ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




षड्विंशः स्तबकः

अथास्मिन् षड्विंशे स्तबके अरुणाचलक्षेत्रे प्रसन्नाम् अपीतकुचाम्बिका स्तौति ॥

आगमविन्मतिकरविणीनां बोधमजस्रमसौ विदधानः।।
पातु महेशवधूवदनांशो हासशशी सकलानि कुलानि ॥१॥

आगमेति- आगमविन्मतिकरविणीनाम् आगमविदां वेदादिप्रमाणभूत-शास्त्रज्ञानां मतयः एव कैरविण्यः कुमुदिन्यः तासाम् अजस्रं नित्यं बोधं ज्ञानं, पक्षे विकासं विदधानः कुर्वाणः महेशवधूवदनांशः महेश्वरीमुखमण्डलकलेत्यर्थः, हासशशी हास एव शशी चन्द्रः सकलानि कुलानि पातु रक्षतु। अत्र हास एव शशी इति मयूरव्यंसकादिसमासाश्रयणात् परिणामालङ्कारः। नेह आरो-प्यमाणस्य शशिनः आरोपविषयहासात्मना परिणति विना सकलकुलरक्षणो-पयोगित्वं सम्भवति। न च हासः शशीव इति उपमितसमासाश्रयणात् पूर्व-पदप्राधान्यमस्तीति शङ्कयम्। सामान्यधर्मानयोग एव उपमितसमासः आश्र-यणीयः, ’उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ इति उपमितसमासानुशास-नात्। इह तु बोधं विदधान इति बोधविधानसामान्यप्रयोगाच्च । उत्तर-पदस्य विषयिणः शशिनः प्रकृतविषयहासात्मना परिणामो दुर्वारः ॥१॥

आयतलोचनचुम्बितकर्णा दानयशोजिततोयदकर्णा ॥
शोणनगेशमनःप्रियवर्णा नाशयताज्जगदातिमपर्णा ॥२॥

आयतेति- आयतलोचनचुम्बितकर्णा आयताभ्यां दीर्घाभ्यां लोचनाभ्यां चुम्बितौ कौँ श्रोत्रे यस्याः सा, कर्णान्तविश्रान्तनेत्रेत्यर्थः। दानयशोजित-तोयदकर्णा दानेन यशः तेन जित: तोयद: मेघो वर्षक: इव कर्णः कौन्तेयः यस्याः सा अभीष्टदानदाक्ष्याज्जातया कीर्त्या तोयवर्षकं मेघमिव याचितदान-दक्षं कौन्तेयं जितवतीत्यर्थः, कौन्तेययशोऽतिशायिनी दानकीर्तिः देव्याः इति यावत्। शोणनगेशमनःप्रियवर्णा शोणनोशस्य अरुणाचलेश्वरस्य मनःप्रियः हृदयङ्गमः वर्णो रञ्जको रागः यस्याः सा, अरुणाचलेश्वरहृदयरञ्जनीत्यर्थः, अपर्णा दुर्गा जगदाति लोकस्य पीडां नाशयतात् ध्वंसयतु ॥२॥

वेदतुरङ्गविलोचनभाग्यं वेदशिरोनिचयैरपि मृग्यम् ॥
शोकविदारिसुधाकिरणास्यं शोणगिरौ समलोकि रहस्यम् ॥३॥

वेदेति- वेदतुरङ्गविलोचनभाग्यं वेदास्तुरङ्गा वाहा यस्य तस्य शिवस्य विलोचनानां भाग्यं पुण्यफलं, त्रिपुरसमरे हरस्य वेदाः वाहाः अभूवन्निति पुरा-णम्। वेदशिरोनिचयैः वेदशिरसां वेदान्तानां निचयैः समूहैरपि मृग्यम् अन्वे-ष्यम्, शोकविदारिसुधाकिरणास्यं शोकं विदारयितुं शीलमस्येति शोकविदारि दुःखध्वंसं तत् सुधाकिरणः चन्द्र इव आस्यम् आननं यस्य तत्, रहस्यं गूढं तत्त्वं शोणगिरौ अरुणाचले समलोकि समदर्शि मया दृष्टमित्यर्थः ॥३॥

मुञ्च समस्तमनोरथलाभे संशयमद्य करामलकाभे॥
दृक्पथमाप नगेन्द्रतनूजा सोऽहमितः परमन्तरराजा ॥४॥

मुञ्चेति- करामलकाभे करे हस्ते आमलकं फलं तस्य आभा इव आभा यस्य तस्मिन् समस्तमनोरथलाभे सर्वकामसिद्धौ विषये अद्य संशयं मुञ्च सन्देहं मा कृथाः इति मनः प्रति सम्बोधनम्। करगतामलकमित्यत्र लोक-वादानुकरणेन अयत्नसिद्धम् अभीप्सितं बोध्यम्। ’सहस्व कतिचिन्मासान् मीलयित्वा विलोचने’ इत्यादाविव लोकोक्ति नामालङ्कारमाहुः। असन्दिग्ध-मनोरथलाभविषये हेतुमाह। नगेन्द्रतनूजा पर्वतराजपुत्री पार्वती दृक्पथं दृष्टिमार्गम् आप प्राप्ता इत्यर्थः। दुष्करः सर्वमनोरथलाभः । स समर्थन-सापेक्षः। नगेन्द्रतनूजादर्शनलाभेन स समर्थितः । तस्मात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। सोऽहं तथा प्राप्तदेवीदर्शनोऽहम् इतः परम् अन्तर-राजा अन्तरे अन्तरङ्गे हृदये राजा ईशः यस्य सः, यद्वा अन्तरं हृदयं राजा यस्य सः अस्मीति अध्याहार्यम् । नाहमितः परम् अन्याधीनो बाह्यवशङ्गतो भवामि। तत्र दर्शनभाग्यमेव हेतुरिति भावः ॥४॥

शिल्पविदः प्रतिमां प्रविशन्ती स्वल्पविदां तरणाय चकास्ति।
शोणधराभृति सम्प्रति लब्धा हन्त चिरादियमेव ममाम्बा ॥५॥

शिल्पविद इति-शिल्पविदः शिल्पं वेत्तीति शिल्पवित तस्य विग्रहादि-निर्माणकलावेदिनः प्रतिमां तनिष्पादितां मूर्ति प्रविशन्ती स्वकलया शिल्पि-कृतविग्रहविशेषम् आविशन्तीत्यर्थः, स्वल्पविदां वेदवेदान्तादिपाठैरसंस्कृतधियां मन्दज्ञानिनामपि तरणाय जन्मतरणाय चकास्ति ज्वलति देवीत्यध्याहार्यम्, शोणधराभृति अरुणाचले सम्प्रति अधुना लब्धा मयेति शेषः । हन्त आश्चर्ये, चिरात् बहोः कालादियमेव मम अम्बा। एतावन्तं कालमिमा-मविदित्वा जीवितमयापयम्। अधुनॅव ज्ञात्वा इमां प्राप्तवानस्मि ॥५॥

भारतभूवलयेत्र विशाले सन्त्वनघानि बहूनि गृहाणि ॥
आस्यविगीतसुधाकरबिम्बा शोणगिरौ रमतेऽत्र मदम्बा ॥६॥

भारतेति- अत्र अस्मिन् विशाले विस्तीर्णे भारतभूवलये भारतभूमि-मण्डले अनघानि शुभानि बहूनि गृहाणि देवीनिवासाय सन्तु भवन्तु । एवं सत्स्वपि, अत्र शोणगिरौ अरुणाचले आस्यविगीतसुधाकरबिम्बा आस्येन मुखेन विगीतं निन्दितं सुधाकरस्य चन्द्रस्य बिम्बं यस्याः सा, चन्द्रबिम्बशोभाति-शायि विकसितं प्रसन्नं वदनं देव्याः इत्यर्थः । मदम्बा रमते रता भवति । यद्यपि पावनानि रमणीयानि भरतखण्डे निवासस्थानानि भगवत्याः सन्ति, तथाऽपि अत्रैव अरुणाचले सोल्लासविशेष सुप्रसन्नरतेति भावः ॥६॥

वारितसंश्रितपातकजाला वारिधिवीचिनिरङकुशलीला ॥
वारिजपत्रविडम्बननेत्रा वारणराजमुखेन सपुत्रा ॥७॥

वारितेति- वारितसंश्रितपातकजाला वारितं निवारितं संश्रितानाम् आश्रितजनानां पातकजालं पापजालं यया सा। वारिधिवीचिनिरङकुशलीला वारिधेः सागरस्य वीचय ऊर्मय इव निरङकुशा अप्रतिहता लीला सततविलासो यस्याः सा, विशृङ्खलनवनवोन्मेषविलासशालिनीत्यर्थः । वारिजपत्रविडम्बन-नेत्रा वारिजपत्रे कमलदले विडम्बयत उपहसत इति वारिजपत्रविडम्बने ते नेत्रे यस्याः सा, कमलशोभातिशायिनी नेत्रे अस्याः। वारणराजमुखेन गजमुखेन गणपतिना सपुत्रा पुत्रवतीत्यर्थः ॥७॥

आयतवक्रघनासितकेशी तोयजबाणरिपोर्ह दयेशी॥
काशसुमाच्छयशाः परमेषा पाशभिदस्तु तवेन्दुविभूषा ॥८॥

आयतेति- आयतवक्रघनासितकेशी आयताः दीर्घाः वक्राः कुटिलाः घनाः सान्द्राः असिताः कृष्णाश्च केशाः कचा: यस्याः सा। तोयजबाणरिपोः कमल-पुष्पबाणशत्रोः कामारे: रुद्रस्य हृदयेशी प्राणेश्वरी, काशसुमाच्छयशाः काश-सुममिव काशपुष्पमिव अच्छं शुभ्रं यशः यस्याः सा। परमा श्रेष्ठा। इन्दुविभूषा चन्द्रचूडा एषा अम्बा तव पाशभिद् पाशम् आविद्यकं जन्मादि-बन्धं भिनत्ति छिनत्तीति पाशभित् अस्तु भवतु ॥८॥

पङ्कजसम्भवपूजितपादा पङ्कविनाशनपावननामा ॥
किङ्करकल्पलता परमेयं शङ्करनेत्रसुधा शरणं नः ॥९॥

पङ्कजेति- पङ्कजसम्भवपूजितपादा पङ्कजसम्भवेन पद्मयोनिना ब्रह्मणा पूजितौ पादौ यस्याः सा। पङ्कविनाशनपावननामा पकं पाप्मानं विनाशय-तीति पङ्कविनाशनं पावनं नाम यस्याः सा। किङ्करकल्पलता किङ्कराणां सेवकानां भक्तानां कल्पलता इष्टार्थदात्री स्वर्लता। परमा सर्वोत्तमा। शङ्करनेत्रसुधा शम्भुलोचनयोरमृतायमाना प्रीतिकरीत्यर्थः। इयम् अम्बा नः अस्माकं शरणं रक्षणं भवतीति शेषः ॥९॥

चञ्चलदृग्विनतामरवल्ली पञ्चपृषत्कशरासनझिल्ली ॥
काञ्चनगर्भमुखप्रणुतेयं पञ्चमुखप्रमदा शरणं नः ॥१०॥

चञ्चलेति- चञ्चलदृक् चञ्चले विलासविशेषाच्चले दृशौ यस्याः सा । विनतामरवल्ली विनतानां प्रणतजनानाम् अमरवल्ली कल्पलता ईप्सितार्थ-दायिनी। पञ्चपृषत्कशरासनझिल्ली पञ्चपृषत्कस्य मन्मथस्य शरासनं धनुः झिल्ल्यौ भ्रुवौ यस्याः सा, देव्याः ध्रुवौ कामस्य धनुरित्यर्थः। ’झिल्लिका भ्रू-लतायां स्याद्’ इति नामकल्पद्रुमः । ’वदनस्मरमाङ्गल्यगृहतोरणझिल्लिका’ इत्यत्र ललितासहस्रनामभाष्ये झिल्ली भ्रूरिति व्याख्यातम्। काञ्चनगर्भमुख-प्रणुता काञ्चनगर्भो हिरण्यगर्भो ब्रह्मा स मुखे अग्रे येषां ते काञ्चनगर्भमुखाः ब्रह्मादयः तै: प्रणुता संस्तुता इयं पञ्चमुखप्रमदा पञ्च मुखानि ईशान-तत्पुरुष-अघोर-वामदेव-सद्योजाताख्यानि यस्य तस्य पञ्चमुखस्य परमेश्वरस्य प्रमदा योषा नः अस्माकं शरणं रक्षणं भवतीति शेषः ॥१०॥

अम्ब विधूय भटान्मदनादीन् नूपुरनादबिभीषिकयैषः ॥
हन्त जहार बलेन मनो मे शोणनगाङघिनिवासिनि तेऽङघ्रिः ॥११॥

अम्बेति- शोणनगाङघ्रिनिवासिनि अरुणाचलपादप्रदेशवासिनि अम्ब ! ते तव एषः अघ्रिः पाद: नूपुरनादबिभीषिकया पादकटकध्वनिना भर्त्सनेन मदनादीन् कामादीन् भटान् विधूय अपसार्य स्वयमेव मे मनः बलेन जहार मन्मानसं प्राप्य आचकर्षेति भावः । कामादिभटैः रक्षितं मे मनः तव पादा-गतेरवकाशं न प्रादात्। तथाविधं मानसम् अपहृतवत्यसि, हन्त आश्चर्यम् तावांस्तव पादमहिमा ॥११॥

कर्णपुटे कुरु मुग्ध ममोक्ति मुञ्च धनादिषु मानस सक्तिम् ॥
शोणगिरीन्द्रवधूपदभक्ति शीलय शीलय यास्यसि मुक्तिम् ॥१२॥

कर्णपुट इति- मुग्ध मूढ मानस ! मम उक्ति व्याहृति कर्णपुटे कुरु शृणु, धनादिषु आदिशब्देन कान्तादिविषयभोगेषु सक्तिम् आसक्ति मुञ्च सङ्गं परित्यजेत्यर्थः। शोणगिरीन्द्रवधूपदभक्ति अरुणाचलेश्वरप्राणनायिकाचरण-भक्ति शीलय शीलय वीप्सायां द्विरुक्तिः, अभ्यासादाचर, मुक्ति यास्यसि, मोक्षं लप्स्यसे इत्यर्थः ॥१२॥

जीर्णतरे जरयाऽखिलदेहे बुद्धिबलं च विलुम्पति मोहे।
हन्त सवित्रि तपन्मतिरन्ते सेवितुमिच्छति ना चरणं ते ॥१३॥

जीर्णतर इति- अखिलदेहे सर्वस्मिन् शरीरे जरया वयोवृद्धया जीर्ण-तरे अतिशयेन जीर्णे क्षयं गते सति, मोहे ज्ञानलोपे बुद्धिबलं विलुम्पति ह्रास-यति सति, सवित्रि जननि ! तपन्मतिः तपन्ती मति: बुद्धिः यस्य सः तापा-र्तबुद्धिरित्यर्थः, ना नरः अन्ते देहावसानसमये ते चरणं सेवितुम् इच्छति, हन्त खेदे, इदं कष्टम्। शरीरेन्द्रियादिपाटवे सति त्वच्चरणसेवारतिः न जायते प्रायशो नरस्येति शोचनीयमिदम् ॥१३॥

तन्त्रविदो नवयोनि तु चक्र शोणधराधररूपमुशन्ति ॥
अर्धममुष्य वपुर्मदनारे- रर्धमगेन्द्रसुते तव गात्रम् ॥१४॥

तन्त्रेति- तन्त्रविदः शाक्तागमविज्ञाः नवयोनि नव योनयः यस्य तत् चक्रं तु श्रीचक्रम् एव शोणधराधररूपम् अरुणगिरिरूपम् उशन्ति कामयन्ते, कान्त्यर्थाद्वष्टे: सम्प्रसारणम्, वदन्तीति यावत्। अमुष्य श्रीचक्ररूपस्य गिरेः अर्धं मदनारे: शिवस्य वपुः शरीरं, अगेन्द्रसुते पार्वति देवि ! तव गात्रम् अर्धम् । यत् तन्त्रशास्त्रेषु प्रसिद्धं श्रीचक्रं श्रीपुरम् इति विश्रुतं तदेव अरुणगिरिरूपेण रानते इत्याहुः, तत्रापि शिवयोः युवयोः शरीरं विभक्तं पत्युरर्धं तवार्धमिति वक्तव्यम्। न सर्वोऽपि गिरिः शिववपुः, न वा सर्वमपि श्रीचक्रं त्वद्वपुः । तथा चाहुः-- ’चतुर्भिः शिवचकैश्च शक्तिचक्रैश्च पञ्चभिः । । नवयोन्या-त्मकं चक्रं श्रीचक्रं शिवयो र्वपुः ॥ इति। तस्मादरुणाचल: सर्वोऽपि शिव-शरीरमिति न तथ्यं, तत्र तव शरीरभागोऽप्यस्तीति भावः ॥१४॥

अस्तु नगेश्वरनन्दिनि लिङ्गं तैजसमेतदिहापि तवांशः ॥
वीतगुणस्य विना तव योगं देवि शिवस्य कुतः खलु तेजः ॥१५॥

अस्त्विति- नगेश्वरनन्दिनि पार्वति ! एतत् अरुणाचलाख्यं तैजसं तेजोमयं लिङ्गम् अस्तु भवतु । दक्षिणदेशे पञ्चभूतक्षेत्रेषु काञ्च्यादिषु अरुणा-चलस्य तैजसक्षेत्रत्वं पुराणप्रसिद्धम् । इहापि तैजसे लिङ्गेऽपि, न केवलं गिरौ तव अंशो भागो भवतीत्यध्याहार्यम् । देवि, अम्ब ! वीतगुणस्य निर्गुण-स्य परब्रह्मस्वरूपस्य शिवस्य तव योगं विना सम्बन्धं विना कुतः खलु तेजः ? तेजो नैव स्यादित्यर्थः। निर्गुणस्य परस्य पुरुषस्य शक्तियोगेनैव सगुणत्वं भवति। तेजश्च गुणः, तैजसं लिङ्गं च गुणि भवति । गुणेन तेजसा विना गुणिनो लिङ्गस्य तैजसत्वमेव न सिद्धयेत्। भेषजे, अनभि-व्यक्तगुणस्य द्रव्यविशेषस्य भैषज्ययोगेन तेजो वीर्यं भवति। श्लिष्टः गुण-योग-तेजश्शब्दरुपमाध्वनिः । समर्थनीयस्य तेजसलिङ्गार्धदेवीशरीरस्य उत्त-रार्धवाक्यार्थेन समर्थनात् काव्यलिङ्गम् अलङ्कारः ॥१५॥

स्थापितमूर्तिरियं तव नम्या पूजयितुं जगदीश्वरि रम्या ॥
शोणनगार्धमिदं तव रूपं कीर्तयितुं नगजे धुतपापम् ॥१६॥

स्थापितेति- जगदीश्वरि अम्ब ! नम्या नन्तुं योग्या तव स्थापितमूर्तिः शिल्पिकृतप्रतिमा पूजयितुं रम्या भवति। नगजे पार्वति ! धुतपापम् अप-हतपापम् शोणनगार्धम् अरुणाचलार्धम् इदं तव रूपं कीर्तयितुं रम्येति पूर्वेणा-न्वयः। करचरणाद्यवयवसम्पन्ना शिल्पिकृता ते मूर्तिः कायिकपूजनविषया रमणीया भवति। पर्वतार्धं ते गात्रं तु वाचिकपूजनविषयं रमणीयम् । मानसं तु उभयत्र गम्यम् ॥१६॥

शोणनगार्धतनोऽनिशमङ्क धारयसेऽयि गुहं रमणाख्यम् ॥
आगतमप्ययि हा मुहुरम्बो च्चाटयसे गणपं ननु कस्मात् ॥१७॥

शोणेति- अयि शोणनगार्धतनो अरुणाचलार्धाङ्गि ! अनिशमश्रान्तम् अङ्के उत्सङ्गे रमणाख्यं श्रीमहर्षि गुहं स्कन्दावतारं धारयसे। अयि अम्ब ! मुहुः पुनः पुनः आगतमपि गणपं गणपति कस्मात् हेतोः उच्चाटयसे ननु दूरीकरोष्येव ? कनीयांसं पुत्रम् अङ्के निधाय लालयसि, ज्यायांसं दूरीकुरुषे, कुत एतत् ? अरुणाचलस्य कटकम् अधिशेते भगवान्महर्षिः, अधुनाऽपि तत्पादं न त्यक्तवान् । गणपतिस्तु मुहुर्मुहुः नाविच्छेदेन तत्र वासमकरोदिति गम्यते ॥१७॥

अङ्कजुषे रमणाय नु दातुं मानववेषधराय गुहाय ॥
शोणनगार्धतनो बहु दुग्धं मातरपीतकुचेह विभासि ॥१८॥

अङ्केति- शोणनगार्धतनो अरुणगिरीश्वरार्धाङ्गि, मातः ! मानववेष-धराय मानुषरूपधृते रमणाय अङ्कजुषे अङ्क जुषते सेवते इति अङ्कजुट तस्मै उत्सङ्गभाजे गुहाय देवाय तव पुत्राय बहु दुग्धं स्तन्यं दातुम् अपीतकुचा न पीतौ अपीतौ कुचौ यस्याः सा सती इह क्षेत्रे विभासि नु राजसि किम् ? नु वितर्के। क्षेत्रे अपीतकुचेति देवीनाम ॥१८॥

पूर्णसमाधिवशात् स्वपिषि त्वं पीतमपीतकुचेऽम्ब न वेत्सि ॥
अङ्कजुषा रमणेन सुतेन प्रेक्ष्य यथेष्टमुरोरुहदुग्धम् ॥१९॥

पूर्णेति- अपीतकुचे अम्ब ! पूर्णसमाधिवशात् सम्पूर्णसमाधितः विस्मृत-सकलबाह्यप्रपञ्चेव त्वं स्वपिषि सुप्ताऽसि । अत एव अङ्कजुषा उत्सङ्गभाजा रमणेन महर्षिणा तव सुतेन उरोरुहदुग्धं वक्षोजक्षीरं स्तन्यं यथेष्टम् इष्टम-मतिक्रम्य स्थितम् अमितम् प्रेक्ष्य दृष्ट्वा पीतम् न वेत्सि न जानीषे ॥१९॥

ज्ञानरसाह्वयमम्ब निपीय स्तन्यमसौ रमणो मुनिराट् ते ॥
ज्ञानमयोऽभवदीश्वरि सर्वः पुष्यति येन तनुं हि तदात्मा ॥२०॥

ज्ञानेति- अम्ब, ईश्वरि ! असौ रमणो मुनिराट् मुनीन्द्रः ते ज्ञानरसा-ह्वयं ज्ञानमेव रसः अमृतं स आह्वयो नाम यस्य तत् ते तव स्तन्यं निपीय नितरां पीत्वा, ज्ञानमयः सन् स्वार्थे मयट्, सर्वोऽभवत्। सर्वस्यापि आत्म-नोऽनन्यत्वात्। येन हेतुना तदात्मा स ज्ञानरसः आत्मा स्वरूपं यस्य सः तनुं देहं पुष्यति पुष्णाति हि, पुष्टां करोतीत्यर्थः ॥२०॥

प्रीतिपदाय पयोधरकुम्भात् पार्वति धीमयदुग्धमपीतात् ॥
अस्तु गुहाय शिवे बहु दत्तं किञ्चिदिवेश्वरि धारय मह्यम् ॥२१॥

प्रीतीति- पार्वति ! अपीतात् पयोधरकुम्भात् स्तनकुम्भात् धीमय-दुग्धम् धीमयं बुद्धिमयं दुग्धं ज्ञानरसमयमिति यावत्, प्रीतिपदाय प्रेमास्पदाय गुहाय स्कन्दाय बहु अमितं दत्तम् अस्तु, दीयतां नाम। ईश्वरि ! मह्यं किञ्चिदिव स्वल्पं वा धारय। गुहाय यथेष्टं देहि; मह्यं तु स्वल्पं वा दातुं प्रसीद। दातुमदातुं वा त्वं प्रभ्वीति गमयितुम् ईश्वरीति सम्बोधनम्, न मातरिति ॥२१॥

प्रौढमिमं यदि वेत्सि तनूजं शैलसुते मदवारि दधानम् ॥
मास्तु पयो वितरानघमन्नं येन दधानि महेश्वरि शक्तिम् ॥२२॥

प्रौढमिति- शैलसुते पार्वति ! मदवारि दानजलं दधानं बिभ्रतं गज-मुखत्वात्, इमं तनूजं गणपति प्रौढं प्रवृद्धं वेत्सि यदि जानासि यदि, स्तन्य-पानदशामतीत्य पुष्टो युवा प्रवृद्धो न स्तनन्धय इति मां मन्यसे चेदित्यर्थः, तर्हि पयः स्तन्यं मास्तु न दीयताम् । अनघं शुभ्रं सर्वश्रेयस्करम् अन्नं वितर देहि, महेश्वरि! येन अन्नेन शक्ति दधानि। शक्तिधारणसामर्थ्यप्रदम् अन्नं देहीति भावः ॥२२॥

स्वाजितमेव मया यदि भोज्यं सम्मद एव ममाखिलमातः ॥
आशिषमग्रयतमामयि दत्त्वा प्रेषय यानि जयानि धरित्रीम् ॥२३॥

स्वाजितमिति- अखिलमातः विश्वजननि ! मया स्वार्जितम् आत्मना सम्पादितम् एव अन्नं भोज्यं यदि, प्राप्तवयस्कस्त्वम् अन्नार्थसम्पादनक्षमः स्वय-मार्जय भुङक्ष्व चेति भणसि यदि, एवमपि मम सम्मद एव हर्ष एव, सानन्दं सम्मतं मम इत्यर्थः। अयि सर्वजननि ! अग्रयतमा प्रशस्ततमाम् आशिष दत्त्वा आशीरुक्ति प्रयुज्य मां प्रेषय, यानि अहं गच्छानि, धरित्री भूमि जयानि। प्रास्थानिकमङ्गलाशंसीनि ते वचनानि सर्वत्र भुवि मम जय-प्रदानि भवेयुरिति नात्र मम संशयः ॥२३॥

विद्युति विद्युति वीक्ष्यविलासा वीक्षितकर्मणि लक्ष्यरहस्या ॥
पार्वणचन्द्रमुखी ललिताङ्गी तेजसलिङ्गसखी शरणं नः ॥२४॥

विद्युतीति- विद्युति विद्युति तटिति तटिति प्रतिविद्युत् वीक्ष्यविलासा वीक्ष्यो दर्शनीयो विलासो यस्याः सा, एकैकस्यामपि क्षणप्रभायां देव्याः विलासो दृश्यः इत्यर्थः। वीक्षितकर्मणि दर्शनकर्मणि लक्ष्यरहस्या लक्षयितुं सूक्ष्मतो द्रष्टुं योग्यं लक्ष्यं रहस्यं यस्याः सा। दर्शनविधाने तस्याः रहस्य-माकलनीयमिति भावः । तस्याः एव दृष्टिरूपत्वात् दर्शने तद्रहस्यं लक्षणी-यमित्याशयः। पार्वणचन्द्रमुखी पर्वणोऽयं पार्वणश्चन्द्रः पूर्णचन्द्र इत्यर्थः, स इव मुखं यस्याः सा, ललिताङ्गी कोमलदेहा तेजरालिङ्गसखी तैजसलिङ्ग-रूपिणोऽरुणाचलेश्वरस्य प्रेयसी नः अस्माकं शरणं रक्षणं भवतीति शेषः ॥२४॥

मातरपीतकुचेऽरुणशैला धीश्वरभामिनि भामहनीये ॥
साधु विधाय समर्पयते ते दोधकमाल्यमिदं गणनाथः ॥२५॥

मातरिति- अपीतकुचे अरुणशैलाधीश्वरभामिनि अरुणाचलेशजाये भा-महनीये भया प्रभया महनीये पूजनीये मातः अम्ब ! इदं दोधकमाल्यं दोधक-वृत्तग्रथितं मालायै हितं माल्यं पुष्पं साधु निर्दुष्टं गुणशोभितं विधाय ते तुभ्यं गणनाथः गणपतिः समर्पयते अङ्गीकुरुष्वेति प्रार्थना ॥२५॥

षड्विंशः स्तबक: सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates