ABOUT

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)

Umasahasram with Commentary

T. V. Kapali Sastry
T. V. Kapali Sastry

Prabha Vyakhya (Sanskrit Commentary) by T.V. Kapali Shastry on verses of Umasahasram composed by Vasishta Ganapati Muni

Original Works of T. V. Kapali Sastry in Sanskrit उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्) 1943 Edition
Sanskrit
 PDF   

उमासहस्रम् (प्रभाख्यया व्याख्यया समेतम्)




विंशः स्तबकः

अथ विशे स्तबके सर्वेश्वर्याः विश्वस्मिन् विभूतीः प्रतिपादयन् निगमागमसारभूतानि परतत्त्वसाक्षात्कारसाधनानि कवितारामणीयकविसा-रीणि योगनिष्ठेन कविसार्वभौमेन गीयन्ते । अतोऽत्र सर्वसारमयी देवी स्तूयते।

प्रीतिविकासे स्वल्पतमो रोषविशेषे भूरितरः ॥
अद्भुतहासो विश्वसुवो रक्षतु साधुं हन्तु खलम् ॥१॥

प्रीतीति- प्रीतिविकासे प्रीतेविकासे विकसिते आविष्कार इति यावत् स्वल्पतमः अतिलघुर्मन्द इत्यर्थः, रोषविशेषे रोषस्य क्रोधस्य विशेषे प्रकाशे व्यक्तौ इत्यर्थः ’विशेषोऽवयवे व्यक्तौ तिलकेत्यन्तभेदके’ इति नानार्थरत्नमाला, भूरितरः भूयान् अट्टहास इति यावत्, विश्वसुवो विश्वं जगत् सूते इति विश्वसूः तस्याः अद्भुतहासः आश्चर्यकरो हासः साधु सज्जनं रक्षतु खलं हन्तु, सज्जनरक्षां दुर्जननिग्रहं च करोत्विति भावः । हासेन मन्दतमेन प्रेमाभिव्यक्तिः अमन्देन तु रोषव्यक्तिरिति एकेनैव अल्पता-ऽनल्पताश्रयणेन विरुद्धम् आचर्यत इति अद्भुतो हासः। पूर्वः चारुतमो हासः सार्धं रक्षतु, अपरः भूरितरः खलं हन्तु इति क्रमेणान्वयः अनेन यथासङ्खयमलङ्कारः ॥१॥

सज्जनचित्तानन्दकरी संश्रितपापवातहरी ॥
लोकसवित्री नाकचरी स्तान्मम भूयो भद्रकरी ॥२॥

सज्जनेति- सज्जनचित्तानन्दकरी सज्जनानामानन्दविधायिनी, संश्रित-पापव्रातहरी आश्रितजनानां पापप्रणाशिनी, नाकचरी स्वर्लोकसञ्चारिणी लोकसवित्री जगज्जननी मम भूयः अधिक भद्रकरी कल्याणकृत् स्तात् भवतु । स्यादिति पाठान्तरम् ॥२॥

अर्चनकाले रूपगता संस्तुतिकाले शब्दगता ॥
चिन्तनकाले प्राणगता तत्त्वविचारे सर्वगता ॥३॥

अर्चनेति- अर्चनकाले पूजनसमये रूपगता रूपं गता पूज्ये मूर्तिविशेषे प्रसन्ना भवति, संस्तुतिकाले स्तोत्रवेलायां शब्दगता शब्दं गता शब्दरूपिणी भवति, चिन्तनकाले आलोचने ध्याने क्रियमाणे सति प्राणगता प्राणस्था भवति, तत्त्वविचारे सर्वगता सर्वस्वरूपिणी भवति ।

अर्चने देवीरूपे चक्षुषः प्रतिष्ठा, स्तोत्रकर्मणि वाच: शब्दे प्रतिष्ठा, चिन्तने मनसः प्राण प्रतिष्ठा, तत्त्वविचारे तु प्रज्ञायाः सर्वत्र प्रतिष्ठा। एवम् अर्चन-स्तवन-ध्यान-तत्त्वविचारेषु तत्र तत्रोचितां प्रतिष्ठां गता भगवतीति तस्या ध्येयत्वे वैभवं कीर्तितम् ॥३॥

उज्ज्वलरूपे नृत्यकरी निष्प्रभरूपे सुप्तिकरी ॥
गोपितरूपे सिद्धिकरी गोचररूपे बन्धकरी ॥४॥

उज्ज्वलेति- उज्ज्वलरूपे उज्ज्वले शोभमाने रूपे आकृतिविशेषे नृत्य-करी लास्यकरी सर्वं लोके लावण्यं तस्याः उल्लसितं नृत्यं भवति । यदनुज्ज्वलं दृश्यते तत्र सा नास्ति इति न, निष्प्रभरूपे निष्प्रभे निश्शोभे रूपे सुप्ति करोतीति सुप्तिकरी तत्र शोभा निद्रां दधातीति भावः। गोपितरूपे गोपिते गूढे रहस्ये अदृश्ये इति यावत्, रूपे सिद्धिकरी अंतर्हितरूपे दहर-सहस्रारादौ सिद्धि दधाति । गोचररूपे गोचरे दृश्ये स्थूले रूपे बन्धकरी बन्धकृत्, बाह्ये विषये प्रज्ञायाः बन्धः स्पष्ट: विषयः सर्वोऽपि ज्ञानस्यावरकः, अत एव ज्ञानबन्धको ज्ञेयः। तस्मात्तत्र बन्धविधात्री॥४॥

अम्बरदेशे शब्दवती पावकताते स्पर्शवती ॥
काञ्चनवीर्ये रूपवती सागरकाञ्च्यां गन्धवती ॥५॥

अम्बरेति- अम्बरदेशे आकाशे शब्दवती शब्दोऽस्याः अस्तीति शब्दवती आकाशस्य शब्दो गुणः, गुणाभावे गुणिनो गुणित्वं निहन्येत, आकाशादिगत-शब्दगुणवत्त्वे देव्याः प्रतिपादिते आकाशादेः तादात्म्येन समवायेन वा येन केनापि सम्बन्धेन शब्दादिगुणाधायिनी भगवतीति विवक्षितम्। अथ च शब्दवतीत्यादौ मतुपा शब्दादेः स्वाम्यं देव्याः उक्तम् । अनेन आकाशादि-गुणिनां स्वरूपेण वर्तमाना देवीति च तस्याः सर्वस्वरूपत्वं च गम्यम् । एव-मम्बरदेशे गुणवती यः शब्दो गुणः सोऽस्याः इति शब्दवती। पावकस्य अग्नेः ताते जनके ’वायोरग्निः’ इति श्रुतेः, वायौ गुणवति स्पर्शो गुणोऽस्याः इति स्पर्शवती। काञ्चनवीर्ये काञ्चनस्य सुवर्णस्य वीर्ये तेजसि, आकरजं विकृतिमत्तेजः सुवर्ण प्राहुः, रूपं तेजसो हि गुणः, तदस्याः इति रूप-वती। सागरकाञ्च्यां पृथिव्यां गुणवत्यां गुणो गन्धोऽस्याः इति गन्धवती ॥५॥

अप्स्वमलासु स्पष्टरसा चन्द्रविभायां गुप्तरसा ॥
संसृतिभोगे सर्वरसा पूर्णसमाधावेकरसा ॥६॥

अप्स्विति- अमलासु शुद्धासु अप्सु स्पष्टो व्यक्तो रसः अब्गुणो यस्याः सा, चन्द्रविभायां चन्द्रकान्तौ गुप्तरसा गूढो रसो यस्याः सा, चन्द्ररश्मिषु रसः सूक्ष्मः न स्पष्टः। संसृतिभोगे संसृतेः भोगे लोकविषयानुभवे इत्यर्थः, सर्वरसा सर्वे रसाः शृङ्गारादयः अनुभवैकवेद्याः यस्याः सा, पूर्णसमाधौ सम्पूर्ण-निस्तरङ्गमनस्समाधाने एकरसा एकोऽनन्यो रसः आनन्दो यस्याः सा ॥६॥

चक्षुषि दृष्टिश्शाततमा चेतसि दृष्टिश्चित्रतमा ॥
आत्मनि दृष्टिश्शुद्धतमा ब्रह्मणि दृष्टिः पूर्णतमा ॥७॥

चक्षुषीति- चक्षुषि दर्शनेन्द्रिये शाततमा तीव्रतमा दृष्टि: सा दृग्वीर्य भवति इत्यर्थः। चेतसि मनसि चित्रतमा दृष्टि: अत्यन्तमद्भुता सा, वैचित्री मानस्यां दृष्टौ वैचित्री भवति । आत्मनि शुद्धतमा दृष्टि: नैसर्गिकत्वात् सहजेति यावत्। ब्रह्मणि पूर्णतमा परिपूर्णा दृष्टि: तस्य सर्वद्रष्टुत्वात् ॥७॥

शीर्षसरोजे सोमकला भालसरोजे शक्रकला ॥
हार्दसरोजे सूर्यकला मूलसरोजे वह्निकला ॥८॥

शीर्षेति- शीर्षसरोजे सहस्रारकमले सोमकला चन्द्रकला चान्द्री शोभा तत्र चन्द्रमण्डलप्रसिद्धेः। भालसरोजे आज्ञाचक्रकमले भ्रूमध्ये शक्रकला इन्द्र- प्रभा विद्युत् भ्रूमध्ये तटित्प्रभा देवीति तन्त्रविदो विदुः। हार्दसरोजे हृदय-कमले सूर्यकला सूर्यप्रभा हृदयस्य सूर्यमण्डलात्मकत्वं मूलाधारस्य अग्निमण्ड-लात्मकत्वं च योगिषु प्रसिद्धम् । मूलसरोजे वह्निकला, मूलाधारकमले अग्निज्वाला ॥८॥

स्थूलशरीरे कान्तिमती प्राणशरीरे शक्तिमती॥
स्वान्तशरीरे भोगवती बुद्धिशरीरे योगवती ॥९॥

स्थूलेति- स्थूलशरीरे पाञ्चभौतिके देहे कान्तिरस्या इति कान्तिमती, प्राणशरीरे भौतिकजीवनधारणे प्राणमय देहे शक्तिरस्या इति शक्तिमती, स्वान्तशरीरे मानसदेहे भोगोऽस्या इति भोगवती, मनसः सुखदुःखाद्युपलब्धि-साधनत्वात्। बुद्धिशरीरे मनसोऽपि सूक्ष्मे बौद्धे देहे योगः आत्मस्वरूपनिष्ठा अस्या इति योगवती ॥९॥

सारसबन्धोरुज्ज्वलभा कैरवबन्धोस्सुन्दरभा ॥
वैद्युतवह्नरद्भुतभा भौमकृशानोर्दीपकभा ॥१०॥

सारसेति- सारसबन्धोः कमलसुहृदो भास्करस्य उज्ज्वलभा भ्राजमाना दीप्तिः, कैरवबन्धोः चन्द्रमसः सुन्दरभा रमणीयशोभा, वैद्युतवह्नः विद्युतोऽयं वैद्युतो वह्निः तस्य वैद्युताग्नेः अद्भुतभा अद्भुता विचित्रा भा प्रभा, भौम-कृशानोः भौमाग्नेः भौतिकाग्नेः दीपकभा ज्वलनदीप्तिः ॥१०॥

योधवराणामायुधभा योगिवराणामीक्षणभा ॥
भूमिपतीनामासनमा प्रेमवतीनामाननभा ॥११॥

योधेति- योधवराणां योद्धृश्रेष्ठानाम् आयुधभा आयुधस्य भा प्रभा, योगिवराणां योगीन्द्राणाम् ईक्षणभा दृष्टिप्रभा, भूमिपतीनां राज्ञाम् आसनभा सिंहासनप्रभा, प्रेमवतीनां स्त्रीणाम् आननभा मुखशोभा ॥११॥

शस्त्रधराणां भीकरता शास्त्रधराणां बोधकता ॥
यन्त्रधराणां चालकता मन्त्रधराणां साधकता ॥१२॥

शस्त्रेति- शस्त्रधराणां खड्गधराणां भीकरता घोरता, शास्त्रधराणां विदुषां बोधकता बोधजनकत्वम्, यन्त्रधराणां यन्त्रिणां चालकता चालन-निपुणतेत्यर्थः, मन्त्रधराणां मन्त्रधराणां रहस्यालोचनभृतां साधकता सिद्धिनिष्पा-दकत्वम् ॥१२॥

गानपटूनां रजकता ध्यानपटूनां मापकता ॥
नीतिपटूनां भेदकता धूतिपटूनां क्षेपकता ॥१३॥

गानेति- गानपटूनां गीतनिपुणानां रजकता श्रोतृषु प्रीत्याधायकत्वम्, ध्यानपटूनां ध्याने चिन्तने समाहितेन मनसा आलोचने पटूनां मापकता मान-कारकत्वं, ध्यानबलेन यं कमपि विषयम् अभिसन्धाय इयानयम् इति निर्णय-ज्ञानं मानं भवति, तत्कारकाः ध्यातारो मापकाः, तेषु तद्धर्मरूपेण वर्तते देवी-त्यर्थः, नीतिपटूनां राज्यतन्त्रे लोके च सामाधुपायो नीति: तत्र कुशलाः भेदो-त्पादने समर्थाः तद्भावः भेदकताधर्मेण तेष्ववस्थितेत्यर्थः, धूतिपटूनां धूतौ कम्पने अन्येषां चालने इत्यर्थः, तत्र पटूनां क्षेपकता क्षेपणसामर्थ्यरूपेण वर्त-मानेत्यर्थः ॥१३॥

दीधितिधारा लोकयतां जीवितधारा वर्तयताम् ॥
ज्ञापकधारा चिन्तयतां मादकधारा द्रावयताम् ॥१४॥

दीधितीति- लोकयतां पश्यतां दीधितिधारा तेजोधारा चाक्षुषेण तेजसा हि पश्यन्ति। तत्र दृष्टौ यत्तेजस्तस्याविच्छिन्नसन्ततिरित्यर्थः, वर्तयतां वृतु भाषायां दीप्तौ च इति णिज्विकरणस्थाद्धातोः शतरि षष्ठीबहुवचनं दीप्यतां ज्वलज्जीवनानां जीवितधारा भवति। चिन्तयतां ध्यायतां ज्ञापकधारा ज्ञप्ति-धारा, द्रावयतां द्रवकारकाणां मादकता मदजनकसामर्थ्यम्, अन्तः सोमं सुन्वतां योगिनां बहिर्वा यजमानानां सोमपा:यिनां यो मदः हर्षः तस्य जनयित्री धारा देवीति भावः ॥१४॥

मन्त्रपराणां वाक्यबलं योगपराणां प्राणबलम् ।
आत्मपराणां शान्तिबलं धर्मपराणां त्यागबलम् ॥१५॥

मन्त्रपराणामिति- मन्त्रपराणां मन्त्रजपप्रधानानां वाक्यबलं वाग्रूपं बलं वाग्वीर्य, योगपराणां योगनिष्ठानां प्राणवलं प्राणरूपं बलम् आत्मपराणां ज्ञान-निष्ठानां शान्तिबलम्, शान्तिरूपं बलं, धर्मपराणां धर्मप्रधानानां त्यागबलं दानहेतुभूतस्वीयत्वत्यजनसामर्थ्यमेव बलम् ॥१५॥

सूरिवराणां वादबलं वीरवराणां बाहुबलम् ॥
मर्त्यपतीनां सैन्यबलं रागवतीनां हासबलम् ॥१६॥

सूरिवराणामिति- सूरिवराणां बुधश्रेष्ठानां वादबलं प्रवचनसामर्थ्यम्, वीरवराणां बाहुबलं भुजपराक्रमः, मर्त्यपतीनां राज्ञां सैन्यबलं सेनैव बलं, रागवतीनाम् अनुरागिणीनां हसिते विक्रमः ॥१६॥

वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती ॥
शाबरमन्त्रे कल्पवती सन्ततमन्त्रे सारवती ॥१७॥

वैदिकेति- वैदिकमन्त्रे गायत्र्यादौ भाववती, वेदमन्त्रार्थप्रतिपाद्यत्वा-स्वाध्यायस्य फलवत्त्वेऽपि अर्थावगतिः मुख्यत्यर्थः । तान्त्रिकमन्त्रे श्रीविद्यादौ नादवती, तत्र नादस्वरूपेणावस्थानात्तस्याः। मन्त्रजपपुरश्चर्यया तस्याः प्रसादो लभ्यते इति आगमिक: समयः। शाबरमन्त्रे प्राकृतानां भाषया व्यवहारसिद्ध मन्त्र कल्पवती, तत्र कल्पः क्रियाकलापस्य द्रव्योपकरणादेः प्राधान्यात् । सन्ततमन्त्रे हंसमन्त्रे अजपाख्ये उच्छ्वसित-निश्वसितान्ववेक्षणरूपे सारवती सारः स्थिरांशः तद्वती स्थैर्य स्वरूपम् अस्याः इत्यर्थः ॥१७॥

ब्रह्ममुखाब्जे वाग्वनिता वक्षसि विष्णोः श्रीललिता ॥
शम्भुशरीरे भागमिता विश्वशरीरे व्योम्नि तता ॥१८॥

ब्रह्मेति- ब्रह्ममुखाब्जे ब्रह्मदेवस्य मुखारविन्दे वाग्वनिता स्वती । विष्णोः वक्षसि ललिता लावण्यमयी श्री: लक्ष्मीः। शम्भु- शरीरे शिवस्य देहे भागम् अर्धम् इता गता देहाधु हरस्येयम् उमा। विश्वशरीरे विश्वं शरीरं यस्य तस्मिन् सर्वेश्वरे व्योम्नि आकाशे तता व्याप्ता॥१८॥

भूग्रहगोलः कन्दुकिनी विष्टपधाने कौतुकिनी ॥
यावदनन्तं वैभविनी प्राणिषु भूयस्सम्भविनी ॥१९॥

भूग्रहेति- भूः, ग्रहाः मङ्गलादयः, गोला: खगोलाः ज्योतींषि च तैः भूग्रहगोलैः कन्दुकिनी भूरादयो ग्रहाः नक्षत्राणि क्रीडाकन्दुकानि भवन्त्यस्याः । विष्टपधाने लोकधारणे कौतुकिनी कुतूहलमस्याः । यावदनन्तम् आकाशं यावत् वैभविनी वैभवम् अस्याः । आकाशं यावत् अस्ति तावत् विभुत्व-मस्याः, प्राभवं व्यापकत्वं च। प्राणिषु जन्मिषु भूयः पुनः सम्भविनी पुनर्जन्म अस्याः ॥१९॥

कञ्जभवाण्डे मण्डलिनी प्राणिशरीरे कुण्डलिनी ॥
पामरभावे सल्ललना पण्डितभावे मोदघना ॥२०॥

कजेति- कञ्जभवाण्डे ब्रह्माण्डे मण्डलिनी सूर्यादिमण्डलरूपिणी मण्ड-लिनी, प्राणिशरीरे देहिनां देहे कुण्डलिनी आधारशक्तिः, पामरभावे अज्ञा-निनोऽभिप्राये सल्ललना सती स्त्री। पण्डितभावे पण्डितानाम् अभिप्राये मोद-घना आनन्दघना सान्द्रानन्दरूपिणी इत्यर्थः ॥२०॥

नार्यपि पुंसा मूलवती तन्व्यपि शक्त्या व्याप्तिमती ॥
व्याप्तिमतीत्वे गुप्तिमती चित्रविचित्रा काऽपि सती ॥२१॥

नारीति- नारी स्त्री अपि पुंसा पुरुषेण मूलवती पुरुषो मूलमस्याः इति भावः। पुरुषस्य शक्तस्य हि सा शक्तिः । तन्वी सुन्दरी, सूक्ष्मा अपि व्याप्तिमती विभ्वी। व्याप्तिमतीत्वे गुप्तिमती, सर्वत्र व्याप्ताऽपि गूढा । चित्रविचित्रा अद्भुतात्यद्भुता काऽपि सती देवी। सर्वत्र विरोधात् अद्भु-तत्वम् । अपारवैभवस्वभावाद् विरोधाभासः ॥२१॥

दीधितिरूपा चित्तमयी प्राणशरीराऽप्यद्वितयो ॥
ब्रह्मशरीरं ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्म परम् ॥२२॥

दीधितीति - दीधितिरूपा दीधितिः दीप्तिः रूपं यस्याः सा ज्योति-स्स्वरूपा चित्तमयी चित्तरूपिणीत्यर्थः, ज्ञानतेजसोरभेदात् ज्ञानस्यैव चित्तरूपेणा-वस्थानाच्च। प्राणशरीरा प्राणः शरीरं यस्याः सा प्राणदेहाऽपि द्वौ अवयवौ अस्याः इति द्वितयी न द्वितयी अद्वितयी न द्विप्रकारा इत्यर्थः । अस्याःप्राण-शरीरे सत्यपि एकशरीरैवेति विवक्षितम्। ब्रह्मणः शरीरं देहः ब्रह्मशरीरं, ब्रह्मविभा ब्रह्मणः प्रभा, ब्रह्मविभूतिः ब्रह्मणो विभूतिरैश्वर्यम् । परं ब्रह्म च सा भवति ॥२२॥

विष्टपमाता भरिकृपा विष्टपराज्ञी भूरिबला ॥
विष्टपरूपा शिष्टनुता विष्टपपारे शिष्टमिता ॥२३॥

विष्टपेति- विष्टपमाता लोकजननी सती भूरिकृपा बहुकारुण्या विष्टपराज्ञी लोकाधिराज्ञी सती भूरिबला बहुशक्तिका आधिराज्याय अपेक्षितं हि बहुलं बलम् । शिष्ट नुता शिष्टजनैः नुता स्तुता विष्टपरूपा विष्टपं जगत् रूपं यस्याः सा, विष्टपपारे विष्टपानां लोकानां पारे शिष्टम् अवशेषम् इता गता लोकानतीत्य अवशिष्टा, कालत्रयेऽपि सत्याः लोकानामन्ते अवशिष्टि-रुपपद्यते। शिष्टिमिता इति शिष्टिमिता इति च पाठः ॥२३॥

दुर्जनमूलोच्छेदकरी दीनजनातिध्वंसकरी ॥
धीबललक्ष्मीनाशकृशं पुण्यकुलं नः पातु शिवा ॥२४॥

दुर्जनेति- दुर्जनानां मूलस्य उच्छेदं करोतीति दुर्जनमूलोच्छेदकरी, दीनजनानाम् आर्तेः ध्वंसं करोतीति दीनजनातिध्वंसकरी, शिवा मङ्गलरूपिणी, धीबललक्ष्मीनाशकृशं धीर्बुद्धिः बलं वीर्य लक्ष्मीः सम्पत् च आसां नाशेन अपगमेन कृशम् अपुष्टं न: अस्माकं पुण्यकुलं पुण्यं पवित्रं कुलं मानवकुलं विशेषतः भारतीयकुलं वा पातु रक्षतु ॥२४॥

चन्द्रकिरीटाम्मोजदृशः शान्तिसमृद्धं स्वान्तमिमे ॥
सम्मदयन्तु श्रोत्रसुखाः सन्मणिबन्धाः सूरिपतेः ॥२५॥

चन्द्रेति- श्रोत्रसुखाः श्रवणसुभगाः सूरिपतेः पण्डितसार्वभौमस्य इमे सन्मणिबन्धाः सन्त: निर्दोषाः गुणवन्तश्च मणिबन्धवृत्तनिबद्धाः स्तवाः चन्द्र-किरीटाम्भोजदृश: चन्द्रमौलिसुन्दर्याः पार्वत्याः शान्तिसमृद्धं शान्त्या समृद्धं पूर्ण स्वान्तं मानसं सम्मदयन्तु आनन्दयन्तु ॥२५॥

इति श्रीमहर्षिरमणभगवत्पादान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपति-मुनेः कृतावुमासहस्र विंशः स्तबकः समाप्तः ।

समाप्तं च पञ्चमं शतकम् ।
प्रभाख्या व्याख्या च समाप्ता ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates