ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




षट्त्रिंशः स्तबकः

अथ षट्त्रिंशे स्तबकेऽतिशक्वरीप्रस्तारगतेन तुणकवृतेन निबद्धा रमणीय-शब्दार्था भगवतीस्तोत्रगीतिः ॥

उन्नतस्तनस्थलीविलोलहारमौक्तिक-वातदीधितिप्रतानबद्धसौहृदा सदा ॥
अन्धकारिकामिनीदरस्मितद्युतिधुनो-त्वन्धकारमन्तरङ्गवासिनं घनं मम ॥१॥

उन्नतेति- सदा सर्वदा उन्नतायामुत्तुङ्गायां स्तनस्थल्यां विलोलानां हार-मौक्तिकानां कण्ठमालामुक्तामणीनां वातस्य समूहस्य दीधितीनां विद्युतीनां प्रताने विस्तारे बद्धं सौहृदं सख्यं यया सा, अन्धकारिकामिनीदरस्मितद्युतिः अन्धकारे: शिवस्य कामिन्याः पार्वत्याः दरस्मितस्य मन्दहासस्य द्युतिर्भाः अन्त-रङ्गवासिनम् अन्तरङ्ग अन्तःकरणे वसतीति अन्तरङ्गवासी तं मम धनम् अन्धकारं तिमिरम् अज्ञानमिति यावत् धुनोतु प्रहन्तु ॥१॥

अम्बरस्थले पुरा पुरन्दरो ददर्श यां यां वदन्ति पर्वतप्रसूतिमैतिहासिकाः ॥
सा परा पुरामरेः पुरन्धिकाऽखिलाम्बिका पुत्रकाय मज्जते ददातु दक्षिणं करम् ॥२॥

अम्बरेति- अम्बरस्थले आकाशे पुरा पूर्वं पुरन्दरः इन्द्रो यां ददर्श, ‘स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्’ इति केनोपनिषदि श्रुतां देवीं यामिन्द्रो दृष्टवानित्यर्थः। अन्यत् प्रथमस्तबके व्याख्यातम् । याम् ऐतिहासिका: पुरावृत्तविद: पर्वतप्रसूति पर्वतजाता पार्वती वदन्ति । सा परा शक्ति: पुरामरेः त्रिपुरान्तकस्य शिवस्य पुरन्धिका महिषी अखिलाम्बिका विश्वमाता, मज्जते अधः आपज्जलधौ मज्जते इत्यर्थः, पुत्त्रकाय मह्यं दक्षि-णम् अभयदानदक्षं करं हस्तं मज्जन्तमुद्धर्तुमित्यर्थः, ददातु ॥२॥

पादपङ्कजे धृता नरैरबाह्यभक्तिभिः पाणिपङ्कजे धृता नवेन्दुखण्डधारिणा ।।
चारुहेमहंसका मनोज्ञरत्नकङ्कणा लोकजालपालिनी पुनातु मां विलासिनी ॥३॥

पादेति- नरैः मानवैः अबाह्यभक्तिभिरन्तरङ्गभक्तः पादपङ्कजे धृता गृहीता, नवेन्दुखण्डधारिणा वालचन्द्रशेखरेण शिवेन पाणिपङ्कजे धृता गृहीता, शिवस्य पाणिगृहीतीत्यर्थः, चारुहेमहंसका रमणीयस्वर्णनूपुरा, मनोज्ञरत्नकङ्कणा रुचिरमणिमयहस्तवलया लोकजालपालिनी सर्वलोकरक्षिका विलासिनी रामा मां पुनातु पवित्रं करोत्वित्यर्थः ॥३॥

उक्षराजवाहनस्य जीविताद् गरीयसी पक्षिराजवाहनादिवर्ण्यमानवैभवा ॥
केकिलोकचक्रतिवाहनेन पुत्रिणी वारणारिसार्वभौमवाहना गतिर्मम ॥४॥

उक्षेति- उक्षराजवाहनस्य वृषभवाह्नस्य शिवस्य जीवितात् प्राणेभ्योऽपि गरीयसी अधिकतरप्रियेत्यर्थः, पक्षिराजवाहनादिवर्ण्यमानवैभवा विष्ण्वादिभिः स्तूयमानैश्वर्या, केकिलोकचक्रवर्तिवाहनेन मयूरसार्वभौमवाहनेन सुब्रह्मण्येन पुत्त्रिणी पुत्त्रवती, गुहाम्बा इत्यर्थः, वारणारिसार्वभौमवाहना सिंहराजवाहना दुर्गा मम गति: शरणम् ॥४॥

बालकुन्दकुट्मलालिकान्तदन्तपङक्तिका कुण्डलानुबिम्बशोभिशुद्धगण्डमण्डला ॥
बिभ्रती रतीशवेत्रविभ्रम भ्रुवोर्युगं शुभ्रभानुशेखरस्य सुन्दरी प्रणम्यते ॥५॥

बालेति- बालकुन्दकुट्मलालिकान्तदन्तपङक्तिका बालानाम् अप्रवृद्धानां कुन्दकुमलानां माघ्यमुकुलानाम् आलि: पङक्तिरिव माध्यकलिकावलिरिवे- त्यर्थः, कान्ता कमनीया दन्तपङक्तिर्यस्याः सा, कुण्डलानुबिम्बशोभिशुद्धगण्ड-मण्डला कुण्डलयोः ताटङ्कयोः अनुबिम्बाभ्यां प्रतिबिम्बाभ्यां शोभिनौ भ्राज-मानौ गण्डमण्डलौ कपोलबिम्बौ यस्याः सा, तावती दर्पणस्वच्छता गण्ड- स्थलयोः । रतीशवेत्रविभ्रमं रतीरावेत्रस्य मन्मथदण्डस्य विभ्रमो विलास इव विभ्रमो यस्य तत् भ्रुवोर्युगं भ्रूयुगलं बिभ्रती धारयमाणा शुभ्रभानुशेखरस्य चन्द्रचूडस्य सुन्दरी देवी प्रणम्यते ॥५॥

आजिदक्षवाहवैरियातुधानबाधितं या ररक्ष देवबृन्दमिन्दिरादिवन्दिता ॥
सा कटाक्षपातधूतभक्तलोकपातका पावकाक्षसुन्दरी परात्परा गतिर्मम ॥६॥

आजीति- आजिदक्षवाहवैरियातुधानबाधितम् आजौ सङग्रामे दक्षो निपुणो वाहवैरी महिषः यातुधानो राक्षसः महिषासुर इति यावत्, तेन बाधितं देववृन्दम् इन्दिरादिवन्दिता लक्ष्म्यादिस्तुता सती या ररक्ष । सा कटाक्ष-पातधूतभक्तलोकपातका कटाक्षपातेन दृगन्तपातेन धूतानि निधूतानि भक्त-लोकपातकानि भजकलोकपापानि यस्याः सा । पावकाक्षसुन्दरी वह्निनेत्रस्य रुद्रस्य सुन्दरी परात्परा अम्बिका मम गतिः शरणम् ॥६।।

तारकाधिनाथचूडचित्तरङ्गनर्तकी मन्दहाससुन्दरास्यपङ्कजा नगात्मजा ॥
दोनपोषकृत्यनित्यबद्धबुद्धिरव्यया गृह्यते गणाधिपेन सर्वतो नृणा पदे ॥७॥

तारकेति- तारकाधिनाथचूडचित्तरङ्गनर्तकी तारकाधिनाथः नक्षत्रपति-श्चूडायां शिखायां यस्य तस्य चित्तमेव रङ्गः नाट्यस्थलं तत्र नर्तकी नृत्यं कुर्वती, शिवहृदयविलासिनीत्यर्थः। मन्दहाससुन्दरास्यपङ्कजा मन्दहासेन दर-स्मितेन सुन्दरं मनोहरम् आस्यपङ्कजं वदनकमलं यस्याः सा, नगात्मजा पार्वती, दीनपोषकृत्यनित्यबद्धबुद्धिः दीनजनपोषकृत्यं नित्यं बद्धा निहिता बुद्धिः यस्याः सा, अव्यया अक्षया पदे चरणे नृणा गणाधिपेन सर्वतः सात्म्येिन साकल्येनेति यावत् गृह्यते ॥७॥

अष्टमीशशाङ्कखण्डदर्पभञ्जनालिका विष्टपत्रयाधिनाथमानसस्य डोलिका ॥
पापपुञ्जनाशकारिपादकजधूलिका श्रेयसे ममास्तु शैललोकपालबालिका ॥८॥

अष्टमीति- अष्टमीशशाङ्कखण्डदर्पभञ्जनालिका अष्टम्याम् अष्टमीतिथौ यः शशाङ्कखण्ड: अर्धवृत्ताकारः तस्य दर्पस्य भञ्जनम् अलिकं ललाटं यस्याः सा चन्द्रार्धाकारललाटस्थलेत्यर्थः । विष्टपत्रयाधिनाथमानसस्य त्रिलोकनाथस्य शिवस्य चित्तस्य डोलिका आन्दोलनभूता । अस्यां शिवचित्तं डोलायत इत्यर्थः । पापपुञ्जनाशकारिपादकजधूलिका सकलदुरितविध्वंसिनोऽस्याः पादा-रविन्दरेणवः । शैललोकपालबालिका पर्वतराजपुत्रिका मम श्रेयसे अस्तु ॥८॥

सानुमत्कुलाधिनाथबालिकालिकुन्तला जङ्गमेव काऽपि तप्तहेमसालभञ्जिका ॥
भक्तियुक्तलोकशोकवारणाय दीक्षिता शीतशीतवीक्षिता लघु स्यतादघं मम ॥९॥

सानुमदिति - सानुमत्कुलाधिनाथबालिका सानुमत्कुलं पर्वतकुलं तस्याधि-नाथस्य हिमवतः बालिका, अलिकुन्तला काऽपि तप्तहेमसालभञ्जिका तप्त-काञ्चनपाञ्चालिका जङ्गमा चरा इव दृश्यमानेत्यर्थः। भक्तियुक्तलोक-शोकवारणाय भक्तजनदुःखध्वंसाय दीक्षिता धृतव्रता । शीतशीतवीक्षिता अतिशीतलदृक्पाता, मम अघ दुरितं लघु द्रुतं स्यतात् खण्डयतु ॥९॥

पुण्यनामसंहतिः पुरारिचित्तमोहिनी पुष्पबाणचापचारुझिल्लिकाऽखिलाम्बिका ॥
पुण्यवैरिपुष्टदुष्टदैत्यवंशनाशिनी पुत्त्रकस्य रक्षणं पुरातनी करोतु मे ॥१०॥

पुण्येति- पुण्यनामसंहतिः पुण्या नाम्नां संहतिः यस्याः सा। पुरारि-चित्तमोहिनी शिवहृदयसम्मोहिनी। पुष्पबाणचापचारुझिल्लिका पुष्पबाण-चाप: मन्मथधनुः चारू रमणीये झिल्ल्यौ भ्रुवौ यस्याः सा। पुण्यवैरिपुष्ट- दुष्टदैत्यवंशनाशिनी पुण्यस्य शुभस्य पावनकर्मणः वैरिणः शत्रवः पुष्टाः दुष्टाः दैत्याः असुराः तेषां वंशस्य नाशिनी। पुरातनी पुराणपुरुषी पुत्त्रकस्य मे मम रक्षणं करोतु ॥१०॥

क्षाममध्यमस्थली सुधाघटोपमस्तनी कृष्णसारलोचना कुमुद्वतीप्रियानना ॥
भ्रूविलासधूतधैर्यकाञ्चनादिकार्मुका काचिदिक्षुकार्मुकस्य जीविका जयत्युमा ॥११॥

क्षामेति- क्षाममध्यमस्थली क्षामा कृशा मध्यमस्थली यस्याः सा तनु-मध्येत्यर्थः, सुधाघटोपमस्तनी सुधाघटोपमो अमृतकुम्भसन्निभौ स्तनौ यस्याः सा, कृष्णसारलोचना हरिणाक्षी, कुमुद्वतीप्रियानना कुमुद्वतीप्रियश्चन्द्रः स इवा-ननं यस्याः सा चन्द्रवदनेत्यर्थः, भ्रूविलासधूतधैर्यकाञ्चनादिकार्मुका भ्रूविलासेन निर्धूतं धैर्य यस्य सः काञ्चनाद्रिकार्मुकः मेरुधन्वा रुद्रः यस्याः सा, इक्षुकार्मुकस्य इक्षुधन्वनो मदनस्य काचित् जीविका जीवनोपायभूता उमा जयति ॥११॥

लोहिताचलेश्वरस्य लोचनत्रयोहिता लोहितप्रभानिमज्जदब्जजाण्डकन्दरा ॥
हासकान्तिवय॑मानसारसारिमण्डला वासमत्र मे करोतु मानसे महेश्वरि ॥१२॥

लोहितेति- लोहिताचलेश्वरस्य अरुणाचलेश्वरस्य शिवस्य लोचनत्रयी-हिता नेत्रत्रयस्याप्यनुकूला, लोहितप्रभानिमज्जदब्जजाण्डकन्दरा लोहितप्रभायाम् अरुणकान्तौ निमज्जत् अब्जजाण्डं ब्रह्माण्ड कन्दरं दरी इव यस्याः सा, हास-कान्तिवय॑मानसारसारिमण्डला हासकान्त्या स्मितप्रभया वय॑मानः पोष्यमाणः सारसारिमण्डल: सारसारेः पङ्कजद्विषः चन्द्रस्य मण्डलो यस्याः सा, महेश्वरी अत्र मे मम मानसे वासं करोतु ॥१२॥

दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवा काममित्रवामनेत्रधामतृप्तकरवा ॥
एकतः परः पुमान्परा वराङ्गनाऽन्यतः शुभ्रकीतिरेकमूर्तिरादधातु नश्शिवम् ॥१३॥

दक्षिणेति- दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवा दक्षिणेक्षणस्य प्रभया विजृम्भितं विकसितम् अम्बुसम्भवं पङ्कजं यस्याः सा, दक्षिणनेत्रस्य सूर्यात्म-कत्वप्रसिद्धः, काममित्रवामनेत्रधामतृप्तकरवा काममित्रस्य मन्मथहितकारिणः वामनेत्रस्य धाम्ना तेजसा तृप्तं करवं कुमुदं यस्याः सा, वामनेत्रस्य चन्द्रा-त्मकताप्रसिद्धः, शिवार्धशरीरिण्या: उमाया दक्षिणाक्षि शिवभागे वर्तते, तच्च उग्ररश्मिरित्युपपन्नं, वामार्धे तु शीतरश्मिरिति युक्तम् । एकत: दक्षिणभागे परः पुमान् पुरुषः अन्यतः वामभागे परा वराङ्गना स्त्री, अत एव एकमूर्तिः एकविग्रहा शुभ्रकीतिः विमलयशाः सर्वकल्याणाधायित्वात् , नः अस्माकं शिवं कल्याणम् आदधातु आतनोतु ॥१३॥

शुम्भदैत्यमारिणी सुपर्वहर्षकारिणी शम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी ॥
कामितार्थदायिनी करिप्रकाण्डगामिनी वोतकल्कमादधातु विघ्नराजमम्बिका ॥१४॥

शुम्भेति- शुम्भदैत्यमारिणी, शुम्भासुरसंहारिणी सुपर्वहर्षकारिणी सुपर्वणां देवानां हर्षकारिणी सन्तोषकारिणी, शम्भुचित्तहारिणी शिवस्य मनसः अप-हारिणी, मुनीन्द्रचित्तचारिणी ऋषिजनमानसेषु विहारिणी, कामितार्थदायिनी इष्टार्थदात्री, करिप्रकाण्डवत् गजश्रेष्ठवत् गच्छतीति करिप्रकाण्डगामिनी अम्बिका विघ्नराजं गणपति वीतकल्कं विगतकल्मषमादधातु करोतु ॥१४॥

देवतासपत्नवंशकाननानलच्छटा वारणारिसार्वभौमवाहना घनालका ॥
नन्दिवाहनस्य काऽपि नेत्रनन्दिनी सुधा नेत्रलाञ्छितालिका सुतं पुनातु कालिका ॥१५॥

देवतेति- देवतासपत्नवंशकाननानलच्छटा देवतासपत्लानाम् असुराणां वंशः कुलं, पक्षे वेणुः स एव काननम् अरण्यं तस्य अनलच्छटा अग्निज्वाला, असुर- कुलसंहीत्यर्थः। वारणारिसार्वभौमवाहना सिंहेन्द्रवाहा दुर्गा, घनालका घन इव श्यामला अलका यस्याः सा, यद्वा सान्द्रकचभारा । नन्दिवाहनस्य वृष-वाहस्य शिवस्य नेत्रनन्दिनी नयनानन्दिनी काऽपि चन्द्रिका। नेत्रलाञ्छि-तालिका नेत्रेण लाञ्छितम् अङ्कितम् अलिकं ललाटं यस्याः सा, ललाटनेत्र-युक्तेत्यर्थः, कालिका सुतं पुत्त्रं गणपति पुनातु शुद्धं करोतु ॥१५॥

राजसुन्दरानना मरालराजगामिनी राजमौलिवल्लभा मृगाधिराजमध्यमा ॥
राजमानविग्रहा विराजमानसद्गुणा राजते महीधरे मदम्बिका विराजते ॥१६॥

राजेति- राजसुन्दरानना राजा चन्द्र इव सुन्दरम् आननं यस्याः सा इन्दुमुखी इत्यर्थः, मरालराजगामिनी राजहंसगमना, राजमौलिवल्लभा चन्द्र-शेखरप्रिया, राजमानविग्रहा देदीप्यमानशरीरा, विराजमानसद्गुणा शोभमान-कारुण्यादिशुभगुणा, मदम्बिका ममाम्बा राजते रजतस्यायं राजतस्तस्मिन् महीधरे पर्वते कैलासे विराजते विजयते ॥१६॥

पर्वचन्द्रमण्डलप्रभाविडम्बनानना पर्वताधिनाथवंशपावनी सनातनी ॥
गर्वगन्धनाशिनी विभावरीविचारिणां शर्वचित्तनायिका करोतु मङ्गलं मम ॥१७॥

पति- पर्वचन्द्रमण्डलप्रभाविडम्बनानना विडम्बयतीति विडम्बनं परिहास: इत्यर्थः, पर्वचन्द्रमण्डलप्रभायाः पूर्णेन्दुबिम्बशोभायाः विडम्बनं परिहासि आननं मुखं यस्याः सा, पर्वताधिनाथवंशपावनी पर्वताधिनाथस्य हिमाचलस्य वंशस्य पावनी स्वजन्मनेति शेषः । सनातनी नित्या। विभावरीविचारिणां रात्रि-ञ्चराणां राक्षसानां गर्वगन्धं दर्पलेशं नाशयतीति गर्वगन्धनाशिनी। शर्वचित्त-नायिका शिवहृदयेश्वरी मम मङ्गलं भद्रं करोतु ॥१७॥

ओजसश्च तेजसश्च जन्मभूमिरच्युता नीलकञ्जबन्धुबद्धमौलिरागमस्तुता ॥
वीतरागपाशजालनाशबद्धकङ्कणा विश्वपालिनी मया महेश्वरी विचिन्त्यते ॥१८॥

ओजस इति- ओजसः दीप्तेः ’ओजो दीप्तौ बले’ इत्यमरः, तेजसः प्रता-पस्य च अच्युता च्युतिरहिता स्थिरा जन्मभूमिः उद्भवस्थली, नीलकञ-बन्धुबद्धमौलि: नीलकञ्जस्य नीलोत्पलस्य बन्धुरिन्दु: तेन बद्धा मौलि: चूडा यस्याः सा, आगमस्तुता वेदैः स्तुता। वीतरागपाशजालनाशबद्धकङ्कणा वीत-रागाणां पाशजालनाशाय बद्धकङ्कणा धृतव्रता । विश्वपालिनी जगदक्षिका महेश्वरी मया विचिन्त्यते ध्यायते ॥१८॥

अण्डमण्डलं यया निरन्तरं च पच्यते संस्फुरत्यशेषभूतहार्दपीठिकासु या ॥
श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभि-र्यामुपासते विदो नमामि तां परात्पराम् ॥१९॥

अण्डेति- यया च अण्डमण्डलं ब्रह्माण्डजालं निरन्तरं पच्यते परिणमनं नीयते, सर्व विश्वम् अनयव परिणामवशं गतं भवतीत्यर्थः। अशेषभूतहार्द-पीठिकासु सकलप्राणिहृदयपीठेषु या संस्फुरति ज्वलति अहमस्मीति संविद्रूपेण जयतीत्यर्थः :। श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभिः श्वासः प्राणवायुः दृष्टि: दृक् संवित् चित् ऊष्मा जीवाग्नि: नादः शब्द: वारि जलं रस इति यावत् एतेषां वर्त्मभिर्मार्गः विदः विद्वांसः याम् उपासते परात्परां तां नमामि । श्वासादिवर्त्मभिरुपासितामित्यर्थः । अत्रेदमवधेयम् । श्वासोपासनं प्राणोपासनं संवर्गविद्या, दृष्टिरित्यनेन अक्षिपुरुषविद्या, संविदित्यनेन वैश्वानरविद्या, ऊष्मे-त्यनेन मुख्यप्राणविद्या, नादेत्यनेन उद्गीथविद्या, वारीत्यनेन रसोपास्तिः, इमा-मेव सहस्रारामृतास्वादनं चन्द्रकलाविद्येति तान्त्रिकाः प्राहुः ॥१९॥

पञ्चयुग्मवेषभृत्परात्परा सुराचिता पञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना ॥
वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनी प्रेतमञ्चशायिनी कुलं चिराय पातु मे ॥२०॥

पञ्चेति- पञ्चयुग्मवेषभृत् दशवेषभृत् दशमहाविद्यात्मिका हि देवी, यद्वा दशावतारशक्तिरूपत्वात् दशवेषभृत्त्वम्। परात्परा सुरार्चिता देवपूजिता, पञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना पञ्चवक्त्रस्य शिवस्य वक्त्रं पद्ममिव तत्र चञ्चरीक इव लोकनं दर्शनं यस्याः सा , शिववक्त्रपद्मे देव्याः दृष्टि: चञ्च-रीकायत इत्यर्थः। वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनी वञ्चकानां द्रोहिणाम् अन्तरङ्गशत्रूणां कामक्रोधलोभमोहमदमात्सर्याणां सञ्चयस्य विनाशिनी, प्रेतो मञ्चः पर्यङ्क इव प्रेतमञ्चस्तस्मिन् शेते इति प्रेतमञ्चशायिनी ‘पञ्चप्रेतासना-सीना’ इति कीर्तिता देवी, रुद्रप्रेतादुपरि नग्ना स्थिता कालिका आराध्यते, सर्वसंहारे कृते सा तत्प्रेतमधिशेते इति वा बोध्यम् । मे मम कुलं चिराय पातु रक्षतु ॥२०॥

कर्मणा यथाविधि द्विजातयो यजन्ति यां ब्रह्मणा यथाश्रुतं स्तुवन्ति यामवीतिनः ॥
चेतसा यथागुरूक्ति चिन्तयन्ति यां विदः सा परा जगत्त्रयीजनन्यजा जयत्युमा ॥२१॥

कर्मणेति- यां द्विजातयः त्रैवर्णिकाः यथाविधि विधिमनतिक्रम्य शास्त्रो-क्तविधिनेत्यर्थः, कर्मणा यजन्ति पूजयन्ति । याम् अधीतिनः स्वाध्यायिनः यथाश्रुतं श्रुतमनतिक्रम्य ब्रह्मणा वेदेन स्तुवन्ति कीर्तयन्ति, यां विद: विज्ञाः यथागुरूक्ति गुरूपदेशानुसारेणेत्यर्थः । चेतसा मनसा चिन्तयन्ति ध्यायन्ति । सा परा शक्तिः जगत्त्रयीजननी त्रिलोकमाता उमा जयति ॥२१॥

वासुदेवजायया विनमया निषेविता वामदेवचाटुचित्रवाक्यबन्धलालिता ॥
वासवादिदेवताजयप्रणादहर्षिता वारयत्वघानि मे वसुन्धराभृतस्सुता ॥२२॥

वासुदेवेति- विनम्रया प्रह्वया वासुदेवजायया लक्ष्म्या निषेविता । वाम-देवचाटुचित्रवाक्यबन्धलालिता वामदेवस्य शिवस्य चाटुना मधुरेण चित्रेणा-द्भुतेन वाक्यबन्धेन लालिता प्रीणिता । वासवादिदेवताजयप्रणादहर्षिता इन्द्रादिसुरजनविजयघोषेण हर्षिता। वसुन्धराभृतः भूभृतः सुता पार्वती मे मम अधानि पापानि वारयतु ॥२२॥

पूर्णिमासुधामरीचिसुन्दरास्यमण्डला फुल्लपद्मपत्रदीर्घसम्प्रसन्नलोचना ॥
पुण्यभूनिषेवणाय पुत्रमेतमुद्यतं पूर्णकाममादधातु पादलग्नमम्बिका ॥२३॥

पूर्णिमेति- पूर्णिमासुधामरीचिसुन्दरास्यमण्डला राकेन्दुसुन्दरमुखी । फुल्ल-पद्मपत्रदीर्घसम्प्रसन्नलोचना स्वच्छविकसितकमलदलायताक्षी अम्बिका पुण्यभू-निषेवणाय पुण्यभुवो भारतभूमेः निषेवणायोद्यतम् एतं पादलग्नं चरणलम्बिनं पूर्णकामम् अवाप्तमनोरथम् आदधातु विधत्ताम् ॥२३॥

लालयन्ति बालकं वतंसशीतदीधिति शीलयन्ति सूक्ष्मतां मनांसि योगिनामिव ॥
कालयन्तु पापिनां कुलानि संहतीस्सतां पालयन्तु च स्मितानि योषितः पुरद्विषः ॥२४॥

लालयन्तीति- वतंसशीतदीधिति शिवशिरोभूषणचन्द्रं बालकं लालयन्ति प्रेम्णा कामयमानानि प्रीणयन्तीति यावत्, योगिनां मनांसि इव सूक्ष्मताम् अस्थूलतां तनुतां शीलयन्ति अभ्यस्यन्ति, योगिनां मनांसि यथा अभ्यासबलात् कृशतां यान्ति तथा मन्दतां यान्ति इति स्मितविशेषणम् । पुरद्विषः पुरा-न्तकस्य रुद्रस्य योषितः पार्वत्याः स्मितानि पापिनां कुलानि कालयन्तु अन्त-यन्तु। सतां सज्जनानां संहतीः समूहान् पालयन्तु ॥२४॥

पादसेविनः कवेर्मनोहरातिशक्वरी-वर्ग एष नाटयकारिनिर्जरीगणो यथा ॥
लोकजालचक्रवर्तिपुण्ययोषितो मन-स्सम्मवाय साधुकष्टवारणाय कल्पताम् ॥२५॥

पादेति- पादसेविनः चरणभजकस्य कवेः गणपतेः एषः मनोहराति-शक्वरीवर्गः मनोहरः रमणीयोऽतिशक्वरीछन्दोनिबद्धस्तुतिवर्गः, यथा नाट्यकारि-निर्जरीगणः तथा नाटयकारिणीनां निर्जरिणीनाम् अमरसुन्दरीणां गणः अप्सरोगण इवेति यावत्। लोकजालचक्रवर्तिपुण्ययोषितः त्रिलोकसार्वभौम-स्य परमेश्वरस्य सुन्दर्याः मनस्सम्मदाय चित्ताह्लादनाय साधुकष्टवारणाय सज्जनानिष्टनिवारणाय कल्पतां प्रभवतु ॥२५॥

इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गण-पतिमुनेः कृतावुमासहस्रं षट्त्रिंशः स्तबकः समाप्तः।
समाप्तं च नवमं शतकम् । प्रभाख्या व्याख्या च समाप्ता ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates