ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




त्रयस्त्रिंशः स्तबकः

त्रयस्त्रिशेऽस्मिन् स्तबके मन्त्रमूर्तिभेदानां स्वरूपफलोपन्यासेन तज्जपानां मन्त्रयोगे पर्यवसानं प्रदर्श्य, जपो योगोऽर्पणम् इति त्रयं च प्रतिपादयति ॥

सुधां किरन्तोऽखिलतापहारिणीं तमो हरन्तः पटलेन रोचिषाम् ॥
श्रियं दिशन्तो दिशि विश्यसङक्षयां जयन्ति शीताद्रिसुतास्मिताङकुराः ॥१॥

सुधामिति- अखिलतापहारिणी सर्वदुःखशमनीं तापत्रयशमनी पक्षे धर्मो-पशमनीं सुधां किरन्तः विक्षिपन्तः, रोचिषां महसां पटलेन समूहेन तमः तिमिरं बाह्यं पक्षे आन्तरम् अज्ञानं हरन्तः निवारयन्तः दिशि दिशि सर्वत्र दिक्षु असङक्षयां क्षयरहितां श्रियं शोभां पक्षे सम्पदं दिशन्तः प्रदर्शयन्तो शीताद्रि-सुतास्मिताङकुराः पर्वतराजपुत्र्या मन्दहासा: जयन्ति उत्कर्षेण वर्तन्ते। सुधा-तमः-श्रीपदेषु श्लेषः। तेन स्मिताङकुरार्थसामर्थ्यात् शीताद्रिसुतावदनस्य चन्द्रत्वमाक्षिप्यते। श्लिष्टं रूपकमलङ्कारः ॥१॥

कृपाकटाक्षस्तव केन वाऽऽप्यते महेशशुद्धान्तपुरन्नि कर्मणा ॥
निरन्तरं मन्त्रजपेन वा मते- विशोधनेनोत मनोर्पणेन वा ॥२॥

कृपेति- महेशशुद्धान्तपुरन्धि महेश्वरान्तःपुरमहिषि ! तव कृपाकटाक्षः करुणादृगन्तपात: केन वा कर्मणा अनुष्ठितेन आप्यते लभ्यते ? निरन्तरम् अनवरतं मन्त्रजपेन मन्त्रपुरश्चरणेन वा, उत मते: विशोधनेन चित्तशोधनेन वा, मनोर्पणेन वा, आहोस्वित् चित्तस्यैव सम्पूर्णार्पणेन वा इति विकल्पेन प्रश्नः क्रियते। एवम् उपायत्रयम् उपन्यस्य, तस्य प्रत्येकं फलमाह विशो-धनादित्यादिना ॥२॥

विशोधनाद्देवि मतेः प्रगृह्यसे मनोर्पणेनेशवधु प्रसीदसि ॥
जपेन मन्त्रस्य शुभस्य वर्षसे जगत्त्रयोधात्रि कलेबरान्तरे ॥३॥

विशोधनादिति- जगत्त्रयीधात्रि त्रिलोकभत्रि देवि ! मतेः बुद्धेः विशो- धनात् प्रगृह्यसे प्रकर्षण गृह्यसे, विचारेण मतौ परीक्षितायाम् असद्वृत्तयः पलायिताः भवन्ति सद्वृत्तिरेका बोधस्वरूपिण्यवशिष्यते। तत्र बोधे देवी गृहीता भवति। ईशवधु ईश्वरकान्ते ! मनोर्पणेन मनस एव सम्पूर्णदानेन प्रसीदसि प्रसन्ना भवसि। मनोर्पणेन देव्यामेव सर्वो भारो न्यस्तो भवति। ततः प्रीता माता प्रसन्ना स्वयं कर्तव्यं कर्तुं भारं वहतीत्यभिप्रायः। शुभस्य मन्त्रस्य महामन्त्रस्य श्रीविद्यादेः पञ्चाक्षराष्टाक्षरादेः प्रणवस्य वा न तु क्षुद्र-मन्त्रस्य जपेन कलेबरान्तरे जप्तुः शरीरान्तरे वर्धसे वृद्धि प्राप्नोषि। सोऽयं जपमहिमा येन जप्तुः शरीरे भगवती पुरश्चरणबलानुगुण्येन स्वयम् अभि-व्यज्यते ॥३॥

मनःप्रतापस्य भवत्यसंशयं प्रवर्धनं वैदिकमन्त्रचिन्तनम् ॥
प्रशस्यते प्राणमहःप्रदीपने दयान्विते तान्त्रिकमन्त्रसेविता ॥४॥

मन इति- दयान्विते कृपालो अम्ब ! वैदिकमन्त्रचिन्तनं वैदिकानां तत्सवितुरित्यादीनां मन्त्राणाम् ऋषिदृष्टानां चिन्तनं ध्यानं मनःप्रतापस्य चित्त-प्रभावस्य प्रवर्धनं भवति, असंशयं नेह सन्देहो भवति । वेदमन्त्राणां वाक्य-बन्धात्मकतया तान्त्रिकमन्त्रापेक्षया विशिष्टम् अर्थप्राधान्यं बोध्यम् । मन्त्रा-र्थविचाराद्वोधो जायते । अतः मनःप्रतापवर्धनम् इत्युक्तम्। तान्त्रिकमन्त्र-सेविता तान्त्रिकमन्त्रान् श्रीविद्यादीन् सेवितुं शीलमस्येति तान्त्रिकमन्त्रसेवी तस्य भावः तान्त्रिकमन्त्रसेविता तान्त्रिकमन्त्रोपासनमित्यर्थः, प्राणमहःप्रदीपने प्राणमहसः प्राणतेजसः प्रदीपने प्रज्वलने विषये प्रशस्यते प्रशस्ततया कीर्त्यते इति भावः। तान्त्रिकमन्त्राणां ह्रीङ्कारादिबीजाक्षराणां पुरश्चरणेन प्राण-नाडीविशुद्धिद्वारा नादाभिव्यक्तौ जातायां प्राणप्रभावो विजृम्भते। तथा च प्रागुक्तम्-- ’वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती’ इति (स्त. २० श्लो. १७) ॥४॥

तवाम्बिके तान्त्रिकमन्त्रमुत्तमं स्तवातिगं यः कनकाङ्गि सेवते ॥
विचित्रयन्त्रादिव वैद्युतं मह स्ततो विनिर्यद् भुवनं विगाहते ॥५॥

तवेति- कनकाङ्गि स्वर्णशरीरे अम्बिके ! यः स्तवातिगं स्तोत्रातीतम् उत्तम श्रेष्ठं तव तान्त्रिकमन्त्रं सेवते उपास्ते, ततः तस्मादुपासकात् विचित्र- यन्त्रादिव अद्भुतयन्त्रादिव वैद्युतं विद्युतस्तटित इदं महो ज्योतिः विनिर्यत् विनिर्गच्छद् भुवनं जगत् विगाहते विशिष्य प्रविशति। पूर्वश्लोके तान्त्रिक-मन्त्रस्य प्राणज्वलने प्रशस्तिरुक्ता। सेह उपमया व्याख्याता । यथा लोके भौतिकसामग्रीभिरद्भ्यो विद्युच्छक्ति जनयितुं यन्त्रविशेषो निर्मीयते तस्मात् यन्त्राद्विधुच्छक्तिराविष्कृता बहिर्जगति प्रसरति, तथा तान्त्रिकमन्त्रसाधनेन साधकात् वैद्युतज्योतिराविष्कृतं सत् बहिः सर्वतः प्रसरतीत्यभिप्रायः ॥५॥

न तस्य चेतो विकृतेर्वशे भवे न तस्य दृष्टिविषयविकृष्यते ॥
न तस्य रोगैरपकृष्यते वपुः सवित्रि यस्ते भजते महामनुम् ॥६॥

नेति- सवित्रि मातः ! यः ते तव महामनु महामन्त्रं भजते सेवते, तस्य चेतः मन: विकृतेर्वशे न भवेत् विकाराधीनं न स्यात्, न विक्रियत इति यावत् धीरो भवति इत्याशयः । तस्य दृष्टि: विषयः न विकृष्यते, दृष्टिरिति बुद्धयुपलक्षणं तस्य बुद्धि बलात् आक्रष्टुं न प्रभवन्ति। तथाविधो बलवान् स भवति इत्याशयः । तस्य वपुः शरीरं रोगैः व्याधिभि पकृष्यते । व्याधि-भिरबाधितं भवति तस्य शरीरम्। योगाग्निमयं भवति तस्य देहमिति भावः । ’न तस्य रोगो न जरा न मृत्यु : प्राप्तस्य योगाग्निमयं शरीरम्’ इति हि श्रूयते। कस्तर्हि स महामनुः यस्य साधनेन चेतोविकार-विषयाकृष्टि-रोगाणां तिरस्कारो भवति ? आहोत्तरश्लोकेन ॥६॥

स्मरन्ति मायां गगनाग्निशान्तिभिः सहाच्छभासा सहिताभिरम्बिके ।
तथा रसज्ञां द्रुहिणाग्निशान्तिभि- भणन्ति दोग्ध्रीं तु खषष्ठबिन्दुभिः ॥७॥

स्मरन्तीति- अम्बिके अम्ब ! अच्छभासा शुभ्रकिरणेन चन्द्रेण पूर्णानु-स्वारेणेति यावत्, सहिताभिः युक्ताभिः गगनाग्निशान्तिभिः गगनम् आकाशो हकारः, अग्नि: रेफः, शान्तिरीकारः आभिः सह मायां स्मरन्ति अनुस्वार-युतहवर्ण-रवर्ण-ईवणः ह्रीम् इत्यक्षरेण इत्यर्थः मायां वदन्ति । मायाबी ह्रीङ्कारमाहुः। तथा अच्छभासा चन्द्रेण अनुस्वारेण सह द्रुहिणाग्निशान्तिभिः द्रुहिणो ब्रह्मा ककारः अग्नि: रेफ: शान्तिरीकारः आभिः ककार-रेफ-ईकारैः क्रीम् इत्यक्षरेण रसज्ञाम् आहुः रसनाबीज क्रीम् इति तन्त्रप्रसिद्धम् । दोग्ध्रीं धेनुबीजं तु खषष्ठबिन्दुभिः खम् आकाशः षष्ठः स्वरः ऊकारः, बिन्दुरनुस्वारः एभिः हूम् इत्यक्षरेण भणन्ति । महामन्त्रयमुक्त्वा तद्देवताः प्राहोत्तर-श्लोकेन ॥७॥

अभण्यताद्या भुवनेश्वरी बुध- रनन्तरा मातरगादि कालिका ॥
प्रचण्डचण्डी परिकीर्तितापरा त्रयोऽप्यमी ते मनवो महाफलाः ॥८॥

अभण्यतेति- मातः ! आद्या माया ह्रीङ्कारवाच्या बुधैः भुवनेश्वरी अभ-ण्यत अभ्यधायि। यथा वैदिक: प्रणव ओंकारः, तथा तान्त्रिकः प्रणवो ह्रीं-कारो बोध्यः । अनन्तरा रसज्ञा क्रींकारवाच्या कालिका अगादि अवोचि । अपरा तृतीया दोग्ध्री हुंकारवाच्या प्रचण्डचण्डी परिकीर्तिता। अमी त्रयो-ऽपि ते तव मनवः मन्त्रा: महाफलाः। प्रचण्डचण्डीमेव छिन्नमस्तां वज्र-वैरोचनीमाहुः ॥८॥

उपाधिपूतं शुचि नाभसं रजो दधाति साक्षाद् भुवनेश्वरीपदम् ॥
तदाश्रया व्यापकशक्तिरद्भुता मनस्विनी काचन कालिकेरिता ॥९॥

उपाधिपूतमिति- शुचि शुद्धम् अन्यसम्पर्करहितम् स्वतःसिद्धं, उपाधिभूतं सर्वस्यापि लोकस्योपादानतया आश्रयभूतं नाभसं नगसः आकाशस्थेदं नाभसं रजः रेणुरणुः इत्यर्थः। सर्वजगदुपादानमूलद्रव्यभृताकाशाणुरित्यर्थः । आकाशो गोलेभ्यो यद् वितरति निजरजश्चयादन्नम्’ इत्यादौ प्रथमस्तबके तव्याख्याने चायमर्यः प्रपञ्चितः। तथाविधं नाभस तथाविधं नाभसं रजः भुवनेश्वरीपदं भुवनेश्वरी इति पदम् अभिधानं साक्षाद्दधाति बिभर्ति । भुवनमूलस्वरूपम् आकाशरजः भुवनेश्वरीत्यभिधीयत इति भावः । तदाश्रया नाभसरजःसमा-श्रया मनस्विनी प्राज्ञा काचन अनिर्वाच्या अद्भुता व्यापकशवितः कालिका ईरिता प्रोक्ता। ’सर्वव्यापिनी चिच्छक्ति: कालिकेत्युच्यत इति भावः ।।९।।

अथ तृतीयां मूर्ति स्वरूपत आह ।।

अमर्त्यसाम्राज्यभृतः प्रवर्तिका विशाललोकत्रयरङ्गतिका ॥
पराक्रमाणामधिनापिकोच्यते प्रचण्डचण्डोति कला सवित्रि ते ॥१०॥

अमर्त्येति-- सवित्रि मानः ! अमर्त्यसाम्राज्यमृतः देवराज्यभरस्य इन्द्रस्य परमेश्वरस्य प्रवर्तिका, तं भुवने प्रवर्तयन्ती, विशाललोकत्रयरङ्गनतिका विशालं भूर्भुवः स्वरिति लोकत्रयमेव रङ्गः रङ्गस्थल तत्र नर्तिका नटी, पराक्रमाणां विविधविक्रमाणाम् अधिनायिका अधिदेवता ते कला प्रचण्डचण्डी इति उच्यते। अनेन अस्याः शची इन्द्राणी इति नामान्तरम् उक्तं भवति । क्रिया-शक्तिरेव प्रधान प्रचण्डचण्ड्याः, व्यापिनी ज्ञानशक्तिः काल्याः, उभयमूलं भुवनेश्वरीति अत्र महामन्त्रत्रयदेवताविभूतयः परदेवतायाः प्रतिपादिताः ॥१०॥

स्मरन्मनुं रोदिति भक्तिमांस्तव प्रगृह्य पादं मुनिरम्ब लम्बते ॥
फलं चिराय प्रथमः समाप्नुयात् परो मरन्दं पद एव विन्दति ॥११॥

स्मरन्निति- अम्ब ! तव मनुं मन्त्रं स्मरन् ध्यायन् भक्तिमान् रोदिति, रोदनं च प्रसादाभ्यर्थनोपलक्षणम्। मुनिः तपस्वी नैष्ठिक: पादं त्वच्चरणं प्रगृह्य गृहीत्वा लम्बते, लम्बनं चाश्रयणलक्षकम् । प्रथमः मन्त्रध्यायी चिराय फलं समाप्नुयात् लभेत न तु सद्यः फलं लभते । परः मुनिः पदे एव मरन्दं पदारविन्दरसं विन्दते प्राप्नोति मन्त्रजापी चिराय फलं लभते, तदनन्तरमेव फलस्यान्तःसारं, पदे लम्बमानः मुनिस्तु रसं सद्य एव लभत इति पादलम्बिनो मुनेः वैशिष्टयं बोध्यम् ॥११॥

पदं तवान्विष्टमनेकदा मुदा हृदन्तरे स्पृष्टमिवेदमम्बिके ।
पलायतेऽधोऽहमनन्तरं शुचा परात्परे रोदिमि मन्त्रशब्दतः ॥१२॥

पदमिति- परात्परे अम्बिके ! अनेकदा बहुवारं मुदा प्रीत्या हृदन्तरे हृदयस्यान्तः अन्विष्टं गवेषितम् इदं तव पदं चरणं स्पृष्टमिव भवतीत्यध्या-हार्यम् । मुहूर्तमात्रं बहुकृत्वः स्पृष्टं न तु सम्यग्गृहीत्वा धृतमित्यर्थः। तथा-विधस्पर्शफलमाह ’अहम् अधः पलायते’ अहंधीः त्वत्पदस्पर्शमात्रेण अधो गच्छति, स्वयं गलतीत्यर्थः । अनन्तरं पुनः पदस्पर्शालाभे शुचा शोकेन मन्त्र-शब्दत: मन्त्रशब्देन साधनेन सार्वविभक्तिकस्तसिल रोदिमि । किं करवाणि ? आत्मनिष्ठां मन्त्रयोगं च पर्यायेण अनुष्ठितवान् आचार्यः कविः इत्यस्मात् अवगम्यते ॥१२॥

भणन्ति सन्तो मरुतां सवित्रि ते महामनुं त्वत्पदभास्करातपम् ॥
ततो हि मूलात्स्वर एष निर्गत- स्तपत्यघौघं जरयन्महोमयः ॥१३॥

भणन्तीति- मरुतां सवित्रि इन्द्रस्य मरुत्पतित्वात् इन्द्राणी मरुत्सवित्री तस्याः सम्बोधनम् इन्द्राणि, प्रचण्डचण्डि ! सन्तः विद्वांसः ते तव महामनुं त्व-त्पदभास्करातपं त्वत्पदं त्वच्चरणमेव भास्करातपः सूर्यप्रकाशस्तं भणन्ति कथ-यन्ति। हि यस्मात् हेतोः, ततः तस्मात् पदात् मूलात् स्थानात् निर्गतः महोमयः ज्योतिर्मयः एषः स्वरः मन्त्रनादः अघौघं पाप्मसमूहं जरयन् क्षपयन् तपति ज्वलतीत्यर्थः। त्वन्महामन्त्रस्य स्वरः त्वत्पदज्योतिर्मयो भवति। अत एव पापानि तापयन् दीप्यति ॥१३।।

सवित्रि साक्षाच्चरणस्य ते प्रभा विधारयस्तज्जनिमूलमार्गणे ॥
मुहुर्मुहुस्सोऽहमजे धृतोद्यमः पथा महर्षी रमणो बभाण यम् ॥१४॥

सवित्रीति- सवित्रि जननि, अजे स्वयम्भु ! साक्षात् प्रत्यक्षं ते तव चर-णस्य पदस्य प्रभां दीप्ति ’महोमय एष स्वरः’ इति पूर्वश्लोके प्रोक्तं, तस्मात् मन्त्रस्वरमित्यर्थः, तां विधारयन् धारयमाणः सोऽहं बहोः कालान्मन्त्रसाधनं कुर्वाणोऽहं मुहुर्मुहुः अभीक्ष्णं पथा मार्गेण तेनेत्यध्याहार्यम् उत्तरवाक्ये यच्छब्द-स्थितेः। धृतोद्यमः धृतो गृहीतः उद्यमः प्रयत्नो येन सः भवामि। यं पन्थानं रमणो महर्षिः बभाण। जप्यमानस्य मन्त्रस्य मूलान्वेषणं मूलस्वरूपं प्राप-यति, तदेव तपस्स्वरूपमिति श्रीमहर्षिणा दर्शितः पन्थाः इति भावः ॥१४॥

अहम्पदार्थो यदि चिल्लता तता किमेष दोग्ध्रीमनुभावतोऽपरः ॥
अहं यदि प्राणनिनादवैखरी न कूर्च आख्यातुमसेति शक्यते ॥१५॥

अहमिति- अहम्पदार्थः अहमिति पदस्य अर्थः शक्यसम्बन्धी लक्ष्योऽर्थः तता विस्तृता चिल्लता प्रज्ञावल्ली भवति यदि, एषः अहमोऽर्थः दोग्ध्रीमनु-भावतः दोग्ध्रीमनुः हङ्कारः तस्य भावतः अर्थात् परः अन्यः किम् ? नेत्यर्थः । अहम् इति पदं प्राणनिनादवैखरी प्राणनादस्य स्थूलाकृतिर्यदि भवति कूर्चः हूङ्कारस्य कूर्च इति संज्ञा दोग्ध्रीमनुः असा न सा, न प्राणनिनादवैखरी इति आख्यातुं वक्तुं न शक्यते। अहम्पदस्य अर्थः चिदेव, दोग्ध्री-मनोरप्यर्थः चितिरेव । एवम् अहंशब्दः प्राणनादः हङ्कारोऽपि प्राणनाद एव। तस्मात् शब्दतोऽर्थतश्च न भेदो भवत्युभयोरहम्पद-दोग्ध्रीमन्वोः इति आशयः ॥१५॥

परे तु यां चेतनशक्तिमामन- न्त्यभाणि सा कुण्डलिनीति तान्त्रिकः॥
विलक्षणा नाम चमत्कृतिर्जडान् प्रतारयत्यागमसारदूरगान् ॥१६॥

पर इति- परे इतरे तु पक्षान्तरे, यां चेतनशक्तिम् आमनन्ति कीर्त-यन्ति, सा तान्त्रिकैः शाक्तागमिकः कुण्डलिनी इति अभाणि अवोचि। विल-क्षणा विगतलक्षणा असाधारणी चमत्कृतिः वैचित्री आगमसारदूरगान् तन्त्र-शास्त्राणां सारमजानतो जडान् प्रतारयति वञ्चयति व्यामोहयतीति यावत् । नाम कुत्सायाम्। तान्त्रिकैः चितिशक्तेः कुण्डलिनीति नामकरणं विलक्षण-श्चमत्कारः। कुण्डलिनीपदश्रवणात् शब्दबोधे सर्प एव उपस्थितो भवति न चेतनशक्तिः। अत एव विलक्षणोऽयं चमत्कारः ॥१६॥

भवत्यखण्डानुभवः प्रबोधिना- मतीव सूक्ष्मानुभवश्च योगिनाम् ॥
करं गतास्सर्वविधाश्च शेरते महेश्वरीमन्त्रपरस्य सिद्धयः ॥१७॥

भवतीति- प्रबोधिनां प्रबोध एषामस्तीति प्रबोधिनः ज्ञानिनः तेषाम् अखण्डानुभवो देशेन कालेन वा अपरिच्छिन्नोऽनुभवः भवति। योगिनां षट्-चक्रभेदनमार्गानुयायिनाम् अतीव अत्यन्तं सूक्ष्मानुभवश्च भवति । सूक्ष्मत्वं स्थूलसूक्ष्मशरीरावस्थितस्य योगमार्गिणः अन्तर्दृष्टिगम्यत्वं, न तु अल्पत्वम् । प्रबोधिनस्तु बाह्याभ्यन्तरभेद एव न अस्तीति बोध्यम्। महेश्वरीमन्त्रपरस्य देवीमन्त्रसाधकस्य सर्वविधाः सकलप्रकाराः सिद्धयः अद्भुताः शक्तयः करङ्गताः हस्तगताः शेरते हस्ते शयिता भवन्ति, वशङ्गता इति याक्त् ॥१७॥

सहस्रसङ्खयानि जनूंषि वा मम प्रियाणि भक्तिस्तव चेद्भवे भवे ॥
तव स्मृति चेद् गलयेन्न सम्मदं करोति मोक्षोऽपि ममेशवल्लभे॥१८॥

सहस्रति- ईशवल्लभे ईश्वरप्रिये अम्ब ! भवे भवे जन्मनि जन्मनि प्रति-जन्मेति यावत् । तव सम्बन्धिनी भक्तिश्चेत् भवतीत्यध्याहार्यम्। मम त्वयि भक्तिः प्रतिजन्म स्थिता चेदित्यर्थः। सहस्रसङ्खयानि सहस्रं सङ्ख्या येषां तानि जनूंषि जन्मानि असङ्ख्यानि जन्मानि वा मम प्रियाण्येव स्युः, मोक्षोऽपि तव स्मृतिं त्वद्गतं मदीयं ध्यानं गलयेत् च्यावयेत् चेत् मम सम्मद-मानन्दं न करोति। मम मुक्तेरपि त्वयि भक्तिरेव गरीयसीत्यर्थः ॥१८॥

विनैव दृष्टि यदि सत्प्रशिष्यते न सत्तयाऽर्थः फलहीनया तया ॥
इदं तु सत् किन्न्वसतो विशिष्यते न तात मुक्तोपलयोस्तदा भिदा ॥१९॥

विनेति- दृष्टि विनैव प्रज्ञां वर्जयित्वा सत् प्रशिष्यते यदि सन्मात्रमव-शिष्टं भवति यदि, तया फलहीनया सत्तया अर्थो न, किमपि प्रयोजनं न भवति। इदं तु सत् अप्रज्ञतायामप्यवशिष्टं च सत् असतः विशिष्यते कि नु ? ईदृशः सत: भावस्य असतः अभावस्य च शून्यस्येत्यर्थः, को विशेषः ? तात, अङ्ग तदा तथाविधायां दशायां मुक्तोपलयोः मुक्तस्य पुरुषस्य उपलस्य पाषाणस्य च न भिदा भेदो न भवतीत्यर्थः। तस्मात् सर्ववृत्तिविरहितायां मुक्तावस्थायाम् अवशिष्यमाणायां सत्तायां स्यादेव प्रज्ञा, न चेत् सा निरर्थेति भावः ॥१९॥

शुचां निवृत्तिर्यदि मुक्तिरिष्यते सुखप्रवृत्तियदि नात्र विद्यते ॥
सदेव चेत्तत्र मतिर्न भासते जडं विमुक्ताद्वचसैव भिद्यते ॥२०॥

शुचामिति- शुचां शोकानां निवृत्तिः मुक्तिः इष्यते यदि, सर्वदुःख-निवृत्तिर्मुक्ति: उच्यते चेत् अत्र मुक्तौ सुखप्रवृत्तिर्न विद्यते यदि, आनन्दानुभवो नास्ति चेत्, सदेव केवलम् अवशिष्यते, तत्र मतिः बुद्धिः न भासते चेत्, जडं वस्तु विमुक्तात् पुरुषात् वचसा एव वचनमात्रेण भिद्यते। जडस्य मुक्तपुरुषस्य च भेद एव न भवति। मुक्तौ न केवलं व्यतिरेकेण दुःखनिवृत्तिः अन्व-येन आनन्दप्रवृत्तिश्च भवतः । तथा न केवला सत्ता अवशिष्यते, तत्र चिदपि वर्तते, सत: चित्स्वरूपत्वात् ॥२०॥

मतिः पराची व्यवहारकारणं भवेत्प्रतीची परमार्थसम्पदि ॥
उभे दिशौ यस्य मतिर्विगाहते पदा च मूर्ना च स सिद्ध इष्यते ॥२१॥

मतिरिति- पराची बहिर्मुखी मतिर्बुद्धिः व्यवहारकारणं लोके व्यवहृति-हेतुर्भवति। परमार्थसम्पदि परमपुरुषार्थप्राप्तौ प्रतीची भवेत्, मतिरन्तर्मुखी भवेत् । यस्य मतिः प्रज्ञा उभे दिशौ पराची प्रतीची च विगाहते प्रविशति, स योगी पदा च पादेन मू च शिरसा च सिद्धः इष्यते । पादो हृदयाकाशः मूर्धा सहस्रारम् । हृदयेन सिद्धः प्रत्यग्दृष्टिसिद्धः सहस्रारेण पराग्दृष्टिसिद्धः पराग्दृष्टि: सर्वेषाम् अवशतया वर्तते। प्रत्यग्-दृष्टिसिद्धस्यैव पराग्दृष्टौ स्ववशतया सिद्धेः सम्भवः। जीवन्मुक्तस्य पुरुष-स्यैव प्रतीच्यपि प्रज्ञा स्वां स्थितिमजहती बहिर्व्यवहारक्षमा भवति; इम-मेवाशयं प्रकारान्तरेण वाजसनेयिनां श्रुतिराह- ’विद्यां चाविद्यां च यस्तद्वेदो-भयं सह। अविद्यया मृत्यु तीर्खा विद्यया अमृतमश्नुते॥’ इति ॥२१॥

दृढं पदं यस्य मतेः सदाऽन्तरे स ना धियोऽग्रेण बहिश्चरन्नपि ॥
सवित्रि मग्नस्त्वयि सम्प्रकीर्त्यते न तस्य भीः सञ्चरतोऽपि संसृतेः॥२२॥

दृढमिति- सवित्रि जननि ! यस्य मतेः बुद्धेः पदं लक्ष्यं स्थानम् अन्तरे हृदये सदा अनवरतं दृढं गाढं भवतीत्यध्याहार्यम् । स ना मनुष्यः धियः बुद्धेः अग्रेण, न तु मूलेन, अत्यन्तबाह्यांशेनेत्यर्थः, बहिर्विषयेषु चरन् सञ्चरन्नपि त्वयि चित्स्वरूपिण्यां मग्न: गाढं प्राप्तस्थितिकः सम्प्रकीर्त्यते। हृदये स्थिति-पदं प्राप्तस्य पुरुषस्य बुद्धिः बहिः प्रवृत्ताऽपि विषयैर्न बाध्यत इति भावः । अत एव ‘सञ्चरतोऽपि तस्य संसृतेः भी: न’ जनन-मरण-संसरणजन्मभयं न भवति । सिद्धस्य पुरुषस्य हृदयस्थाने दृढस्थितिपदस्य परमात्मसाक्षात्कारा-दमृतस्वरूपप्राप्तिः निगमागमपुराणेतिहासेषु प्रसिद्धा। तस्य जीवतो मुक्तस्य न कुतोऽपि संसृतिः संभवति। तस्मात् संसृतिभीतिरपि न जातु भवति ॥२२॥

विचिन्तने चिन्तनशक्तिमद्भुतां विलोकने लोकनशक्तिमुज्ज्वलाम् ॥
प्रभाषणे भाषणशक्तिमुत्तमां निभालयंस्त्वां विषयैर्न जीयते ॥२३॥

विचिन्तन इति- विचिन्तने ध्यानकर्मणि अद्भुतां चिन्तनशक्ति ध्यान-शक्ति त्वां निभालयन् पश्यन्, विलोकने दर्शनकर्मणि उज्ज्वलां लोकनशक्ति दर्शनशक्ति त्वां निभालयन्, प्रभाषणे प्रवचनकर्मणि उत्तमां भाषणशक्ति वचनशक्ति त्वां निभालयन् नैष्ठिक: पुरुषः विषयैः इन्द्रियाकर्षक: न जीयते न पराभूयते। एकैवाम्बा आश्चर्यकरी चिन्तनकी, प्रदीप्ता दर्शनकर्वी, उत्तमा वाक्छक्तिश्चेति त्रिधोपास्यमाना जितेन्द्रियत्वम् आवहत्युपासकस्येति भावः ॥२३॥

विलोकमानस्य विलोकनं कवे- विलोक्यमानेषु विहाय सक्तताम् ॥
विलोचने सन्निहिता निरन्तरं विधूतभीतिविबुधस्तुता शिवा ॥२४॥

विलोकमानस्येति- विधूतभीतिः विधूता अपहृता भीतिः मृत्युशिरस्का सकलविधा भीतिराश्रितजनस्येति शेष: यया सा, विबुधस्तुता विबुधैर्विद्भि-देवैर्वा स्तुता नुता शिवा भगवती, विलोक्यमानेषु दृश्येषु विषयेषु सक्ततां सङ्गं विहाय त्यक्त्वा विलोकनं दर्शनकर्म विलोकमानस्य पश्यतः कवेः कान्त-दर्शिनः काव्यस्रष्टुः विलोचने दृष्टौ सन्निहिता कृतसन्निधाना भवतीति शेषः । विषयसङ्गवर्ज विषयेषु प्रवर्तमानायाः दृष्टे: द्रष्टा भवति कविः । तस्य दृष्टी नित्यसन्निहिता सर्वभयापहा भगवतीति भावः ॥२४॥

अयं भयानां परिमार्जकस्सतां समस्तपापौघनिवारणक्षमः ॥
मनोजवंशस्थगणो गणेशितु- मनो महेशाब्जदृशो घिनोत्वलम् ॥२५॥

अयमिति- सतां सज्जनानां भयानां नानाविधानां परिमार्जक: निवारक: समस्तपापौघनिवारणक्षमः समस्तानां पापानाम् ओघः समूहः तस्य निवारणाय प्रध्वंसनाय क्षमः शक्तः, सकलपापसमूहविध्वंसनसमर्थः इत्यर्थः, गणेशितुः कवेः मनोज्ञवंशस्थगणः मनोज्ञो रमणीयः वंशस्थगणः वंशस्थवृत्तरचितपद्यवर्गः महे-शाब्जदृशः महेशस्य महेश्वरस्य अब्जदृशः पङ्कजाक्ष्याः महादेवसुन्दर्याः पार्वत्याः मनः चेतः अलं पर्याप्त अत्यन्तमिति यावत् धिनोतु तर्पयतु ॥२५॥

त्रयस्त्रिशः स्तबक: सव्याख्यः समाप्तः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates