ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

श्रीः वासिष्ठो गणपतिमुनिः




॥ उमासहस्रम् ॥

महदिदं स्तोत्रकाव्यम्। उमां देवीमधिकृत्य दशभिः पद्यशतकैर्निबद्धम् । नैष्ठिको महाकविस्तपसोऽङ्गतया स्तोत्ररगासीद् भगवती सर्वेश्वरीम्। अतो मन्त्रप्रायाणि भवन्त्येतानि पद्यानि। एषां केषाञ्चिद्वीर्यवत्तरत्वं दृष्टफलक-तया प्रस्फुटं भवति भक्तानाम् । सहजनिष्ठस्य सद्गुरोः सन्निधौ तपस्तपता कविना निर्मितोऽयं पावनः पारायणग्रन्थो भवति भक्तानां श्रद्धालूनाम् । अत एव प्रथमं ग्रन्थे समाप्ति नीते सिद्धगिरा कवीश्वरेणैवमुक्तम्-

"यदि गायन्निमं ग्रन्थमुत्तरेदापदः कृती। महिमा स महेश्वर्याः शीर्ष स्यादुन्नतं न मे॥
अयमम्बापदप्रीतेरुद्गारो वाङमयाकृतिः । अर्थः कश्चिदनेनापि सतां यदि मया जितम् ॥"

पञ्चविंशतिपद्यात्मकानां स्तबकानां चत्वारिंशता निबद्धेयं स्तोत्रसाहस्री। एकवृत्तनिबद्ध एककोऽपि स्तबकः । अत्र सर्गप्रकारः, सर्वेश्वर्याः परमार्थ-स्वरूपं, वैदिक-तान्त्रिकदेवतानां स्वरूपाणि, देवतानुग्रहोपायः, देव्याः प्रसादा-द्योगानुभूतयः, दशमहाविद्यानां तत्त्वं, तासामुपास्तिविधिफलानि, औपनिषद-विद्यासाधनानि-इत्यादीनि गहनानि तपसा शास्त्रचर्चया अनुभूत्या चान्तः प्रविश्य लब्ध्वा रसोत्तरकवितया स्फुटानि सम्पादितानि जेजीयन्ते । अनेन “कान्तासम्मिततयोपदेशयुजे" इत्यालङ्कारिकानामभिमततमं प्रधानं काव्यप्रयोजनं रिरंसोः कान्तस्य कान्तेव रहस्योपदेशात्सहृदयस्य रति कुर्वाणा साध्नोति कवेर्भारती॥

अथास्य ग्रन्थस्य विषयान् कविगीतैः श्लोकैमः ।।
"दर्शितं रमणस्यर्यावद्वाक्यमिताक्षरैः। यावच्च पितृपादानां विज्ञातमुपदेशतः ॥१॥
तन्त्रेभ्योऽवगतं यावत्प्राचामाचारशासिनाम् । यावत्परमपुण्यासु कुलगोष्ठीषु च श्रुतम् ॥२॥
विदितं विविधं यावदितिहासविलोकनात् । यावदप्यात्मना दृष्टं तपता विपुलं तपः ॥३॥
अधिकृत्य महामायां भुवनानामधीश्वरीम् । अत्र स्तोत्रे प्रसङ्गेषु समस्तं तत्प्रदर्शितम् ॥४॥

" यद्यपि वेदवेदान्तयोगतन्त्रादिरहस्यानि भेषजानि मधुरानुपानेनेवानेन स्तोत्रसाहित्येन रोचयन् साधुलोकं वीतशोकं विदधानो रमयति रमणशिष्यः, तथापि न शास्त्रीया एव विषयाः कवितया समाख्याताः। सर्वेश्वर्या अनु-ग्रहार्थलीलाचारित्रकीर्तनः काव्यशोभापोषकैः व्युत्पित्सूनां साहित्यसरणौ बोधाय व्युत्पन्नानां प्रमोदाय च प्रभुरयं रसोज्ज्वलसाहित्यसन्दर्भः । चात्रोमादेव्याः पर्वतराजपुत्र्या: सम्भवबाल्यपरिणयशृङ्गारकथाः श्रूयन्ते। मन्द-स्मितकरुणाकटाक्षनामवैभवानि रसावहाभिर्वाग्भिर्वणितानि भवन्ति। ओजः-प्रसादमाधुर्यं रर्थत: शब्दतश्च समन्ततो व्याप्तान्येतानि पद्यान्यास्वाद्यतमानि सहृदयाः स्वयमुपादायास्वाद्यानुभवेयुः ॥

"अत्रापि गुणलेशाश्चेदालङ्कारिकसम्मताः । स प्रतापः सरस्वत्या निर्गच्छन्त्या अनर्गलम् ॥

" इति गीतं कविना। ग्रन्थमवलोकमानानां निर्मत्सराणामेतत्सत्यं स्फुरे-दित्यसंशयम् ॥

बहुषु स्तबकेषु प्रवहन् काव्यरसो रसिकानाप्लावयन् विलसतीत्यत्र दिङ-मात्र प्रदर्शयामः । पार्वतीपरमेश्वरयोः शृङ्गारघट्टो द्वादशे स्तबके वर्णितः । अयं च कुमारसम्भवाष्टमसर्ग स्मारयति । उभयत्र शृङ्गारो विषयो रथो-द्धता च वृत्तम्। किंतु जगद्गुर्वोः सम्भोगवर्णनेऽनौचित्यं पश्यन् परिहरति चमत्कारेण कविचक्रवर्ती ।।

"ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमर्दिनी । नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमेतयोः ।।"
(स्त. १२ श्लो. २०)

सेयं फक्किका जगत्पितृसम्भोगो वर्णनविषयतां न गच्छतीति समर्थयति। अर्धाङ्गस्तबकस्यादिमं पद्यं पश्यामः ।।

"इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः । जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥” (स्त. २१ श्लो. १)

प्रशस्तेऽस्मिन्निबन्धे एकैकमपि पद्यमुदाहायं पाठ्यमास्वाद्यं च दृश्यते । तत्कि वा ग्राह्यं किं च त्याज्यम् ? तदिदमभिनवं माननीयं निदर्शनं स्तोत्र-साहित्यस्य, अमूल्यफलं विविदिषूणां, अनल्पबलं भजकलोकस्य, सहृदयानां साधूनां हृदयान्यावर्जयन्मुदावहं विदामिदमुमासहस्रं विजयतेतरां विजयते-तराम् ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates