उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni
त्रयोविंशश्चतुर्विंशश्च प्रकीर्णकस्तबकौ। तत्रायं गायत्रीगर्भितः । ’तत्-’ इत्यादि यात्’अन्ताः चतुर्विंशतिवर्णाः क्रमशः पद्यानां तृतीयपादेषु चतुर्थवर्णाः सन्दृश्यन्ते ॥
किरदिवामृतं किरणमालया। जयति तत्सितं शिववधूस्मितम् ॥१॥
किरदिति- किरणमालया अंशसमूहेन अमृतं किरदिव वर्षदिव स्थितं सितं शुभ्रं तत् प्रसिद्धम् अस्माभिः स्तबकानामादौ स्तूयमानं शिववधूस्मितम् उमादेव्याः मन्दहसितं जयति। सितस्मितप्रसारस्य अमृतवर्षणसम्भावनाया उत्प्रेक्षा स्फुटोऽलङ्कारः। तेन शिववधूमुखस्य चन्द्रेणोपमा गम्यते। ॥१॥
तव पदं परे मम गुहान्तरे॥ स्फुरतु सर्वदा विकसितं मुदा ॥२॥
तवेति- परे उत्तमे ! तव पदं चरणं मम गुहान्तरे गुहायाः अन्तरे हृदयास्यान्तः इत्यर्थः हृदयस्य गुहात्वेन श्रूयमाणत्वात् ’निहितं गुहायाम्’ इत्यादि वचनं श्रुतिप्रसिद्धम्, मुदा प्रीत्या विकसितम् उन्मीलितं सत् सर्वदा अविरतं स्फुरतु ज्वलतु ॥२॥
पदमधोऽम्बुजा- न किल भिद्यते॥ मदनविद्विषः सदनराज्ञि ते॥३॥
पदमिति- मदनविद्विषः कामारे: शिवस्य सदनराज्ञि गृहेश्वरि, अम्ब ! ते तव पदं चरणम् अधोऽम्बुजात् ऊर्ध्वाम्बुजं सहस्रारं तदपेक्षया अधोऽम्बुजं हृदयं तस्मान्न किल भिद्यते नैवान्यद्भवति। तव पदमेव कमलं भवति, अत एव तत्सर्वदा ममान्तरे विकसितं स्फुरत्विति मया प्रार्थितम् । ‘पदमदो-ऽम्बुजात्’ इति पाठे, अदः ते पदम् अम्बुजात् सहस्रारात् न भिद्यते ॥३॥
विभुतयोररी- कृतबहूद्भवौ ॥ विदधतुर्जग स्त्रयमिदं शिवौ ॥४॥
विभुतयेति- विभुतया व्यापितया सर्वव्यापकभावाद्धेतोः उररीकृतबहू-द्भवौ उररीकृतः अङ्गीकृतः बहूनाम् उद्भवः सम्भवः याभ्यां तौ शिवौ पार्वती-परमेश्वरौ इदं जगत्त्रयं भूर्भुवःस्वराख्यं त्रिभुवनं विदधतुः निर्ममाते। सर्व-व्यापकत्वात् नानात्वाङ्गीकारेण त्रैलोक्यविधातारावभूतामित्यर्थः ॥४॥
तव तु खेलने नलिनजाण्डकम् ।। गिरिशवल्लभे भवति कन्दुकम् ॥५॥
तवेति- गिरिशवल्लभे शिवप्रेयसि ! यद्यपि युवाभ्यां विभुभ्यां विहितं जगत्त्रयं, तु तथाऽपि तव खेलने क्रीडने नलिनजाण्डकं ब्रह्माण्डमिदं कन्दुकं क्रीडावस्तु भवति ॥५॥
सकलमस्त्युमे सदभयङ्करे ॥ तव करे परे किमपि नो नरे॥६॥
सकलमिति- उमे भगवति सदभयङ्करे ! सतां सज्जनानाम् अभयङ्करे रक्षाप्रदे परे उत्तमे तव करे हस्ते सकलमस्ति, नरे मनुजे किमपि नो नास्ति, सर्वं त्वदायत्तम् । यत्किमपि मनुजायत्तं दृश्यमानमपि मानुषमात्रस्य वशे नास्ति किमपीत्यर्थः ॥६॥
किमिव वर्ण्यतां कशशिकुण्डला॥ उडुमणिस्रजा- प्रविलसद्गला ॥७॥
किमिवेति- कशशिकुण्डला क: सूर्यः शशी चन्द्रश्च कुण्डलो कर्णा-लङ्कारौ यस्याः सा ’मारुते वेधसि बध्ने पुंसि कः कं शिरोऽम्बुनोः’ इत्यमरः । उडुमणिस्रजाप्रविलसद्गला उडून्येव नक्षत्राण्येव मणयः रत्नानि तेषां स्रजया मालया प्रविलसन् उज्ज्वलन् गल: कण्ठो यस्याः सा, किमिव वर्ण्यताम् ? वर्णयितुं कथं शक्यते सा देवी यस्याः अत्युज्ज्वलात्यन्तदूरस्थानि सूर्य-चन्द्र-नक्षत्राणि कर्णभूषण-कण्ठमालापदानि भजन्ते ? अमेया बृहती अत्युज्ज्वला देवीति भावः ॥७॥
भण निरन्तरं बहुगुणामुमाम् ॥ गतभयं विधे- हमलवाणि माम् ॥८॥
भणेति- अमलवाणि! अमले शुद्धे वाणि वाक् भोः सम्बुद्धिः, बहु-गुणाम् अगण्यगुणगणाम् उमाम् उमेति नाम निरन्तरं सदा भण उच्चारय । एवम् उमानामभणितेन माम् इमं गतभयं गतं भयं यस्मात् तं भयवर्जितं विधेहि। सर्वदोमानामकीर्तनेन भीतिः सर्वा पलायते इति भावः ।।८।।
अव जहीहि वा ननु भजाम्यहम्॥ भुवनत्रि ते चरणमन्वहम् ॥९॥
अवेति- अव रक्ष जहीहि वा त्यज वा, भोः भुवनभत्रि जगद्धात्रि अम्ब ! अहम् अन्वहम् अहन्यहनि प्रतिदिनं ते तव चरणं पादं भजामि ननु सेवे एव। मम त्वत्पादभजनं नित्यं स्यात्। रक्षणमरक्षणं वा त्वदिच्छा-धीनम् । रक्षणफलनिरपेक्षभजनं मम स्वाभाविकमभूत्। तदपि तत्प्रसाद एवेति बोध्यम् ॥९॥
गणपतेः शिरः-कमलचुम्बिनी॥ भवतु गोपति- ध्वजकुटुम्बिनी ॥१०॥
गणपतेरिति- गोपतिध्वजकुटुम्बिनी गोपतिध्वजस्य वृषभध्वजस्य कुटु-म्बिनी गृहिणी देवी गणपतेः मम शिरःकमलं सहस्रारकमलं चुम्बतीति शिर:-कमलचुम्तिनी भवतु। योगविभवाद्विकसितं गणपतिशिरःकमलं मकरन्दभरित-मिति गम्यते। तदादानक्षमः देवीवक्त्रसंयोगः । ततः सा मधुकरायतामिति चुम्बनार्थसामर्थ्यात् आक्षिप्यते। देव्याः सर्वभोक्तृत्वं भक्तस्य योगिनः भोग्य-त्वं चोक्ते भवतः ॥ १०॥
दहरमज्जनं विदधतं जनम् ॥ परमदेवते नयसि धाम ते ॥११॥
दहरेति- परमदेवते परमे देवि ! दहरमज्जनं दहराख्ये हृदये मज्जनम् अवगाहनं विदधतं कुर्वाणं जनं हृदयस्थवस्तुलाभाय कूपे मज्जन्तं जनमिवे-त्यर्थः, ते तव धाम स्थानं नयसि प्रापयसि । त्वमेव हृदयगं परं वस्त्विति भावः ॥११॥
जननि विज्ञता भवतु धीमताम् ॥ अनुभवस्तु ते करुणया सताम् ॥१२॥
जननीति- जननि मातः ! धीमतां बुद्धिमतां जनानां विज्ञता पाण्डि-त्यं भवतु अस्तु, तु किंतु सतां सज्जनानाम् अनुभवः तत्त्वोपलब्धिः ते तव करुणया कृपया भवति इत्यध्याहार्यम्। पण्डितानां शास्त्रीय ज्ञानमेव स्यात्, तत्त्वसाक्षात्कारस्तु भगवतीप्रसादलभ्यः । पण्डितोऽपण्डितो वा सज्जन एव तस्य प्रसादस्य पात्रं भवति । यद्वा, धीमतां विज्ञता भवतु, ते अनुभवस्तु सतां करुणया भवति, सत्पुरुषद्वारा भगवत्यनुग्रहलाभप्रसिद्धः ॥१२॥
अचलया धिया हृदि गवेषणम् ॥ वृषहयप्रिया- नगरशोधनम् ॥१३॥
अचलयेति- अचलया निश्चलया एकाग्रयेत्यर्थः, धिया बुद्धया हृदि हृदये गवेषणम् अन्वेषणम् उद्देश्यं वृषहयप्रियानगरशोधन विधेयं वृषहयस्य वृषभवाहनस्य प्रियायाः पार्वत्याः नगरस्य पुरस्य आवासस्थलस्य संवित्स्थान-स्येति यावत्, शोधनं परीक्षणं गवेषणकर्मैव हृदयशोधनं भवतीत्यर्थः। हृदये शुद्धे तत्र सिद्धा भगवती साक्षात्कृता स्यात् ॥१३॥
न विजहामि ते चरणनीरजम्॥ अवनि धीमता मव न वा निजम् ॥१४॥
नेति- धीमताम् अवनि बुद्धिमज्जनरक्षिणि, देवि! ते तव निजं स्वं चरणनीरजं पादपङ्कजं न विजहामि न त्यजामि, अव पाहि वा न वा ॥१४॥
पदमुमेऽम्ब ते हृदि विचिन्वते॥ पलितमस्तकाः परमदेवते ॥१५॥
पदमिति- परमदेवते उमे अम्ब! पलितमस्तकाः पलितं मस्तकं येषां ते, पलितं जरसा जातं केशशौक्लयं, पलितकेशमस्तकाः वृद्धाः ते तव पदं हृदि हृदये विचिन्वते मार्गयन्ते। वर्षपूगध्यानरतानां वयोवृद्धया मस्तकानि पलितकेशानि जायन्ते। त्वं सर्वेषां न सुलभा। ध्यायध्यायं देहो वयसा जीर्यति ॥१५॥
स्वयमनामये सकलधात्र्यसि ॥ निजमहिम्नि सा त्वमयि तिष्ठसि ॥१६॥
स्वयमिति- ध्यातृणाम् एवं कालवशात् जरा आपतति त्वदलाभात्, त्वं तु स्वयम् अनामये अरोगे नित्यकुशले सकलधात्री असि सर्वपोषिणी भवसि । सा तथाविधा त्वं निजमहिम्नि स्वे महिम्नि महत्त्वे अस्पृष्टामये तिष्ठसि । तस्मात्तव न कापि क्षतिः, यावन्न तव महामहिम्नि स्थितिं लभते, ताव-द्रोगादि जराहेतुं भजमान एव भवति देहो जनस्येति भावः ॥१६॥
स्थितिमसाधर्य- स्तव पदाम्बुजे॥ विधिमधिक्षिप-त्यलसधीरजे ॥१७॥
स्थितिमिति- अजे तव पदाम्बुजे स्थिति स्थिरां निष्ठाम् असाधयन् असम्पादयन् अलसधीः अलसा मन्दा धीः मतिः यस्य सः जडमतिः जनः विधि दैवम् अधिक्षिपति प्रतिक्षिपति उपालभत इति यावत् । त्वच्चरणस्थिति-लब्धये पुरुषकारोऽवश्यः, तत् अजानन् मन्दः दैवं तत्र हेतुरिति गर्हते ॥१७॥
स्यतु मदापदं शिववधूपदम् ॥ यदृषयो विदु- स्त्रिभुवनास्पदम् ॥१८॥
स्यत्विति- शिववधूपदं पार्वतीचरणं मदापदं मम विपदं स्यतु अन्तयतु । षो अन्तकर्मणीति धातोर्लोटि रूपम्। यत् शिववधूपदं कर्म, ऋषयः मुनयः त्रिभुवनास्पदं त्रैलोक्याश्रयस्थानं विदुः जानन्ति ॥१८॥
गुणगणं गृण- स्तव शिवे शिवम् ॥ गतभयोऽभवं मदमितो नवम् ॥१९॥
गुणगणमिति- शिवे, अम्ब ! तव गुणगणं शिवं कल्याणं गुणगणं गुणानां गणं समूहं गृणन् स्तुवन्, नवं नूतनं मदं हर्ष ’हर्षेप्यामोदवन्मदः’ इत्यमरः, इत: गतोऽहं गतभयः भयवर्जितः अभवम् । स ते कल्याणगुणगणस्तवमहिमा येनाभिनवहर्षलाभो भयप्रणाशश्च भवतः ॥१९॥
तव कृपावशात् तदिदमव्यये॥ जननि नः प्लुति स्तव यदज्रये ॥२०॥
तवेति- अव्यये अक्षये जननि मातः ! तव अघ्रये चरणाय नः अस्माकं प्लुतिः प्लवनम् उत्पतनं भवतीति यत् तदिदं तव कृपावशात् भव-तीति शेषः। अस्माकं त्वच्चरणोन्मुखगमनं त्वत्करुणाविलासादेव सम्भवति, नेहास्माकं पौरुषं हेतुरिति भावः ॥२०॥
नयनदृश्ययो- रयि यदन्तरम् ॥ तदमरस्तुते तव वपुः परम् ॥२१॥
नयनेति- अयि अमरस्तुते देवविनुते ! नयनदृश्ययोः, नयनस्य दर्शनं कुर्वतो नेत्रस्य दृश्यस्य दर्शनविषयस्य च यदन्तरं यन्मध्यं योऽवकाश इत्यर्थः, तत्तव परं वपुः उत्तमं शरीरं भवति । दृग्-दृश्ययोरन्तरं आकाशमेव भवति, वस्तुतः दृग्-दृश्यान्तरं चिन्मयमाकाशं विदुः। दृग्-दृश्ययोरन्तरस्य दर्शन-क्रियाव्याप्यत्वात् दर्शनस्य ज्ञानरूपत्वाच्च । तस्मात् चिदाकाशो वपुः परं परस्या देव्या इति बोध्यम् ॥२१॥
अहमिति स्मृतिः क्व नु विभासते॥ इति विचोदयन् महति लीयते ॥२२॥
अमृतसञ्जके सुखचिदात्मके॥ मतिमथिते जननि धाम्नि ते॥२३॥
(युग्मम्) अहमिति- अहम् इति स्मृतिः स्मरणं क्व नु कुत्र विभासते इति विचोदयन् वृत्ति प्रेरयन् विचारयन्नित्यर्थः, पुमान् महति बृहति, अमृत-सञ्जके अमृतं सज्ञा नाम यस्य तस्मिन् सुखचिदात्मके सुखं चित् च आत्मा स्वरूपं यस्य तस्मिन् मतिमथिते बुद्धिमद्भिः प्राथिते ते तव धाम्नि स्थाने लीयते लीनो भवति। अहमिति धियो भानं क्व, क्वेदमहम्प्रत्ययास्पदमिति सूक्ष्मया बुद्ध्या विचारयन् पुरुषः अमृताभिधाने चिदानन्दस्वरूपे तव स्थाने लयं प्राप्नोतीति भावः ॥२२-२३॥
अयि मुदास्पदं स्पृशति ते पदम् ॥ श्वसितयात्रया सततदृष्टया ॥२४॥
अयीति- सततदृष्टया सततं सदा दृष्टया वीक्षितया श्वसितयात्रया श्वसितस्य प्राणवायोः यात्रया गत्यागतिरूपयेत्यर्थः, साधनेन मुदास्पदं मुदः प्रीतेः आस्पदं स्थानं ते तव पदं चरणं स्पृशति, साधक इति शेषः । श्वासस्य यातायातविहारान्ववेक्षणेन साधनेन आनन्दनिलयं तव पदम् अश्नुते कृतीति भावः ॥२४॥
दषतु सत्कवे-गणपतेरिमाः॥ नगभुवो मुदं नरमनोरमाः॥२५॥
दधत्विति- सत्कवेः, अदुष्टस्य शब्दार्थमाधुर्यादिगुणवतः काव्यस्य रच-यितुः गणपतेर्मम इमाः नरमनोरमाः एतद्वृत्तकलिताः स्तुतयः नगभुवः पार्वत्याः मुदं प्रीतिं दधतु बिभ्रतु ॥२५॥
त्रयोविंशः स्तबकः सव्याख्यः समाप्तः ।।
Home
Disciples
T V Kapali Sastry
Books
Share your feedback. Help us improve. Or ask a question.