ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




त्रयोदशः स्तबकः

तत्रादौ अथास्मिन् स्तबके भगवत्याः कटाक्षमहिमानुवर्णनं भवति । हासस्तुतिः ॥

भवाम्बुधिं तारयताद्भवन्तं हासोऽद्भुतः कुञ्जरवक्त्रमातुः ॥
यो हन्ति बिम्बाधरलङ्घनेऽपि व्यक्तालसत्वो हरितां तमांसि ॥१॥

भवाम्बुधिमिति- कुञ्जरवक्त्रमातुः गजाननमातुः अद्भुतः आश्चर्यकरः हासः भवन्तं भवाम्बुधि जन्मसागरं तारयतात् तारयतु। तरतेर्हेतुमण्ण्यन्ता-ल्लोटि रूपम्। द्विकर्मकम् । हासो भवन्तं तीर्णभवसागरं करोत्वित्यर्थः । हासस्याद्भुतत्वे हेतुमाह । यो हासः बिम्बाधरलङ्घनेऽपि बिम्बाधरस्य रक्त-फलोपमाघरोष्ठस्य लङ्घने अतिक्रमणेऽपि व्यक्तालसत्व: व्यक्तं स्पष्टम् अलसत्वं मन्दत्वं यस्य स हासः दन्तवाससं लवयित्वैव मुखानिर्गन्तुं प्रभवति । समीपतमवर्तिनो मुखद्वारि तिष्ठतोऽधरस्यातिक्रमणेऽपि मन्द एवेति भावः । तावान् मन्दोऽपि हरितां दिशां तमांसि तिमिराणि हन्ति व्यपोहति । एवमति-मन्दोऽपि सर्वदिक्तिमिरव्यपोहनपटुरत एवाद्भुत इत्युक्तम । मन्दहासकर्तृ-कस्य अमन्दकार्यस्य दिक्तमोहरणरूपार्थस्य निष्पत्तेरसम्भाव्यत्वं गम्यते, तेन असम्भवालङ्कारध्वनिः। विशेषोक्तिशङ्का न कार्या अद्भुतोपादानात् ॥१॥

सक्तः सदा चन्द्रकलाकलापे सर्वेषु भूतेषु दयां दधानः ॥
गौरीकटाक्षो रमणो मुनिर्वा मदीयमज्ञानमपाकरोतु ॥२॥

सक्त इति- चन्द्रकलाकलापे चन्द्रकला कलापो भूषणं यस्य तस्मिन् चन्द्रचूडे शिवे सक्तः कृतसङ्गोऽत्यन्तमनुरक्त इति यावत्, सर्वेषु सकलेषु भूतेषु प्राणिषु दयाम् अनुकम्पां दधानः बिभ्रत् गौरीकटाक्षः पार्वत्याः अपाङ्ग-दर्शनं, रमणो मुनिर्वा महर्षिरिति प्रसिद्धो मम गुरुरिव ’वद्वा यथा तथेवैवं साम्ये’ इति अमरः, मदीयं ममेदम् अज्ञानम् अपाकरोतु निरस्यतु । चन्द्रचूडे सक्तिः, कान्तेऽनुरागाद् गौरीकटाक्षस्य, रमणस्य मुनेस्तु एकान्तभक्तेः, जग-न्मातु: सहजां सर्वभूतदयां कटाक्षो धत्ते, सर्वेषु भूतेषु आत्मदर्शनात् सहजा भूतदया रमणस्य मुनेः। यथा रमणो महर्षिः मम गुरुरज्ञानमपास्यति तथा गौरीकटाक्षोऽपास्यत्विति भावः। पूर्णोपमा ॥२॥

कृपावलोको नगकन्यकायाः करोतु मे निर्मलमन्तरङ्गम् ॥
येनाङ्कितः शङ्कर एकतत्त्वं विश्वं लुलोके जगते जगौ च ॥३॥

कृपेति- नगकन्यकायाः पर्वतपुत्र्याः कृपावलोकः कृपया करुणया अव-लोक: दृष्टिपात: मे मम अन्तरङ्गम् अन्तःकरणं निर्मलं शुद्धं करोतु। येन कृपावलोकेन अङ्कित: मुद्रितः शङ्करः आनन्दलहर्यादिप्रणेता अम्बिकामाराध्य तत्प्रसादं लब्धवान् । शारीरकभाष्यकारः अद्वैताचार्यः विश्वं समस्तम् एक-तत्त्वम् एकम् अद्वितीयं तत्त्वं याथार्थ्यं सत्यं यस्य तत् अद्वैतमित्यर्थः विधेयविशे-वणं, लुलोके ददर्श, दृष्टं च तत् अद्वैतं जगते जगौ च अगासीत् उपदिष्टवान् इत्यर्थः ॥३॥

कालीकटाक्षो वचनानि मा ददातु मोचामदमोचनानि ।
यत्पातपूतं रघुवंशकारं नराकृति प्राहुरजस्य नारीम् ॥४॥

कालीति- काल्या: देव्याः कटाक्षः नेत्रान्तदर्शनं मोचामदमोचनानि मोचा रसातिशयवान् कदलीविशेषः तस्याः मदस्य दर्पस्य मोचनानि अपहारकाणि ततोऽपि रसवत्तराणि इत्यर्थः, वचनानि वाग्वैभवानि मह्यं ददातु वितरतु। यत्पातपूतं यस्य कटाक्षस्य पातेन पूतं पवित्रं रघुवंशकारं कालिदासं नराकृति रस्याकृतिरिवाकृतिर्यस्याः ताम् अजस्य ब्रह्मणः नारी स्त्रियं सरस्वतीं प्राहुः वदन्ति बुधा इति शेषः । कालीप्रसादलाभेन कालिदासो महाकविरभूदिति ऐतिह्यानुवादेनेदमुक्तम् । तथा सोऽवतारः सरस्वत्या इति च । सत्सु सु-बख्यातशाकुन्तलादिनाटकेषु कुमारसम्भवे च महाकाव्ये कालिदासकृतिषु, रघु-वंशकारमिति निर्देशेन अद्वितीयकविताशोभानामपि सर्वासां कृतीनां रघुवंशस्य बाधान्यमभिमन्यते कविरिति बोध्यम् ॥४॥

युष्माकमग्रयां वितनोतु वाणी- मेणीदृगेषा गिरिशस्य योषा ॥
यस्याः कटाक्षस्य विसारि वीर्य गिरामयं मे विविधो विलासः॥५॥

युष्माकमिति- एणीदृक् मृगीदृक् एषा गिरिशस्य शिवस्य योषा सुन्दरी सुष्माकम् अग्रयां श्रेष्ठां वाणी सरस्वती वितनोतु विस्तृणोतु, सारस्वतसम्पत्ति विदधात्वित्यर्थः। यस्याः गिरिशयोषायाः कटाक्षस्य विसारि सर्वतः प्रसरण-शीलं वीर्य बलं मे मम गिरां वाचां विविधो नानाविवोऽयं विलासः। भग-वत्याः कटाक्षप्रभाव एव मम नानाविधवाग्विलासरूपतया जयतीत्यर्थः। विविध इति प्रयोगेण न केवलमाशुधाराकविताऽष्टावधानादिर्महाकवेर्मम वाग्वि-लास:। सर्वतोमुखं मे सारस्वतवैभवं मद्विरचितेषु निगमागमविमर्शनेषु नानाशास्त्रग्रन्थेषु विलसितं धीगुणवतां तोषाय भवतीति बोध्यम्। ’हेतुहेतु-मतोरैक्यं हेतुं केचित्प्रचक्षते’ इति चन्द्रालोकोक्तेः गौरीकटाक्षस्य हेतोः गी-विलासस्य हेतुमतश्च ऐक्यप्रतिपादनात् हेतुरलङ्कारः ॥५॥

नगात्मजायाः करुणोमिशाली दृगन्तसन्तानधुनीप्रवाहः॥
भीष्मेण तप्तान्भवनामकेन ग्रीष्मेण युष्मांच्छिशिरीकरोतु ॥६॥

नगात्मजाया इति- नगात्मजायाः देव्याः पर्वतपुत्र्याः करुणैव ऊर्मयो वीचयः ताभि: शोभत इति करुणोमिशाली, दृगन्तस्य अपाङ्गस्य सन्तानो विस्तार एव धुनीप्रवाहः नदीप्रवाहः भीष्मेण भीकरेण भवनामकेन भवो जननं नाम यस्य स भवनामा स एव भवनामक: तेन ग्रीष्मेण निदाघेन तप्तान् युष्मान् शिशिरीकरोतु अशिशिरान् शिशिरान् सम्पद्यमानान् करोतु शीतलयत्वित्यर्थः। अत्र सावयवं रूपकमलङ्कारः । घोरं जन्मतापं भग-वत्याः करुणापूर्णकटाक्षो व्यपोह्य युष्मान् सुखिनः करोत्विति तात्पर्यम् । करुणादृगन्तसन्तानेषु ऊर्मिधुनीप्रवाहाः आरोपिताः, भवे ग्रीष्मश्च । भीष्म-त्वं भव-ग्रीष्मयोः समानम् । तप्तान् भवेन दुःखितान् ग्रीष्मेण सन्तप्तान् । एवं विवेकः ॥६॥

अजस्रमाा दययाऽन्तरङ्ग यथा भवो निम्नगयोत्तमाङ्गे॥
सन्तापशान्ति भवसुन्दरी मे करोतु शीतेन विलोकितेन ॥७॥

अजस्रमिति- अन्तरङ्गे हृदये अजस्रम् अनवरतं दयया कृपया आर्द्रा सरसा, यथा भवः शिवः निम्नगया नद्या गङ्गया अजस्रम् उत्तमाङ्गे शिरसि आर्द्रस्तथेति सम्बन्धः भवसुन्दरी शिवप्रिया शीतेन तापहरणेन विलोकितेन वीक्षितेन मे मम सन्तापशान्ति सज्वरोपशमनं करोतु, यथा शिवस्य शिरसि वन्ती गङ्गा तं तत्र आर्द्र करोति, तथा पार्वत्या हृदये सन्ततं प्रवह-। तदाद्रं करोतीत्युपमालङ्कारः ॥७॥

या सदाऽपीश्वर एव सक्ता पतिव्रतासाम्यमिता तवेक्षा।
चलाधीश्वरकन्यके मे संहारमहोविततेविधत्ताम् ॥८॥

येति- कुलाचलाधीश्वरकन्ये पर्वतराजपुत्रि, तव ईक्षा दृष्टि: पुण्या सदाऽपि निरन्तरम् अपि सम्भावनायाम् ईश्वर एव सक्ता सङ्गवती च्चयप्रश्नशङ्कासम्भावनास्वपि’ इत्यमरः, अत एव पतिव्रतासाम्यं पति-साध्व्या साम्यं तुल्यताम् इता गता मे मम अंहोविततेः अंहसः पापस्य विस्तृतेः संहारं सङ्कोचं नाशनमिति यावत्, विधत्ताम् करोतु विस्तृ-पिस्य उपसंहरणं कुरुतामित्यर्थः। यथा पतिव्रता पत्युः अन्यत्र न तथा तवेक्षा ईश्वरान्नापसरति । तस्मात्पतिव्रतासाम्यं गतेति उपमा। ईश्वरादन्यत्र न पतति तथाऽपि पातिव्रत्यप्रभावेन पापसंहार इव तवे-में स भवत्विति भावः ॥८॥

स्य रामे नियमेन होना श्यामा तवेक्षा गणिकाङ्गनेव ॥
चेऽपि मा निपतत्यनर्धा बिति ना षोडश यः सुवर्णान् ॥९॥

र्चस्येति- शर्वस्य भर्गस्य रामे सुन्दरि, श्यामा कृष्णा सुन्दरी च क्षा दृष्टि: गणिकाङगना वारवनितेव नियमेन हीना नियताचारशून्या स्थितौ नास्ति व्रतमस्या इत्यर्थः । नीचेऽपि निकृष्टेऽपि म] मानुषे अनर्घा अमूल्या, निपतति यो ना मनुजः षोडश सुवर्णान् शोभनान् अक्षराणि षोडशाक्षरीमन्त्रमित्यर्थः, पक्षे सौवर्णं धनमित्यर्थः। बिभर्ति वेश्याङगना यथा स्वर्णवति नीचेऽपि मानुषेऽनुरक्ता, तथा तवेक्षा अरमन्त्रधरे पुरुषेऽनुग्रहवती । श्लिष्टोपमा ॥९॥

मायताक्षि क्षितिधारिकन्ये कटाक्षनामा तव कालसर्पः॥
सन्दशत्येष जगत्समस्तं विस्मृत्य चाहो न दधाति मोहम् ॥१०॥

अति- पद्मे कमले इव आयते दीर्घ अक्षिणी यस्याः तस्याः सम्बुद्धिः माक्षि, क्षितिधारिकन्ये भूधरबाले पार्वति, तव कटाक्षो नामाभिधानं यस्य स कटाक्षनामा कालसर्पः कृष्णसर्पः यं सन्दशति सम्यक् दंशयते एष स समस्तं जगत् भुवनं विस्मृत्य च विस्मृतवानपीत्यर्थः, मोहं मूर्छा न दधाति न वहति। अहो आश्चर्यम्। कटाक्ष-कृष्णसर्पयोरभेदानुरञ्जनाद्रूपकमल-ङ्कारः। मोहाधानकारणे सत्यपि मोहाभावस्य कार्यस्य सिविशेषोक्तिरल-कारः। स च रूपकेणानुप्राणितः। कालसर्पात् कटाक्षस्याधिकगुणोक्तिः व्यतिरेकं गमयति। रूपकविशेषोवत्योस्तु समप्रधानः सङ्करः ॥१०॥

ईशद्विषा शैलमहेन्द्रकन्ये करोति मैत्री विषमायुधेन ॥
प्रभाषते पातकिनश्च पक्षे कुतः कटाक्षो न तवाम्ब मुग्धः ॥११॥

ईशेति- शैलमहेन्द्रकन्ये पार्वति, अम्ब, तव कटाक्षः ईशद्विषा ईशं द्वेष्टीति ईशविट् तेन विषमायुधेन मन्मथेन मैत्री मित्रभावं सख्यं करोति । पातकिनः पातकं पापमस्येति पातकी तस्य मदनस्य पक्षे प्रभाषते तत्पक्षपाती तत्सहायो भवतीत्यर्थः, ’पक्षे सहायेऽपि’ इत्यमरः। कुतः कस्माद्धेतोः स न मुग्धः मूढः ? तव प्राणनायकस्येश्वरस्य शत्रोर्मदनस्य पक्षबलं दत्वा पापिनः तस्य सहायो भवतीति हेतोः मूढ एव । ईशद्वेषिण्यपि परमकारुणिकस्ते कटाक्ष इति स्तुतिपर्यवसायिनीयं निन्दा। ’उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुति-निन्दयोः’ इति लक्षणात् व्याजस्तुतिः अलङ्कारः ॥११॥

कृपान्वितः कर्णसमीपचारी श्रीमान्सदा पुण्यजनानुकूलः ॥
साम्यं कुरूणामधिपस्य शम्भोः प्राणप्रिये ते भजते कटाक्षः ॥१२॥

कृपेति- शम्भोः प्राणप्रिये, पार्वति, ते तव कटाक्षः, कृपान्वित: कृपया दयया अन्वितः, कर्णसमीपचारी, कर्णयोः श्रोत्रयोः समीपचारी, श्रोत्रान्तवि-श्रान्तः कटाक्ष इत्यर्थः, श्रीमान् शोभावान्, सदा पुण्यजनानुकूल: पुण्यजनानां पावनानाम् अनुकूलः, एवम्भूतः सन् कुरूणामधिपस्य दुर्योधनस्य साम्यं सादृश्यं भजते। कथम् ? कुरूणामधिपोऽपि कृपान्वितः धनुर्विद्याचार्येण नाम्ना कृपेण अन्वितः युतः, कर्णसमीपचारी कर्णस्य कुन्तीपुत्रस्य समीपे चरति, श्रीमान् राज्यलक्ष्मीवान्, पुण्यजनानुकूल: पुण्यजनानां राक्षसानाम् अनुकूलः । कटाक्षस्य दुर्योधनसाम्यवर्णनं पुण्यजनानुकूलतत्कारुण्यवैभवस्य विरुद्धम् । स च विरोधः दयान्वितादिशब्दश्लेषैः परिहृतः इति विरोधाभासोऽलङ्कारः ॥१२॥

कर्णान्तिकस्थोऽपि न धर्मवैरी कृष्णोऽपि मात कुलं न पाति ॥
शीतोऽपि सन्दीपयति स्मराग्नि हरस्य ते शैलसुते कटाक्षः॥१३॥

कर्णान्तिकस्थ इति- शैलसुते पार्वति, ते तव कटाक्षः कर्णान्तिकस्थः कर्णस्य गोधनपक्षगस्य कौन्तेयस्य अन्तिकस्थोऽपि समीपवर्त्यपि धर्मवैरी धर्मपुत्रस्य वैरी त्रुर्न भवति, कर्ण: धर्मपुत्रप्रतिपक्ष एव प्रसिद्धः, स तथा गेत्युक्तौ विरोधः, त्रिसमीपगः अपि श्रोत्रधर्मस्य श्रवणस्य न वैरी दर्शनश्रवणयोमंत्र्येव । एवं ब्दश्लेषेण विरोधाभासः । कृष्णोऽपि भगवानपि नकुलं पाण्डवं न पाति न अति । अयमपि विरोध इतिहासस्य। कृष्णोऽपि श्यामोऽपि मलिनवद् दृश्यमानो लं न पाति न रक्षति इति न; पात्येवेत्यर्थः । अत्रापि शब्दश्लेषेण विरोध-रहारः। शीतोऽपि शीतलोऽपि हरस्य शिवस्य स्मराग्नि कामाग्नि सन्दीपयति लयति न तु शामयति, शीतोऽग्निवर्धन इति विरोधः । कटाक्षप्रभावस्य वाभाविकी कामारिकामाग्निदीपिनी प्रवृत्तिरिति विरोधाभासः ॥१३॥

अयं कटाक्षस्तव तोयवाहः कारुण्यकाले परिजृम्भमागः ॥
गृहेषु लीनान्सुखिनो विहाय निराश्रयान् सिञ्चति विश्वमातः ॥१४॥

अयमिति- विश्वमातः जगज्जननि, अयं तव कटाक्षः तन्नाता तोयवाहः घः कारुण्यकाले करुणाप्रदर्शनसमये परिजृम्भमाणः परितो व्याप्नुवन् गृहेषु रेषु, पक्षे स्वनिकेतनेषु लीनान् सुखिनः पामरतया मन्दसुखमग्नान्, पक्षे लीनान् विहायोज्झित्वा, निराश्रयान् अनन्याश्रयान्, पक्षे आवासगृहमना-बत्य बहिःस्थितान् सिञ्चति सिक्तान् करोतीत्यर्थः । कारुण्यकाल इत्यत्र पकसामर्थ्याद्वर्षाकाल इत्याक्षिप्यते। गृहशब्देन पुत्रदारादयोऽपि ग्राह्याः, ये वीयत्वेन गृह-पुत्र-वित्तादीन् परिगृह्याश्रित्य तैरात्मानं आवृण्वते तेषाम् उचिते ले देवीकरुणाकटाक्ष उपस्थितोऽपि फलप्रदो न भवति । ये पुनः स्वीयत्वेन कमप्यनाश्रित्य निरावरणास्तिष्ठन्ति ते कटाक्षास्पदं भवन्तीति भावः । टाक्ष-तोयवाहयोः कारुण्य-वर्षाकालयोश्च अभेदेन रञ्जनाद्रूपकमलङ्कारः ॥१४॥

कस्यापि वाचा वपुषा बलेन समस्य सर्वैरपि यनिदेशाः ॥
अम्भोधिवेलास्वपि न स्खलन्ति शम्भोः प्रियेऽयं तव दृक्प्रसादः ॥१५॥

कस्येति- शम्भोः प्रिय देवि, सर्वैरपि मानवैः वाचा वपुषा शरीरेण लेन वीर्येण च समस्य तुल्यस्य कस्यापि पुरुषस्य निदेशाः शासनानि अम्भो- धिवेलासु अपि समुद्रनीरविकारेष्वपि ’अम्बुविकृतौ वेला कालमर्यादयोरपि’ इत्यमरः, न स्खलन्ति न स्खलितानि विफलानि भवन्तीति यत् अयं तव दृक्प्रसादः दृशः दृष्टे: प्रसादोऽनुग्रहः। वाक्शरीरबल: सर्वैः मानवैः समानः न तु विशिष्ट: पुरुषः अधृष्यगम्भीरसागराणां कल्लोलितानामपि नियमनं कर्तुं प्रभवति। बाह्यदृष्टे: साधारण इव दृश्यमानः पुरुषोऽपि त्वत्प्रसादेन उल्लोलेषु सागरेष्वपि आज्ञां करोतीति भावः । सेतुबन्धादिरत्र निदर्शनम् ॥१५॥

द्वारेषु तेषां विचरन्ति शूराः सौधेषु सारङ्गशस्तरुण्यः ॥
प्रगल्भवाचः कवयः सभासु शर्वाणि ते येषु कृपाकटाक्षः ॥१६॥

द्वारेष्विति- शर्वाणि, शर्वपत्नि, देवि, येषु ते तव कृपाकटाक्षः, करुणा-वाही कटाक्षः भवतीत्यध्याहार्यं तेषां द्वारेषु गृहद्वारेषु शूराः वीराः विचरन्ति वीरपुरुषसमाश्रयाः ते विक्रान्ता राजानो भवन्ति इत्यर्थः । तेषां सौधेषु प्रासादेषु सारङ्गदृशः मृगीदृशः सुन्दर्यस्तरुण्यो युवतयो भवन्तीत्यध्याहार्यम्, विलसन्तीत्यर्थः। बहुपुण्यफलभोगाः श्रीमन्तो भवन्तीति भावः । तेषां सभासु परिषत्सु राजसदस्सु प्रगल्भवाचः प्रगल्भा अतिप्रौढा वाक् सरस्वती येषां ते कवयः काव्यब्रह्माण: भवन्तीत्यध्याहार्यम् । काल्याः शौर्य, लक्ष्म्याः सम्पत्, सरस्वतीतो विधेति पादत्रयेण क्रमशः एतत्त्रयं कटाक्षवता पुरुषेण लभ्यत इत्यर्थः। अनेन काली-लक्ष्मी-सरस्वतीमूर्तिविभूतिभितः शर्वाणी-कटाक्ष इति गम्यते ॥१६॥

यत्राम्ब ते कोऽपि कटाक्षलेशः स दुर्जयः सङ्गरसोम्नि शूरः ॥
पूर्व दिवं पूरयति द्विषद्भि- स्ततो यशोभिर्भुवमिन्दुगौरैः ॥१७॥

योति- अम्ब, यत्र यस्मिन् जने ते तव कोऽपि यः कोऽपि कटाक्ष-लेशः कटाक्षलवः वर्तते इत्यध्याहार्यम्, स सङ्गरसीम्नि युद्धरङ्गे दुर्जयः दुःखेन जेतुं शक्यः शूरो वीरः सन् पूर्व प्रथमं दिवं स्वर्गलोकं द्विषद्भिः शत्रुभिर्वीरैः पूरयति, स्वर्गं शत्रुवीरपूरितं करोतीत्यर्थः । पराजितस्यापि वीरस्वर्गलाभः प्रसिद्धः। ततः अनन्तरं भुवं भूलोकम् इन्दुगौरैः इन्दुः सितांशुरिव गौराः तैः शुभैः यशोभिः पूरयतीति शेषः। कटाक्षवतो जनस्य महोन्नतशौर्यप्राप्तिप्रस्तावेन कटाक्षस्य कालीवैभवम् उक्तं भवति। पूर्वं द्विषतां स्वर्गप्रापणं, ततो भुवः शुभ्र-यशोभिः पूरणमिति कथनात् कार्यशैघ्रयप्रत्यायनार्था अतिशयोक्तिरलङ्कारः ॥१७॥

यं तारकाकान्तकलापकान्ते न लोकसे कोऽपि न लोकते तम् ॥
यं लोकसे तेन विलोकितोऽपि श्रियं समृद्धां समुपैति लोकः ॥१८॥

यमिति- तारकाकान्तस्य चन्द्रस्य कला भागः कलापो भूषणं यस्य तस्य कान्ते, रमणि, भगवति, यं जनं न लोकसे त्वं न पश्यसि तं न कोऽपि लोकते, सोऽविदितः सर्वैरुपेक्ष्यो भवति । अश्रीः अनामधेयः सर्वथोपेक्षितो भवतीति भावः। यं जनं लोकसे वीक्षसे तेन त्वल्लोकितजनेन विलोकितः वीक्षितोऽपि लोक: जनः ’लोकस्तु भुवने जने’ इत्यमरः, समृद्धां पुष्कलां श्रियं सम्पदं समुपैति प्राप्नोति। यस्मिन् कस्मिंश्चित् जने तव दृष्टे: सम्पर्क साक्षादसत्यपि, परम्परया सति तु स एवाश्रयो भवत्येषाम् आश्रितानामिति भावः। अनेन कटाक्षस्य लक्ष्मीविभूतिः प्रस्तुता ॥१८॥

सुधां हसन्ती मधु चाक्षिपन्ती यशो हरन्ती वनिताधरस्य ॥
परिष्करोत्यस्य कवित्वधारा मुखं हरप्रेयसि लोकसे यम् ॥१९॥

सुधामिति- हरप्रेयसि, शिवकान्ते, देवि, यं लोकसे त्वमीक्षसे, अस्य तस्य जनस्य मुखं वदनं ’वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्’ इत्यमरः, वाचम् इति यावत् कवित्वधारा काव्यसम्पात: परिष्करोति भूषयति । कथम्भूता कवित्वधारा ? सुधां हसन्ती अमृतमुपहसन्ती स्वोत्कर्षात्, मधु च मकरन्दं च आक्षिपन्ती प्रतिषेधन्ती, वनिताधरस्य योषिज्जनानाम् अधरोष्ठस्य यशः कीर्ति लोभनीयानुत्तरमधुमधुरमधरमिति सिद्धां ख्यातिमिति यावत्, हरन्ती अप-हरन्ती कवित्वधारा परिष्करोतीति सम्बन्धः । अनेन सरस्वतीविभतिमत्ता कटाक्षस्योक्ता। हसनाक्षेपणहरणान्युपमावाचकानि प्रागुपन्यस्तानि। एकस्याः कवित्वधारायाः बहूपमानदर्शनात् मालोपमाऽलङ्कारः ॥१९॥

सर्वेन्द्रियानन्दकरी पुरन्ध्री विद्याऽनवद्या विपुला च लक्ष्मीः ॥
इयं त्रिरत्नी पुरुषस्य यस्य दुर्गे त्वया दृष्टमिमं तु विद्मः ॥२०॥

सर्वेति- दुर्गे, देवि, सर्वेषाम् इन्द्रियाणां भोगकरणानाम् आनन्दं सम्मदं करोति इति सर्वेन्द्रियानन्दकरी पुरन्ध्री स्त्री सर्वलक्षणसम्पन्नशरीरान्तरङ्गा रमणीति यावत्, अनवद्या निर्दुष्टा शुद्धा विद्या, विपुला बहुला लक्ष्मीः सम्प-च्च इयं त्रिरत्नी त्रयाणां रत्नानां श्रेष्ठानां स्त्र्यादीनां समाहारः त्रिरत्नी यस्य पुरुषस्य भवतीत्यध्याहार्यम्, इमं तं पुरुषं त्वया दृष्टम् अवलोकितं विद्यः जानीमः । त्वत्करुणाकटाक्षं विना एकस्य इदं त्रयं न सम्भवतीति भावः ॥२०॥

मुधा क्षिपस्यद्रिसुते कटाक्षान् कैलासकान्तारमहीरहेषु ॥
इतः किरेषत्तव नास्ति हानिः सिद्धचत्यभीष्टं च समस्तमस्य ॥२१॥

मुधेति- अद्रिसुते पर्वतपुत्रि, कैलासकान्तारमहीरुहेषु कैलासप्रान्तारण्य-वृक्षेषु कटाक्षान् दृगन्तदृष्टी: मुधा वृथा क्षिपसि किरसि । इत: इह जने ईषत् किञ्चित् किर क्षिप। तव हानिर्नास्ति तथेषत्कटाक्षक्षेपेणेत्यर्थः । न केवलं तव हानिर्न, किन्तु अस्य जनस्य समस्तं सकलमभीष्टम् ईप्सितं सिद्धयति सिद्धं भवतीत्यर्थः । कटाक्षपातेन तव किमपि न हीयते मम तु महान् लाभः। ततो याचे ॥२१॥

शीताचलाधीशकुमारि शीतः संरक्षणे संश्रितमानवानाम् ॥
दुर्धर्षदुष्टासुरमर्दनेषु नितान्तमुष्णश्च तवावलोकः ॥२२॥

शीतेति- शीताचलाधीशकुमारि ! शीतशैलेश्वरकन्ये पार्वति, तव अव-लोकः दृष्टिपात: संश्रितमानवानां त्वामाश्रितमनुजानां संरक्षणे अवने शीत: शीतल: दयार्द्रः इति यावत्। दुर्धर्षदुष्टासुरमर्दनेषु दुःखेन धर्षयितुं शक्यानां दुर्धर्षाणां दुर्जयानां दुष्टानामसुराणां मर्दनेषु ताडनेषु नितान्तम् उष्णश्च तीव्रो भवन् तापद इति भावः । एक एव अवलोक: शीत: उष्णश्च निमित्तभेदा-द्भवतीत्यर्थः । एकस्य द्विधोल्लेखनादुल्लेख: अलङ्कारः ॥२२॥

रुषा समेतं विदधाति नाशं करोति पोषं कृपया सनाथम् ॥
अम्बौषधस्येव तवेक्षितस्य योगस्य भेदेन गुणस्य भेदः ॥२३॥

रुषेति- रुषा रोषेण समेतं युक्तं, नाशं विदधाति, ईक्षितमिति विभ-क्तिव्यत्ययेन कर्तृपदमध्याहार्यम्, ईक्षितस्येत्युत्तरार्धे प्रयोगात्। कृपया सनाथं सहितं पोषं करोति पुष्णाति इत्यर्थः । अम्ब, औषधस्य भेषजस्य योगस्य प्रमाण-भेदादिसाध्यद्रव्यविशेषसंयोजनस्य भेदेन गुणस्य वात-पित्त-कफघ्नतादिगुणस्य भेद इव, तव ईक्षितस्य योगस्य रुषादिसंयोगस्य भेदेन गुणस्य विनाशादिगुणस्य भेदः । तवेक्षितं रोषयोगेन विनाशं करोति, कृपायोगेन पोषं करोतीतीममर्थम् औषधस्य योगविशेषेण गुणभेद इवेति उपमया चमत्करोति । योगगुणशब्दौ श्लिष्टौ ॥२३॥

नाशाय तुल्योद्धतकामलोभ- क्रोधत्रिदोषस्य भवामयस्य ।
शिवप्रिये वीक्षितभेषजं ते क्रीणानि भक्त्या वद भोः कियत्या ॥२४॥

नाशायेति- शिवप्रिये ! देवि तुल्यं समानम् उद्धताः दृप्ताः प्रकुपिताश्च काम-लोभ-क्रोधा एव त्रिदोषाः वात-पित्त-कफा यस्य तस्य भवामयस्य भवो जन्मैव आमयः रोगः तस्य ते तव वीक्षितभेषजं वीक्षितमेव भेषजम् औषधं तत् कियत्या भक्त्या क्रीणानि क्रयेण आददे, कियत् भक्तिमूल्यं दत्वा तत् सम्पादयेयं भोः वद भण। तुल्यमुद्धतानां काम-लोभ-क्रोधानां तुल्यधातुप्रकोपा-त्मकसन्निपातविशिष्टत्रिदोषस्थानीयत्वं, भवस्यामयस्थानीयत्वं, वीक्षितस्य भेषजस्थानीयत्वं, भक्तेः क्रीणानीति क्रियार्थसामर्थ्याक्षिप्तक्रयधनस्थानीयत्वं च विवेकेन ग्राह्यम्। सावयवं ताद्रूप्यरूपकम् ॥२४॥

अभिष्टुतां चारणसिद्धसङ्घ- स्त्रिष्टुविशेषा अपि मर्त्यसूनोः ॥
कृपाकटाक्षविनतान्पुनानां कदिनः सम्मदयन्तु कान्ताम् ॥२५॥

अभिष्टुतामिति- मर्त्यसूनोः मानवपुत्रस्य मानवगर्भजस्येति यावत्, त्रिष्टुब्विशेषाः त्रिष्टुप्छन्दःप्रस्तारगाः वृत्तविशेषाः अपि, एते मानुषगर्भजेन स्तुता अपीत्यर्थः, चारणानां सिद्धानां च सङ्घरभिष्टुतां स्तुतां, कृपाकटाक्षः विन-तान् प्रणतान् आश्रितान् पुनानां पूतान् कुर्वाणां कपर्दिनः शिवस्य कान्तां पार्वती सम्मदयन्तु आनन्दयन्तु ।।

अत्र स्तबके उपजात्युपेन्द्रवज्रावृत्तानि पद्यानि। अतस्त्रिष्टुब्विशेषा इति प्रयुक्तम्। उभयोरपि त्रैष्टुभत्वात्। देवयोनिविशेषैः चारणादिभिः स्तव्या स्तुता च इह मयेन आभिः त्रिष्टुब्भिः स्तुताऽपि आनन्दं लभत एवेति दृढ-धिया तां सम्मदयन्त्विति कवेराशंसा ॥२५॥

त्रयोदशः स्तबकः सव्याख्यः समाप्तः ।।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates