ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

श्रीः वासिष्ठो गणपतिमुनिः




॥ उमासहस्रप्रभा-व्याख्या ॥

सोऽयं रसोज्ज्वल: संस्कृतसाहितीशेखरायमाण उमासहस्रनामा पावन-प्रबन्धः, यस्ययं प्रभाख्या व्याख्या विरच्यते। अत्रैते श्लोका भवन्ति ।।

उमासहस्रसाहित्यं सौर मण्डलमुज्ज्वलम् ॥
स्वतःसिद्धा प्रभा तस्य कस्तां दीपेन दर्शयेत् ॥१॥

अथवा भास्करार्चायां दीपोऽङ्गं मुख्यमिष्यते ॥
उमासहस्रमप्येवं प्रभयाऽराध्यते मया ॥२॥

इयमाचार्यपादानां शिष्यसङक्रान्ततेजसाम् ॥
प्रभा भवति सद्व्याख्या गुरुभावप्रदर्शिनी ॥३॥

गङ्गायास्तीर्थमादाय तस्यां तस्य जलाञ्जलिः ॥
दत्तमध्यं प्रशस्तं चेन्न प्रशस्ता कथं न्वियम् ॥४॥

रसिकानां प्रमोदाय व्युत्पित्सूनां च बुद्धये ॥
आराधनाय साधूनामेषा भाषा भवेद्यदि ॥५॥

आचार्यवाग्विलासस्य विवृत्या कृत्यकारिणः ।।
मम भूयो भवेद् भाग्यं द्विरुक्ता चरितार्थता ॥६॥

इहान्वयमुखेनैव क्वचिदाकाङक्षया पुनः ।।
रचिता नातिसङक्षिप्ता रुचिरा न च विस्तृता ॥७॥

व्याख्या प्रभाख्या शिष्येण वासिष्ठस्य महात्मनः ।।
भारद्वाजन सद्विद्यां बिभ्राणेन कपालिना ॥८॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates