद्यमाने तत्र भेदोऽभेदश्च स्याताम् । न चेत् सम्बन्धो न सम्भवेत् ॥१५।।

विकृत्या भेदः प्रकृत्या अभेद इति तमाचष्टे-

यथाऽस्मदादिविज्ञान ध्येयं बुद्धिरिति द्वयम् ॥
पूर्णे समष्टिविज्ञाने विकृतिः प्रकृतिस्तथा ॥१६॥

यथेति- अस्मदादिविज्ञाने अस्मदादीनां विज्ञान व्यष्टिविज्ञाने धीवृत्ता-विति यावत्, ध्येयं ध्यानगोचरं ज्ञेयं विषयभूतं बुद्धिः ज्ञानम् इति यथा द्वयं भवति, तथा पूर्णे अखण्डे समष्टिविज्ञाने विकृतिविश्वात्मिका विषयाकारा ज्ञेया, प्रकृतिआनाकारा मूलज्ञानम् इति द्वयं भवति ।।१६।।

अथ ज्ञानस्यैव ज्ञेयाकारतया परिणामो भवतीत्याह—

परिणामो यथा स्वप्नः सूक्ष्मस्य स्थूलरूपतः ॥
जाग्रत्प्रपञ्च एष स्या तथेश्वरमहाचितः ॥१७॥

परिणाम इति- यथा सूक्ष्मस्य ज्ञानस्य स्थूलरूपतः स्थूलाकारतया परि-णाम: विकारः स्वप्नो भवति, तथा ईश्वरमहाचितः ईश्वरस्य महाचित: महत्याः सूक्ष्मतमायाः कारणभूताया: चित: प्रज्ञायाः समष्टिविज्ञानस्येति यावत्, परिणाम एव एष जाग्रत्प्रपञ्चः स्यात् । अस्मदादीनां जाग्रदवस्थायां यो विश्वविस्तारो स्थूलतया गोचरो भवति, स सूक्ष्मतमस्य समष्टिविज्ञानस्य परिणामविशेषोऽस्मदादीनां धीपरिणामः स्वप्न इव भवति इत्यर्थः ॥१७॥

अथ प्रकृतिविकृत्योविशेष ज्ञापयति—

विकृतिस्सर्वभूतानि प्रकृतिः परदेवता ॥
सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥१८॥

विकृतिरिति- सर्वभूतानि सर्वाणि भूतानि जातानि भुवनानि प्राणिनो वा विकृतिरुच्यन्ते। विकृतित्वं च प्रकृतिपरिणामत्वम् । परदेवता परा देवता सती शक्तिः महेश्वरीति वाच्या परस्य ब्रह्मणो धर्मभूता प्रकृतिर्भवति। प्रज्ञा-नस्य दशात्रयं प्राग्व्याख्यातम् । तत्र तिसृषु दशासु एका व्यापकता आकाश-रूपिणीत्युक्तम्। तदिह परदेवतायाः सर्वभूतप्रकृतित्वं स्पष्टं प्रतिपादितम् । यद्यपि सर्वाणि भूतानि सतो व्याकृतानि विकृतिरित्युक्तम्, तथापि अखण्डस्य पूर्णस्य सतो ब्रह्मणोऽव्ययत्वम् अविकार्यत्वं च द्योतयितुम् अंशत एवेदं सर्वं विकृतिर्भवतीति मन्त्रवर्णं स्मारयति । तयोः द्वयोराद्या विकृतिः सर्वभूतात्मिका सतो ब्रह्मणः पादोऽल्पांशो भवति ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतेः । परा अन्या प्रकृतिः परदेवता त्रिपादी भूयिष्ठभागा गीयते भवति ’त्रिपादस्यामृतं दिवि’ ॥१८॥

अथ प्रकृतेः पादत: विश्वविकृतिप्रादुर्भावे कथं तस्या एकस्मिन्नेव काले अविकार्यत्वं विकारहेतुत्वम् उभयमप्युपपद्यते ? तदाह—

कबलीकृत्य सङ्कल्पा-नेकाऽपि स्याद्यथा मतिः ॥
भूतानि कबलीकृत्य देवताऽपि तथा परा ॥१९॥

कबलीकृत्येति- यथा मतिः अस्मदादीनां बुद्धिः एकाऽपि सङ्कल्पाननेकान् कबलीकृत्य ग्रसित्वा आत्मसात्कृत्य स्यात्, तथा परा देवताऽदपि भूतानि सर्वाणि जातानि कबलीकृत्य स्यादिति सम्बन्धः । यथा सङ्कल्पानां बहुत्वे भिन्नत्वेऽपि, ते सर्वेऽपि पृथक् साकल्येन च बुद्धेः परिणामा भवन्ति, बुद्धेश्च सङ्कल्पात्मकपरिणामेन न हानिः ॥१९॥

एवं परस्याः देवतायाः जातानां भूतानां बहुत्वे भिन्नत्वेऽपि सर्वाणि च पृथक् साकल्येन च परदेवतापरिणामा एव भवन्ति, तस्यामेव तदाकाराणि भवन्ति, इत्यर्थः। तस्माद्भेदलक्षणस्य सर्वस्य सर्गः संहृतिश्चैकत्रैवेति हेतोरेका-नेकयोरविरोध इति उपपादयति भूतानामित्यादिना—

भूतानामात्मनस्सर्गे संहृतौ च तथाऽत्मनि ॥
प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथा मतिः ॥२०॥

त्यर्थः। भूतानामिति- आत्मनः सतः पूर्णात् परमात्मनः भूतानां सर्गे सृष्टिविषये, तथा तस्मिन्नेवात्मनि संहृतौ संहारविषये च श्रेष्ठा देवता प्रभवेत् समर्थे-आत्मनः सर्वस्य भूतजातस्योत्पत्तिरात्मन्येव लयश्च भवतः, पर-देवतायाः प्रभावादित्यर्थः । तच्च दृष्टान्तेन द्रढयति । यथा मतिः स्वात्मनः सङ्कल्पानामुदये स्वात्मन्येव विलये च प्रभवति, तथेति पूर्वेण सम्बन्धः । समष्टे: व्यष्टेर्वा विज्ञानस्य सङ्कोच-विकासावेव सर्ग-प्रलयौ बोध्यौ। च प्रागुक्ता कारिका। सङ्कोचे प्रज्ञा शून्यवद्भवतीति हेतोः, वस्तुतः पूर्णाऽपि प्रज्ञा शून्यमित्युच्यते कैश्चित्। आचार्यकृतस्तदेष श्लोको भवति- ’सङ्कोचे शून्यवत्प्रज्ञा विश्रान्ता स्वाश्रये भवेत्। तस्माच्छून्याख्यया सेयमुच्यते कैश्चि-दीश्वरी’ ॥ इति ॥२०॥

कथं तर्हि परा देवतेयं स्वरूपतो ज्ञायतेऽस्मदादिभिरिति प्रश्ने, ब्रूते-

अनुभूत्यात्मिका सेय-मीशशक्तिः परात्परा ॥
आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥२१॥

अनुभूत्येति- अनुभूत्यात्मिका अनुभूतिरात्मा स्वरूपं यस्याः सा, एवं कीर्तिता प्रज्ञातुः सतो धर्मभूता प्रज्ञानात् प्रकृतेः विश्वविकृतिहेतु: विज्ञानमयी इयं परात्परा ईशशक्तिः ईश्वरशक्ति: महेश्वरी एकव पिण्डेषु पाञ्चभौतिकेषु देहेषु विभिन्नवत् विभिन्नया तुल्यं पृथक् एककस्मिन् देहे विभक्तेव आधारचक्रे देहधारणस्य आधारभूते मूलाधाराख्यस्थाने विराजति। सर्वेषामपि देहेषु प्रत्येकं विभक्तेव अविभक्ता कुण्डलिनीशब्दवाच्या परात्परा विभासते। अनु-भूत्यात्मिकेत्यत्र इदमवधेयम्। अनुभूतिः साक्षाद्वेदनम्। विगलितवेद्यान्तरो घनोऽनुभवः। यद्यपि वृत्तिविषयग्रहणस्मरणादिभ्योऽयम् अनुभवो निष्पाद्यते-ऽभिव्यज्यते वा तथाऽपि निष्पन्नोऽनुभवस्तु वृत्तिविषयनिरपेक्षो भासते। अत एव विगलितवेद्यान्तरोऽनुभव इति कीर्त्यते। ॥२१॥

एवं विश्वकारणभूतायाः परस्याः शक्तेरधिपिण्डं मूलाधारे कुण्डलिनी-रूपेण अवम्यानं प्रतिपाद्य तस्याः कारणभूतायाः सूक्ष्मस्थूलभेदेन पिण्डे शाखा-द्वयीति शक्तिद्वयं निरूपयति-

सूक्ष्मस्थूले ततः शाखे विद्युच्छक्तिसमीरवत् ॥
तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥२२॥

सूक्ष्मेति- ततः तस्याः आधारचक्रेऽवस्थितायाः परस्याः शक्तेः सूक्ष्मस्थूले सूक्ष्मा च स्थूला च शाखे द्वे विद्युच्छक्तिसमीरवत् विद्युच्छक्तिः आकाशे सर्वत्र व्यापिनी सूक्ष्मा शक्तिः समीरः वायुः जगत्प्राणश्च ताभ्यां तुल्यं, ता-विवेत्यर्थः। यद्यपि समीरोऽपि सूक्ष्म एवास्माकं, विधुच्छक्त्यपेक्षया समीरस्य स्थूलत्वं स्पर्शगम्यत्वात्। तत्र तयोः शाखयोराद्या सूक्ष्मा विद्युच्छक्तिस्थानीया ज्ञानशक्तिः स्यात्। अनन्तरा तदनुवर्तिनी स्थूला शाखा क्रियाशक्ति: स्या-दिति शेषः। अत्रैष श्रीमहर्षेः उपदेशसारश्लोको भवति- ’चित्तवायव-श्चित्क्रियायुताः शाखयोर्द्वयी शक्तिमूलका’ इति ॥२२॥

अथ शक्तिद्वयीं विवृणोति-

ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह ॥
कर्मेन्द्रियाणि त्वपरा विभूतिस्सहसा सह ॥२३॥

ज्ञानेन्द्रियाणीति- मनसा सह ज्ञानेन्द्रियाणि चक्षुरादीनि प्रथमा विभूतिः सूक्ष्मा ज्ञानशक्तिः भवति, मनसेति अन्तःकरणस्योपलक्षणम्। सहसा सह बलेन ओजसेति यावत्, कर्मेन्द्रियाणि वागादीनि अपरा विभूतिः स्थूला क्रिया-शक्तिरिति बोध्यम् ॥२३॥

एवं परस्याः देवतायाः तत्त्वमुपदिश्य, तत्प्राप्त्युपायमाचष्टे-

क्रियामूलमुत ज्ञान मूलं किमिति चिन्तयन् ॥
आत्मशक्तिमितो विद्वा नमृतत्वाय कल्पते ॥२४॥

क्रियामूलमिति- क्रियामूलं क्रियाशक्तेः मूलम् उत समुच्चये ज्ञानमूलं ज्ञानशक्तेर्मूलं च किमिति चिन्तयन् ध्यायन् उभयोः मूलं क्वेति एकाग्र-ध्यानेन जिज्ञासमानः पुरुषः आत्मशक्ति स्वशक्तिम् इतः प्राप्तः विद्वान्सन् अमृतत्वाय कल्पते प्रभवति अमृतो भवति इत्यर्थः ॥२४॥

उपसंहरति स्तबकम्—

गभीरास्सुतरामेताः कालिकातत्त्वकारिकाः ॥
धियो भासो गणपते भवन्तु विदुषां मुदे ॥२५॥

गभीरा इति- गणपते: मम शुद्धाया धियः बुद्धेः भासः द्युतयः एताः स्तबके उक्ताः सुतराम् अत्यन्तं गभीराः अगाधाः कालिकातत्त्वकारिकाः कालि-कायाः परदेवतायाः तत्त्वस्य स्वरूपस्य प्रतिपादिका: कारिकाः विदुषां मुदे प्रीतये भवन्तु ॥२५॥

सप्तत्रिंशः स्तबकः सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates