ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




तृतीयः स्तबकः

स्तबकेऽस्मिन् परस्य पुरुषस्य शक्तेश्च शरीरवत्ता अस्ति न वेति वि-कल्पभेदानुपन्यस्य उभावपि लीलाविग्रहधारिणौ प्रतिपाद्य तत्त्वतस्तयोः स्तुति-गीता॥

शुभ्रस्मितलेशो मातुर्मरुतान्नः ॥
अन्तस्तिमिराणामन्तं विदधातु ॥१॥

शुभ्रेति- मरुतां मातुः शचीदेव्याः शुभ्रस्मितलेशः शुचिर्मन्दहासः नः अस्माकम् अन्तस्तिमिराणाम् अन्तर्वतिनामन्धकाराणां नानाविधाज्ञानानाम् अन्तं विदधातु प्रध्वसयत्वित्यर्थः । मरुतां पिता इन्द्रः स च परमेश्वरः इन्दतेनि-ष्पन्नत्वात्। तस्मादिन्द्रशक्तिः शची, ईश्वरी भवति; इन्द्राणीत्यप्युच्यते ॥१॥

आद्यौ भुवनानां माता-पितरौ तौ॥
देवासुरमयैर्वन्द्यावविनिन्द्यौ ॥२॥

आद्याविति- तौ इन्द्र इन्द्राणी च आद्यौ तयोः पूर्वं न कोऽपि जातः, वस्तुतः अजातत्वेऽपि सृष्ट्यपेक्षया मिथुनं जातौ, भुवनानां माता-पितरौ देवा-सुर-मत्यैः वन्द्यौ स्तुत्यौ अविनिन्द्यौ अनवद्यौ जगद्व्यापारे स्वयं नियुक्तावपि तद्दोषैरबाधितत्वात् तयोः अनवद्यत्वं बोध्यम्। अत एवाविनिन्द्यौ ॥२॥

ब्रूते पृथगेकस्तौ विग्रहवन्तौ ॥
आहेकशरीरं द्वन्द्वं कविरन्यः ॥३॥

ब्रूत इति- तावधिकृत्य बहूनि मतानि सन्ति । तत्र एकः, तौ पृथक् विग्रहवन्तौ ब्रूते तयोः पृथक् शरीरे स्त इति वदति । अन्यः कविः क्रान्त-दर्शी एकशरीरं द्वन्द्वमाह। स्त्री-पुंसयोरेकमेव शरीरं द्विधा विभक्तं ब्रवीति । अत एव अर्धनारीश्वरव्यवहारो लोके । कविः कल्पनासमर्थो वा येन ईश्वरयोरवियोज्यत्वद्योतनाय कर-चरणाद्यवयवत्वं प्रकल्प्य द्विधा विभज्य ईश्वर्या वामभागो दक्षिणभाग ईश्वरस्य न्यस्तौ ॥३॥

शक्ति तनुशून्या-मीशं च पुमांसम् ॥
सन्देहयुतोऽन्यः ॥४॥

वक्ति प्रमदायां शक्तिरिति- अन्यः वक्ति ब्रूते। किम् ? प्रमदायां स्त्रियां सन्देहयुतः सोऽन्यः शक्ति तनुशून्याम् शरीररहिताम् ईशं पुमांसं च पुरुषशरीरयुक्तं च वक्तीति शेषः। ईशस्यैवास्ति शरीरं न शक्तेरिति मन्यते। शक्तेः पृथगा-त्मत्वविषये सन्देहवानन्यः, शक्ते पुरुषे शक्तेरन्तर्भावादिति हेतोः ॥४॥

ईशं च तमेके ब्रह्मकमथान्ये सन्मात्रमुशन्ति ॥
गायन्ति न शक्तिम् ॥५॥

ईशमिति तम् ईशं च शरीरवानीश इति यः प्रोक्तः तमपि सन्मात्र-मुशन्ति केवलं सत्स्वरूपमेवेति कामयन्ते अभिप्रयन्तीत्यर्थः । वश कान्ता-विति धातोः प्रथमपुरुषबहुवचनरूपम् उशन्ति । अथ अन्ये न शक्ति गायन्ति, एकं ब्रह्म गायन्ति यथोपनिषत्सु ॥५॥

केचित्तनुहीनं प्रज्ञायुतमीशम् ॥
शक्ति विदुरस्य प्रज्ञामविकुण्ठाम् ॥६॥

केचिदिति- केचित् ईशं प्रज्ञायुतं किन्तु तनुहीनम् अशरीरं, अस्य ईशस्य अविकुण्ठाम् अप्रतिहतां तीव्रां प्रज्ञां शक्ति विदुः। ईशस्य अशरीरस्य स्वतन्त्रा प्र वशक्तिरित्याहुरित्याशयः॥६॥

उक्तं दधतस्तैः केचित्पुनराहुः ॥
मायातनुबन्धं नाथस्य न शक्तेः ॥७॥

उक्तमिति- केचित्पुनः, ये केचन ईशः प्रज्ञायुतः तस्य प्रज्ञैव शक्ति-रित्याहुः तैरुक्तं प्रज्ञात्मकशक्तिविशिष्टत्वं दधतः धारयमाणस्य नाथस्य ईश्वरस्य मायातनुबन्धं मायया लीलया तनुबन्धः शरीरस्वीकारः तम् आहुः, न शक्तेः। लीलाशरीरवत्त्वं नाथस्यास्ति, न तु शक्तेरिति मन्यन्त इति भावः ॥७॥

नित्यं सशरीरौ येषां पितरौ तौ ॥
एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥८॥

नित्यमिति- येषां मते तो पितरौ ईश्वरी ईश्वरश्च नित्यं कालत्रयेऽपि सशरीरौ, अथवा, एकोऽपि ईश्वरः नित्यं सशरीरः, तान् तथा मन्यमानान् निसर्गः प्रत्याह स्वभाव: प्रतिवदति, स्वभावः प्रत्युत्तरं ददाति, अयमाशयः । शरीरस्य नित्यत्वं न क्वापि दृश्यते, दृश्यं शरीरमनित्यं नश्वरत्वात्। देश-काल-निमित्तापेक्षस्य शरीरस्य नित्यत्वोक्तिः स्वभावविरुद्धा। अत एव ईश्वरयोरीश्वरस्यैकस्य वा शरीरनित्यत्ववादः स्वभावेन विरुध्यते। इदमेव शरीरनित्यत्ववादं प्रति स्वभावस्य प्रतिवचनम् ॥८॥

मातापितरौ यत् तावेकशरीरौ ॥
चित्रप्रथनार्था सा काचन लीला ॥९॥

मातापितराविति- तौ मातापितरौ एकशरीरौ इति यत् सा चित्र-प्रथनार्था काचन लीला। विधेयप्राधान्यात् सेति स्त्रीलिङ्गम्। चित्रमद्भुतं, ईश्वरयोरद्भुतविलासप्रकाशिका एकशरीरत्वोक्तिरित्यर्थः । एवं द्वाभ्यां श्लोकाभ्यां पित्रोः पृथक्शरीरत्वम् एकशरीरत्वं वा वदतां पक्षस्य समाधान-मुक्तम् ॥९॥

अथ सन्मात्रमुशन्तीति प्रागुपन्यस्तस्य पक्षस्य प्रतिसमाधानमाह ॥

सन्मात्रकथानां कार्ये मनुजादौ ॥
धीस्वान्तविकासः स्यात्कारणहीनः ॥१०॥

सन्मात्रकथानामिति- सन्मात्रकथानां पक्षे ईश्वरः केवलं सत् ब्रह्मेति वदतां मते इति भावः। कार्ये मनुजादौ कारणात् सतो वस्तुनः उत्पाद्ये मानवादौ धी-स्वान्तविकासः कारणहीनः स्यात्, धीः बुद्धिः स्वान्तं मनः तयो-विकासः विजृम्भणं अन्तःकरणाविष्कृतिः कारणं विना भवेत् । कारणं विना कार्योत्पत्तेरसम्भवात्, कारणे सन्मात्रे निविशेषे वस्तुनि कथम् अन्त:-करणव्यापारः सम्भवेत् ? ॥१०॥

अत एव अद्वैतिनः मायामाश्रित्य स्वपक्षं स्थापयन्ति । तत्रापि माया अस्माभिः प्रतिपाद्यमाना शक्तिरेवेत्याह ।

अद्वैतिभिरन्या मायाऽऽश्रयणीया ॥
शक्तेरतिरिक्ता सा कि किमु वादः ॥११॥

अद्वैतिभिरिति—अद्वैतिभिरन्या पुरुषादन्या विलक्षणा माया आश्रयणीया। सा शक्तेरतिरिक्ता किम् ? शक्ति नातिरिच्यते, शक्तिरेव सेत्यर्थः । किमु वादैः ? वादैः प्रयोजनं नास्ति ॥११॥

प्रज्ञायुत ईशः, सा च प्रज्ञैव शक्तिः, तस्याः पृथग्भावो नास्तीत्यभिप्रायः षष्ठे श्लोके उपन्यस्तः। तं प्रति न स्यादित्युत्तरमाह ॥

न स्यात्पृथगात्मा शक्तेः किमुपाधेः ॥
चक्षुः श्रितचित्ते- विश्वाकृतिता वा ॥१२॥

न स्यादिति- उपाधेः शक्तेः पृथक् आत्मा किं न स्यात् ? शक्तेः आत्मा अन्यः स्यादेवेति भावः । चक्षुः श्रितचित्तेः चक्षुरिन्द्रियमाश्रित्य व्याप्रियन्त्याः चित्तेः चितः दर्शनेन्द्रियोपहितचैतन्यादिति यावत्, पृथक् विश्वा-कृतिता वा किं न स्यादिति शेषः, नेत्रेन्द्रियोपहितचैतन्यस्यैव विश्वाकारतया विक्षेपरूपो विवर्तः अद्वैत्येकदेशिनां सिद्धान्तः । तत्रापि विषयिणः उपहित-चैतन्यात् भिद्यत एव विषयः विश्वाकारः। यद्यपि विषय-विषयिणोः मूल-स्वरूपे चिति अभेदो भवति, तथाऽपि विषयाकारतया विवर्तमाने पृथग्भावः विश्वस्य स्यादेव, न चेत् ज्ञातृ-ज्ञेयव्यवहार एव नोपपद्यते । भूतायाः मायायाः शक्तेर्वा आत्मा पृथग्भवत्येवेति भावः ॥१२॥

नियते अशरीरत्वे दोषमाह ।।

एकान्तदिदेही तौ चेदतिसूक्ष्मौ ॥
लोलातनुबन्धा- शक्तावभिधेयौ ॥१३॥

एकान्तेति- अतिसूक्ष्मी प्रमातुं न शक्यौ तौ पितरौ एकान्तविदेही चेत् नियमेन शरीरशून्यौ चेत्, लीलातनुबन्धाशक्तौ लीलया शरीरादाने असमथौं अभिधेयौ वक्तव्यौ। स्वातन्त्र्यं शरीरस्वीकाराय नास्ति तयोरित्यर्थः । सर्व-तन्त्रस्वतन्त्रयोनित्यम् अशरीरत्वावस्थाने को वा नियामको भवति ? ॥१३॥

किमपि प्रयोजनमुद्दिश्य शरीरं स्यादेवेत्याह॥

भक्ताननुगृह्णन् दिव्याद्भुतलीलः ॥
तद्विग्रहबन्धो बोध्यो लसदर्थः ॥१४॥

भक्तानिति- तत् तस्मादुक्ताद्धेतोः भक्तान् अनुगृह्णन् भक्तलोकस्य अनुग्रहं कुर्वन् दिव्याद्भुतलील: दिव्या अद्भुता लीला विलासः यस्य सः विग्रहबन्धः शरीराकारः लसदर्थो लसन् प्रकाशमानः अर्थः प्रयोजनरूपः यस्य सः, वोध्यः ज्ञेयः विग्रहबन्धस्य लसदर्थत्वं विधेयम्। किमपि प्रयोजनं लीलाशरीरस्वीकाराय ईश्वरौ प्रेरयति । तच्च प्रेरकं तयोर्न बाह्यम्। स्वे-च्छया ईश्वरयोः स्वयं नियन्त्रणात्, सर्वशक्तत्वाच्च ॥१४॥

अथ ‘कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा’ इति न्यायेन पुरुषत्वम् अङ्गीकृतं चेत् कुतो न स्त्रीत्वं नाङ्गीक्रियत इति परवस्तुनः पुरुषत्वमात्रं कथयन्तं पृच्छति ॥

स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् ॥
ना वा किमु नारी न स्यादनुमेया ॥१५॥

स्त्रीत्वमिति- स्त्रीत्वं न इष्टं यदि, कुतः कस्माद्धेतोः पुंस्त्वम् इष्टम् ? ना वा पुरुष इव नारी स्त्री अनुमेया अनुमातुं शक्या किमु न स्यात् ? यादृशा लिङ्गेन पुरुषोऽनुमेयो भवति, तादृशा लिङ्गेन स्त्री च अनुमेया भवेदित्यर्थः ॥१५॥

तस्मात्पितरौ तौ वाच्यौ मतिमन्तौ ॥
सूक्ष्मावपि भूयो लोलातनुमन्तौ ॥१६॥

तस्मादिति- तस्मात् तौ पितरौ मतिमन्तौ ज्ञानवन्तौ पृथगात्माना-वित्यर्थः। भूयः भूरि अत्यन्तमिति यावत् सूक्ष्मावपि दिव्यत्वादस्मदादि-स्थूलदृग्दुर्लभावपि लीलातनुमन्तौ लीलाशरीरिणौ वाव्यौ। स्पष्टम् ॥१६॥

सृष्टावत्र ब्रह्माण्डे तयोः मुख्ये मूर्तिस्वरूपे द्वे आह ।।

नास्मत्तनुवत्ते शक्तीश्वरमूर्ती ॥
एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥१७॥

नेति- ते शक्तीश्वरमूर्ती शक्तिमूर्तिः ईश्वरमूर्तिरुभे च अस्मत्तनुवत् न अस्माकं शरीरवत् न भवतः। तर्हि किंरूपे भवतः ? आह । एका मूर्तिः अमृतरूपा अमृतं रूपं यस्याः सा; अन्या तु प्रणवात्मा मूर्तिः। शक्तिमूर्तेः अमृतं शरीरम् ईश्वरमूर्तेः प्रणवः शरीरमिति भावः ॥१७॥

तत्र प्रथमं प्रणवात्मानं मूर्ति विवृणोति ॥

दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः ॥
सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥१८॥

दिव्यमिति- अन्तः सर्वस्याप्यन्तरे ध्वनि नादं किमप्यव्यक्तं कुर्वत् तन्वानम् अशेषम् अखिलं सम्पश्यत् वीक्षमाणं दिव्यम् अप्राकृतं घनतेजः स्पर्शानुभवयोग्यतया स्थितं तेजः ज्योतिरेव प्रणवात्मा मूर्तिः कथ्यते। अणोरप्यणीयस्त्वेन ब्रह्माण्डकोटिषु सर्वत्र अत्यन्तसूक्ष्मतयाऽवस्थाय अव्यक्तनादं कुर्वत् यज्ज्योतिर्धाजते तदेव प्रणवशरीरम् ईश्वरमूर्तिरिति भावः ॥१८॥

अथ अमृतात्मानं मूर्ति व्याचष्टे ॥

दिव्यो घनसोमः स्यन्दन् रसमन्तः ॥
भुञ्जन्भुवनौषं पीयूषशरीरम् ॥१९॥

दिव्य इति- अन्तः रसं स्यन्दन् सर्वस्याप्यन्तरे आनन्दपदवाच्यं विश्वभूतसारात्मकं रसं प्रवहन्तं विदधानः भुवनौषं भुञ्जन् भोग्यस्य भुवनजालस्य तत्सारादानेन भोक्ता भवन्, दिव्यः अप्राकृतः घनसोमा अन्तः पिण्ड इव संहतः सोमः, वेदे पवमानाख्य एव, पीयूषशरीरं पीयूषमयं शरीरम् अमृतात्मा मूर्तिरिति भावः ॥१९॥

अथ मूर्तिद्वयस्य प्रणवात्मतेजसः पीयूषात्मसोमस्य च तत्त्वमाह ॥

बोधोऽनवलम्बो दिव्यं खलु तेजः ॥
मोदः परिशुद्धो दिव्यः खलु सोमः ॥२०॥

बोध इति- अनवलम्ब: निरुपाधिक: बोधः खलु ज्ञानमेवेत्यर्थः, खल्ववधारणे, दिव्यं तेज उच्यते। परिशुद्धो मोदः खलु दिव्यः सोमः । विषयमनाश्रित्य स्वतःसिद्धत्वं परिशुद्धत्वम् । मोद आनन्दः, स एव सोमः । स्पष्टम् ॥२०॥

अथ सूर्याचन्द्रमसोः याथार्थ्यं प्रसङ्गवशादाह ॥

सोमांश-महोशौ यातो घनभावम् ॥
पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥२१॥

गच्छतः। सोमांशेति- भुवनानां पित्र.: ईश्वरयोः सङ्कल्पमहिम्ना सङ्कल्पप्रभावात् सोमांशमहोशौ घनभावं यातः सोमांश एव घनीभूतः चन्द्रः, महोंशो घनीभूतः सूर्य इति । अन्यदवदातम् ॥२१॥

चिन्मयमीशम् आनन्दमयी देवी स्वयं भोग्यतया तर्पयतीत्याह ॥

आराधयसीशं तं चिन्मयकायम् ॥
आनन्दमयाङ्गो त्वं देवि किलेयम् ॥२२॥

आराधयसीति- देवि! आनन्दमयाङ्गी इयम् ईदृशी त्वं चिन्मयकायं बोधशरीरं तमीशम् आराधयसि किल सम्भावनायाम् । ईश्वरस्य त्वं स्वीय-मानन्दमयं शरीरमर्पयित्वा भोगदानेन तम् आराधयसीति भावः ॥२२॥

त्वदीयं सर्व दिव्यं भोग्यं, तेनेश्वर आराध्यते इति देवीं सम्बोधयति॥

दिव्यं तव कायं दिव्ये तव वस्त्रे ॥
दिव्यानि तवाम्ब स्वर्णाभरणानि ॥२३॥

दिव्यमिति- दिव्यं तव कायं प्राग्व्याख्यातम् । दिव्य तव वस्त्रे उभे उत्तरीयम् अन्तरीयं च, अम्ब! तव स्वर्णाभरणानि दिव्यानि। सर्वाणीमान्य-प्राकृतानि। केनोपनिषद्गीता स्त्री उमा हैमवती त्वं भासुरहेमाभरणामि-त्यादिना मया गीयमाना, उत्तरत्रापि स्तबकेषु वर्ण्यमानाङ्गवस्त्राभरणा सर्वत्र मया तव दिव्यत्वं ज्ञात्वैव स्तूयसे इति कवेराशयः। प्राकृतशरीर-वर्णनवत् क्वचिच्छ्र यमाणमपि मम स्तोत्रं वस्तुतस्तव दिव्यत्वविषयमेवाम्बे-त्यर्थः ॥२३॥

अत एवाह॥

यद्देवि विलोक्या- ऽस्यप्राकृतकाया ॥
युक्तीः समतीता सेयं तव माया ॥२४॥

यदिति- देवि ! अप्राकृतकाया अलौकिकदेहाऽपि विलोक्याऽसि द्रष्टुं शक्याऽसि इति यत् सेयं विधेयप्राधान्यात् स्त्रीलिङ्गम्, युक्ती: उपपादन-हेतूक्ती: समतीता अतिक्रान्ता तव माया विचित्रशक्तिः अघटितघटनापटीय-सीति वा ॥२४॥

उपसंहरति स्तबकम् ॥

नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् ॥
विद्वत्सदसीमाः सम्यकप्रथयन्तु ॥२५॥

नव्या इति- नव्याः अभिनवं सृष्टाः कविना इमाः तनुमध्याः तनुमध्या-वृत्तगृहीताः कविताः प्रत्नां पुरातनी तनुमध्यां स्त्रियम् उमां विद्वत्सदसि विज्ञ-सभायामित्यर्थः सम्यक् प्रथयन्तु प्रकाशयन्तु। विदुषामपि उमातत्त्वस्य दुर्बोधत्वात्, तेषामेव उमाबोधलाभसम्भवाच्च । समालङ्कारः। उभयत्र तनुमध्यात्वात् आनुरूप्यं, प्रथितास्तनुमध्याः प्रथिता च तनुमध्येति ॥२५॥

तृतीयः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates