उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
त्रिंशेऽस्मन् स्तबके ध्यानावाहनासनाद्युपचारा अध्यात्मपूजा कीर्त्यते। तत्रादौ हासस्तुतिः ॥
कृतेन सा निसर्गतो धृतेन नित्यमानने ॥ सितेन शीतशैलजा स्मितेन शं तनोतु मे ॥१॥
कृतेनेति- निसर्गतः स्वभावात् कृतेन सहजसिद्धेनेत्यर्थः, आनने मुखे नित्यमविरतं धृतेन भृतेन सितेन धवलेन स्मितेन मन्दहसितेन सा तच्छब्द-वाच्या सर्वेश्वरी शीतशैलजा पार्वती मे मम शं सुखं तनोतु करोतु ॥१॥
प्रतिक्षणं विनश्वरा- नये विसृज्य गोचरान् ॥ समर्चयेश्वरी मनो विविच्य विश्वशायिनीम् ॥२॥
प्रतिक्षणमिति- अये ! मन इति सम्बोधनम्। प्रतिक्षणं क्षणे क्षणे विन-श्वरान् नश्यतः गोचरान् शब्दादिविषयानिन्द्रियार्थान् विसृज्य परित्यज्य, मनो विविच्य विवेचनं कृत्वा, चित्तवृत्ती: पृथक्कृत्यापसार्य अवशिष्टां विश्वशायिनी विश्वस्मिन् शेते इति विश्वशायिनी तां वृत्तीनां विषयाणां च आधारतया अवतिष्ठमानां भगवतीम् ईश्वरी समर्चय पूजय । अनेन पूजोपचारेषु प्रथम ध्यानमुक्तम् ॥२॥
विशुद्धदर्पणेन वा विधारिते हृदाऽम्ब मे ॥ अयि प्रयच्छ सन्निधिं निजे वपुष्यगात्मजे ॥३॥
विशुद्धेति- अयि अगात्मजे पार्वति अम्ब ! सानुनयं सम्बोधनम् । विशुद्धदर्पणेन वा निर्मलेन मुकुरेणेव ’वद्वा यथा तथेवैवं साम्ये’ इत्यमरः । मे मम हृदा हृदयेन विधारिते सम्यग्धृते निजे वपुषि स्वीये शरीरे सन्निधिं सन्निकर्षणं प्रयच्छ देहि। निर्मलदर्पणे इव मम प्रसन्ने हृदये स्थितिं कुर्वति तव शरीरे सान्निध्यं कुरु। अनेन आवाहनमुक्तम् ॥३॥
पुरस्य मध्यमाश्रितं सितं यदस्ति पङ्कजम् ॥ अजाण्डमूल्यमस्तु ते सुराचिते तदासनम् ॥४॥
पुरस्येति- सुराचिते देवपूजिते अम्ब ! पुरस्य शरीरस्य मध्यं मुख्यं मूलस्थानं हृदयम् आश्रितं यत् सितं श्वेतं पङ्कजं पुण्डरीकम् अस्ति, अजाण्डं ब्रह्माण्डं मूल्यम् अर्घः यस्य तत् ते तव आसनम् अस्तु भवतु। मम हृदया-रविन्दं तवासनं भवतु। हृदयारविन्दस्य ब्रह्माण्डमूल्यत्वं श्रुतिरुद्घोषयति । किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रस्तुत्य छान्दोग्याष्टमप्रपाठके श्रूयते । ’स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्ह दय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसौ उभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्’ इति। अनेन आसनमुक्तम् ॥४॥
अखण्डधारया द्रव- नवेन्दुशेखरप्रिये ॥ मदीयभक्तिजीवनं बधातु तेऽम्ब पाद्यताम् ॥५॥
अखण्डेति- नवेन्दुशेखरप्रिये बालचन्द्रचूडप्रेयसि अम्ब ! अखण्डधारया अविच्छिन्नया धारया द्रवत् स्रवत् मदीयभक्तिजीवनं मदीया भक्तिरेव जीव-नम् उदकं ते तव पाद्यतां पद्भ्याम् इदं पाद्यं तस्य भावः पाद्यता तां दधातु बिभर्तु । निरन्तरधारा मे प्रीतिस्तव चरणयोः पाद्यायताम् इति भावः । पाद्योपचारः उक्तः ॥५॥
विवासनौघमानस प्रसादतोयमम्ब मे ॥ समस्तराज्ञि हस्तयो रनर्घमय॑मस्तु ते ॥६॥
विवासनेति- अम्ब, समस्तराज्ञि सर्वेश्वरि! मे मम विवासनौघमानस-प्रसादतोयं विगतः वासनानां संस्कारविशेषाणाम् ओघ: समूहः यस्मात्त स्य मानसस्य प्रसादः नैर्मल्यम् एव तोयम् अम्बु ते तव हस्तयोरनर्घम् अमू-ल्यम् अर्घ्यम् अर्घायेदं पूजार्थम् अस्तु। अर्योपचारे मनःप्रसादस्तोयवदा-चरतु ॥६॥
महेन्द्रयोनिचिन्तनाद् भवन्भवस्य वल्लभे ॥ महारसो रसस्त्वया निपीयतां विशुद्धये ॥७॥
महेन्द्रेति- भवस्य शिवस्य वल्लभे प्रिये ! महेन्द्रयोनिचिन्तनात्, सुषुम्ना-नाडीमार्गे तालुकयोरन्तरे यः स्तन इवावलम्बते स इन्द्रयोनिरुच्यते, तन्मार्ग-ध्यायिनां रसः स्रवतीति योगिनां सिद्धान्तः। तैत्तिरीयाश्चामनन्ति-स य एषोऽन्तर्ह दय आकाशः तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः । अन्तरेण तालुके। य एष स्तन इवावलम्बते सेन्द्रयोनिः। यत्रासौ केशान्तो निवर्तते। व्यपोह्य शीर्षकपाले’ इति। एवं महतः इन्द्रयोनेः सुषुम्नामार्ग-वर्तितालुकान्तरोपजिबिकायाः चिन्तनेन ध्यानेन भवन् स्रवन् महारसः श्रेष्ठ-स्वादः रसोऽमृतरसः त्वया विशुद्धये मम शरीरशुद्धिसम्पादनाय निपीयताम्, त्वं पिबेत्यर्थः। नाहं रसास्वादं करोमि, त्वमेव कुरु, तस्मादिदं शरीरं शुद्धं तव वासाय स्यादिति भावः । अनेन पानीयोपचारः कृतः ॥७॥
सहलपत्रपङ्कज- वत्सुधाजलेन सा ॥ सहस्रपत्रलोचना पिनाकिनोऽभिषिच्यते ॥८॥
सहस्रति- सहस्रपत्रपङ्कजद्रवत्सुधाजलेन सहस्रारकमलात् द्रवता स्रवता अमृतरसेन पिनाकिनः शिवस्य सहस्रपत्रलोचना पङ्कजाक्षी सुन्दरी सा भगवती अभिषिच्यते सहस्रारामृतरसेन देवीं स्नपयामीति भावः । अनेन कवेर्नैष्ठिक-शिरोमणेरन्तःशरीरे प्रसन्ना देवी योगशक्त्याविष्कृतसहस्रारामृतेनाभिषिक्तेति स्फुटम्। अनेन स्नपनमुक्तम् ॥८॥
ममाजितं यदिन्द्रियः सुखं सुगात्रि पञ्चभिः ॥ तदम्ब तुभ्यमर्पितं सुधाख्यपञ्चकायताम् ॥९॥
ममेति- सुगात्रि शोभनाङ्गि अम्ब! मम पञ्चभिरिन्द्रियैः चक्षुरादि-भिर्यत्सुखं दर्शनश्रवणादिजन्यम् आजितं सम्पादितं, तत् तुभ्यं सुधाख्यपञ्च-कायतां सुधा अमृतम् आख्या नाम यस्य तत् पञ्चकं सुधाख्यपञ्चकं तदि-वाचरतु। आचारे क्यङि लोट् । पञ्चामृतायतामित्यर्थः । सम्प्रदाया-नुसारेण बाह्यपूजोपचारेषु पंञ्चामृतस्नानं सुप्रसिद्धम् ॥९॥
वसिष्ठगोत्रजन्मना द्विजेन निर्मितं शिवे ॥ इदं शरीरमेव मे तवास्तु दिव्यमंशुकम् ॥१०॥
वसिष्ठेति- शिवे भगवति ! वसिष्ठगोत्रजन्मना वसिष्ठवंशजातेन द्विजेन कौण्डिन्येन ब्राह्मणेन निर्मितम् उत्पादितम् इदं मे शरीरं तव दिव्यम् अंशुकं दुकूलं भवतु। कथम् इदमुच्यते यत् स्वं देहं स्वेनैव निर्मितमिति ? मास्तु शङ्का। नैष्ठिक आचार्यः तपोबलेन अन्तरं देहं देवीवसनयोग्यं निर्माय तत्परि-पाकमहिम्ना भौतिकं भौमं देहमपि देव्याः दिव्यदुकूलायतामित्युक्तवान् । वसनोपचार उक्तः ॥१०॥
विचित्रसूक्ष्मतन्तुभ न्ममेयमात्मनाडिका ॥ सुखप्रबोधविग्रहे मखोपवीतमस्तु ते ॥११॥
विचित्रेति- सुखप्रबोधविग्रहे सुखमानन्दः प्रबोधः ज्ञानं च विग्रहः शरीरं यस्याः तस्याः सम्बुद्धिः, चिदानन्दशरीरे अम्ब ! विचित्रम् अद्भुतं सूक्ष्मम् अन्त:-स्पर्शगम्यं सूक्ष्मदृग्गोचरं तन्तुं सूत्रं बिभर्तीति विचित्रसूक्ष्मतन्तुभृत् इयं मम आत्मनाडिका हृदयात् आत्मज्योतिर्वहन्ती सहस्रारं प्रस्थिता मध्यनाडी ब्रह्म-नाडी अमृतनाडीति आत्मविद्भिः गीता नाडी ते तव मखोपवीतं यज्ञोपवीतम् अस्तु भवतु। वस्त्रानन्तरमुपवीतधारणम् उक्तम् ॥११॥
महद्विचिन्वतो मम स्वकीयतत्त्ववित्तिजम् ॥ इदं तु चित्तसौरभं शिवे तवास्तु चन्दनम् ॥१२॥
महदिति- महत् सर्वोत्कृष्टं तत्त्वं वस्तु वा विचिन्वतः गवेषयतो मम स्व आत्मैव स्वकस्तस्येदं स्वकीयम् आत्मीयं तत्त्वं याथार्थ्यं तस्य वित्तिर्वेदनं ज्ञानं तस्माज्जायत इति स्वकीयतत्त्ववित्तिजं स्वात्मीययाथार्थ्यज्ञानजातम् इदम् चित्त-सौरभं तु मनस्सौगन्ध्यमेव, भोः शिवे ! तव चन्दनं गन्धोऽस्तु। तत्त्व-विचारात्सुवासितं मनः, तस्मात्तदेव ते गन्धायताम् इति भावः । अनेन गन्ध-धारणं कीर्तितम् ॥१२॥
महेशनारि निःश्वस-स्तथाऽयमुच्छ्वसत्सदा॥ तवानिशं समर्चको ममास्तु जीवमारुतः ॥१३॥
महेशेति- महेशनारि महेशकान्ते महेश्वरि सदा निःश्वसन् बहिर्गच्छन् तथा उच्छृसन् अर्न्तगच्छन् अयं मम जीवमारुतः उच्छ्वासनिःश्वासात्मकः प्राणवायुस्तव अनिशं सन्ततं समर्चकः पूजकोऽस्तु। मम प्राणवायुरेव पूजा-पुष्पायतामित्यर्थः, पुष्पार्चनोपचारः उक्तः ॥१३॥
विपाककालपावक- प्रदीप्तपुण्यगुग्गुलुः ॥ सुवासनाख्यधूपभृद् भवत्वयं ममाम्ब ते ॥१४॥
विपा ति- अयं मम विपाककालपावकप्रदीप्तपुण्यगुग्गुलुः विपाककाले परिपाकसमये यः पावकोऽग्निः तेन प्रदीप्तं ज्वलितं पुण्यं सुकृतं तदेव गुग्गुलु: सुगन्धधूपद्रव्यम् इत्यर्थः, ते तव सुवासनाख्यं सुगन्धाख्यं धूपं बिभर्तीति सुवास-नाख्यधूपभृत् भवतु। मम पुण्यपरिपाकवशात् याः सुवासनाः शोभनसंस्कार-विशेषाः भवन्ति ता एव तव धूपाय भवन्त्विति भावः। धूपः समर्पितः ॥१४॥
गुहावतारमौनिना मयोश्वरि प्रदीपिता ॥ इयं प्रबोधदीपिका प्रमोददायिकाऽस्तु ते ॥१५॥
गुहेति- ईश्वरि ! गुहावतारमौनिना गुहावतारेण स्कन्दांशजातेन मौनिना रमणेन महर्षिणा मयि प्रदीपिता प्रज्वालिता इयं प्रबोधदीपिका ज्ञानदीपिका ते तव प्रमोददायिका आनन्दप्रदाऽस्तु भवतु। एवं दीपो दर्शितः ॥१५॥
इमामयि प्रियात्प्रियां महारसामहडकृतिम् ॥ निवेदयामि भुज्यता-मियं त्वया निरामये ॥१६॥
इमामिति- अयि निरामये नीरोगे अम्ब! प्रियात् प्रियाम् अत्यन्तप्रियां, महारसां महान् रस: आस्वादो यस्यास्ताम् इमाम् अहङकृति निवेदयामि तव भोजनायेति शेषः। इयं त्वया भुज्यतां भक्ष्यताम्। अहङकृतेर्महारसत्वं भक्षणीयत्वं द्योतयितुमुक्तम् । दोषभूयिष्ठा अप्यहङकृतिक्षिता न रोगाय भवतीति गमयितुं निरामये इति सम्बोधनम्। महारसेति विशेषणेन अह-कृतिः शुद्धेति गम्यते। अशुद्धायाम् अहङकृतौ स्वनिवेदनस्यासम्भवो बोध्यः अहङकृतौ अशुद्धायामपि तद्ग्रसने समर्या सा निरामया, किमुत शुद्धायाम् ? एवमहङ्कारार्पणं महानैवेद्यम् उक्तम् ॥१६॥
सरस्वती सुधायते मनो दधाति पूगताम् ॥ हृदेव पत्रमम्बिके त्रयं समेत्य तेऽर्यते ॥१७॥
सरस्वतीति- अम्बिके ! सरस्वती वाक् सुधायते लेपायते ’सुधालेपो-ऽमृतं स्नुही’ इत्यमरः, ताम्बूले पत्रस्य लेपनं भवतीत्यर्थः । मनः चित्तं पूगतां क्रमुकफलतां दधाति ’पूगः ऋमुकबृन्दयोः’ इत्यमरः, हृदेव हृदयमेव पत्रं नाग-वल्लीदलं भवति। त्रयं सरस्वती मनः हृदिति त्रयं समेत्य ते तुभ्यं ताम्बू-लाय अर्प्यते ॥१७॥
विनीलतोयदान्तरे विराजमानविग्रहा ॥ निजा विभूतिरस्तु ते तटिल्लता प्रकाशिका ॥१८॥
विनीलेति- विनीलतोयदान्तरे श्यामलमेघस्यान्तरे विराजमानविग्रहा विभ्राजमानशरीरा निजा स्वीया विभूतिः कलाविशेषः तटिल्लता ते तव प्रकाशिका अस्तु। अत्र अन्तः स्फुरन्ती तटिल्लतैवाभिप्रेता ’तटिल्लता समरुचिः षट्चक्रोपरिसंस्थिता’ इति हि कीर्तितम्। तन्त्रशास्त्रेषु तटि-स्वरूपं अनाहतादधश्चक्रेषु वदन्ति केचन, आज्ञाचक्रात् उपरीत्यन्ये। अनेन नीराजनमुक्तम् ॥१८॥
स्वरोऽयमन्तरम्बिके द्विरेफवत्स्वरत्सदा॥ ममाभिमन्य धीसुमं ददाति देवि तेऽङघाये ॥१९॥
स्वर इति- अम्बिके ! अयम् अन्त: अन्तरे स्वरः शुद्धः प्राणः द्विरेफ-वत् भ्रमरवत् सदा स्वरन् शब्दायमानः अव्यक्तनादायमानः इति यावत्, मम धीसुमं बुद्धिपुष्पम् अभिमन्त्र्य जप्त्वा ते तव अङघ्रये चरणाय ददाति अर्पयति । स्वृ शब्दोपतापयोरिति धातोः निष्पन्नः स्वरशब्द: नादार्थको ज्ञेयः। अयमेव स्वरः प्राणस्य मूलं स्वरूपं उद्गीथापरनामधेयमाहुरौपनिषदाः । ’आदित्य उद्गीथः’ ’स्वरन्नुदेति’ इत्यादिश्रुतिः। तस्मादयं स्वर इत्यत्र मुख्य-प्राणस्वरूपतया व्याख्येयत्वात् अव्यक्तनादो सर्वशब्दप्रपञ्चमूलप्रकृतिः इति ग्राह्यम्। तस्मादस्य जप्तृत्वं युक्तम् । येन अभिमन्त्रितं धीसुमं देवीचरणाय समर्प्यते। एवं सर्वोपचारपूजावसाने मन्त्रपुष्प समर्पितम् ॥१९॥
इहेदमवधेयम् । नैमित्तिकपूजासु आवाहितायाः देवतायाः यथास्थानप्रतिष्ठा-पनरूपं विसर्जनं प्रसिद्धम् । इह तु नित्येयमाध्यात्मिकी पूजा। तस्मान्नेहा-वाहनारब्धा पूजा विसर्जनावसाना भवितुमर्हति। अतो मन्त्रपुष्पोपचारेण पूजाविधिं समाप्य नास्ति विसर्जनमिति ब्रूते ॥
तवार्चनं निरन्तरं यतो विधातुमसम्यहम् ॥ न विश्वनाथपत्नि ते विसर्जनं विधीयते ॥२०॥
तवेति- विश्वनाथपत्नि विश्वेश्वरमहिषि ! तव निरन्तरम् अविच्छिन्नम् अर्चनं पूजनं विधातुं कर्तुम् अहमस्मि। यतः यस्मात् हेतोः ते तव विसर्जन त्वत्कर्मकविसर्जनं न विधीयते, नास्ति त्वद्विसर्जनविधिरिति भावः, ततः वि-धातुमस्मीति पूर्वेण सम्बन्धः ॥२०॥
वियोग इन्दुधारिणा न चेह विश्वनायिके ॥ मदम्ब सोऽत्र राजते तटिल्लताशिखान्तरे ॥२१॥
वियोग इति- विश्वनायिके विश्वेश्वरि अम्ब! इन्दुधारिणा चन्द्र-शेखरेण शिवेन परमात्मना वियोगश्च न भवति । सहस्रारकमलस्य धारक: आत्मा हृदयस्थः तेन नास्ति वियोग इति भावः । मदम्ब ! स सहस्रार-चन्द्रधरः हृदयाकाशगः शिवः परमात्मा तटिल्लताशिखान्तरे नाभ्यामुपरि भास्वत्याः तटिल्लतायाः विद्युल्लतायाः शिखायाः ज्वालाया अन्तरे मध्ये राजते ज्वलति । ’अधो निष्टया वितस्त्यान्ते नाभ्यामुपरि तिष्ठति’ इत्यारभ्य ’नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा। तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’ इति हि श्रूयते। हृदयात्सहस्रारं प्रस्थिता ज्योतिर्वाहिनी नाडी पूर्वम् उपन्यस्ता, तत्र नाड्यां स्थितस्य पुरुषस्य कथं हृदयेन वियोगो भवति ? पूर्वश्लोके विसर्जनं न विधीयते इति निरन्तरपूजनस्य हेतुरुक्तः। इह इन्दु-धारिणा वियोगादेव पूजनविच्छेदस्य सम्भवः, स तु नेत्युक्तम्। अतो निरन्तरपूजासामग्री मे सिद्धेति द्योत्यते॥२१॥
इदं शरीरमेककं विभाव्य नव्यमन्दिरम् ॥ विहारमत्र सेश्वरा भवानि कर्तुमर्हसि ॥२२॥
इदमिति- भवानि ! इदं शरीरम् एककम् एकाकिनम् ‘एकाकी त्वेक एककः’ इत्यमरः सजातीयसहायशून्यमिति यावत्, नव्यमन्दिरं नूतनप्रासादं विभाव्य विशेषेण भावयित्वा अभिमान्येत्यर्थः, अत्र सेश्वरा ईश्वरसहिता विहारं सञ्चार क्रीडनमिति यावत् कर्तुमर्हसि। ईश्वर्याः सहस्रारं मुख्यं स्थानम् ईश्वरस्य हृदयम्। अत एव सेश्वरेत्युक्तम् ॥२२॥
जडेष्विवालसेष्विव प्रयोजनं न निद्रया ॥ विहर्तुमेव याच्यसे हृदीशसनराज्ञि मे ॥२३॥
जडेष्विति- ईशसद्मराज्ञि ईश्वरगृहाधिराज्ञि अम्ब! जडेषु अज्ञेषु, अलसेषु मन्देषु इव निद्रया न प्रयोजनं भवति। जडेषु ज्ञानरिक्तेषु अलसेषु क्रियाशून्येषु देवी निद्राति। तेन तेष्विव अप्रयोजना निद्रां मयि मा कृथाः इत्यभ्यर्थयते। मे मम हृदि हृदये विहर्तुं सञ्चरितुमेव त्वं याच्यसे प्रार्थ्यसे ॥२३॥
अयं तवाग्रिमः सुतः श्रितो मनुष्यविग्रहम् ॥ तनूजवेश्मसौष्ठवं मृडानि पश्य कीदृशम् ॥२४॥
अयमिति- अयं तव अग्रिमः ज्येष्ठः सुतः गणपतिः मनुष्यविग्रहं मानव-देहं श्रितः प्राप्तः। मृडानि अम्ब! तनूजवेश्मसौष्ठवं तनूजस्य पुत्रस्य वेश्मनः गृहस्य शरीरस्य सौष्ठवं सुष्ठुभावं कीदृशं, पश्य, कीदृशी सुस्थितिरस्येति वीक्षस्वेति भावः ॥२४॥
गणेशितुर्महाकवे रसौ प्रमाणिकावली ॥ मनोम्बुजे महेश्वरी- प्रपूजनेषु शब्द्यताम् ॥२५॥
गणेशितुरिति- महाकवेः गणेशितु: गणपतेः असौ प्रमाणिकावली प्रमाणिकावृत्तनिबद्धानां श्लोकानाम् आवली संहतिः महेश्वरीप्रपूजनेषु देवी-पूजनेषु मनोम्बुजे पूजकस्य चित्तकमले शब्द्यताम् उच्चार्यतां ध्वन्यतामिति यावत् ॥२५॥
त्रिंशः स्तबकः सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.