CWSA Set of 37 volumes
Writings in Bengali and Sanskrit Vol. 9 of CWSA 715 pages 2017 Edition
Bengali
 PDF   

Editions

ABOUT

All writings in Bengali and Sanskrit including brief works written for the newspaper 'Dharma' and 'Karakahini' - reminiscences of detention in Alipore Jail.

Writings in Bengali and Sanskrit

Sri Aurobindo symbol
Sri Aurobindo

All writings in Bengali and Sanskrit. Most of the pieces in Bengali were written by Sri Aurobindo in 1909 and 1910 for 'Dharma', a Calcutta weekly he edited at that time; the material consists chiefly of brief political, social and cultural works. His reminiscences of detention in Alipore Jail for one year ('Tales of Prison Life') are also included. There is also some correspondence with Bengali disciples living in his ashram. The Sanskrit works deal largely with philosophical and cultural themes. (This volume will be available both in the original languages and in a separate volume of English translations.)

The Complete Works of Sri Aurobindo (CWSA) Writings in Bengali and Sanskrit Vol. 9 715 pages 2017 Edition
Bengali
 PDF   

संस्कृतरचनाः




तान्त्रिकसिद्धिप्रकरणम्

तस्मिंश्च शक्तिप्रकरणम्

शक्त्युपासना न्त्रिकसिद्धिः৷

द्विविधोपासना साहमिति सा प्रकृतिरहं पुरुष इति ৷ एते द्वे पूर्णे खण्डोपासनाप्यस्ति भेदप्रधाना द्वैतमयी साऽविद्योपासना न प्रवरा৷

साध्यन्तु कालीभावो वा विभूतिभावो वा৷

साहमितिसाधनस्य कालीभावो विभूतिभावस्तु प्रकृतिसाधनस्य।

द्वयोरपि साधनमात्मसमर्पणम्।

न मे साधनं तवैव साधनं न मे भारस्तवैव भारस्त्वमेहि त्वं कर्त्री शक्तिनार्हं कर्ता नाहं शक्तस्त्वमेव साधनं कुरु कालीत्यात्मसमर्पणम्৷

तस्य धर्माधर्मपापपुण्यमंगलामंगलप्रियाप्रियविचारं परित्यज्य निश्चेष्टस्य सुखासीनस्य काली शरीरं प्रविशति

हुङ्काराट्टहाससिंहनाददर्शनशक्तिबोधैर्ज्ञातं भवति प्रवेशनम्।

योगक्रियाप्रवर्तनेन वा॥

सा प्रविष्टाहङ्कारमपनुदति।

तामसं निकृष्टमहङ्कारमपनुदति।

राजसं तदनन्तरमहङ्कारमपनुदति।

परस्ताद्राजसतामसमिति मिश्रमपनुदति।

सात्त्विकमहङ्कारमपनुदति।

गुणत्रयातीतं करोति।

सर्वानशुद्धान् संस्कारानपनुदति।

एतदेव चित्तशोधनम्।

न साधुभावश्चित्तशुद्धिरहङ्कारवर्जनन्तु संस्कारशोधनञ्च लक्षणम्।

साधुहङ्कारं सात्त्विकं रक्षति न तदर्पयति भगवते।

एतत्पुण्यमेतत्पापमेतत्करिष्यामि नैतत्करिष्यामीति पापपुण्यबोधः सिद्धिविघ्नकरः।

अज्ञानजो हि नास्ति पापं नास्ति पुण्यमीश्वरेच्छा वर्तते त्वाश्रित्य स्वभावम्।

न पापचित्तस्तान्त्रिकः सिद्धो भवति न पुण्यचित्तस्तच्चित्तस्तु सिद्धो भवति स एव तान्त्रिकः।

कष्टा तु चित्तशोधनक्रियानन्दमयी चित्तशुद्धिधैर्यं कर्तव्यं श्रद्धा कर्तव्या न व्याकुलता न साधनफलाकाङ्का कथं न भवतीति कष्टमद्य भवेदिति।

सा प्रविष्टा ज्ञानं ददाति शक्तिं ददाति प्रेम ददाति ददात्यानन्दं।

अपूर्णानि त्वेतानि चास्थिराणि चित्तशोधने शुद्ध्यान्तु पूर्णानि भवन्ति।

न सा पूर्णता सिद्धिः सिद्धिप्रतिष्ठा तु सिद्धिप्रवर्तनञ्च कालीसंगमः सिद्धिः।

साधर्म्यमेव तत् प्रतिष्ठा साधर्म्यँ सिद्धेः।

तत्साधर्म्यस्य चतुष्टयचतुष्कं लक्षणम्।

तद्यथा शुद्धिचतुष्टयं शक्तिचतुष्टयं ज्ञानचतुष्टयं सौन्दर्यचतुष्टयञ्च।

समता शान्तिः सुखं हास्यं शुद्धिचतुष्टयम्।

फलत्यागः कर्मत्यागः कामनात्याग इति समता।

न त्वप्रवृत्तिस्त्यागः सा हि तामसी भगवति तु सन्न्यासो बुद्धौ निर्लिप्तबुद्धिरेव समो न त्यक्तप्रवृत्तिः स जडो न समः।

तद्यथा त्वं यत्प्रवृत्तिं दास्यसि तत्कर्म करिष्यति शक्तिर्यत्फलं दास्यसि तनोक्ष्यति यं कामं प्राणे दास्यसि तत्कामयिष्यति नाहं कर्ता नाहं कामविद्धो ज्ञाताहं भोक्ताहं पुरुषोत्तमोऽनुमन्ता तस्यानुमतं काली करोति तस्याः कर्म कामं फलमहं ज्ञास्यामि भोक्ष्यामि च समभावेन सुखमानन्द इति।

स्थैर्यमनुद्वेगो धैर्यमिति शान्तिः।

तदपि चित्ते। उग्रभावोऽपि रुद्रकर्मा शान्तिसंपन्नो भवेत् ।









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates