उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
अथ भगवतीं प्रचण्डचण्डी कविरभीष्टां मूर्ति सप्तविंशे स्तबके स्तौति ॥
विधुन्वन्ध्वान्तानि प्रतिदिशमधर्म परिहर-च्छ्यिं व्यातन्वानस्सपदि शमयन् दुःखपटलम् ॥ सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन् प्रचण्डायाश्चण्डयास्सितहसितलेशो विजयते ॥१॥
विधुन्वन्निति- प्रचण्डायाः प्रकर्षेण चण्डायाः उग्रायाः पापेष्विति शेषः, चण्ड्याः चण्डीदेव्याः सितहसितलेशः शुभ्रमन्दहासः विजयते अत्युत्कर्षेण वर्तते। किं किं कुर्वन् ? प्रतिदिशं दिशि दिशि सर्वासु दिक्ष्वित्यर्थः ध्वान्तानि तमांसि विधुन्वन् अपहरन्, अधर्मं निःश्रेयसप्रतिबन्धकं पाप्मानं परिहरन् निवारयन्, श्रियं सम्पदं व्यातन्वानः विदधानः, दुःखपटलं दुःखानाम् अनिष्टानां तापदानां कष्टानां पटलं समूहं सपदि क्षणात् शभयन् व्यपोहन्, मे मम सहस्राराम्भोजे शिरसि सहस्रदले असदृशम् असमानं द्रवं रसममृतधारामिति यावत् प्रजनयन् उत्पादयन्, विजयते इति शेषः । अत्र सितहसितलेशस्य सकलपुरुषार्थविधा-यकत्वमुक्तं पूर्वार्धन । तथा च अधर्म परिहरन् इत्यनेन धर्मसिद्धिः, श्रियं व्यातन्वान इत्यनेन अर्थलब्धिः, दुःखपटलं शमयन् इत्यनेन सुखप्रदकामावाप्तिः, , ध्वान्तानि विधुन्वन्नित्यनेन मोक्षोपयोगिप्रकाशोपलब्धिश्चेति बोध्यम् । एवं प्रभाविशिष्टो भगवत्याः मन्दहासो मम शिरःकमले विलसन् अमृतं स्रावय-तीति कवेरनुभूतिः तृतीयपादेन कीर्तिता। दशमहाविद्यासु छिन्नमस्तां देवीं प्रचण्डचण्डीमाहुः तन्त्रशास्त्राणि । तस्या एवावतारो मूर्तिभेदो रेणुकेति ताम् उत्तरस्तबके प्रस्तौति ॥१॥
अरीणां शीर्षेषु ज्वलितदवकीलोन्द्रसदृशं विनम्राणां शीर्षेष्वमृतकरबिम्बेन तुलितम् ॥ विरोधिध्वान्तानां तरुणतरणिप्राभवहरं प्रचण्डायाश्चण्डयाश्चरणमसतां हन्तु विभवम् ॥२॥
अरीणामिति- प्रचण्डायाः चण्डयाः प्रचण्डचण्डीदेव्याः चरणं पादः ’चरणो-ऽस्त्रियाम्’ इति नपुंसकेऽपि वर्तते, असतां खलानां विभवम् ऐश्वर्यं हन्तु नाश-यतु। कीदृशं चरणम् ? पादत्रयेण विशिनष्टि । अरीणां शत्रूणां शीर्षेषु शिरस्सु ज्वलितदवकीलीन्द्रसदृशं ज्वलितो दीप्तः दवे वने यः कीली ज्वाली अग्निः स इन्द्र इव तेन सदृशं दीप्तदावाग्निश्रेष्ठेन तुल्यमित्यर्थः, ’दव-दावौ वनारण्यवह्नी’ ’वह्नयोर्खालकीलावचिहँतिः शिखा स्त्रियाम्’ इत्यमरः। वि-नम्राणां विनतानां भक्तानामिति यावत्, शीर्षेषु शिरस्सु अमृतकरबिम्बन चन्द्रबिम्बेन तुलितं सदृशं, भक्तानाम् उपासकानां सहस्रारस्थितं सत् अमृत-वर्षीत्यर्थः। विरोधिध्वान्तानां विरोधिनां ज्ञानप्रतिबन्धकानां ध्वान्तानां तमसां तरुणतरणिप्राभवहरं तरुणतरणे: बालार्कस्य प्राभवहरं वैभवापहरं ध्वान्त-विध्वंसने बालार्कादपि पटुतरमित्यर्थः। एवम् एकस्य चरणस्य अग्नि-चन्द्र-सूर्यादिकार्यातिशयकारित्वोल्लेखनादुल्लेखालङ्कारः । आद्यपादत्रये उपमालङ्कारः। तिलतण्डुलन्यायेन स्फुटावगम्यभेदयोरुभयोः मेलनादुपमोल्लेखयोः संसृष्टि: ॥२॥
भजे भासां शालां निखिलधिषणानां जनिभुवं बलानामाधात्री निखिलभुवनेन्द्रस्य दयिताम् ॥ भजन्ते यां गीतैर्मधुसमयमाद्यपिकवधू-कलालापा हृद्यैहयवदनपकेरुहदृशः ॥३॥
भजे इति- भासां त्विषां शालां निलयभुवं ज्योतिषामाश्रयस्थानमिति यावत्, निखिलधिषणानां सर्वासां प्रज्ञानां जनिभुवं सकलानां लोकशास्त्र-प्रज्ञानाम् उत्पत्तिस्थानम् इत्यर्थः, बलानां विद्या-बुद्धि-पराक्रमादिबलानाम् आधा-त्रीम् उत्पादयित्रीं निखिलभुवनेन्द्रस्य सर्वलोकेश्वरस्य दयितां प्रेयसीं भजे सेवे। यां मधुसमयमाद्यत्पिकवधूकलालापाः मधुश्चैत्रमासः तस्य तस्य समये काले वसन्तकाल इत्यर्थः, माद्यन्तीनां हृष्यन्तीनां पिकवधूनां स्त्रीकोकिलानां कला-लाप इव कलालापोऽव्यक्तमधुरभाषणं यासां ताः, वासन्तिकहर्षोद्रेकप्रेरित-श्रवणसुभगकोकिलस्वरा इत्यर्थः, हयवदनपङ्केरुहदृशः हयवदनाः किन्नराः तेषां पङ्केरुहदृशः पद्माक्ष्यः सुन्दर्यः किन्नराङ्गनाः, यद्वा हयवदनाः तुरङ्गवदनाः पङ्केरुहदृशः अङ्गनाः किन्नर्य इति कर्मधारयः समासः, ‘स्यात्किन्नरः किम्पुरुष-स्तुरङ्गवदनो मयुः’ इत्यमरः। हृद्यैः हृदयङ्गमैः गीतैः गानैः भजन्ते सेवन्ते कीर्तनः स्तुवन्तीत्यर्थः। सर्वज्योतिर्निधिं सकलविधप्रज्ञोद्भवस्थानं निखिल-बलाधायिनी यामम्बां किन्नर्यः स्तुवन्ति तां भजे इति भावः। अनेन हिमा-चलवासिनी देवी स्तुतेति गम्यते, तत्र हि किन्नरीणां वासः। कुमारसम्भवे-ऽपि ’भिन्दन्ति मन्दां गतिमश्वमुख्यः’ इति महाकविः ।।३।।
ज्वलन्ती तेजोभिर्महिषमथने या तव तनु-लसन्ती लावण्यगिरिशरमणे या तव तनुः ॥ विना क्रोधप्रीती न किमपि तयोर्भेदकमभूत् तयोराद्या दुर्गा भवति ललिताऽन्या मुनिनुते ॥४॥
ज्वलन्तीति- मुनिनुते ऋषिभिः स्तुते देवि ! महिषमथने महिषासुर-मर्दने विषये तव या तनुः मूर्तिः तेजोभिः प्रतापैः ज्वलन्ती दीप्यन्ती अभूत् इत्यध्याहार्यम् । गिरिशरमणे शिवरतिविषये तव या तनुः मूर्तिः लावण्यः रामणीयकैः लसन्ती विलसन्ती अभूत् , तयोरुभयोस्तन्वोः भेदकं विशेषदर्शकं क्रोधप्रीती विना क्रोधं प्रीतिं च वर्जयित्वा न किमपि अभूत्। तयोः द्वयोः मूर्योः आद्या तेजोभिः ज्वलन्ती क्रोधाविष्टा दुर्गा भवति; अन्या लावण्यः लसन्ती प्रीतिविशिष्टा ललिता गौरी भवति। एकैव त्वं दुष्टमथने दुर्दर्शा दुर्गा, शिवरमणे प्रियदर्शना शिवा च भवसीति भावः । तेजोभिरिति बहु-वचनेन सर्वेभ्योऽप्यनेभ्यः शत्रुहृदयभेदकस्य रौद्रतावहस्य प्रतापस्य बहुशो विजृम्भणं द्योत्यते। तथा लावण्यर्लसन्तीत्यनेन सर्वाङ्गसौन्दर्यविलसितं शिव-रतिपोषकं गम्यम् ॥४॥
सहस्रं भानूनां भवति दिवसानामधिपतेः सहस्रं शीर्षाणां भवति भुजगानामधिपतेः ॥ सहस्र नेत्राणां भवति विबुधानामधिपतेः सहस्र बाहूनां भवति समये हैमवति ते ॥५॥
सहस्रमिति- दिवसानाम् अह्नाम् अधिपतेः सूर्यस्य भानूनां किरणानां सहस्रं भवति। सहस्रांशुः सूर्यः प्रसिद्धः। भुजगानां सर्पाणाम् अधिपतेः शेषस्य शीर्षाणां शिरसां सहस्रं भवति । आदिशेषः सहस्रशीर्षः पुराण-प्रसिद्धः। विबुधानां देवानाम् अधिपतेः देवराजस्येन्द्रस्य नेत्राणां सहस्रं भवति । इन्द्रः सहस्राक्षो विश्रुतः। भोः हैमवति उमे देवि ! समये अवसरे सति ते तव बाहूनां सहस्रं भवति। दुष्टशिक्षणाय प्राप्ते काले बहुधा तव पराक्रमो विजृम्भते इति भावः ॥५॥
प्रसन्नो वक्वेन्दुनै च नयनयोः कोऽप्यरुणिमा न कम्पो बिम्बोष्ठे स्मितमपि लसत्काशविशदम् ॥ सरोजाभः पाणिः किणविरहितः कोमलतमो ज्वलच्छूलं त्वासीज्जननि तव शुम्भाय भयदम् ॥६॥
प्रसन्न इति- जननि मातः ! वक्त्रेन्दुः तव मुखचन्द्रः प्रसन्नः स्वच्छ: रोषलाञ्छनं न किमपि दृश्यते तत्र। नयनयोः नेत्रयोः कोऽपि क्रोधसूचको-ऽरुणिमा रक्तिमा च न भवति। बिम्बोष्ठे बिम्बाधरे कम्पः क्रोधव्यञ्जको वेपथुः न भवति। स्मितमपि मन्दहसितमपि लसत्काशविशदं काशपुष्पमिव धवलं भवति। सरोजाभः कमलसन्निभः कोमलतमः अतिललितः पाणिः हस्तः किणविरहितः, किणेन मुहुर्मुहुरायुधग्रहणेन जायमानो ग्रन्थिः किणः तेन विरहितः वर्जितः । आयुधग्रहणलक्ष्म न किमपि दृश्यते हस्ते। एवं वक्त्रेन्दु-नयन-बिम्बोष्ठ-मन्दस्मित-पाणिकमलानि लावण्यमयानि प्रियदर्शनानि भवन्ति । तु तथापि ज्वलत् दीप्यत् तव शूलम् आयुधं शुम्भाय असुराय भयदं भय-प्रदम् आसीत्। वक्त्रप्रसन्नतादिसौम्यगुणाननुरूपस्य भयङ्करशूलस्य प्रसक्तेः विषमालङ्कारः। ’अननुरूपसंसर्गो विषमम्’ इति रसगङ्गाधरलक्षणात् ॥६॥
वधे शुम्भस्यासीत्तव जननि या काचन तनु-वंधानाऽप्रचाः शक्तीः शशिकिरणसारोपमरुचिः ॥ इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं मनो मे विश्रान्ति भजति भजतां कल्पलतिके ॥७॥
वधे इति- जननि ! शुम्भस्य शुम्भासुरस्य वधे ध्वंसे अग्रयाः श्रेष्ठाः शक्तीः ब्रह्माणीप्रमुखाः दधाना बिभ्राणा शशिकिरणसारोपमरुचिः शशिकिरणस्य चन्द्रकिरणस्य सारेण अमृतेन उपमा यस्याः, सा रुचिः शोभा यस्याः सा, या तव काचन अनिर्वा तनुः मूर्तिः आसीत् । शुम्भासुरदमनसमये ’बला-वलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युध्यसे चाति-मानिनी॥’ इति शुम्भेनोक्ता दुर्गा सर्वाः स्वा विभूतीः स्वात्मन्युपसंहृत्य एकैव युद्धाय सन्नद्धाऽभूदिति देवीमाहात्म्यम् आह। ईदृशी शुम्भसंहारिणी सम्पूर्णा या तव मूर्तिरभूत्, तामिमां ध्यायं ध्यायं ध्यात्वा ध्यात्वा मुहुर्मुहु-रेतद्धयानेनेत्यर्थः, भोः स्मरहरसखि कामारिप्रेयसि! भजतां भक्तानां कल्प-लतिके अभीष्टदायिनि ! इदं व्याकुलं विकीर्णमातं मे मम मनो विश्रान्ति भजति विश्रमसुखमनुभवतीत्यर्थः ॥७॥
यदि त्वं संहारे पटुरसि सवित्रि त्रिजगत-स्तदेतत्त्वां याचे सरसिरुहगर्भादिविनुते ॥ इमे मे पाप्मानो भगवति नदन्तो बहुविधा-स्तदेषु प्रख्यातं प्रतिभयतमं दर्शय बलम् ॥८॥
यदीति- त्रिजगतः त्रयाणां जगतां समाहारः त्रिजगत् तस्य सवित्रि जननि, सरसिरुहगर्भादिविनुते ब्रह्मादिसंस्तुते देवि! त्वं संहारे कार्ये पटुः निपुणा असि भवसि यदि, तत् त्वां एतत् बुद्धिस्थम् याचे प्रार्थये । भगवति ! बहुविधाः नानाप्रकाराः इमे मे मम पाप्मान: पापानीत्यर्थः, गर्जन्तो नदन्तः भवन्तीति शेषः। वीर्यवन्ति पापानि इत्यर्थः। तत् तस्मात् प्रख्यातं विश्रुतं प्रतिभयतमं भयं प्रतिगतं प्रतिभयम् अतिशयेन प्रतिभयं प्रतिभयतमं भयङ्करतमं ’भयङ्करं प्रतिभयम्’ इत्यमरः। बलं दर्शय । पाप्मनां विध्वंसे तव संहारसामर्थ्य प्रकटयेति प्रार्थयते ॥८॥
बिभेदोरः क्रोधात्कनककशिपोरब्धितनया-कुचनावोल्लोढरतिशितशिखैर्यः किल नखैः ॥ त्वया दत्ता शक्तिर्नरहरिशरीराय जगतां विनेत्रे पुंसेऽस्मै जननि रणरङ्गस्थलरमे ॥९॥
बिभेदेति- रणरङ्गस्थलरमे रणरङ्गस्थले समराङ्गणे रमे विजयदात्रि लक्ष्मि जननि मातः! यः अब्धितनयाकुचनावोल्लीः अब्धितनयायाः सागर-पुत्र्याः लक्ष्म्याः कुचावेव ग्रावाणौ शाणोपलो तयोः उल्लीद्वैः घर्षितैः अत एव अतिशितशिखैः अतिशिताः निशिताः शिखाः कोटयोऽप्राणीत्यर्थः, येषां तैः नखैः कनककशिपोः हिरण्यकशिपोः दैत्येश्वरस्य उरः वक्षः क्रोधात् रोषात् बिभेद विदारयामास, किल ऐतिह्ये। इति वदन्ति पुराणानीति भावः । अस्मै तस्मै जगतां विनेत्रे शासित्रे पुंसे नरहरिशरीराय नृसिंहाय पुरुषाय त्वया शक्ति-दत्ता। नरसिंहमूर्तये नारसिंही शक्तिः हिरण्यकशिपुवधाय त्वया दत्ता। लोके तु विष्णुः तं दैत्यं निजघानेति वदन्ति ॥९॥
अजेयस्त्रैलोक्यप्रकटितपताकः पलभुजां बिडौजा यत्कारागृहपरिचयी पङक्तिवदनः ॥ सहस्रारं साक्षाद्धृतनरशरीरं तमजयत् तवैवावेशेन प्रियपरशुरम्ब द्विजशिशुः ॥१०॥
अजेय इति- अम्ब ! अजेयः जेतुं योग्य: जेयः न जेयः अजेयः त्रैलोक्य-प्रकटितपताक: त्रैलोक्ये त्रिभुवने प्रकटिता स्थापिता पताका जयध्वजो येन सः, पलभुजां राक्षसानां बिडोजाः इन्द्रः राक्षसेश्वरः पङक्तिवदनो दशग्रीवो रावणः यस्य कारागृहस्य बन्धनागारस्य परिचयः संस्तवः अस्यास्तीति यत्कारागृहपरिचयी अभवत् इत्यध्याहार्यम्। साक्षाद्धृतनरशरीरं प्रत्यक्षं स्वी-कृतमानुषविग्रहं सहस्रारं सहस्रदलचक्रं तं कार्तवीर्यमर्जुनं द्विजशिशुः ब्राह्मण-बाल: प्रियपरशुः प्रियः परशुः कुठारः आयुधं यस्य स परशुधारी रामः तवैव आवेशेन आवेशबलेन अजयत् जितवान्। राक्षसेश्वराय त्रिलोकविजयिने रावणायापि कारागारबन्धनं दत्तवान् कार्तवीर्यः । स च सहस्रारचक्रस्यैव मानुषं रूपं, अत एव सहस्रबाहुरिति प्रसिद्धः । तं परशुरामो जितवान् । कार्तवीर्येणाभीप्सितां धेनुम् अदत्तवन्तं जमदग्नि स निजघान। तत्प्रती-काराय परशुरामः पुत्र: प्रथमं कार्तवीर्यमनन्तरं क्षत्रियवंशं त्रिस्सप्तकृत्वः निर्मू-लितवान् इति पुराणकथा ॥१०॥
त्वदीया सा शक्तिस्सकलजगदन्तेऽप्यनलसा पुरा कार्यस्यान्ते तनयमयि हित्वा नृपरिपुम् ॥ अविक्षत्काकुत्स्थं दशमुखकुलोन्माथविधये सहस्त्रांशुं हित्वा शशिनमिव घने गलति भा ॥११॥
त्वदीयेति- अयि अम्ब! सकलजगदन्तेऽपि सर्वलोकविनाशेऽपि अनलसा अश्रान्ता त्वदीया तवेयं पूर्वोक्ता यदावेशेन परशुरामः कार्तवीर्यं जितवान् सा शक्तिः पुरा पूर्व कार्यस्य परशुरामप्रतिज्ञातक्षत्रवधरूपस्य कार्यस्य अन्ते अव-साने नृपरिपुं क्षत्रियशत्रु परशुरामं हित्वा विहाय काकुत्स्थं श्रीरामं दशमुख-कुलोन्माथविधये रावणराक्षसकुलध्वंसाय अविक्षत् प्राविशत्। केव? प्रभा घस्र दिने दिनान्ते इति भावः, सहस्रांशुं हित्वा मुक्त्वा शशिनं चन्द्र गलति इव । यथा दिनान्ते रविं विहाय चन्द्रं गच्छति भा तथा कार्यान्ते परशुरामं हित्वा तव संहारशक्तिः श्रीरामं प्रविष्टेत्यर्थः। परशुरामो महा-विष्णोरवतारस्तथा श्रीरामश्च । उभावपि समकालिको रामायणकथया विश्रुतौ। कथं तर्हि उभयोरवतारत्वमिति संशयं परिहरति । अवतारतत्त्व-विदो नैष्ठिकस्याचार्यस्य कवेरयमाशयः। सर्वेष्ववतारेषु अवतारपुरुषद्वारा महाशक्तिरेव कार्य निर्वहति । भुजबलदन्धिानां वधेन तपोबलप्रदर्शनं परशु-समावतारस्य कार्यमभूत्। तस्य कार्यस्य निर्वर्तनानन्तरं सा शक्तिः धर्म-विद्वेषिराक्षसकुलनिर्मूलनाय राममाविष्टा । प्रधानमल्लन्यायेन रावणे निर्म-थिते राक्षसकुलमुन्मूलितं स्यादिति राक्षसेश्वरोन्माथः कृतो भगवता राम-भद्रेण। तदेव द्योतयितुं कुलपदं प्रयुक्तम् । कुलपदेन रावणस्य राक्षसकुलं ग्राह्यं, न तु कुटुम्ब तस्य । अत्र भायाः सहस्रांशुशशिरूपानेकाधारसंश्रयणात् पर्यायः। ’पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः’ इति तल्लक्षणात् । सहस्रांशुसंश्रयणं कण्ठतो नोक्तं तथाऽपि सहस्रांशुं हित्वेति तत्परित्यागकथनेन पूर्वं तत्संश्रय आक्षिप्यते, तेन पर्यायनिर्वाहः । अत्र द्विजशिशुं हित्वा काकु-त्स्थं प्रविष्टायाः शक्तेः, सहस्रांशुं हित्वा शशिनं प्रविष्टायाः भायाश्च, एका-श्रयपरित्यागपूर्वान्याश्रयरूपसाधादुपमालङ्कारः। एवं पर्यायस्योपमाशिरस्क-त्वात् पर्यायोपमयोरङ्गाङ्गिभावेन सङ्करः ॥११॥
हृते लोकवाते भगवति भवत्यैव स पुरा-मरिः कीति लब्धं चतुरमतिरायाति समये ॥ त्वया लोकत्राणे जननि रचिते राक्षसवधाद् यशोऽवाप्तुं विष्णुमिलति च कुतोऽप्येष निपुणः ॥१२॥
हृत इति- भगवति देवि ! लोकवाते जगज्जाले भवत्यैव हृते संहृते सति, चतुरमतिः कुशलधीः स संहारकृदिति प्रख्यातः पुरामरिः त्रिपुरान्तक: हरः कीर्ति प्रलयकृत् इति ख्याति लब्धं समये कार्यवमानकाले आयाति आगच्छति। जननि ! राक्षसवधात् रक्षःकुलप्रध्वंसाद्धेतोः त्वया लोकत्राणे जगद्रक्षणे रचिते विहिते सति, कुतोऽपि स्थानात् एष निपुणः कुशलो विष्णुः यशः जगत्त्रातेति कीर्तिम् अवाप्तुं लब्धं मिलति समागच्छति। हरे संहार-कारिणी शक्तिः, विष्णौ स्थितिकारिणी च त्वमेव शक्तिस्त्वदीया एवेति वा भावः ॥१२॥
स्वरूपं ते वखं वियति रजसां सूक्ष्ममहसा-मुपाधिस्ते स्तोमो भवति चपला काऽपि तनुभा ॥ अरुद्धा ते व्याप्तिर्बलमखिलदत्तं बलनिधेः सहस्रांशः स्वस्य प्रभवसि समस्तस्य च शिवे ॥१३॥
स्वरूपमिति- शिवे अम्ब ! वज्रं कुलिशमायुधं ते तव स्वरूपं प्रकृतिः भवति, वियति आकाशे रजसां रेणुरूपाणां सूक्ष्ममहसां सूक्ष्माणां महसां ज्यो-तिषां स्तोमः समूहः ते तव उपाधिः अवच्छेदक आश्रयः भवति, चपला तटित् काऽपि तनुभा शरीरप्रभा भवति। ते तव व्याप्तिः सर्वव्यापिता अरुद्धा अप्रतिहता। स्वस्य बलनिधेः अमितबलराशेः सहस्रांशः अल्पिष्ठोंशः, सहस्र-शब्दोऽत्यधिकद्योतकः, अखिलदत्तम् अखिलाय विश्वस्मै दत्तं बलम् भवति । समस्तस्य सर्वस्यापि प्रभवसि त्वं प्रभुरसि। ज्योतिर्मय्याः सर्वव्यापिन्यास्तव अमेयबलस्यात्यल्पांश एवं विश्वबलमिति भावः ॥१३॥
यतः कालव्याजात्पचसि भुवनं वैद्युतमहः-प्रभावात्कालीं त्वामयि विदुरतः पण्डितवराः ॥ प्रभोः शस्त्रं भूत्वा दहसि यदरीन्वजवपुषा प्रचण्डां चण्डी तद्भगवति भणन्त्यक्षयबले ॥१४॥
भग-यत इति- अयि अम्ब ! यत: यस्मात् कालव्याजात् कालस्य मिषेणे-त्यर्थः वैद्युतमहःप्रभावात् विद्युत इदं वैद्युतं तन्महः ज्योति: तस्य प्रभावात् प्रतापविशेषात् महिम्नेति यावत्, भुवनं विश्वं पचसि पक्वं करोषि । वती कालेन साधनेन सर्वस्यापि पाकं विधत्ते इति प्रतीतिर्भवति, वस्तुतस्तु वैद्युतज्योतिःप्रभावेनैव पाको निर्वाह्यते। कालकर्तृक: पाक इति न तथ्य-मिति अपह्नवः। यस्मात् कालव्याजात् पचसि अतः अस्मात् तस्मात् पण्डित- वराः विज्ञाः त्वां कालीं विदुः। काली-कालयोः लिङ्गमात्रभेद इति प्रागु-क्तमिह स्मार्यम् । अक्षयबले न विद्यते क्षयो यस्य तत् बलं यस्याः सा, तस्याः सम्बुद्धिः अव्ययशक्तिके भगवति, यत् यस्मात् प्रभोरिन्द्रस्य परमेश्वरस्य शस्त्रम् आयुधं भूत्वा वज्रवपुषा वज्र कुलिशमेव वपुः शरीरं तेन अरीन् शत्रून् दहसि दग्धान् करोषि, तत् तस्मात् प्रचण्डां चण्डी प्रचण्डचण्डी देवीं त्वां भणन्ति पण्डितवराः। इदि परमैश्वर्ये इति धात्वर्थानुगमात् इन्द्र एव परमेश्वरः, तस्य शक्तिरिन्द्राण्येव प्रचण्डचण्डी इति कवे: आशयः। महाकालस्य रुद्रस्य पत्नी काली, इन्द्रस्य प्रचण्डचण्डी, उभे अपि एकैव। कार्यभेदात् नामभेद इति भावः ॥१४॥
अयि त्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे त्वया शस्त्राढयं तं भणति तु परस्तत्त्वविदृषिः ॥ युवां माता-पुत्रौ भगवति विभाज्यौ न भवत-स्ततो धीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥१५॥
अयि इति- अयि अजरे जरारहिते नित्ययौवने अम्ब ! कश्चिन्मुनिः ऋषिः तत्त्वदर्शी त्वामेवेन्द्रं कथयति, लिङ्गभेदमतथ्यं पश्यन् तत्त्वतस्त्वमेवेन्द्रो भगवान् परमेश्वरः इति ब्रवीति। परोऽन्यः तत्त्ववित् तत्त्वज्ञानी ऋषिर्द्रष्टा तम् इन्द्रं त्वया शस्त्राढ्यं शस्त्रवन्तं भणति, न त्वमेवेन्द्रः किंतु तस्य आयुधं शक्तिः त्वमसीति ब्रूते। वस्तुतस्तु भगवति ! युवां त्वं शक्तिः स भगवा-निन्द्र: उभावपि मातापुत्रौ न विभाज्यौ अवियोज्यौ परस्परसंश्लिष्टौ भवतः । अतः हेतोः विबुधजनगोष्ठीषु विद्वज्जनपरिषत्सु धीनां बुद्धीनां द्वधा द्विप्रकारा इत्यर्थः गतयः सरणयो भवन्तीति शेष: आशयो द्विधा भवतीत्यर्थः, ’गतिस्तु गमने मार्गे दशायां बुद्धयुपाययोः’ इति नानार्थरत्नमाला। तत्त्वदृगृषिरिति च पाठः ॥१५॥
विकुर्वाणा विश्वं विविधगुणभेदैः परिणमद् विधुन्वाना भावान् भुवनगतिरोधाय भवतः ॥ वितन्वाना शर्व चलवदचलं काचिदवितुं विचिन्वाना जन्तोः कृतलवमपीशा विजयते ॥१६॥
विकुर्वाणेति- काचित् ईदृशीति वक्तुमशक्या महाशक्तिः परिणमत् परि-पच्यमानं विश्वं जगत् विविधगुणभेदैः विविधैः गुणभेदैः सत्त्वादीनाम् अंश-भूयस्त्वाल्पीयस्त्वविनिमयेन बहुलभेदैरित्यर्थः, विकुर्वाणा, विकुर्वाणा, परिवृत्तं कुर्वाणा, परिणामि जगत् नानाविधगुणभेदविशिष्टं विदधानेत्यर्थः। भुवनगतिरोधाय भुवनस्य जगतः गतेः चलनस्य रोधाय भवतः भवते: शतरि द्वितीयाबहुवचनं प्रभवतः कल्पमानानिति यावत्, भावान् चेष्टाः इत्यर्थः, विधुन्वाना निवार-यन्ती ’भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः। विश्वगतिरक्षिणी विश्वेश्वरी विश्वगतिप्रतिबन्धिकाः आसुरीश्चेष्टाः निवारयन्तीति भावः । अचलं चलनरहितम् अक्षरं शर्वं भगवन्तं परमेश्वरं चलवत् चलमिव वितन्वाना विस्तृण्वाना विततं कुर्वाणा। अक्षरमपि ईश्वरं जगदपेक्षया विश्वस्य विततौ क्रियमाणायां तेन सह तं सर्वाश्रयं विततम् अत एव चलन्तमिव विदधतीत्यर्थः । जन्तोः जन्मिनः कृतलवमपि कृतस्य कर्मफलस्य लवं लेशमपि अवितुं रक्षितुं विचिन्वाना गवेषयन्ती, प्राणिनां कर्मणः लेशमपि तद्रक्षणाय जागरूकतया मार्गयमाणेत्यर्थः। एवम्भूता ईशा ईश्वरी विजयते वैशिष्टयेन जयति ॥१६॥
प्रभा भानोर्यद्वद्भवसि सकलस्यापि तपनी प्रचण्डा शक्तिः सत्यखिलभुवनेशस्य तपतः ॥ सुधांशोर्योत्स्नेव प्रमदयसि चेतः प्रविशतो भवन्ती भूतादेवहरकुहरं मोदलहरी ॥१७॥
प्रभेति- अम्ब ! तपत: ज्वलतः सकलभुवनेशस्य सर्वलोकेश्वरस्य प्रचण्डा शक्तिः चण्डी सती सकलस्य विश्वस्य तपनी तपनशक्तिः भानोः सूर्यस्य प्रभा यद्वत् यया तुल्यं यथेत्यर्थः तथा भवसि। दहरकुहरं हृदयाकाशं प्रविशतः भूतादेः भूतानां पृथिव्यादीनां प्राणिनां वा आदेः मूलभूतस्य आत्मनः ‘अङगुष्ठ-मात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’ इति हि श्रूयते। तस्मात् हृदिस्थस्य अन्तरात्मनः इत्यर्थः, मोदलहरी आनन्दलहरी भवन्ती, सुधांशोः सोमस्य ज्योत्स्नेव सौम्यप्रभेव चेतः मनः प्रमदयसि प्रकर्षेण हर्षयसि । सूर्यप्रभे-वोग्रा शक्ति प्रकटयसि, चन्द्रप्रभेव सौम्या आनन्दम् आधत्से इति भावः ।।१७।।
प्रचण्डा गौरी वा त्वमसि वसुरुद्रार्कविनुते स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् ॥ तयोरेकं रूपं तव सहविभोः खेलति मह-त्यमुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥१८॥
प्रचण्डेति- वसुरुद्रार्कविनुते ! वसुरुद्रादित्यैः क्रमशो भूरादिलोकत्रया-धिकारिकः देवैः विनुते सन्नुते त्वं प्रचण्डा चण्डी उग्रा का गौरी सौम्या वा असि उभयथा वा भवसि, पादसुहृदां पादयोः बन्धूनां भक्तानाम् अभयदः त्राणप्रदः स विभुरीश्वरः भीमो वा उग्रो वा शम्भुः सुखमयः सौम्यो वा भवति। सहविभोः विभुना सह वर्तत इति सहविभुः तस्याः सेश्वरायाः तव तयोरुक्तयोः चण्डीगौरीरूपयोरेकं रूपं महति अमुष्मिन् परस्मिन् आकाशे खेलति क्रीडति अर्थात् चण्डीरूपम् । परम् इतरद् गौरीरूपं धवलमहसि सोमे क्रीडति। आकाशे प्रतापशक्तिः सौरभेव वैद्युती चण्डी, सौम्या सोमभा गौरीति प्रागुक्तम् । उत्तरत्र चेदं स्पष्टं ब्रूते ॥१८॥
विभक्ता या द्वेषा त्वमसि गगने शीतमहस-स्तथा रम्ये बिम्बे ज्वलितललितस्त्रीतनुविधा ॥ तयो—हीशाने जननि कतमा मे जननभूः पुराजन्मन्यासीद्विकटमथवोग्रेव सुषुवे ॥१९॥
विभक्तेति- या त्वं द्वधा द्विप्रकारेण विभक्ता ज्वलितललितस्त्रीतनुविधा ज्वलिता प्रतप्ता ललिता कोमला च स्त्रियास्तनू देही तयोविधे इव विधे यस्याः सा ज्वलिता चण्डी ललिता गौरी इति स्त्रीरूपप्रकारद्वयवतीत्यर्थः, सा त्वं गगने आकाशे ज्वलिता चण्डी असि, तथा शीतमहसः सोमस्य रम्ये मनोहरे बिम्बे मण्डले ललिता गौरी असि। ईशाने ईश्वरि जननि ! तयोः चण्डीगौर्योः मध्य कतमा मूर्तिः पुराजन्मनि पूर्वजनने मे मम जननभूः उत्पत्तिस्थानम् आसीत्, किं मम चण्डीगर्भो जननभूरासीत् उत गौरीगर्भः ? ब्रूहि कथय। अथवा उग्रैव चण्डैव विकटं गजाननं गणपतिं सुषुवे प्रसूतवती। विकट इति गणपतेर्नाम गज-मुखत्वेन विकटरूपत्वात्। विकटं करालं घोरमित्यर्थः, ’विकट: पृथुले रम्य विशालविकरालयोः’ इति नानाथरत्नमाला। आकाशे प्रतपन्ती चण्डयेव गणपतिमसूत वेति विकल्पेन प्रश्नः। उत्तरेण पद्येन स्वयं समाधत्ते ॥१९॥
वृशोभैंदाद् दृष्टेर्न भवति भिदा काऽपि करयो-न भेदाद्भिन्नस्यात्कृतमभिविमानक्यवशतः ॥ भिदा तन्वोरेवं न भवति भिदाय तव शिवे वियद्देशे चण्डयां सितमहसि गौर्या च भवति ॥२०॥
दृशोरिति- दृशोर्द्वयोरक्ष्णोर्भेदात् पृथक्त्वात् दृष्टे: दर्शनस्य काऽपि भिदा पृथक्ता न भवति। द्वयोरक्ष्णोः एकमेव दर्शनं, न दर्शने भेद इत्यर्थः । कर-योर्हस्तयोर्भेदात् कृतं निष्पादितं वस्त्वित्यर्थः न वा भिन्नं भवति। एकमेव वस्तु द्वाभ्यां हस्ताभ्यां कृतं हस्तभेदाढेतोः न भिन्नं भवति । शिवे अम्ब! एवम् अनया रीत्या, अभिविमानक्यवशतः आत्मीयत्वेन विशिष्य मानयतीत्य-भिविमानः, अभिविपूर्वकात् मनु अवबोधन इति धातोर्ण्यन्तात् घञि अभि-विमान इति रूपं, स्वीयोत्कर्षावबोधनम् इत्यर्थः । तस्यैक्यस्य अभेदस्य वशतः वशाखेतोः तन्वोः शरीरयोभिदा भेदः तव भिदाय भेदाय न भवति। विय-द्देशे आकाशे तपन्त्यां चण्डयां देव्यां सितमहसि चन्द्रे विलसन्त्यां गौर्या विजयमानैकैव भवति भवतीत्यध्याहार्यम् ॥
दृग्द्वयेन दृष्टिद्वयं न भवति, करद्वयेन कृतद्वयं च न भवति। एवं चण्डीगौरीशरीरभेदाद् देवीस्वरूपस्य न भेदो भवतीत्युक्तम् । यथा द्वयोः दृशोः एकमेव दर्शनं, यथा च द्वयोः करयोः एकमेव कृतं, तथा चण्डीगौरी-शरीरयोः एकमेव शरीरिस्वरूपमिति गम्योपमा। अनेन दर्शनस्य दृग्द्वयमिव, कृतस्य करद्वयमिव देवीस्वरूपस्य चण्डीगौरीशरीरद्वयं स्वभावसिद्धमिति द्योत्यते। शरीरभेदात् स्वरूपभेदो न भवतीति प्रकृतोपपाद्यम् अर्थ प्रति पूर्वार्धगतवाक्यद्वयार्थस्यानुमितिकरत्वेनोपपादकत्वात् काव्यलिङ्गमलङ्कारः । नेहा-र्थान्तरन्यासः शङ्कयः, प्रकृताप्रकृतयोः सामान्यविशेषभावादर्शनात् । ’अनु-मितिकरत्वेन सामान्यविशेषभावाभ्यामनालिङ्गितः प्रकृतार्थोपपादकत्वेन विव-क्षितोऽर्थः काव्यलिङ्गम्’ इति रसगङ्गाधरकाराः ॥२०॥
तव च्छिन्नं शीर्ष विदुरखिलधात्र्यागमविदो मनुष्याणां मस्ते बहुलतपसा यद्विदलिते ॥ सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता बहिश्शक्त्या युक्ता विगतचिरनिद्रा विलससि ॥२१॥
तवेति- अखिलधात्रि विश्वभत्रि! आगमविदः तान्त्रिकाः तन्त्रशास्त्रो-क्तविद्याज्ञानिन इति यावत्, तव शीर्ष शिरः छिन्नं कृत्तं विदुः जानन्ति, त्वां छिन्नमस्तामाहुः। यत् यस्मात् बहुलतपसा बहुलेन गाढेन तपसा तपोनिष्ठया विदलिते द्विधा विशीर्णे मनुष्याणां मस्ते शिरसि सुषुम्नायाम् एतदाख्यायां ज्योतिर्वाहिन्यां नाड्यां मध्यनाड्यां तनुकरणसम्पर्करहिता देहेन्द्रियादिसम्बन्ध-वजिता निर्लेपा सती बहिश्शक्त्या शरीराद्वहिः ब्रह्माण्डगतमहाशक्त्या युक्ता संयुक्ता विगतचिरनिद्रा उज्झितस्वापा शरीरे जातप्रबोधा कुण्डलिनी त्वं विलससि, तस्मात् विदुरिति पूर्वेण सम्बन्धः। योगिषु कुण्डलिनी प्रबुद्धा सुषुम्नायां वहन्ती शरीरमनाश्रित्य शीर्षकपालं भित्त्वा निर्गत्य बहिर्ब्रह्माण्ड-शक्त्या युक्ता बाह्याभ्यन्तरयोर्यातायातविहारेण विलसतीति इममर्थम् अन्यत्र च स्वानुभूत्या कविबूंते। ’तव च्छिन्नं मस्तम्’ इति पाठान्तरम् ॥
जीवतो योगिनः शीर्षकपालभेदनम् श्रुत्यनुभवसिद्धम्। ’व्यपोह्य शीर्ष-कपाले’ इति तैत्तिरीयश्रुतिः। इममेवाभिप्रायं स्मारयति अधुनाऽपि सम्प्र-दायः यन्मृतस्य तुरीयाश्रमिकशरीरस्य खननात्पूर्वं तच्छिर: नारिकेलफल-भिद्यते ॥२१॥
उताहो तन्वङ्गयां भृगुकुलविधात्र्यां पितृगिरा तनूजेन च्छिन्ने शिरसि भयलोलाक्षिनलिने । न्यधास्तेजो भीमं निजमयि यदक्षुद्रमनघं तदाहुस्त्वामम्ब प्रथितचरिते कृत्तशिरसम् ॥२२॥
उताहो इति- उताहो विकल्पे, अथवा छिन्नमस्तात्वप्राप्तेः हेत्वन्तरं विकल्पते। भृगुकुलविधात्र्यां भार्गववंशविधायिन्यां तन्वङ्गयां सुन्दयाँ जम-दग्निभार्यायां रेणुकायां भयलोलाक्षिनलिने भयेन लोले चकिते अक्षिनलिने नयनकमले यस्य तस्मिन् शिरसि मस्तके तनूजेन पुत्रेण परशुरामेण पितृगिरा पितुर्जमदग्नेः वाचा तदादेशेनेत्यर्थः, छिन्ने सति, अयि देवि ! निजं स्वीयम् अक्षुद्रम् उत्तमम् अनघं पवित्र भीमम् उग्रं तेजः ज्योति: न्यधाः निहितवत्यसि निपूर्वकस्य धाञ्-धातोः लुङि मध्यमपुरुषैकवचनम्। तत् तस्मात् अम्ब प्रथितचरिते विश्रुतचरित्रे! त्वां कृत्तशिरसं कृतं छिन्नं शिरो यस्यास्तां छिन्नमस्ताम् आहुः वदन्ति। परशुरामेण मातुः शिरसि छिन्ने तस्यां भग-वत्या प्रचण्डचण्डया स्वं तेजो निहितम् । तेन हेतुमा रेणुका प्रचण्डचण्डी-तेजस्काऽभूत् । प्रचण्डचण्डी च छिन्नमस्तेति कीर्त्यते, स्वतेजोवासभुवो रेणु-कायाः कृत्तशिरस्कत्वात् ॥२२॥
हुतं धाराज्वालाजटिलचटुले शस्त्रदहने तपस्विन्याः कायं भगवति यदाऽम्ब त्वमविशः ॥ तदा तस्याः कण्ठप्रगलदसृजः कृत्तशिरसः कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥२३॥
हुतमिति- अम्ब ! त्वं यदा धाराज्वालाजटिलचटुले अविच्छिन्ना धारा-कारा ज्वाला धाराज्वाला तया जटिले सान्द्रे चटुले शीघ्र अत एव प्रचले शस्त्रदहने खड्गाग्नौ ’वाच्यवच्चटुलं शीघ्रम्’ इति विश्वः, तपस्विन्याः ताप-स्याः अदण्ड्यत्वात् शोचनीयाया वा रेणुकायाः कायं देहं यदा अविशः प्रवि-ष्टाऽसि, तदा कृत्तशिरसः छिन्नमस्तायास्तस्या रेणुकायाः कण्ठप्रगलदसृजः कण्ठात् प्रगलतः निर्गच्छतः असृजः रुधिरात् भुवनविनुतः लोकसंस्तुतः कोऽपि महिमा महान् प्रभाव: कबन्धेन शिरोवियुक्तकलेवरेण प्राप्तः लब्धः । एव लोके रेणुकायाः कबन्धोऽद्यापि पूज्यते ॥२३॥
अत निधेस्त्वत्तो हृत्वा भगवति न लज्जे भुवि सृजन् रसक्षोणीर्वाणीस्त्वदमलयशस्सौरभजुषः ॥ नृपोद्यानात्सूनोत्करमपहरन् भक्तिनटनं वितन्वानस्तस्मै मुहुरुपहरंत्सेवक इव ॥२४॥
निधेरिति- भगवति ! त्वदमलयशस्सौरभजुषः तवामलानां स्वच्छानां यशसां कीर्तीनां सौरभं सौगन्ध्यं जुषन्ते सेवन्ते इति त्वदमलयशस्सौरभजुषः ताः रसक्षोणीः रसभूमी: वाणी: गिरः रसपूरिता वाच इत्यर्थः ताः, कर्म, निधे: सर्वरसोत्तरवाङ्मयनिधामभूतायास्त्वत्तः हृत्वा आदाय भुवि इह लोके सृजन्नहं न लज्जे न लज्जितोऽस्मि। त्वत्पावनकीर्तिगन्धवाहिनी: रसपरिप्लुता वाणी-स्त्वत्त एव हृत्वा तासां काव्यरूपेण पुनर्निर्मितिं विधाय, मदीयेयं कविता-सृष्टिरिति वादे स्यादेव मम लज्जा। तथाऽपि न लज्जे, कुतः उत्तरार्धेनो-पमया हेतुमाह। अहं न लज्जे, क इव नृपोद्यानात् नृपस्य प्रभोरुद्यानात् उपवनात् सूनोत्करं पुष्पराशिमपहरन् स्वीयमिव आददानः, भक्तिनटनं भक्तेः प्रभो सगौरवानुरागस्य नटनं बाह्यचेष्टितैः प्रदर्शनं वितन्वानः कुर्वाणः मुहुः पुनः पुनः तस्मै नृपाय उपहरन् तदीयोद्यानादाहृतं प्रसूनोत्करम् उपहरन् उपा-यनीकुर्वन् सेवकः किङ्कर इव न लज्जे इति पूर्वेण सम्बन्धः । त्वत्तो निधे-रित्यनेन देव्याः प्रसादविशेषेण लब्धेयं कविता इति गम्यते। भुवि सृजन् इत्यनेन अभिनवेयं मे निर्मितिरिति द्योतितम् ॥२४॥
दधानास्सन्तोषं मनसि सुकवीनामतितरां ददानाः प्रत्यग्रं विबुधसदसे भावमलघुम् ॥ कुलानामुत्साहं सपदि विदधानाशिववधू-पराणां शोभन्तां जगति शिखरिण्यो गणपतेः ॥२५॥
दधानाः इति- सुकवीनां सत्कवयो रसास्वादनपटवः निर्मत्सराश्च, अत-स्तेषां मनसि सन्तोषम् अतितरां विशेषतः दधानाः बिभ्राणाः। विबुध-सदसे विद्वत्परिषदे अलघु गुरुं प्रत्यग्रम् अभिनवं भावम् अभिप्रायं ददानाः वितरन्त्यः। शिववधूपराणां शिववधूः भगवती परं प्रधानं येषां तेषां देवी-भक्तानां कुलानां सङ्घानाम् उत्साहं विक्रमसम्पन्नं व्यवसायं सपदि क्षणात् विदधानाः कुर्वाणाः गणपतेः कवेः शिखरिण्यः शिखरिणीवृत्तनिबद्धाः स्तुतयः जगति लोके शोभन्ताम् दीप्यन्तु, शोभमाना भवन्तु इति यावत् ॥२५॥
सप्तविंशः स्तबकः सव्याख्यः समाप्तः ॥
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.